Adhyaya 22
Rudra SamhitaYuddha KhandaAdhyaya 2252 Verses

रुद्रस्य रणप्रवेशः तथा दैत्यगणानां बाणवृष्टिः (Rudra Enters the Battlefield; the Daityas’ Arrow-Storm)

第22章描述了鲁德拉(湿婆)骑着神牛南迪,以威严恐怖的形象进入战场。他的出现让众随从(gaṇas)重振旗鼓。在贾兰达拉、顺婆和尼顺婆的率领下,大提耶众魔发动了密集的箭雨攻击。湿婆随后轻松摧毁了他们的武器,并以神箭反击,彻底压制了魔军,展现了其至高无上的神力。

Shlokas

Verse 1

सनत्कुमार उवाच । अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः । अभ्यगाद्वृषभारूढस्संग्रामं प्रहसन्निव

萨那特库玛罗说道:随后,大主鲁陀罗显现忿怒之相(raudra),为英勇众军所环绕,骑乘神牛,迈向战场,仿佛含笑而笑。

Verse 2

रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः । निवृत्ताः संगरे रौद्रा ये हि पूर्वं पराजिताः

见鲁陀罗逼近,众伽那再度发出狮子般的咆哮;虽先前曾败退,那些凶猛者仍回身重返战场。

Verse 3

वीर शब्दं च कुर्वन्तस्तेऽप्यन्ये शांकरा गणाः । सोत्सवास्सायुधा दैत्यान्निजघ्नुश्शरवृष्टिभिः

那些其余的商羯罗之伽那也高呼勇士之声;欢欣而全副武装,以箭雨击倒诸多代底耶。

Verse 4

दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः । शांकरं पुरुषं दृष्ट्वा पातकानीव तद्भयात्

见到可怖的鲁陀罗,众代底耶尽皆惊惶奔逃。又见商羯罗——至上的普鲁沙——他们因惧而四散,如罪业在其圣临前消散。

Verse 5

अथो जलंधरो दैत्यान्निवृत्तान्प्रेक्ष्य संगरे । अभ्यधावत्स चंडीशं मुंचन्बाणान्सहस्रशः

随后,阇兰陀罗见诸代提耶在战阵中退却,便直扑旃提湿,连发千千箭矢。

Verse 6

निशुंभशुंभप्रमुखा दैत्येन्द्राश्च सहस्रशः । अभिजग्मुश्शिवं वेगाद्रोषात्संदष्टदच्छदाः

以尼输婆与输婆为首,成千上万的代提耶之王怒火炽盛、咬牙切齿,疾速冲向湿婆大自在天。

Verse 7

कालनेमिस्तथा वीरः खड्गरोमा बलाहकः । घस्मरश्च प्रचंडश्चापरे चापि शिवं ययुः

迦罗内弥、勇士剑毛罗摩、婆罗诃迦、噬摩罗、普罗旃陀,以及其他强者,也一同向湿婆推进,欲在战场上与主对决。

Verse 8

बाणैस्संछादयामासुर्द्रुतं रुद्रगणांश्च ते । अंगानि चिच्छिदुर्वीराः शुंभाद्या निखिला मुने

圣者啊,商婆等一切勇士迅疾如雨射箭,遮蔽鲁陀罗的众伽那军;在战斗狂怒中,他们甚至斩裂并刺穿其肢体。

Verse 9

बाणांधकारसंछन्नं दृष्ट्वा गणबलं हरः । तद्बाणजालमाच्छिद्य बाणैराववृते नभः

哈罗见伽那军被箭雨的黑暗所笼罩,便斩断那张飞矢之网;继而以自己的箭矢,遍覆四方苍穹。

Verse 10

दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा । प्रचंडबाणजालोघैरपातयत भूतले

随后,他以箭矢风暴折磨群魔,又以凶猛而密集的箭网洪流,将他们击落倒伏于大地。

Verse 11

खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् । बलाहकस्य च शिरः खट्वांगेनाकरोद्द्विधा

他用斧头砍下了卡德加罗马的头颅;又用卡特万加杖将巴拉哈卡的头颅劈成两半。

Verse 12

स बद्ध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि । महावीर प्रचंडं च चकर्त्त विशिखेन ह

他以绳索(缚索)缚住恶魔伽斯摩罗,将其击倒在地;又以锋利带倒钩之箭,斩落那强悍的勇将普罗旃陀。

Verse 13

वृषभेण हताः केचित्केचिद्बाणैर्निपातिता । न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव

有的被神牛(难丁)击毙,有的被箭矢射倒;诸阿修罗无法立足,如同大象遭狮子逼迫而痛苦不堪。

Verse 14

ततः क्रोधपरीतात्मा दैत्यान्धिक्कृतवान्रणे । शुंभादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान्

随后,那大达伊提耶被怒火充满,在战场上痛斥诸达伊提耶;他又放声而笑,以坚定之态对商婆等人说道。

Verse 15

जलंधर उवाच । किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम्

阇兰陀罗说道:“你们这般高声夸口有何用处?你们击杀那些因恐惧而逃、从背后被杀之人。杀害惊惧者并不可称赞;这并不能赐予那些自以为勇士者以天界之果。”

Verse 16

यदि वः प्रधने श्रदा सारो वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा

如果你们对这场战斗有信心——如果你们心中还有哪怕一点点勇气或力量——那就站在我面前。否则,如果你们仍然渴望平庸的世俗享乐,就不要上前。

Verse 17

रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः । यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः

在战阵之中,英勇之死确被宣说为一种恩赐:它赐予一切所愿之果报。它尤能赐名声,并且也被称颂为赐予解脱(mokṣa)者。

Verse 18

सूर्यस्य मंडलं भित्त्वा यायाद्वै परमं पदम् । परिव्राट् परमज्ञानी रणे यत्संमुखे हतः

穿破太阳之轮,他确能抵达至上的住处。此即遍行的出家者、至知之人:凡在战斗中正面与他相对而被杀者,皆得至于那最高境界。

Verse 19

मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्बुधैः । अनिर्वार्यो यतो ह्येष उपायैर्निखिलैरपि

智者不应在任何时候、任何地方生起对死亡的恐惧;因为死亡不可避免,纵使用尽一切人间方法,也无法阻止。

Verse 20

मृत्युर्जन्मवतां वीरा देहेन सह जायते । अद्य वाब्दशतात् वा मृत्युर्वै प्राणिनां ध्रुवः

诸位勇士啊,对一切具身众生而言,死亡与此身同生。无论今日降临,或百年之后到来,众生之死确然无疑。

Verse 21

तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा । सर्वथा परमानन्द इहामुत्राप्यसंशयः

当舍弃对死亡的恐惧,欢喜地在战场上奋战。无论如何,必得至上的安乐——此世与来世皆然——毫无疑惑。

Verse 22

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायांपञ्चमे युद्धखंडे जलंधरवधोपाख्याने जलंधरयुद्धवर्णनंनाम द्वाविंशोऽध्यायः

至此,在《圣湿婆摩诃往世书》中——第二部《鲁陀罗集》之第五《战争品》,于“阇兰达罗被诛”之附叙中——题为《阇兰达罗之战描写》的第二十二章圆满结束。

Verse 23

अथ दृष्ट्वा स्वसैन्यं तत्पलायनपरायणम् । चुक्रोधाति महावीरस्सिंधुपुत्रो जलंधरः

随后,他见己方军队尽皆一心溃逃,海之子阇兰达罗——那大勇士——便燃起炽烈的忿怒。

Verse 24

ततः क्रोधपरीतात्मा क्रोधाद्रुद्रं जलंधरः । आह्वापयामास रणे तीव्राशनिसमस्वनः

继而阇兰达罗心神尽为怒火所摄,因忿怒而召请鲁陀罗降临战场,咆哮之声如猛烈霹雳。

Verse 25

जलंधर उवाच । युद्ध्यस्वाद्य मया सार्द्धं किमेभिर्निहतैस्तव । यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर

阇兰达罗说道:“如今与我交战吧——你已击倒的那些旁人,对你又有何用?你尚存的任何力量,都显现出来吧,噢结发之主(Jaṭādhara)。”

Verse 26

सनत्कुमार उवाच । इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् । जलंधरो महादैत्यश्शंभुमक्लिष्टकारिणम्

善达库玛罗说道:言毕,强大的达伊提耶阇兰达罗以七十支箭齐发,射向牛旗之主商婆,意欲扰动那本不为扰动所及的至尊。

Verse 27

तानप्राप्तान्महादेवो जलंधरशरान्द्रुतम् । निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव

当阇兰达罗之箭疾驰而至时,大天神以自身锋利之箭迅速将其尽数截断,仿佛含笑从容。

Verse 28

ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः । जलंधरस्य दैत्यस्य न तच्चित्रं हरे मुने

随后,哈利以七支箭斩落阇兰达罗那魔的战马、旗帜、华盖与弓。噢牟尼,对哈利而言,此事毫不足奇。

Verse 29

स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः । अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान्

于是那阿修罗——大海之子——弓已断裂、战车尽失,怒不可遏地冲向主湿婆;他迅疾如风,高举钉锤,猛然扑击。

Verse 30

प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः । पाराशर्यं महालीलो द्रुतं बाणैर्द्विधाकरोत्

随即,大自在天摩诃伊湿伐罗在其宏大神圣的戏乐(līlā)中,以疾箭顷刻击碎那掷来的钉锤,并将帕罗娑利耶本人一并劈为两段。

Verse 31

तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः । अभ्युद्ययौ महावेगाद्द्रुतं तं तज्जिघांसया

即便如此,那大阿修罗怒不可遏,举起紧握之拳,以惊人的疾势猛冲向他,怀着必杀之意。

Verse 32

तावदेवेश्वरेणाशु बाणोघैस्स जलंधरः । अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः

就在那一刻,凭借主宰伊湿伐罗之力,阇兰达罗被万箭齐发迅疾逼退,约退去一拘舍;那位行事毫不费力的主,将他轻易推开。

Verse 33

ततो जलंधरो दैत्यो रुद्रं मत्वा बलाधिकम् । ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्

随后,魔族阇兰达罗见鲁陀罗力胜于己,便施放出奇妙的乾闼婆般幻术——专为迷惑鲁陀罗的惑乱之咒。

Verse 34

तस्य मायाप्रभावात्तु गंधर्वाप्सरसां गणाः । आविर्भूता अनेके च रुद्रमोहनहेतवे

在他幻力的驱使下,众多乾闼婆与阿普萨拉的队伍纷纷显现,出现的目的唯在迷惑鲁陀罗(及其军众)。

Verse 35

ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः । तालवेणुमृदंगांश्च वादयन्तिस्म चापरे

于是,乾闼婆与阿普萨罗的众群开始歌唱起舞;另一些人击钹、吹笛、奏缪陀伽鼓,献上天界妙乐,以庆贺鲁陀罗吉祥而胜利的临在。

Verse 36

तद्दृष्ट्वा महदाश्चर्यं गणै रुद्रो विमोहितः । पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः

见此大奇迹,鲁陀罗与诸伽那皆惊异迷惘;他甚至未觉察武器已从他们手中坠落。

Verse 37

एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः । कामतस्स जगामाशु यत्र गौरी स्थिताऽभवत्

见鲁陀罗一心入定,阿修罗阇兰达罗为欲念所驱,急速前往高丽女神所居之处。

Verse 38

युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ । दशदोर्दण्डपंचास्यस्त्रिनेत्रश्च जटाधरः

战场之中,安置了名为商婆与尼商婆的两位大力者之后,便伫立一位威猛的神圣战士:十臂、五面、三目、披结发(jaṭā),显现主宰为护持正法而现的有相威力。

Verse 39

महावृषभमारूढस्सर्वथा रुद्रसंनिभः । आसुर्य्या मायया व्यास स बभूव जलंधरः

噢,毗耶娑,他骑乘大公牛,处处酷似鲁陀罗;凭借阿修罗的幻力(māyā),他便化作阇兰达罗。

Verse 40

अथ रुद्रं समायातमालोक्य भववल्लभा । अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत्

这时,见鲁陀罗前来,婆婆(Bhava)之爱侣帕尔瓦蒂从侍女同伴中疾步而出,走上那条能让他看见她的道路。

Verse 41

यावद्ददर्श चार्वंगी पार्वतीं दनुजेश्वरः । तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा

当达那婆之主一见肢体娟美的帕尔瓦蒂,刹那间他的阳刚之力便泄尽,身躯随即僵滞麻木,失却知觉。

Verse 42

अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला । जगामांतर्हिता वेगात्सा तदोत्तरमानसम्

随后,乔丽觉知那大底耶在侧,惊惧战栗;她迅疾隐形不现,奔向北方之境——乌多罗·摩那娑。

Verse 43

तामदृश्य ततो दैत्यः क्षणाद्विद्युल्लतामिव । जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः

见她不在,那魔众便如电光一闪,疾驰再赴主宰摩诃湿伐罗所在之处,欲重启战斗。

Verse 44

पार्वत्यपि महाविष्णुं सस्मार मनसा तदा । तावद्ददर्श तं देवं सोपविष्टं समीपगम्

此时帕尔瓦蒂亦于心中忆念摩诃毗湿奴;就在那一刻,她见那位神祇已然端坐,近在身旁。

Verse 45

तं दृष्ट्वा पार्वती विष्णुं जगन्माता शिवप्रिया । प्रसन्नमनसोवाच प्रणमंतं कृतांजलिम्

帕尔瓦蒂——诸世界之母、湿婆所钟爱者——见毗湿奴合掌俯首致敬,便以安宁慈和之心向他开口说道。

Verse 46

पार्वत्युवाच । विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् । तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः

帕尔瓦蒂说:“哦,毗湿奴,恶魔贾兰陀罗做出了极其令人惊讶的事情。难道那个邪恶之徒的任何行为,你竟然都不知道吗?”

Verse 47

तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः । प्रत्युवाच शिवां नत्वा सांजलिर्नम्रकंधरः

听到宇宙之母贾加丹巴的话,迦楼罗之旗(毗湿奴)向希瓦(帕尔瓦蒂)鞠躬,合掌低头,恭敬地回答。

Verse 48

श्रीभगवानुवाच । भवत्याः कृपया देवि तद्वृत्तं विदितं मया । यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया

世尊说:“哦,女神,由于您的慈悲,整件事我都已经明白了。哦,母亲,请吩咐我该做什么;得到您的许可,我必将执行。”

Verse 49

सनत्कुमार उचाच । तच्छ्रुत्वा विष्णुवचन्ं पुनरप्याह पार्वती । हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन्

萨纳特库马拉说:听到毗湿奴的话,帕尔瓦蒂再次开口。宇宙之母旨在传授正确的行为和正法(Dharma)之道,教导了赫里希凯沙(毗湿奴)。

Verse 50

पार्वत्युवाच । तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि । तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया

帕尔瓦蒂说道:“道路已由他亲自指示——你当明了,并依之而行。奉我之命,使那女子对夫君的贞顺誓戒(pātivratya-dharma)动摇并破裂。”

Verse 51

नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर । पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले

“噢,罗摩之主(吉祥天女拉克希米之主)啊,除此之外别无他法,能使那大魔适于被诛。因为在大地之上,没有任何法(dharma)可与‘帕蒂弗拉塔’之法相比——对夫君的坚贞与奉献。”

Verse 52

सनत्कुमार उवाच । इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः । छल कर्त्तुं जगामाशु पुनर्जालंधरं पुरम्

萨那特库玛罗说道:哈利听得许可,俯首领受;随即又迅速前往阇兰陀罗之城,意欲施行计谋。

Frequently Asked Questions

Śiva’s raudra entry into the war on Vṛṣabha, the rally of his gaṇas, Jalandhara’s attack on Caṇḍīśa, and a major daitya offensive via an arrow-storm that Śiva decisively counters.

The arrow-net symbolizes overwhelming obscuration and karmic pressure; Śiva cutting it signifies the removal of avidyā/obstruction, reasserting luminous order through a superior, discerning force.

Rudra’s raudra-rūpa (terrible form), sovereign fearlessness, strategic mastery in battle, and the capacity to protect and re-empower his gaṇas while subduing adharma.