
本章以求道者渴望“就在此身”获得成就为线索,层层展开教义,并彰显阿毗穆克多(迦尸)之无比神圣。商羯陀追述莲华劫中的旧事:婆罗陀婆阇之子达摩那洞见世间无常与忧苦,遍游诸修行林(āśrama)、城邑、森林、江河与圣地(tīrtha),虽行苦行却难得心之安住。因宿缘成熟,他来到勒瓦河岸,遇见与“唵迦罗”相关的圣域,见到帕修帕塔行者,遂趋近其年迈导师迦尔伽牟尼求教。 达摩那陈述自己曾修诸法——朝圣、持咒(japa)、火供(havana)、侍奉上师、夜宿火葬场、医药与炼金之术、以及严峻的苦修(tapas)——却坦言仍缺“成就之种”,请求明确的开示(upadeśa),以期在现身得证。迦尔伽赞叹阿毗穆克多为至上圣域(kṣetra),以救拔出轮回(saṃsāra)的譬喻密集描绘其功德,并说明守护边界的护卫与要津,如摩尼迦尔尼迦与毗湿韦湿伐罗。随后他以唵迦罗-林伽为修持核心,列举因礼拜而得悉地的帕修帕塔典范,并讲述警策因缘:一只青蛙吞食湿婆的尼尔玛利耶(供物余物),因过失死于圣域之外,复生时呈现吉凶杂糅之相,由此立下敬重湿婆之物与供献的道德与仪轨准则。 又举摩达维(由青蛙转生)为例:她以专一炽盛的信爱奉事唵迦罗,恒常忆念、供侍,并摄持诸根唯向林伽;在毗舍迦月十四日(caturdaśī)守夜斋戒之时,终融入林伽,现出光明瑞相,并提及当地延续的庆典仪式。章末以果报偈(phalaśruti)宣说:虔敬聆听者得净化并往生湿婆界(Śiva-loka),并补述圣域常有诸伽那守护不息。
Verse 1
स्कंद उवाच । शृणु वातापि संहर्तः काश्यां पातकतंकिनी । पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः
斯坎陀说道:听吧,诛灭瓦塔毗者啊;请听这与迦尸相连、能摧毁罪垢的记述——在莲华劫中发生的、关于二次生的达摩那(婆罗门)的故事。
Verse 2
भारद्वाजस्य तनयो दमनो नाम नामतः । कृतमौंजीविधिः सोथ विद्याजातं प्रगृह्य च
婆罗陀婆阇之子,名曰达摩那;他依仪完成佩戴圣草腰绳(牟尼绳)之礼,并摄受学业诸法,遂踏上其行。
Verse 3
संसारदुःखबहुलं जीवितं चापि चंचलम् । विज्ञाय दमनो विद्वान्निर्जगाम गृहान्निजात्
智者达摩那了知轮回之生多苦且生命无常动摇,便从自家离去。
Verse 4
कांचिद्दिशं समालंब्य निर्वेदं परमं गतः । प्रत्याश्रमं प्रतिनगं प्रत्यब्धि प्रतिकाननम्
他择一方而行,已至最上离欲;从一处道场到一处道场,从一座山到一座山,从一片海到一片海,从一座林到一座林。
Verse 5
प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः । यावंत्यायतनानीह तिष्ठंति परितो भुवम्
他具足苦行之力,遍游每一处圣地(tīrtha)与每一条河流——乃至大地四方所立的一切神圣道场。
Verse 6
अध्युवास स तावंति संयतेंद्रियमानसः । परं न मनसः स्थैर्यं क्वापि प्रापि च तेन वै
他在无数圣地停住,摄持诸根、调伏其心;然而即便如此,他在任何地方都未得圆满的心之安住。
Verse 7
मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः । कदाचिद्दैवयोगात्स दमनो नाम तापसः
他也未曾在任何处见到能指示他通往心之真愿的导师;然而有一次,因天意之合,那名为达摩那(Damana)的苦行者(与他相遇)。
Verse 8
रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम् । महदायतनं पुण्यमोंकारस्यापि तत्र वै
在瑞瓦河岸,他望见名为阿摩罗坎塔迦(Āmarakaṇṭaka)的圣地(tīrtha);其处亦有宏大而清净的“唵迦罗”(Oṃkāra)圣殿。
Verse 9
दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह । अथ पाशुपतांस्तत्र स निरीक्ष्य तपोधनान्
见此圣境,他心生欢喜,心念亦得安定。随后,他在那里观见帕修帕塔(Pāśupata)诸苦行者——皆为苦行之宝藏——
Verse 10
विभूतिभूषिततनून्कृतलिंगसमर्चनान् । विहितप्राणयात्रांश्च कृतागमविचारणान्
——其身以圣灰(vibhūti)庄严,勤修礼敬林伽;遵行所规定的气息与生命行持之戒律,并专注省思《阿伽摩》(Āgama)等湿婆派圣典。
Verse 11
स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान् । प्रणम्योपाविशत्तत्र तदाचार्यस्य सन्निधौ
见他们安然端坐在前,心念坚定不动,他先恭敬顶礼,继而就在那位尊师面前坐下。
Verse 12
प्रबद्धहस्तयुगलः प्रणमतरकंधरः । अथ पाशुपताचार्यो गर्गो नाम महामुनिः
双手合十以示恭敬,颈项俯下而致礼;那位帕舒帕塔(Pāśupata)教导师——名为伽尔伽(Garga)的伟大牟尼——立于其前。
Verse 13
वार्धकेन समाक्रांतस्तपसा कृशविग्रहः । शंभोराराधनेनिष्ठः श्रेष्ठः सर्वतपस्विषु
虽为老迈所迫,身形因苦行(tapas)而消瘦,他仍坚定安住于对商布(Śambhu)的礼敬,在一切苦行者中最为卓越。
Verse 14
पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः । तरुणोपि विरक्तोसि कुतस्तद्वद सत्तम
他问达摩那(Damana):“你是谁?从何处来到这里?你虽年轻却已离欲淡泊,这是如何生起的?请告诉我,至善之人啊。”
Verse 15
इति प्रणयपूर्वं स निशम्य दमनोऽब्रवीत् । भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय
于是,在充满深情的劝告之后,达摩那聆听而答曰:“噢,尊贵的帕舒帕塔行者之师,喜爱供奉全知主宰者……”
Verse 16
कथयामि यथार्थं ते निजचेतोविचेष्टितम् । अहं ब्राह्मणदायादो वेदशास्त्रकृतश्रमः
“我将如实告诉你我内心的起伏与所作所为。我出身婆罗门家系,并曾辛勤研习《吠陀》与诸《论典》(śāstra)。”
Verse 17
संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम् । अनेनैव शरीरेण महासिद्धिमभीप्सता
“洞见轮回(saṃsāra)之空虚无实后,我选择了林栖者(vānaprastha)的生活;并以此身,渴望证得大成就(siddhi)。”
Verse 18
स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः । देवताः सेविता बह्व्यो हवनं च कृतं बहु
“我曾在无数圣地渡口(tīrtha)沐浴;我诵念真言(mantra)多至千万。亦曾奉事诸多神祇,并屡次行火供(havan)。”
Verse 19
शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम् । महाश्मशानेषु निशा भूयस्योप्यतिवाहिताः
“我曾长久侍奉许多上师(guru);也曾在宏大的火葬场(śmaśāna)度过无数个夜晚。”
Verse 20
शिखराणि गिरींद्राणां मया चाध्युषितान्यहो । दिव्यौषधि सहस्राणि मया संसाधितान्यपि
唉!我曾栖居于群山之王的峰巅;亦曾修习并精通千种神妙灵药草。
Verse 21
रसायनानि बहुशः सेवितानि मया पुनः । महासाहसमालंब्य सिद्धाध्युषितकंदराः
我屡次服用诸多延寿复元的灵丹(rasāyana);又凭大无畏之勇,踏入为成就者悉达(siddha)所居的洞窟与幽谷。
Verse 22
मया प्रविष्टा बहुशः कृतांतवदनोपमाः । तपश्चापि महत्तप्तं बहुभिर्नियमैर्यमैः
我多次踏入宛如死神之口的险地;亦以众多戒律与自制(niyama、yama)为依,修行广大苦行(tapas)。
Verse 23
परं किंचित्क्वचिन्नैक्षि सिद्ध्यंकुरमपि प्रभो । इदानीं त्वामनुप्राप्य महीं पर्यटता मया
然而无论何处,我都未曾见到哪怕一丝成就之芽,主啊。如今我漂游大地而得以亲近于你,心中遂生希望。
Verse 24
मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना । अवश्यं त्वन्मुखांभोजाद्यद्वचो निःसरिष्यति
我的心仿佛已得安住,宛如成就(siddhi)已然到手;因为必定,从你莲华般的口中流出的言语,皆具灵验之力。
Verse 25
तेनैव महती सिद्धिर्भवित्री मम नान्यथा । तद्ब्रूहि सूपदेशं च कथं सिद्धिर्भवेन्मम
唯由此法,我必得大成就,别无他途。故请为我宣说殊胜教诲:我当如何得证成就?
Verse 26
अनेनैव शरीरेण पार्थिवेन प्रथीयसी । दमनस्य निशम्येति गर्गाचार्यो वचस्तदा
伽尔迦导师听闻达摩那之言,便说道:“就以此具尘世之身,你必定获得崇高与圆满。”
Verse 27
प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् । सर्वेषां शृण्वतां तत्र शिष्याणां स्थिरचेतसाम् । मुमुक्षूणां धृतवतां महापाशुपतं व्रतम्
随后他宣说了至上而奇妙的教法,乃亲证所见之言;当时一切心志坚住的弟子在彼处聆听——求解脱者,志愿坚定者——即伟大的“帕舒帕塔”誓行。
Verse 28
गर्ग उवाच । अनेनैवेह देहेन यदि त्वं सिद्धिकामुकः । शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम्
伽尔迦说道:“若你愿以此身于此世求成就,当专心谛听;我将为你开示。”
Verse 29
अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम् । धर्मार्थकाममोक्षाख्य रत्नानां परमाकरे
“在阿毗穆克塔这大神圣之域,能赐诸善人一切悉地;其中有一座至上的宝藏矿藏,名为法(Dharma)、利(Artha)、欲(Kāma)与解脱(Mokṣa)。”
Verse 30
समाश्रितानां जंतूनां सर्वेषां सर्वकर्मणाम् । शलभानां प्रदीपाभे तमःस्तोम महाद्विपि
凡一切众生归依于彼处——无论种类、无论所作——阿毗穆克多如灯之于飞蛾;又如巨象,碾碎成堆的黑暗。
Verse 31
कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि । निर्वाणलक्ष्मी क्षीराब्धौ सुखसंकेतसद्मनि
噢迦尸——如林火焚尽业树,如海底之火灼烧轮回之海;噢指示解脱安乐之居所,犹如乳海承载涅槃之吉祥。
Verse 32
दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि । यातायातश्रमापन्नप्राणिमार्गमहीरुहि
噢迦尸,赐予长久无明沉睡者以至上觉醒;噢大树,荫护那因无尽往来(生死)而疲惫的众生之路。
Verse 33
अनेकजन्मजनित महापापाद्रिवज्रिणि । नामोच्चारकृतां पुंसां महाश्रेयो विधायिनि
噢迦尸,乃击碎多生累积大罪之山的金刚雷霆;噢但凭称诵汝名,便赐人至上福祉者。
Verse 34
विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः । स्वर्धुनी लोलकल्लोला नित्यक्षालित भूतले
在毗湿维湿伐罗的至上圣境,于天界与解脱的边际之处,大地恒为天河所洗;其波涛灵动不息,嬉戏翻涌。
Verse 35
एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि । प्रत्यक्षं मम यद्वृत्तं तद्ब्रवीमि महामते
在如此伟大的圣域(mahākṣetra)中,能消除一切忧苦洪流;大慧者啊,我今将如实述说我亲身所经历、亲自所知之事。
Verse 36
यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम् । तत्क्षेत्रमहिमानं कः सम्यग्वर्णयितुं क्षमः
在那里无有对时神迦罗(Kāla)的恐惧,也无有对罪垢的恐惧;谁能如实称述那圣域的伟大功德?
Verse 37
तीर्थानि यानि लोकेस्मिञ्जंतूनामघहान्यहो । तानि सर्वाणि शुद्ध्यर्थं काशीमायांति नित्यशः
此世间一切能除众生罪业的诸圣渡处(tīrtha)——诚然,尽皆——日日来到迦尸(Kāśī),为自身求得清净。
Verse 38
अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी । स यां गतिं लभेन्मर्त्यो यज्ञैर्दानैर्न सान्यतः
即便有人住在迦尸(Kāśī),百物皆食、万物皆卖;他所证得之境界,也非他处以祭祀(yajña)与布施(dāna)所能获得。
Verse 39
रागबीजसमुद्भूतः संसारविटपो महान् । दीर्घस्वाप कुठारेण च्छिन्नः काश्यां न वर्धते
由贪著之种(rāga)所生的轮回大树(saṃsāra),一旦被长久的灵性沉寂之斧斩断,在迦尸(Kāśī)便不再复长。
Verse 40
सर्वेषामूषराणां तु काशी परम ऊषरः । वप्तुर्बीजमिदं तस्मिन्नुप्तं नैव प्ररोहति
在一切荒瘠之地中,迦尸(Kāśī)最为荒瘠;在那里,业之播种者所播下的种子,终究不再发芽。
Verse 41
स्मरिष्यंतीह ये काशीमवश्यं तेपि साधवः । तेप्यघौघ विनिर्मुक्ता यास्यंति गतिमुत्तमाम्
即使是住在此地而必定忆念迦尸者,他们也成为真正的善人;脱离罪业洪流,得至最上的解脱境界。
Verse 42
विभूतिः सर्वलोकानां सत्यादीनां सुभंगुरा । अभंगुरा विमुक्तस्य सा तु लभ्या शिवाज्ञया
诸世界之光辉——乃至真谛天(Satya-loka)等——皆为易坏而终灭;唯有解脱者之光辉不坏,惟凭湿婆(Śiva)之命与恩典方可得。
Verse 43
कृमिकीटपतंगानामविमुक्ते तनुत्यजाम् । विभूतिर्दृश्यते या सा क्वास्ति ब्रह्मांडमंडले
即便是虫蚁与飞虫等,在阿毗穆克多(Avimukta)舍身之时亦显现一种光荣;放眼整个宇宙界域,又何处能见如此光荣?
Verse 44
वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात् । स उपायो विधातव्यो येन नो निष्क्रमो बहिः
当人因时运流转而在某一刻抵达婆罗那西(Vārāṇasī)时,应当采取那种方法,使自己不再出离其外。
Verse 45
पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः । पश्चिमे चैव गोकर्णो भारभूतस्तथोत्तरे
东方屹立摩尼迦耳尼湿(Maṇikarṇīśa);南方安住梵主湿(Brahmeśa)。西方为果迦耳那(Gokarṇa),北方亦有婆罗部多(Bhārabhūta)。
Verse 46
इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम् । मणिकर्णी ह्रदे स्नात्वा दृष्ट्वा विश्वेश्वरंविभुम्
如是,此至上圣域——阿毗穆克多(Avimukta)——果报广大。于摩尼迦耳尼池(Maṇikarṇī)沐浴,复得瞻礼遍主毗湿韦湿伐罗(Viśveśvara),无所不遍之主,(便获其功德)。
Verse 47
क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत् । तत्र श्राद्धप्रदातुश्च मुच्यंते प्रपितामहाः
绕行此圣域而行礼者,得王祭罗阇苏耶(Rājasūya)之果报。于彼处施行施罗陀(śrāddha)者,其祖先亦得解脱。
Verse 48
अविमुक्त समं क्षेत्रमपि ब्रह्मांडगोलके । न विद्यते क्वचित्सत्यं सत्यं साधकसिद्धिदम्
遍满宇宙之圆域,实无与阿毗穆克多(Avimukta)等同之圣地;此乃真实,真实——因其赐予修行者成就。
Verse 49
रक्षंति सततं क्षेत्रं यत्र पाशासिपाणयः । महापारिषदा उग्राः क्रूरेभ्योऽक्रूरबुद्धयः
彼圣域恒常由威猛的大侍从守护,手执绳索与利剑;对凶恶者可怖,而其心意实为慈护。
Verse 50
प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः । रक्षेदहर्निशं क्षेत्रं दुर्वृत्तेभ्यो विभीषणः
在东方之门,阿塔哈萨(Aṭṭahāsa)为亿万伽那所环绕,昼夜守护此神圣圣域,令恶人心生恐惧。
Verse 51
तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः । गोकर्णः पश्चिमद्वारं पाति कोटिगणावृतः
同样,布胡塔达特里沙(Bhūtadhātrīśa)守护圣域(迦尸 Kāśī)之南面;而戈迦尔那(Gokarṇa)为亿万伽那所围绕,护持西门。
Verse 52
उदग्द्वारं तथा रक्षेद्घंटाकर्णो महागणः । ऐशंकोणं छागवक्त्रो भीषणो वह्निदिग्दलम्
同样,名为甘塔卡尔那(Ghaṇṭākarṇa)的伟大伽那守护北门;而可怖的恰伽瓦克特拉(Chāgavaktra)护持东北隅,即邻接火方之区。
Verse 54
कालाक्षोरण भद्रस्तु कौलेयः कालकंपनः । एते पूर्वेण रक्षंति गंगापारे स्थिता गणाः
迦拉克沙(Kālākṣa)、奥拉那跋陀罗(Oraṇabhadra)、考勒耶(Kauleya)与迦拉坎帕那(Kālakaṃpana)——这些伽那驻于恒河彼岸,守护东方一侧。
Verse 55
वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः । स्थूलकर्णो महाबाहुरसिपारे व्यवस्थिताः
毗罗跋陀罗(Vīrabhadra)与那婆斯(Nabhas),以及卡尔达玛利普塔维格拉哈(Kardamāliptavigraha)、斯图拉卡尔那(Sthūlakarṇa)、摩诃婆呼(Mahābāhu)——他们驻守在阿西河彼岸。
Verse 56
विशालाक्षो महाभीमः कुंडोदरमहोदरौ । रक्षंति पश्चिमद्वारं देहलीदेशसंस्थिताः
毗舍罗阿叉(Viśālākṣa)、大怖者摩诃毗摩(Mahābhīma),以及军陀多罗(Kuṇḍodara)与摩诃多罗(Mahodara)——驻守于德诃梨(Dehalī)之地——守护西门。
Verse 57
नंदिसेनश्च पंचालः खरपादकरंटकः । आनंदोगोपको बभ्रू रक्षंति वरणातटे
难提塞那(Nandisena)、般遮罗(Pañcāla)、佉罗跋陀迦兰陀迦(Kharapādakaraṇṭaka)、阿难多戈帕迦(Ānandogopaka)与跋婆卢(Babhrū)守护瓦罗那河(Varaṇā)之滨。
Verse 58
तस्मिन्क्षेत्रे महापुण्ये लिंगमोंकारसंज्ञकम् । तत्र सिद्धिं परां प्राप्ता देहेनानेन साधकाः
在那至为功德圆满的圣域中,矗立着名为“唵迦罗”(Oṃkāra)的林伽(liṅga);在那里,修行者(sādhaka)于此身之中便证得无上成就。
Verse 59
कपिलश्चैव सावर्णिः श्रीकंठः पिगलोंशुमान् । एते पाशुपताः सिद्धास्तल्लिंगाराधनेन हि
迦毗罗(Kapila)、娑伐尔尼(Sāvarṇi)、室利建陀(Śrīkaṇṭha)与毗伽罗翁修曼(Pigaloṃśumān)——这些帕修帕塔(Pāśupata)奉主者——确由礼敬彼林伽而成就圆满。
Verse 60
एकदा तस्य लिंगस्य कृत्वा पंचापिपूजनम् । नृत्यतः सहुडुत्कारं तस्मिंल्लिंगे लयं ययुः
有一次,他们完成对彼林伽的五重供奉后,伴随“呼度!(huḍu)”之呼号起舞,遂融入并归寂于那同一林伽之中。
Verse 61
अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम् । निशामय महाबुद्धे दमन द्विजसत्तम
我还要再告诉你一事——那里发生过一件奇异非凡的事。请专心聆听,哦大智慧的达摩那,诸二次生者中最殊胜者。
Verse 62
एका भेकी मुने तत्र चरंती लिंग सन्निधौ । प्रदक्षिणं सदा कुर्यान्निर्माल्याक्षतभक्षिणी
圣者啊,那里有一只雌蛙在湿婆林伽近旁行走;她常常行作右绕礼(pradakṣiṇā),却以弃供之圣物(nirmālya)与不碎净米(akṣata)为食。
Verse 63
सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात् । क्षेत्रादन्यत्र मरणं जातं तस्यास्तदेनसः
由于她吞食了湿婆的弃供圣物(nirmālya),在那神圣之域(kṣetra)中她未遭死亡;然而一离开圣地,她便因那同一罪业而死。
Verse 64
वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत् । विषमेकाकिनं हंति थिवस्वं पुत्रपौवकम्
宁可吞下毒药,也不可食用属于湿婆之物。毒药只害服毒之人;而侵取湿婆之财,则连同其子与孙一并毁灭。
Verse 65
शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः । तेन कर्मविपाकेन ततस्ते रौरवौकसः
凡因侵用湿婆之物而‘养得肥盛’者,善人不应触碰。由于此业报成熟,他们遂成为罗柔婆(Raurava)之狱的居者。
Verse 66
कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः । पोप्लूयमानामादाय चंच्वा क्षेत्राद्बहिर्गतः
有一只乌鸦看见那只母蛙在此处挣扎,便以喙衔起,飞越神圣圣域(kṣetra)的界限而去。
Verse 67
वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः । अथ सा कालतो भेकी तत्रैव क्षेत्रसत्तमे
雨季里,那乌鸦把她抛到圣域之外。随后,时至命尽,那只青蛙就在那同一处终结——尽管此kṣetra至为神圣。
Verse 68
प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि । पुण्यापुण्यवतीजाता कन्यापुष्पबटोर्गृहे
因曾行绕行礼(pradakṣiṇā),甚至触及林伽(liṅga),她转生为一位兼具福德与罪业的少女,生于名为Kanyāpuṣpabaṭu的梵行者之家。
Verse 69
शुभावयवसंस्थाना शुभलक्षणलक्षिता । परं गृध्रमुखी जाता निर्माल्याक्षतभक्षणात्
她形体端正,具诸吉相;然而却生为秃鹫之面,只因曾食用供神余物(nirmālya)与不碎米(akṣata)。
Verse 70
सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा । सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वैकविंशतिः
她深谙歌唱的奥秘,声调尤为甘美:七音(svara)、三调式(grāma),以及二十一种旋进(mūrcchanā)。
Verse 71
ताना एकोनपंचाश ताला एकोत्तरंशतम् । रागाः षडेव तेषां तु पंचपंचापि चांगनाः
共有四十九种tāna,一百零一种tāla。主要的rāga有六种,而每一种又各有五与五位“配偶”(从属rāga)。
Verse 72
षड्विंशद्रागरागिण्य इति रागि मुदावहाः । देशकाल विभेदेन पंचषष्टिस्तथा पराः
有二十六种令知音欢喜的主要rāga与rāgiṇī;此外又因地域与时令之别,另有六十五种增广变化。
Verse 73
यावंत एव तालाः स्यु रागास्तावंत एव हि । इति गीतोपनिषदा प्रत्यहं सा शुभव्रता
有多少tāla(节律),便确有多少rāga。蒙《Gītopaniṣad》如是开示,那位持吉祥誓愿的女子日日修习不辍。
Verse 74
माधवी मधुरालापा सदोंकारं समर्चयेत् । प्राप्याप्यनर्घ्यतारुण्यं सा तु पुष्पबटोः सुता
言语甘美的Mādhavī常常礼敬Oṃkāra。纵得无价青春,她——Puṣpabaṭa之女——仍专心奉持此供奉。
Verse 75
प्राग्जन्मवासनायोगादोंकारं बह्वमंस्त वै । स्वभाव चंचलं चेतस्तस्यास्तल्लिंग सेवनात्
由于前生习气之力,她深切观想Oṃkāra。虽心性本自浮动不定,在她身上却因奉事彼灵伽而得以安住。
Verse 76
दमनस्थैर्यमगमद्योगेनेव महात्मनः । न दिवा बाधयांचक्रे क्षुत्तृण्निद्रा क्षपा सुताम्
她得到了自制的坚固,宛如由大圣者之瑜伽所成。白昼之中,饥、渴与睡意都不能扰乱那位刹婆(Kṣapā)之女。
Verse 77
अतंद्रितमना आसीत्सा तल्लिंग निरीक्षणे । अक्ष्णोर्निमेषा यावंतस्तस्या आसन्दिवानिशम्
她凝视那灵伽时,心念不倦。她眼中的眨动——纵有也极其微少——昼夜相续,因为她不愿移开目光。
Verse 78
तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते । निमेषांतरितः कालो यो यो व्यथोंगतो मम । लिंगानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत
正因如此,那位贞圣之女把哪怕这点时间也视为大障碍:“凡我所失去的片刻——即便只是一次眨眼的间隙——若未得瞻仰灵伽,又怎能有任何忏悔与赎净呢?”
Verse 79
इति संचितयंत्येव सेवां तत्याज नोंकृतेः । जलाभिलाषिणी सा तु लिंगनामामृतं पिबेत्
她如此思惟,连为诵持“唵”(Oṃkṛti)也不曾舍离其侍奉。若她渴求清水,便饮灵伽圣名之甘露。
Verse 80
नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि । विहाय लिंगमोंकारं हृद्विहायः स्थितं सताम्
她的双眼不愿再见他物,即使别的声响传入耳中。因为她怎能舍弃那唵迦罗灵伽——湿婆——那安住于善者心中、为心之归依者?
Verse 81
तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ । अतीव निपुणौ जातौ तत्सन्माल्यकरौकरौ
她那“摄取声音”的诸根不再攀缘别的声响,只专注领受神圣之音。她的双手也变得极其娴熟——为祂编织精美花鬘的双手。
Verse 82
नान्यत्र चरणौ तस्याश्चरतः सुखवांछया । त्यक्त्वोंकाराजिरक्षोणीं क्षुण्णां निर्वाणपद्मया
为求安乐,她的双足不踏他处;连那印有神圣“唵”(Oṃkāra)之纹的地面,她也舍离并踏过——如同解脱之莲。
Verse 83
ओंकारं प्रणवं सारं परब्रह्मप्रकाशकम् । शब्दब्रह्मत्रयीरूपं नादबिंदुकलालयम्
唵( Oṃkāra )——即普罗那瓦(Praṇava)——是至精之髓,能显照至上梵(Parabrahman);它以声梵(Śabda-Brahman)之形呈现三部吠陀,乃那达(nāda,音流)、宾度(bindu,点/种子)与迦罗(kalā,微妙力)之所依。
Verse 84
सदक्षरं चादिरूपं विश्वरूपं परावरम् । वरं वरेण्यं वरदं शाश्वतं शांतमीश्वरम्
它是真实不坏者,元初之相,遍宇宙之相,超越高下二分;至善者、最堪拣择者、赐福者——永恒、寂静,而为自在主。
Verse 85
सर्वलोकैकजनकं सर्वलोकैकरक्षकम् । सर्वलोकैकसंहर्तृ सर्वलोकैकवंदितम्
它是诸世界唯一的生起者,诸世界唯一的护持者;诸世界唯一的收摄者,诸世界共同礼敬者。
Verse 86
आद्यंतरहितं नित्यं र्शिवं शंकरमव्ययम् । एकगुणत्रयातीतं भक्तस्वांतकृतास्पदम्
无始无终,恒常不变——湿婆、商羯罗,不可毁坏;超越三德(guṇa)之上,却安住于奉者净化的心中。
Verse 87
निरुपाधिं निराकारं निर्विकारं निरंजनम् । निर्मलं निरहंकारं निष्प्रपंचं निजोदयम्
离诸依止(upādhi),无形无相,不变不动,无垢无染;清净无我慢,超越世间万象——于自性中自发光明。
Verse 88
स्वात्माराममनंतं च सर्वगं सर्वदर्शिनम् । सर्वदं सर्वभोक्तारं सर्वं सर्वसुखास्पदम्
安乐于自我(Ātman)之中,无量无边;遍一切处,观照一切;施与一切,受用一切;即是一切,亦是一切安乐之所依。
Verse 89
वागिंद्रियं तदीयं च प्रोच्चरत्तदहर्निशम् । नामांतरं न गृह्णाति क्वचिदन्यस्यकस्यचित्
她的言语之根,完全归属于祂,昼夜不断诵出那圣名;对任何他人的名字,丝毫不肯取用。
Verse 90
एतन्नामाक्षररसं रसयंती दिवानिशम् । रसना नैव जानाति तस्या अन्यद्रसांतरम्
昼夜品尝此圣名音节之甘露精髓,她的舌根便再也不识任何别样滋味。
Verse 91
संमार्जनं रंगमालाः प्रासादं परितः सदा । विदध्यान्माधवी तत्र तथार्चा पात्रशोधनम्
摩达维常常在圣所四周洒扫清洁,并布置华美花鬘;她也在此行供奉礼拜,净洗祭仪器皿。
Verse 92
तत्र पाशुपता ये वै प्रणवेशार्चने रताः । तांश्च शुश्रूषयेन्नित्यं पितृबुद्ध्याति भक्तितः
在那里,凡专心礼敬普罗那维舍——即“唵迦罗之主”——的帕舒帕塔信众,应当恒常侍奉,以父亲之心视之,并以至诚胜妙之信奉相待。
Verse 93
वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी । रात्रौ जागरणं कृत्वा दिवोपवसान्विता
有一次,在毗舍佉月的第十四个朔望日,摩达维先于白昼持斋,继而通宵守夜。
Verse 94
यात्रामिलितभक्तेषु प्रातर्यातेषु सर्वतः । संमार्जनादिकं कृत्वा लिंगमभ्यर्च्य हर्षतः
当参加朝圣行列而聚集的信众于清晨四散离去后,她便行洒扫等诸般侍奉,继而欢喜礼敬那灵伽。
Verse 95
गायंती मधुरं गीतं नृत्यंती निजलीलया । ध्यायंती लिंगमोंकारं तत्र लिंगे लयं ययौ
她吟唱甘美之歌,随自发的虔爱而起舞,并观想灵伽即为唵迦罗;就在那处,她融入彼灵伽之中,归于究竟的合一。
Verse 96
अनेनैव शरीरेण पार्थिवेन महामतिः । अस्मदाचार्यमुख्यानां पश्यतां च तपस्विनाम्
以这同一具尘世之身,噢大慧者,那位心志高贵的女子(摩达维)得证神圣之境;当时我等诸上师与苦行者皆在旁目睹。
Verse 97
प्रादुर्बभूव यल्लिंगाज्ज्योतिर्जटिलितांबरम् । तत्र ज्योतिषि सा बाला ज्योतिर्मय्यपि साप्यभूत्
从那灵伽中显现出光辉,连苍穹都仿佛被光织就;在那光明之中,那少女亦化为光体,成为纯然之光。
Verse 98
राधशुक्लचतुर्दश्यामद्यापि क्षेत्रवासिनः । तत्र यात्रां प्रकुर्वंति महोत्सवपुरःसराः
直至今日,在罗陀月明半第十四日,圣域迦尸(Kāśī)的居民仍在彼处举行朝圣行列(yātrā),并以盛大庆典为先导。
Verse 99
तत्र जागरणं कृत्वा चतुर्दश्यामुपोषिताः । प्राप्नुवंति परं ज्ञानं यत्रकुत्रापि वै मृताः
凡在彼处守夜警醒,并于第十四日持斋者,皆得至上之智;纵使死于任何地方亦然。
Verse 100
ब्रह्मांडोदर मध्ये तु यानि तीर्थानि सर्वतः । तानि वैशाखभूतायामायांत्योंकृति दर्शने
遍满宇宙之胎的一切圣渡处(tīrtha),仿佛都在毗舍佉月汇聚而来,只为得见那唵字形相(Oṃkāra)的圣观。
Verse 110
सर्वाण्यायतनान्याशु साब्धीनि स गिरीण्यपि । स नदीनि स तीर्थानि स द्वीपानि ययुस्ततः
于是,一切神庙、诸海与群山,连同诸河、诸圣渡(tīrtha)与诸岛屿,都迅疾地从彼处离去,仿佛被摄入那神圣的汇聚之中。
Verse 120
ये निंदंति महादेवं क्षेत्रं निंदंति येऽधियः । पुराणं ये च निंदंति ते संभाष्या न कुत्रचित्
凡诋毁摩诃提婆者,凡愚迷而诋毁圣域 Kṣetra(迦尸 Kāśī)者,及诋毁《往世书》(Purāṇa)者——与此等人,处处皆不应交谈。
Verse 121
ओंकारसदृशं लिंगं न क्वचिज्जगतीतले । इति गौर्यै समाख्यातं देवदेवेन निश्चितम्
在大地之上,处处无有可与“唵”(Oṃkāra)之形相等的林伽(Liṅga)。此乃天中之天(Devadeva)向高丽(Gaurī)所宣示的定论。
Verse 122
इममध्यायमाकर्ण्य नरस्तद्गतमानसः । विमुक्तः सर्वपापेभ्यः शिवलोकमवाप्नुयात्
若有人聆听此章,心神专注其中,便能解脱一切罪垢,而得至湿婆之界(Śivaloka)。
Verse 853
रक्षः काष्ठां शंकुकर्णो दृमिचंडो मरुद्दिशम् । इत्थं क्षेत्रं सदा पांति गणा एतेऽति भास्वराः
商库卡耳那(Śaṅkukarṇa)守护罗刹之方,德里米旃陀(Dṛmicaṇḍa)守护风神之向。如此,这些极其光辉的伽那(Gaṇa)恒常护持圣域 Kṣetra(迦尸 Kāśī)。