
第六章开篇,诸仙人请苏多进一步阐明:在“普罗多沙”(pradōṣa,农历十三日傍晚)礼敬湿婆的灵验功德。苏多宣说,普罗多沙是极为殊胜的时段,求取人生四义(caturvarga:法、利、欲、解脱)者,应于此时特别奉事大自在天(Mahādeva)。因此,行供养(pūjā)、持诵(japa)、火供(homa)与称扬湿婆功德,被劝为兼具伦理与仪轨的修持。 经文又以虔敬的宇宙图景加以铺陈:在普罗多沙时,湿婆于冈仁波齐(Kailāsa)银色宫殿中起舞,诸天与天界众生环侍随从,故此刻修供尤为增上。随后举出维达婆(Vidarbha)王族的故事:萨提拉塔王(Satyratha)战败身亡;王后逃难产子,却被鳄鱼掳去,婴儿遂被遗弃。名为乌玛(Umā)的婆罗门妇人发现并与己子一同抚养。圣者商提利耶(Śāṇḍilya)揭示其王族身世,并说明家族厄运的业因:因中断或怠慢普罗多沙时对湿婆的礼敬及相关德行过失,致使贫困与灾难跨越多生;而重新以信爱归依(śaraṇa)商羯罗(Śaṅkara)则为转祸为福之道。
Verse 1
ऋषय ऊचुः । यदुक्तं भवता सूत महदाख्यानमद्भुतम् । शम्भोर्माहात्म्यकथनमशेषाघहरं परम्
诸仙人说道:噢,苏多啊,你所宣说的宏大而奇妙的传记——称扬商婆(Śambhu)威德的叙述——至为无上,因为它能无余除尽一切罪垢。
Verse 2
भूयोपि श्रोतुमिच्छामस्तदेव सुसमाहिताः । प्रदोषे भगवाञ्छंभुः पूजितस्तु महात्मभिः
我们愿再度聆听同一段事迹,心神专注:在普罗多沙(Pradoṣa)之时,福德圆满的商婆(Śambhu)如何为大心行者所礼拜供奉。
Verse 3
संप्रयच्छति कां सिद्धिमेतन्नो ब्रूहि सुव्रत । श्रुतमप्यसकृत्सूत भूयस्तृष्णा प्रवर्धते
请告诉我们,持善誓者啊,此(普罗多沙礼拜)能赐予何等成就。纵然我们已多次听闻,苏多啊,我们再听的渴慕反而愈加增长。
Verse 4
सूत उवाच । साधु पृष्टं महाप्राज्ञा भवद्भिर्लोकविश्रुतैः । अतोऽहं संप्रवक्ष्यामि शिवपूजाफलं महत्
苏多说道:问得好啊,诸位大智仙人,名闻世间。因此我现在将宣说礼敬湿婆(Śiva)所获的广大功德之果。
Verse 5
त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्त्तितः । तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः
在第十三日的月相(tithi)之傍晚,此时称为普罗多沙(Pradoṣa)。于此时,求得果报者当唯独礼拜大天(Mahādeva),不应转向他神。
Verse 6
प्रदोषपूजामाहात्म्यं को नु वर्णयितुं क्षमः । यत्र सर्वेऽपि विबुधास्तिष्ठंति गिरिशांतिके
谁能尽述普罗多沙(Pradoṣa)礼拜的伟大?在那里,诸天神祇亦侍立于吉利沙(湿婆)近旁。
Verse 7
प्रदोषसमये देवः कैलासे रजतालये । करोति नृत्यं विबुधैरभिष्टुतगुणोदयः
在普罗多沙之时,主宰于凯拉萨——其银色圣居——演化神圣的宇宙之舞;诸天以赞歌颂扬祂德行升起的光辉。
Verse 8
अतः पूजा जपो होमस्तत्कथास्तद्गुणस्तवः । कर्त्तव्यो नियतं मर्त्यैश्चतुर्वर्गफला र्थिभिः
因此,凡求四种人生目标之果报者——法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa)——当恒常行礼拜、持诵(japa)、火供(homa)、宣说祂的圣迹,并歌咏祂的德性。
Verse 9
दारिद्यतिमिरांधानां मर्त्यानां भवभीरुणाम् । भवसागरमग्नानां प्लवोऽयं पारदर्शनः
对于被贫困之暗所蒙蔽、畏惧世有的众生,此(普罗多沙的虔敬)乃渡海之筏:为沉没于轮回(saṃsāra)大海者,显示彼岸。
Verse 10
दुःखशोकभयार्त्तानां क्लेशनिर्वाणमिच्छताम् । प्रदोषे पार्वतीशस्य पूजनं मंगलायनम्
对于为痛苦、忧伤与恐惧所逼迫者,以及渴求息灭诸恼者,于普罗多沙时礼敬帕尔瓦蒂之主(湿婆),乃吉祥之源、吉祥之所归。
Verse 11
दुर्बुद्धिरपि नीचोपि मन्दभाग्यः शठोऽपि वा । प्रदोषे पूज्य देवेशं विपद्भ्यः स प्रमुच्यते
即使愚钝之人,乃至卑微不幸、甚至狡诈之人,若于pradoṣa时礼敬诸天之主,亦能从诸般灾厄中解脱。
Verse 12
शत्रुभिर्हन्यमानोऽपि दश्यमानोपि पन्नगैः । शैलैराक्रम्यमाणोऽपि पतितोऽपि महांबुधौ
纵使被仇敌击倒,纵使为群蛇所噬;纵使被巨岩压碎,纵使坠入浩瀚大海——
Verse 13
आविद्धकालदण्डोऽपि नानारोगहतोऽपि वा । न विनश्यति मर्त्योऽसौ प्रदोषे गिरिशार्चनात्
纵使被“时轮之杖”所擒,或为百病所击,此凡人亦不至灭亡——只因于pradoṣa时礼拜山主Girīśa。
Verse 14
दारिद्र्यं मरणं दुःखमृणभारं नगोपमम् । सद्यो विधूय संपद्भिः पूज्यते शिवपूजनात्
贫困、濒死之厄、忧苦,以及如山之债担——皆可立时抖落;由礼敬湿婆而得富足,并受众人尊崇。
Verse 15
अत्र वक्ष्ये महापुण्यमितिहासं पुरातनम् । यं श्रुत्वा मनुजाः सर्वे प्रयांति कृतकृत्यताम्
今我将宣说一则古老而大功德的圣传;凡人闻之,皆得圆满此生所当成就之境。
Verse 16
आसीद्विदर्भविषये नाम्ना सत्यरथो नृपः । सर्वधर्मरतो धीरः सुशीलः सत्यसंगरः
昔日于毗达婆国土,有王名萨提亚罗陀;恒住诸法之正道,勇毅端雅,誓守真谛而不移。
Verse 17
तस्य पालयतो भूमिं धर्मेण मुनिपुंगवाः । व्यतीयाय महान्कालः सुखेनैव महामतेः
噫,诸牟尼之最胜!当彼依达摩而治大地之时,那位大心王在安宁与顺遂中,度过了漫长岁月。
Verse 18
अथ तस्य महीभर्तुर्बभूवुः शाल्वभूभुजः । शत्रवश्चोद्धतबला दुर्मर्षणपुरोगमाः
其后,萨尔瓦诸王遂与彼大地主为敌;恃力而骄,且由难以忍受的杜尔玛尔沙那为首。
Verse 19
कदाचिदथ ते शाल्वाः संनद्धबहुसैनिकाः । विदर्भनगरीं प्राप्य रुरुधुर्विजिगीषवः
一时,萨尔瓦众军披甲执兵,率多部众至毗达婆城,欲求征服,遂围困其城。
Verse 20
दृष्ट्वा निरुद्ध्यमानां तां विदर्भाधिपतिः पुरीम् । योद्धुमभ्याययौ तूर्णं बलेन महता वृतः
见己城被围,毗达婆之主即刻出师迎战,身旁簇拥着浩大军旅。
Verse 21
तस्य तैरभवयुद्धं शाल्वैरपि बलोद्धतैः । पाताले पन्नगेन्द्रस्य गन्धर्वैरिव दुर्मदैः
于是他与那些恃力自矜的娑罗婆(Śālva)交战起来,犹如狂烈的乾闼婆在地下界波多罗(Pātāla)与蛇王鏖战一般。
Verse 22
विदर्भनृपतिः सोऽथ कृत्वा युद्धं सुदारुणम् । प्रनष्टोरुबलैः शाल्वैर्निहतो रणमूर्धनि
那位毗达婆(Vidarbha)之王经历了极其惨烈的战斗,终在战阵最激烈之处,被兵力未曾溃散的娑罗婆(Śālva)以强军所杀。
Verse 23
तस्मिन्महारथे वीरे निहते मंत्रिभिः सह । दुद्रुवुः समरे भग्ना हतशेषाश्च सैनिकाः
当那位英勇的大车战士与诸大臣一同被杀时,战场上残余的兵士已被击溃,遂四散奔逃。
Verse 24
अथ युद्धेभिविरते नदत्सु रिपुमंत्रिषु । नगर्यां युद्ध्यमानायां जाते कोलाहले रवे
其后战事暂歇,敌方大臣高声呼号;城中亦陷于纷乱,于是喧嚣震天,哗然四起。
Verse 25
तस्य सत्यरथस्यैका विदर्भाधिपतेः सती । भूरिशोकसमाविष्टा क्वचिद्यत्नाद्विनिर्ययौ
随后,毗达婆(Vidarbha)之主萨底耶罗他(Satyaratha)的贞淑王后,被无边悲痛所淹没,仍勉力挣扎,终于设法走了出来。
Verse 26
सा निशासमये यत्नादंतर्वत्नी नृपांगना । निर्गता शोक संतप्ता प्रतीचीं प्रययौ दिशम्
夜幕降临时,国王的王妃——身怀六甲——竭力走出;被忧愁与悲痛灼烧,她朝西方而行。
Verse 27
अथ प्रभाते मार्गेण गच्छन्ती शनकैः सती । अतीत्य दूरमध्वानं ददर्श विमलं सरः
随后拂晓之时,那位贞善的女子沿路缓行;越过漫长旅程,她看见一方清净无瑕的湖泊。
Verse 28
तत्रागत्य वरारोहा तप्ता तापेन भूयसा । विलसंतं सरस्तीरे छायावृक्षं समाश्रयत्
她来到那里,那位高贵的女子被酷热深深折磨,便依止湖岸一株枝叶繁茂、荫凉可憩的树。
Verse 29
तत्र दैववशाद्राज्ञी विजने तरुकुट्टिमे । असूत तनयं साध्वी मूहूर्ते सद्गुणान्विते
在那里,因缘使然,王后在那幽静的林苑中独自一人,贤淑的她于吉祥时刻诞下一子,具足善德。
Verse 30
अथ सा राजमहिषी पिपासाभिहता भृशम् । सरोऽवतीर्णा चार्वंगी ग्रस्ता ग्राहेण भूयसा
随后,那位王妃被强烈的口渴所逼,走入湖中;那位肢体秀美的女子却被一条鳄鱼猛然攫住。
Verse 31
जातमात्रः कुमारोऽपि विनष्टपितृमातृकः । रुरोदोच्चैः सरस्तीरे क्षुत्पिपासार्दितोऽबलः
那男孩方才出生,便失却父母,孤苦无依;他在湖岸放声啼哭,因饥渴所逼而羸弱不堪。
Verse 32
तस्मिन्नेवं क्रन्दमाने जातमात्रे कुमारके । काचिदभ्याययौ शीघ्रं दिष्ट्या विप्रवरांगना
当那初生的男孩如此啼哭之时,幸而一位贤善的婆罗门女子疾步赶来,迅速走向他。
Verse 33
साप्येकहायनं बालमुद्वहन्ती निजात्मजम् । अधना भर्तृरहिता याचमाना गृहेगृहे
她也抱着自己的孩子,一个一岁的小儿;贫困而无夫,她挨家挨户乞求施舍。
Verse 34
एकात्मजा बंधुहीना याञ्चामार्गवशंगता । उमानाम द्विजसतीददर्श नृपनंदनम्
她唯有一子,又无亲族依靠,被迫走上乞食之路;那名为乌玛(Umā)的贞洁婆罗门女子,看见了国王之子。
Verse 35
सा दृष्ट्वा राजतनयं सूर्यबिंवमिव च्युतम् । अनाथमेनं क्रंदंतं चिंतयामास भूरिशः
她见那王子如同日轮坠落一般,且听他以孤儿之身无助啼哭,便反复深思,良久不已。
Verse 36
अहो सुमहदाश्चर्यमिदं दृष्टं मयाधुना । अच्छिन्ननाभिसूत्रोऽयं शिशुर्माता क्व वा गता
“啊!我方才所见,真是极大的奇迹!这婴儿的脐带尚未剪断。母亲究竟去了哪里?”
Verse 37
पिता नास्ति न चान्योस्ति नास्ति बंधुजनोऽपि वा । अनाथः कृपणो बालः शेते केवल भूतले
“既无父亲,也无他人;连亲族也没有。这可怜的孤儿无依无靠,躺在光裸的大地上。”
Verse 38
एष चांडालजो वापि शूद्रजो वैश्यजोपि वा । विप्रात्मजो वा नृपजो ज्ञायते कथमर्भकः
“这小小的孩子——他会是旃陀罗之子,或首陀罗之子,或吠舍之子,或婆罗门之子,甚至是国王之子吗?又怎能知晓这婴儿的出身?”
Verse 39
शिशुमेनं समुद्धृत्य पुष्णाम्यौरसवद्ध्रुवम् । किं त्वविज्ञातकुलजं नोत्सहे स्प्रष्टुमुत्तमम्
“我必定要抱起这婴儿,像亲生儿子一般抚养他。然而他出自不明之家,我却不敢以十足的把握去触碰这尊贵的孩子。”
Verse 40
इति मीमांसमानायां तस्यां विप्रवरस्त्रियाम्
“当那位卓越的婆罗门女子如此思量权衡之时……”
Verse 42
रक्षैनं बालकं सुभ्रुर्विसृज्य हृदि संशयम् । अनेन परमं श्रेयः प्राप्स्यसे ह्यचिरादेिह
“护持这孩子吧,眉目清秀者,放下心中的疑惑。凭借他,你将在此生迅速获得至上的吉祥与善果。”
Verse 43
एतावदुक्त्वा त्वरितो भिक्षुः कारुणिको ययौ । अथ तस्मिन्गते भिक्षौ विश्रब्धा विप्रभामिनी
“说完这些,慈悲的行脚乞士便匆匆离去。待那乞士离开后,那位婆罗门妇人心中安定,重获信赖。”
Verse 44
तमर्भकं समादाय निजमेव गृहं ययौ । भिक्षुवाक्येन विश्रब्धा सा राज तनयं सती
“她抱起那幼童,回到自己的家中。因乞士之言而心安的那位贞善女子——王家之女——……”
Verse 47
ब्राह्मणैः कृतसंस्कारौ ववृधाते सुपूजितौ कृतोपनयनौ काले बालकौ नियमे स्थितौ
“由婆罗门为他们行诸般人生仪礼(saṃskāra),两位少年在尊敬供养中成长。到适当之时,举行了授圣线礼(upanayana),二童恒住戒律与自制之中。”
Verse 48
भिक्षार्थं चेरतुस्तत्र मात्रा सह दिनेदिने । ताभ्यां कदाचिद्बालाभ्यां सा विप्रवनिता सह
“日复一日,他们与母亲一同在那里行乞求施。某一次,那位婆罗门妇人便与那两位少年同行……”
Verse 49
आत्मपुत्रेण सदृशं कृपया पर्यपोषयत् । एकचक्राह्वये रम्ये ग्रामे कृतनिकेतना
她以慈悲抚育他,如同亲生之子,并在名为“独轮”(Ekacakrā)的秀丽村落安家。
Verse 50
तौ दृष्ट्वा बालकौ धीमाञ्छांडिल्यो मुनिरब्रवीत् । अहो दैवबलं चित्रमहो कर्म दुरत्ययम्
见到那两个男孩,智者圣仙商提利耶(Śāṇḍilya)说道:“啊,命运之力何其奇妙!啊,业报何其难逃!”
Verse 51
एष बालोऽन्यजननीं श्रितो भैक्ष्येण जीवति । इमामेव द्विजवधूं प्राप्य मातरमुत्तमाम्
“此童依止于另一位母亲,以乞施为生;而今得此婆罗门淑女为至善之母……”
Verse 52
सहैव द्विजपुत्रेण द्विजभावं समाश्रितः । इति श्रुत्वा मुनेर्वाक्यं शांडिल्यस्य द्विजांगना
“……他也与婆罗门之子一同,承受了‘再生者’的身份与行持。”听闻圣仙商提利耶(Śāṇḍilya)此言,那位婆罗门妇人……
Verse 53
सा प्रणम्य सभामध्ये पर्यपृच्छत्सविस्मया । ब्रह्मन्नेषोर्भको नीतो मया भिक्षोर्गिरा गृहम्
她在众会之中俯首礼拜,惊异而问:“婆罗门啊,此童乃我依一位行乞者之言,带回家中。”
Verse 54
अविज्ञातकुलोद्यापि सुतवत्परिपोष्यते । कस्मिन्कुले प्रसूतोऽयं का माता जनकोस्य कः
虽其族系尚未明了,却被当作亲子般抚养。他生于何族何家?其母是谁,其父又是谁?
Verse 55
सर्वं विज्ञातुमिच्छामि भवतो ज्ञानचक्षुषः
我愿从你处尽知一切,噢,具智慧之眼者。
Verse 56
इति पृष्टो मुनिः सोथ ज्ञानदृष्टिर्द्विजस्त्रियां । आचख्यौ तस्य बालस्य जन्म कर्म च पौर्विकम्
如是被问,那位具智慧之见的牟尼,便向那婆罗门女子详尽宣说那男孩的出生,以及他往昔的业行。
Verse 57
विदर्भराजपुत्रस्तु तत्पितुः समरे मृतिम् । तन्मातुर्नक्रहरणं साकल्येन न्यवेदयत्
他详尽陈述:那男孩乃毗达婆国王之子——其父如何战死沙场,其母又如何被鳄鱼掳去。
Verse 58
अथ सा विस्मिता नारी पुनः प्रपच्छ तं मुनिम् । स राजा सकलान्भोगान्हित्वा युद्धे कथं मृतः
于是那女子惊异不已,又再问牟尼:“那位国王舍弃一切享乐,为何竟战死沙场?”
Verse 59
दारिद्र्यमस्य बालस्य कथं प्राप्तं महामुने । दारिद्र्यं पुनरुद्धूय कथं राज्यमवाप्स्यति
大圣者啊,这孩子为何会遭受贫困?又当他摆脱贫困之后,将如何重新获得王权与王者的福分?
Verse 60
अस्यापि मम पुत्रस्य भिक्षान्नेनैव जीवतः । दारिद्र्यशमनोपायमुपदेष्टुं त्वमर्हसि
我的这个儿子也只靠乞求得来的食物维生。请你应当开示我们,如何平息并除去贫困之法。
Verse 61
शांडिल्य उवाच । अमुष्य बालस्य पिता स विदर्भमहीपतिः । पूर्वजन्मनि पांड्येशो बभूव नृपसत्तमः
商提利耶说道:这孩子的父亲是毗陀婆国土之主。于前世,他曾为般地耶国的君王,是人中最卓越的国王。
Verse 62
स राजा सर्वधर्मज्ञः पालयन्सकलां महीम् । प्रदोषसमये शंभुं कदा चित्प्रत्यपूजयत्
那位国王通达一切法(dharma),统御大地之时,曾在普罗多沙(Pradoṣa)之刻礼拜圣主商婆(Śambhu)。
Verse 63
तस्य पूजयतो भक्त्या देवं त्रिभुवनेश्वरम् । आसीत्कलकलारावः सर्वत्र नगरे महान्
当他以虔敬礼拜那三界之主的神时,城中处处忽起巨大的喧哗骚动之声。
Verse 64
श्रुत्वा तमुत्कटं शब्दं राजा त्यक्तशिवार्चनः । निर्ययौ राजभवनान्नगरक्षोभशंकया
国王听到那可怖的巨响,便中止对湿婆的礼拜,从王宫走出,忧惧城中将起骚乱。
Verse 65
एतस्मिन्नेव समये तस्यामात्यो महाबलः । शत्रुं गृहीत्वा सामंतं राजांतिकमुपागमत्
正当此时,他那力大威猛的宰相擒住一名敌方藩主,前来觐见国王。
Verse 66
अमात्येन समानीतं शत्रुं सामंतमुद्धतम् । दृष्ट्वा क्रोधेन नृपतिः शिरच्छेदमकारयत्
国王见宰相押来那傲慢的敌方藩臣,怒火中烧,便下令将其斩首。
Verse 67
स तथैव महीपालो विसृज्य शिवपूजनम् । असमाप्तात्मनियमश्चकार निशि भोजनम्
于是那位君王也照样,搁置对湿婆的供奉;自身的戒律未竟,竟在夜间进食。
Verse 68
तत्पुत्रोपि तथा चक्रे प्रदोषसमये शिवम् । अनर्चयित्वा मूढात्मा भुक्त्वा सुष्वाप दुर्मदः
他的儿子也如此:在普罗多沙时分,不礼拜湿婆;那愚迷而狂傲之人吃过便睡。
Verse 69
जन्मांतरे स नृपतिर्विदर्भक्षितिपोऽभवत् । शिवार्चनांतरायेण परैर्भोगांतरे हतः
在另一世中,他成了国王,统治毗达婆。然而因他阻碍对湿婆的礼拜,他在享乐之际被他人所杀。
Verse 70
तत्पुत्रो यः पूर्वभवे सोस्मिञ्जन्मनि तत्सुतः । भूत्वा दारिद्र्यमापन्नः शिवपूजाव्यतिक्रमात्
前世作他儿子的那位,此生仍为其子;由于怠慢对湿婆的供奉,他陷入了贫困。
Verse 71
अस्य माता पूर्वभवे सपत्नीं छद्मनाहनत् । तेन पापेन महता ग्राहेणास्मिन्भवे हता
他的母亲在前世以诡计杀害了同夫之妻;因那重大罪业,她在今生被鳄鱼所噬而死。
Verse 72
एषा प्रवृत्तिरेतेषां भवत्यै समुदाहृता । अनर्चितशिवा मर्त्याः प्राप्नुवंति दरिद्रताम्
夫人啊,他们的因缘经过已如是说明。凡不礼敬湿婆的世人,终将趋于贫乏。
Verse 73
सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि । संसारमुल्बणमसारमवाप्य जंतोः सारो यमीश्वरपदांबुरुहस्य सेवा
我说真实;我说来世之利;我说精髓;我说《奥义书》之心:众生既入这严酷而空虚的轮回(saṃsāra),其真正精要,唯在侍奉阎摩之主——湿婆——的莲华足下。
Verse 74
ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये । एतत्कथां श्रुतिपुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्राः
凡不在普罗多沙(Pradoṣa)之时礼拜吉利沙(Giriśa)者,或在众人供奉湿婆(Śiva)时亦不肯顶礼者;又有愚迷之人不以双耳饮受此圣传——此等之人,生生世世皆成贫乏。
Verse 75
ये वै प्रदोषसमये परमेश्वरस्य कुर्वंत्यनन्यमनसोंऽघ्रिसरोजपूजाम् । नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके
凡于普罗多沙(Pradoṣa)之时,以不二之心供奉至上主帕拉梅湿伐罗(Parameśvara)莲华足者——此人在此世间便恒常增益财宝、谷粮、配偶、子嗣、福运与昌盛。
Verse 76
कैलासशैलभवने त्रिजगजनित्रीं गौरीं निवेश्य कनकांचितरत्नपीठे । नृत्यं विधातु मभिवाञ्छति शूलपाणौ देवाः प्रदोषसमयेऽनुभजंति सर्वे
在凯拉萨山(Kailāsa)之宫殿中,先安置三界之母高丽(Gaurī)于镶金宝座;当执三叉者舒拉帕尼(Śūlapāṇi)欲起舞时,诸天神众皆于普罗多沙(Pradoṣa)之际聚集侍奉。
Verse 77
वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता । विष्णुः सांद्रमृदंगवादनपटुर्देवाः समंतात्स्थिताः सेवंते तमनु प्रदोषसमये देवं मृडानीपतिम्
语神瓦格德薇(Vāgdevī)执持维那琴(vīṇā);百祭主沙塔玛卡(Indra)持笛;莲生者帕德摩迦(Brahmā)举手击节;吉祥女神罗摩(Lakṣmī)善于歌咏。毗湿奴(Viṣṇu)精于击奏浑厚回响的木丹伽鼓(mṛdaṅga);诸天环立四周——于普罗多沙(Pradoṣa)之时,如是侍奉那位主宰、弥陀尼(Mṛḍānī,帕尔瓦蒂)之夫。
Verse 78
गंधर्वयक्षपतगोरगसिद्ध साध्या विद्याधरामरवराप्सरसां गणाश्च । येऽन्ये त्रिलोकनिलयाः सह भूतवर्गाः प्राप्ते प्रदोषसमये हरपार्थसंस्थाः
乾闼婆(Gandharva)、夜叉(Yakṣa)、飞鸟、那伽(Nāga)、悉达(Siddha)与萨底耶(Sādhya)之众;持明者(Vidyādhara)、诸天与最胜天女(Apsaras)之群;以及三界一切住民并诸类众生——当普罗多沙(Pradoṣa)来临,皆与帕尔瓦蒂(Pārvatī)同在,列位侍立于哈拉(Hara)之前。
Verse 79
अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः । तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथाः
因此在普罗多沙(Pradoṣa)之时,唯应礼拜湿婆,不应礼拜哈利(毗湿奴)、莲生者(梵天)等诸神。若依仪轨恭敬供奉大自在天(Maheśa),诸天之主皆生欢喜而赐恩。
Verse 80
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः । प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः
你的这个儿子在前世曾是最优秀的婆罗门;然而他一生靠受纳馈赠而度日,并非以祭祀(yajña)等善业与正行来成就自身。
Verse 81
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि । तद्दोष परिहारार्थं शरणं यातु शंकरम्
因此你的儿子陷入贫困,噢高贵的婆罗门夫人。为除去此过失,当令他归依商羯罗(Śaṅkara)。