
本章由那罗陀(Nārada)叙述,铺陈天神与阿修罗两军的大规模交战,气氛如同末劫之战。两军相撞,宛若劫末大海翻腾;海螺号、战鼓、战象、战马与战车之声震天。继而飞矢与兵刃密如骤雨——长枪、钉锤、战斧、śakti、tomara、铁钩与箭矢——遮蔽四方,恍若黑暗降临,使战士在迷乱中互击而不见其形。 战场遍布折毁的战车、倒毙的战象与血流成河,吸引食肉之众,也令某些游离幽境的存在为之欢悦。叙事随后收束为决斗:阿修罗首领格拉萨那(Grasana)直面阎摩(Yama,亦称Kṛtānta),双方以箭雨相攻,又以钉锤与惩罚之杖daṇḍa互击,继而近身摔斗。格拉萨那的凶猛一度压倒阎摩的侍从kiṅkara,终将阎摩击倒,似已无生;格拉萨那长啸称胜,并重整其军。 本章以kāla(时间/劫运)与daṇḍa(法杖/刑罚)之象,昭示宇宙秩序的威权:武勇之“pauruṣa”在天道治理前终显脆弱。诸天为之震惧,战场亦仿佛随之颤动。
Verse 1
नारद उवाच । ततस्तयोः समायोगः सेनयोरुभयोरभूत् । युगांते समनुप्राप्ते यथा क्षुब्धसमुद्रयोः
那罗陀说道:随后两军全面相遇交锋,恰如劫末来临之时,两大海洋翻涌震荡、激荡不息。
Verse 2
सुरासुराणां संमर्दे तस्मिन्परमदारुणे । तुमुलं सुमहत्क्रांते सेनयोरुभयोरपि
在那极其惨烈的天神与阿修罗的混战中,两军以巨力推进,战场遂成浩大喧腾、震耳欲聋的狂澜。
Verse 3
गर्जतां देवदैत्यानां शंखभेरीरवेण च । तूर्याणां चैव निर्घोषैर्मातंगानां च बृंहितैः
诸天与阿修罗咆哮震天,海螺号与战鼓齐鸣,战乐器轰然如雷,群象长鸣;战场因此回响不绝。
Verse 4
हेषितैर्हयवृंदानां रथनेमिस्वनेन च । घोषेण चैव तूर्याणां युगांत इव चाभवत्
群马嘶鸣,战车轮辋轰响,战乐器喧嚣震荡;那景象宛如一劫(瑜伽)之终末。
Verse 5
रोषेणाबिपरीतांगास्त्यक्तजीवितचेतसः । समसज्जन्त तेन्योन्यं प्रक्रमेणातिलोहिताः
他们被忿怒驱使而身形扭转,心中已弃生死之念,便彼此逼近相撞——奋然推进,因怒与血而通体殷红。
Verse 6
रथा रथैः समासक्ता गजाश्चापि महागजैः । पत्तयः पत्तिभिश्चैव हयाश्चापि महाहयैः
战车与战车相锁,巨象与巨象相搏,步兵与步兵相接,骏马与骏马相冲——各军皆与其同等之力在近战中相遇。
Verse 7
ततः प्रासाशनिगदाभिंडिपालपरश्वधैः । शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कणयैर्गुडैः
随后他们以长矛、利剑、钉锤、bhindipāla、战斧、标枪、战斧刃、三叉戟(triśūla)、大槌与沉重投掷物彼此猛击——攻势连绵不绝。
Verse 8
चक्रैश्च शक्तिभिश्चैव तोमरैरंकुशैरपि । कर्णिनालीकनाराचवत्सदंतार्द्धचंद्रकैः
他们以轮刃(cakra)与神力之枪(śakti),以投枪、托摩罗与钩棒(ankusha),又以诸般箭矢——karṇin、nālīka、nārāca、vatsadanta及半月形箭镞——使战场充满如刀割般的箭雨齐发。
Verse 9
भल्लैर्वेतसपत्रैश्च शुकतुंडैश्च निर्मलैः । वृष्टिभिश्चाद्भुताकारैर्गगनं समपद्यत
以bhalla箭、以芦叶形箭杆、以洁净的“鹦鹉喙”箭,又以形态奇异的箭雨倾泻而下,连苍穹也被充塞,仿佛尽被占据。
Verse 10
संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत् । प्राज्ञायंत न तेऽन्योन्यं तस्मिंस्तमसि संकुले
遮蔽四方之后,一切仿佛由黑暗铸成;在那纷乱的昏冥中,他们彼此都无法辨认。
Verse 11
अदृश्यभूतास्तमसि न्यकृंतंत परस्परम् । ततो भुजैर्ध्वजैश्छत्रैः शिरोभिश्च सकुंडलैः
在黑暗中他们如同隐没,彼此砍杀;随后战场上散落着断臂、旌旗、华盖,以及仍戴着耳环的首级。
Verse 12
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि । आकाशशिरसो भ्रष्टैः पंकजैरिव भूश्चिता
大地上遍布象、马与步兵——有的正倒下,有的已倒伏——宛如从“天之首”坠落的莲华铺满了地面。
Verse 13
भग्नदंता भिन्नकुंभाश्छिन्नदीर्घमहाकराः । गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः
群象如山岳般倒伏于大地:象牙折断,颞部裂开,长而雄健的象鼻被斩落,鲜血汩汩流淌。
Verse 14
भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः । पत्तयः कोटिशः पेतुस्तुरंगाश्च सहस्रशः
战车纷纷倾覆,车辕尽碎;车轴折断,化作残片。步卒以亿计倒下,战马亦以千计毙落。
Verse 15
ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम् । वैतालानंददायिन्यो व्यजायंत सहस३शः
随后,千百条血河涌现——令食肉者欢喜,使毗陀罗(vetāla)欣然得乐。
Verse 16
तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा । बाणवर्षेण महता देवसैन्यमकंपयत्
在那般战阵之中,统帅格罗萨那(Grasana),灭敌者,以浩大的箭雨震撼了诸天之军。
Verse 17
ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः । ववर्ष शरवर्षेण विशेषादग्निवर्चसा
随后,阎摩见到格罗萨那,怒极而神志恍惚,便倾下箭雨,尤以火焰般的光辉炽然夺目。
Verse 18
स विद्धो बहुभिर्षाणैर्ग्रसनोऽतिपराक्रमः । कृतप्रतिकृताकांक्षी धनुरानम्य भैरवम्
纵被万箭穿身,格拉萨那仍英勇无比,怀着复仇之志,拉满那可怖之弓。
Verse 19
शरैः सहस्रैश्च पञ्चलक्षैश्चैव व्यताडयत् । ग्रसनेन विमुक्तांस्ताञ्छरान्सोपि निवार्य च
他以千矢万箭——乃至五十万支——猛然射击;并且也拦截、格挡了格拉萨那所放出的箭矢。
Verse 20
बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत् । कृतांतशरवृष्टीनां संततीः प्रतिसर्पतीः । चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः
阎摩以凶猛的箭雨折磨格拉萨那;然而格拉萨那,达那婆之主,以自身的箭雨斩断那不断推进、连绵不绝的“死神之矢”的洪流。
Verse 21
विफलां तां समालोक्य यमः स्वशरसंततिम्
见自己连绵不断的箭阵已成徒劳,阎摩便……
Verse 22
प्राहिणोन्मुद्गरं दीप्तं ग्रसनस्य रथं प्रति । स तं मुद्गरमायांतमुत्पत्य रथसत्तमात्
他将一柄炽焰闪耀的铁槌掷向格拉萨那的战车。见那铁槌疾冲而来,格拉萨那便从自己卓越的战车上一跃而起。
Verse 23
जग्राह वामहस्तेन लीलया ग्रसनोऽरिहा । तेनैव मुद्गरेणाथ यमस्य महिषं रुषा
灭敌者格拉萨纳用左手戏谑地接住了它;随后,愤怒地用那把木槌击打了阎摩的水牛。
Verse 24
ताडयामास वेगेन स पपात महीतले । उत्पत्याथ यमस्तस्मान्महिषान्निपतिष्यतः
他用力击打,水牛倒在地上。阎摩随即从那头即将倒下的水牛身上跳起。
Verse 25
प्रासेन ताडयामास ग्रसनं वदने दृढम् । स तु प्राप्तप्रहारेण मूर्छितो न्यपतद्भुवि
他用长矛猛烈击打格拉萨纳的面部。格拉萨纳受此重击,昏厥倒地。
Verse 26
ग्रसनं पतित दृष्ट्वा जंभो भीमपराक्रमः । यमस्य भिंडिपालेन प्रहारमकरोद्धृदि
见格拉萨纳倒下,勇猛可怕的詹巴用标枪击中了阎摩的胸膛。
Verse 27
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् । अतिगाढ प्रहारार्त्तः कृतांतोमूर्छितोऽभवत्
受此一击,阎摩口中流血。因受重创极其痛苦,终结者(Kṛtānta)昏倒在地。
Verse 28
कृतांतमर्दितं दृष्ट्वा गदापाणिर्धनादिपः । वृतो यक्षायुतगणैर्जंभं प्रत्युद्ययौ रुषआ
见到克利坦塔(阎摩)被击溃,财主天(俱毗罗)手执钉锤,万千夜叉随侍环绕,怒而出阵,直趋阇婆(Jambha)。
Verse 29
जंभो रुषा तमायांतं दानवा नीकसंवृतः । जग्राह वाक्यं राज्ञस्तु यता स्निग्धेन भाषितम्
阇婆怒火炽盛,丹那婆军阵环列在侧,见他逼近;然而仍听从王者之言,那话语以温厚而有度的慈意说出。
Verse 30
ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम् । मणिहेमपरिष्कारां गुर्वी परिघमर्दिनीम्
随后格罗萨那苏醒过来,向阎摩掷出一柄沉重的钉锤,镶饰宝珠与黄金,力可碾碎铁杠。
Verse 31
तामापतंतीं संप्रेक्ष्य गदां महिषवाहनः । गदायाः प्रतिघातार्थं जगज्ज्वलनभैरवम्
见那钉锤疾冲而来,乘水牛之阎摩为挡其击,备起骇人的烈焰,凶怖如同世界尽燃。
Verse 32
दंडं मुमोच कोपेन ज्वालामालासमाकुलम् । स गदां वियति प्राप्य ररासांबुधरोद्धतम्
他怒掷其杖,缠绕火焰花鬘;在半空与钉锤相触之时,轰然咆哮,如暴云胀起、狂澜翻涌。
Verse 33
संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः । ताभ्यां निष्पेषनिर्ह्राद जडीकृतदिगंतरम्
二者之间骤起碾压般的猛撞,难以忍受,犹如两座大山相撞。那磨砺般的雷鸣震荡,使十方空间都被惊得凝滞无声。
Verse 34
जगद्व्याकुलतां यातं प्रलयागमशंकया । क्षणात्प्रशांतनिर्ह्रादं ज्वलदुल्कासमाचितम्
世间因惧怕劫灭将至而大乱。然转瞬之间,雷轰止息,苍穹遍布燃烧的流星。
Verse 35
निष्पेषणं तयोर्भीमम भूद्गनगोचरम् । निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि
他们可怖的碾压相击,连湿婆的众伽那也为之侧目。随即杖击落钉锤,又继而落在格拉萨那的头顶。
Verse 36
पपात पौरुषं हत्वा यथा दैवं पुरार्जितम् । सतु तेन प्रहारेण दृष्ट्वा सतिमिरादिशः
他的雄勇之力崩塌,仿佛久积的宿命一击将其摧倒。受此重击,他见十方尽皆昏暗,阴翳弥漫。
Verse 37
पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः । ततो हाहारवो घोरः सेनयोरुभयोरभूत्
他倒落于地,昏迷不醒,周身沾满尘土。随即,两军之中同时爆发出凄厉的哀号:“哀哉!”
Verse 38
ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम् । अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणांबराम्
随后,在须臾(muhūrta)之间,格拉萨纳(Grasana)苏醒过来。他看见自己的身体支离破碎,饰物与衣裳散乱下垂。
Verse 39
स चापि चिंतयामास कृतप्रतिकृतक्रियाम् । धिगस्तु पौरुषं मह्यं प्रभोरग्रेसरः कथम्
他反思着那行为及其后果。‘呜呼!我的勇武真可耻!我怎敢站在主的最强者面前?’
Verse 40
मय्याश्रितानि सैन्यानि जिते मयि जितानि च । असंभावितरूपो हि सज्जनो मोदते सुखम्
‘依附于我的军队因我的战败而溃败。然而,本性不自负的贤人,却能在知足中欢喜。’
Verse 41
संभावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा । एवं संचिंत्य वेगेन समुत्तस्थौ महाबलः
‘若无能却受尊崇,无论此世或来世皆非其所有。’那大力士作是念已,猛然跃起。
Verse 42
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभम् । ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः
格拉萨纳下定可怕的决心,抓起一根如山般巨大、形似死神(Kāla)权杖的铁棒。他紧咬嘴唇,准备发动猛烈的攻击。
Verse 43
रथेन त्वरितोऽगच्छदाससादांतकं रणे । समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम्
他迅速登上战车,冲入战阵,与安塔迦当面相搏。逼近阎摩于战斗之中,格拉萨那挥旋其钉头槌。
Verse 44
वेगेन महता रौद्रं चिक्षेप यममूर्धनि । विलोक्य मुद्गरं दीप्तं यमः संभ्रांतलोचनः
他以惊人的迅疾与狂烈的忿怒,将其掷向阎摩之首。见那炽焰般的钉头槌,阎摩双目惊惶而张。
Verse 45
वंचयामास दुर्द्धर्षं मुद्गरं तं महाबलः । तस्मिन्नपसृते दूरं चंडानां भीमकर्मणाम्
那大力者闪避了这不可抵挡的钉头槌。待其远远掠过,凶猛而行事可怖的战士们又逼迫而上。
Verse 46
याम्यानां किंकराणां च अयुतं निष्पिपेष ह । ततस्तदयुतं दृष्ट्वा हतं किंकरवाहिनी
他碾碎了阎摩侍从一阿由多(万)之众。继而见那一万尽被诛灭,侍从之军遂动摇退缩。
Verse 47
दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत । ग्रसनस्तु समालोक्य तां किंकरमयां शुभाम्
一支多达十阿婆陀的军势怒不可遏,奔涌而来攻向格拉萨那。格拉萨那却凝视那由阎摩侍从组成的辉煌军团。
Verse 48
मेने यमसहस्राणि तादृग्रूपबला हि सा । विगाह्य ग्रसनं सेना ववर्ष शरवृष्टिभिः
那支军队形貌力量如此惊人,仿佛千万个阎摩降临。大军冲向格拉萨纳,箭雨倾盆而下。
Verse 49
कल्पांतघोरसंकाशो बभूव स महारणः । केचिच्छैलेन बिभिदुः केचिद्बाणैरजिह्यगैः
那场大战变得极其恐怖,宛如劫末之时的惊骇。有的投掷巨石攻击,有的以精准的利箭穿刺。
Verse 50
पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः । केचित्प्रासप्रहारैश्च ताडयामासुरुद्धताः
有的用棍棒粉碎敌人,有的降下铁锤之雨。还有的在狂怒傲慢中,以长矛猛烈突刺。
Verse 51
अपरे किंकरास्तस्य ललंबुर्बाहुमंडले । शिलाभिरपरे जघ्नुर्द्रुमैरन्ये महोच्छ्रयैः
他的一些随从紧紧抱住他的双臂。有的用石块击打,还有的挥舞高耸的大树进行攻击。
Verse 52
तस्यापरे च गात्रेषु दशनांश्चन्यपातयन् । अपरे मुष्टिभिः पृष्ठं किंकरास्ताडयंति च
有的击打他的四肢,打落了他的牙齿;其他的——阎摩的仆从——不断用拳头猛击他的背部。
Verse 53
एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः । उत्साद्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः
他被众者围攻,格拉萨那怒火昏沉,猛然扑身于大地,将他们成千上万地碾碎。
Verse 54
कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किंकरान्रणे । कांश्चित्पादप्रहारेण धावन्नन्यानचूर्णयत्
他跃然而起,在战阵中以拳击倒阎摩的使者数人;又奔走间以脚踢将其余者击碎。
Verse 55
क्षणैकेन स तान्निन्ये यमलोकायभारत । स च किंकरयुद्धेन ववृधेऽग्निरिवैधसा
顷刻之间,噢婆罗多,他便将他们送往阎摩之界;而与那些随从交战,反使他愈发强盛,如火得薪而炽。
Verse 56
तमालोक्य यमोऽश्रांतं श्रांतंस्तांश्च हतान्स्वकान् । आजगाम समुद्यम्य दंडं महिषवाहनः
阎摩见他毫不疲惫,而己方使者已困乏被杀,便乘水牛前来,举起刑杖而进。
Verse 57
ग्रसनस्तु तमायांतमाजघ्ने गदयोरसि । अचिंतयित्वा तत्कर्म ग्रसनस्यांतकोऽरिहा
然而格拉萨那以钉锤击中逼近的阎摩胸膛。安多迦(阎摩),灭敌者,不堪此举,遂将杀意转向格拉萨那。
Verse 58
व्याघ्रान्दंडेन संजघ्ने स रथान्न्य पतद्भुवि । ततः क्षणेन चोत्थाय संचिंत्यात्मानमुद्धतः
他以杖击倒凶猛的来犯者,战车纷纷坠落于地。旋即,那傲慢者又立起身来,收摄其心,整肃自身。
Verse 59
वायुवेगेन सहसा ययौ यमरथं प्रति । पदातिः स रथं तं च समारुह्य यमं तदा
他以风一般的疾速骤然冲向阎摩之车;虽是徒步,却跃上那辆战车,当即逼近阎摩。
Verse 60
योधयामास बाहुभ्यामाकृष्य बलिनां वरः । यमोऽपि शस्त्राण्युत्सृज्च बाहुयुद्धे प्रवर्तते
那最强健的勇者以双臂擒抱,将其拉近而搏斗。阎摩亦弃诸兵刃,投入徒手近战。
Verse 61
ग्रसनं कटिवस्त्रे तु यमं गृह्य बलोत्कटः । भ्रामयामास वेगेन संभ्रमाविष्टचेतसम्
随后,狂恣于力的格罗萨那抓住阎摩的腰布,猛力疾旋,使阎摩心神震荡、陷入纷乱。
Verse 62
विमोच्याथ यमः कष्टात्कंठेऽवष्टभ्य चासुरम् । बाहुभ्यां भ्रामयामास सोऽप्यात्मानममोचयत्
继而阎摩艰难脱身,扼住阿修罗之喉,以双臂猛然旋转;然而那魔亦终能挣脱自解。
Verse 63
ततो जघ्नतुरन्योन्यं मुष्टिभिर्निर्दयौ च तौ । दैत्येंद्रस्यातिवीर्यत्वात्परिश्रांततरो यमः
随后,二者无情地互以拳击;因那岱提耶之王力大无穷,阎摩愈发力竭。
Verse 64
स्कंधे निधाय दैत्यस्य मुखं विश्रांतिमैच्छत । तमा लक्ष्य ततो दैत्यः श्रांतमुत्पाट्य चौजसा
阎摩将那恶魔之面置于己肩,欲求片刻喘息。岱提耶见状,猛然发力,将疲惫的阎摩抓起并撕扯。
Verse 65
निष्पिपेष महीपृष्ठे विनिघ्नन्पार्ष्णिपाणिभिः । ततो यमस्य वदनात्सुस्राव रुधिरं बहु
他将其碾压于地表,以脚跟与拳头猛击;随后,大量鲜血从阎摩口中涌出。
Verse 66
निर्जीवमिति तं दृष्ट्वा ततः संत्यज्य दानवः । जयं प्राप्योद्धतं नादं मुक्त्वा संत्रास्य देवताः
见其似已无生命,那达纳瓦便弃之而去。以为胜券在握,他发出猛烈的咆哮,令众神惊恐。
Verse 67
स्वकं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः
他回到己方军队之中,伫立不动,稳如泰山。
Verse 68
नादेन तस्य ग्रसनस्य संख्ये महायुधैश्चार्दितसर्वगात्राः । गते कृथांते वसुधां च निष्प्रभे चकंपिरे कांदिशिकाः सुरास्ते
在那场战斗中,诸天被格拉萨那的轰鸣所震撼,又被强大神兵击打得遍体受创;当克利坦塔(阎摩)离去,大地黯然失色之时,那些天神惊惧战栗,仓皇四散,迷乱奔逃。