Uttara BhagaAdhyaya 3160 Verses

The Greatness of the Month of Māgha (Māgha-snāna, Harivāsara, and the Kāṣṭhīlā-Upākhyāna)

婆悉吒讲述一段对话:善提耶婆梨遇见迦ṣṭhīlā,此众生因往昔婚姻欺诳、吝惜财物不施而将堕入可耻之胎。善提耶婆梨怜悯而问:如何从如此卑下的再生中得解脱?迦ṣṭhīlā宣说“摩伽月功德”(Māgha-māhātmya):摩伽月之稀有与至上,日出前黎明沐浴之殊胜,功德次第(天然江河湖水胜于汲井携水),沐浴为奉事正法之义,以及无河流时的替代规矩。又教每日布施(芝麻拌糖)、以指定谷物与酥油行火供(homa)、供养婆罗门、施衣与甜食,并礼敬太阳神苏利耶为毗湿奴无垢之相。教法进而推崇一日斋戒的十一日(Ekādaśī/Harivāsara)与十二日(Dvādaśī),为无比能灭大罪(mahāpātaka)者,胜过著名圣地(tīrtha)。并详述以新铜器盛种子而施“野猪化身金”(Varāha-gold)、夜间守持、供养毗湿奴信奉的婆罗门、如法破斋(pāraṇa),许诺不再轮回。最后,迦ṣṭhīlā请求分得苏罗遮那往昔十一日功德的四分之一;以水为仪完成转施后,迦ṣṭhīlā光明上升至毗湿奴住处,重申贞顺之法(pativratā-dharma)与业果因缘。

Shlokas

Verse 1

वसिष्ठ उवाच । तच्छ्रुत्वा वचनं तस्याः काष्ठीलायाः शुचिस्मिते । सन्ध्यावली नाम भृशं तामुवाच ह सादरम् ॥ १ ॥

婆悉吒说道:听闻那位迦湿提罗之言——噢,含净笑者——名为“桑提耶瓦丽”的女子便满怀温厚与恳切,郑重地对她开口。

Verse 2

त्वद्वाक्याद्विस्मयो जातः काष्ठीले सांप्रतं मम । कथं दृष्टा मया त्वं च यास्यंती कुत्सितां गतिम् ॥ २ ॥

听到你的话,噢迦湿提罗(Kāṣṭhīlā),我如今满怀惊异。你正走向被谴责、可耻的生存境地,我却为何还能见到你?

Verse 3

कर्मणा केन ते मुक्तिर्भवेत्कुत्सितयोनितः । तन्मे वद विशालांगे त्वां दृष्ट्वा दुःखिता ह्यहम् ॥ ३ ॥

凭借何种业行,你才能从这卑贱的胎生中得解脱?请告诉我,噢肢体宽广者;见到你,我确已忧伤。

Verse 4

मांसपिंडोपमं श्लक्ष्णं नवनीतोपमं शुभे । शरीरं तव संवीक्ष्य तया मे जायते हृदि ॥ ४ ॥

噢吉祥者,见你之身——光滑如肉团,柔软如新鲜酥酪——因此我心中生起强烈的渴望与情动。

Verse 5

काष्ठीलोवाच । पृथिवीं दास्यसे सुभ्रु सकलामपि मत्कृते । तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः ॥ ५ ॥

迦湿提罗说:“噢秀眉者,即便你为我献出整个大地,我也不能立刻从这可鄙的出生中解脱。”

Verse 6

येन पुण्येन सुभगे मुच्येयं कर्मबन्धनात् । तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय ॥ ६ ॥

噢吉祥者,凭何功德我才能从业缚中得解脱?我将指示那极其殊胜、赐予大归趣之道——请专心聆听。

Verse 7

यश्चायं माघमासस्तु सर्वमासोत्तमः स्मृतः । यस्मिन् क्रोंशति पापानि ब्रह्महत्यादिकानि च ॥ ७ ॥

此摩伽月被忆念为诸月之最胜;在此月中,诸罪业——乃至弑婆罗门等重罪——皆如哀号而被驱逐消散。

Verse 8

दुर्लभो माघमासो वै दुर्ल्लभं जन्म मानुषम् । दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम् ॥ ८ ॥

摩伽月实为难得;得人身亦复难得。黎明沐浴难得,虔诚侍奉黑天(Kṛṣṇa)亦难得。

Verse 9

दुर्लभो वासरो विष्णोर्विधिना समुपोषितः । देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले ॥ ९ ॥

如法守持斋戒的毗湿奴圣日实为难得;在摩伽月中,自身于水中作圣浴,得诸天以神圣光辉环绕。

Verse 10

तस्माज्जलं माघमासे पावनं हि विशेषतः । नेदृशी संगरे शूरैर्गतिः प्राप्येत सौख्यदा ॥ १० ॥

因此,摩伽月之水尤为净化;即便战阵中的英勇武士,也难以获得如此赐乐的殊胜归趣。

Verse 11

यादृशी प्लवने प्रातः प्राप्यते नियमस्थितैः । सरित्तडागवापीषु स्नाने सत्तममीरितम् ॥ ११ ॥

持戒守律者于清晨沐浴——沉入水中并游泳——所得功德,被宣说为至上;尤以在江河、池塘与水库中行浴为最胜。

Verse 12

कूपभांडजलैर्मध्यं जघन्यं वह्नितापितैः । न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत् ॥ १२ ॥

从井中汲水、以罐负载而行,乃至忍受如火炙般更严酷的考验,也只得中等或下等的功德。功德不由安逸而得,正是由艰苦而成就。

Verse 13

धर्म्मसेवार्थकं स्नानं नांगनैर्मल्यहेतुकम् । होमार्थं सेवनं वह्नेर्न च शीतादिहानये ॥ १३ ॥

沐浴应为奉事正法(Dharma)而行,并非只为洁净身体。同样,侍奉圣火是为修行火供(homa)之祭,不只是为了驱寒等事。

Verse 14

यावन्नोदयते सूर्यस्तावत्स्नानं विधीयते । आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत् ॥ १४ ॥

仪式沐浴应在太阳未出之前进行。若苍穹为浓云所覆,当恭敬祈请将升之日轮,然后依仪而行。

Verse 15

अभावे सरिदादीनां नवकुंभस्थितं जलम् । वायुना ताडितं रात्रौ स्नाने गंगासमं विदुः ॥ १५ ॥

若无河流等水源可得,盛于新罐之水,夜间置于外而为风所拂动者,用于沐浴时被视为与恒河(Gaṅgā)之水等同。

Verse 16

माघस्नायी वरारोहे दुर्गतिं नैव पश्यति । तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत् ॥ १६ ॥

噢,丰姿美好的女子,行玛伽月沐浴(Māgha-snāna)者,决不见悲惨堕落之途。没有任何罪业,是玛伽沐浴不能净除的。

Verse 17

अग्निप्रवेशादधिकं माघोषस्येव मज्जनम् । जीवता भुज्यते दुःखं मृतेन बहुलं सुखम् ॥ १७ ॥

对摩伽吼沙而言,沉入圣水沐浴被视为比入火更为殊胜。生时受苦;死后得无量安乐。

Verse 18

एतस्मात्कारणाद्भद्रे माघस्नानं विशिष्यते । अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः ॥ १८ ॥

正因如此,吉祥的女士啊,玛伽月沐浴被视为尤为有功德;并且日日应施舍拌糖的芝麻作为日常布施。

Verse 19

मेघपुंष्पोपपन्नेन सहान्नेन सुमध्यमे । यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः ॥ १९ ॥

纤腰的女士啊,应以拌入名为“meghapuṃṣpa”的花之熟饭行火供(homa),亦以yāvaka谷粒,并配以由牛乳所得的酥油(ghee)同作供献。

Verse 20

माध्यां स्नानसमाप्तै तु दद्याद्विप्राय षड्रसम् । सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः ॥ २० ॥

完成正午沐浴后,应施与婆罗门具足六味之食。(并祈祷:)“愿苏利耶天神欢喜于我——他乃毗湿奴无垢之形。”

Verse 21

वासांसि द्विजयुग्माय स सप्तान्नानि चार्पयेत् । त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः ॥ २१ ॥

他应向一对婆罗门奉献衣物,并供养七种熟食;又当施与三十个摩陀迦(modaka)——以芝麻和糖制成的甜点。

Verse 22

भागास्त्रयस्तिलानां तु चतुर्थः शर्करांशकः । तांबूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित् ॥ २२ ॥

应供奉以三份芝麻与一份糖调和之物。并且通晓仪轨者,还应以虔敬之心奉上槟榔叶(tāmbūla)等可享之供品。

Verse 23

स्रोतोमुखः सरिति चान्यत्र भास्करसंमुखः । स्नायादावाह्य तीर्थानि गंगादीन्य कर्मण्डलात् ॥ २३ ॥

在河中沐浴时,应面向上游;在别处,则应面向太阳。应先将恒河等诸圣地(tīrtha)之水观想并迎请入自持的水器(kamaṇḍalu)中,然后再行沐浴。

Verse 24

यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम् । त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा ॥ २४ ॥

愿一切由多生多世所积之罪,及一切明知或不知而作之过,皆为祢的神圣光辉所击碎;愿彼罪业千重尽灭。

Verse 25

दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते । परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत ॥ २५ ॥

噢,日天(Divākara)、世间之主(Jagannātha)、光明之源,敬礼于汝。噢,不堕者阿周多(Acyuta),愿汝成就我此玛伽月沐浴之行,使之圆满。

Verse 26

तीर्थस्नायी वरारोहे माघस्नायी फलाल्पकः । तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम् ॥ २६ ॥

噢,腰胯娴美的女子啊,与玛伽月沐浴相比,在诸圣地(tīrtha)沐浴所得之果报甚为有限。于圣地沐浴可得天界,而行玛伽月沐浴则至于至上之境。

Verse 27

माघस्य धवले पक्षे भवेदेकादशी तु या । रविवारेण संयुक्ता महापातकनाशिनी ॥ २७ ॥

若在摩伽月的明半月出现的持斋日(Ekādaśī)又与星期日相合,便能摧灭诸大罪(mahāpātaka)。

Verse 28

विनापि ऋक्षसंयोगं सा शुक्लैकादशी नृणाम् । विनिर्दहति पापानि कुनृपो विषयं यथा ॥ २८ ॥

即使不与任何宿(nakṣatra)相合,那明半月的持斋日(Ekādaśī)也能焚尽众生之罪,犹如恶王毁坏其国土。

Verse 29

कुपुत्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा । अधर्मस्तु यथा धर्मं कुमंत्री नृपतिं यथा ॥ २९ ॥

正如恶子败坏家族,恶妻败坏其夫;同样,非正法(adharma)败坏正法(dharma),而恶臣亦败坏君王。

Verse 30

अज्ञानं च यथा ज्ञानं कुशौचं शुचितां यथा । यथा हंत्यनृतं सत्यं वादस्संवादमेव च ॥ ३० ॥

正如智慧摧破无明,清净胜过不净;同样,真理诛灭虚妄,而正当的对话终止徒然的争辩。

Verse 31

उष्णं हिममनर्थोऽर्थं पापं कीर्तिं स्मयस्तपः । यथा रसा महारोगाञ्छ्राद्धं संकेत एव च ॥ ३१ ॥

热可转为寒,厄运可转为兴盛,罪业可转为名声,傲慢亦可转为苦行——正如身中诸液(rasa)能化为重病。由此可知,施罗达(Śrāddha,祭祖仪式)在本质上乃一神圣的“信号”与既定之凭证,能引生其应得之果。

Verse 32

तथा दुरितसंघं तु द्वादशी हंति साधिता । ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥ ३२ ॥

同样,若如法奉行,守持“十二日斋”(Dvādaśī)能摧灭众多罪业——如杀害婆罗门、饮酒致醉、盗窃,以及与师长之妻行不净行。

Verse 33

महान्ति पातकान्येतान्याशु हन्ति हरेर्दिनम् । समवेतानि चैतानि न शामयति पुष्करम् ॥ ३३ ॥

这些大罪,只需一日奉献于哈利(Hari),便能迅速消灭。纵使诸罪一并积聚,连普什迦罗(Puṣkara)也不能如此平息净除。

Verse 34

न चापि नैमिषारण्यं न क्षेत्रं कुरुसंज्ञितम् । प्रभासो न गया देवि न रेवा न सरस्वती ॥ ३४ ॥

这既不是奈弥沙林(Naimiṣāraṇya),也不是名为俱卢之地的圣域(Kurukṣetra);也非普罗婆娑(Prabhāsa),非伽耶(Gayā),女神啊;亦非勒瓦河(Revā,纳尔默达),亦非萨拉斯瓦蒂河(Sarasvatī)。

Verse 35

न गगा यमुना चैव प्रयागो न च देवका । न सरांसि नदाश्चान्ये होमदानतपांसि च ॥ ३५ ॥

这也不是恒河(Gaṅgā)与亚穆纳河(Yamunā),不是普罗耶伽(Prayāga)与提维迦河(Devikā);不是湖泊与诸余河流——即便火供(homa)、布施(dāna)与苦行(tapas)也不可与之相比。

Verse 36

न चान्यत्सुकृतं सुभ्रु पुराणे पठ्यते स्फुटम् । पापसंघविनाशाय मुक्त्वैकं हरिवासरम् ॥ ३६ ॥

美眉的女神啊,《往世书》中并未清楚宣说还有别的善业能摧毁罪聚——唯有这一件:哈利之日(Harivāsara,即圣十一斋 Ekādaśī)。

Verse 37

उपोषणात्सकृद्देवि विनश्यंत्यघराशयः । एकतः पृथिवीदानमेकतो हरिवासरम् ॥ ३७ ॥

噢女神啊,只要斋戒一次,成堆的罪业便得消灭。一边是布施整个大地;另一边是哈利的圣日(Harivāsara)——其功德伟大如是。

Verse 38

न समं ब्रह्मणा प्रोक्तमधिकं हरिवासरम् । तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम् ॥ ३८ ॥

梵天宣说:没有任何事物能与哈利之日(Harivāsara)相等,甚至没有能超越它的。于此日,应塑造主为野猪化身瓦拉哈(Varāha)之形,并以黄金制成(或安置)圣像。

Verse 39

घटोपरि नवे पात्रे धृत्वा ताम्रमये शुभे । सर्वबीजान्विते चैव सितवस्त्रावगुंठिते ॥ ३९ ॥

将其置于坛罐之上,再安放在新的吉祥铜器中,内盛各类种子,并以白布覆之。

Verse 40

सहिरण्ये सुदीपाढ्ये कृतपुष्पावतंसके । विधिना पूजयित्वा चकुर्याज्जागरणं व्रती ॥ ४० ॥

持戒行愿者依仪轨恭敬礼拜,以黄金供养,点燃众多明灯,并以花鬘庄严;随后当守通宵觉醒之夜(jāgaraṇa)。

Verse 41

प्रातर्विप्राय दद्याच्च वैष्णवाय कुटुंबिने । तत्कुंभक्रोडसंयुक्तं सनैवेद्यपरिच्छदम् ॥ ४१ ॥

清晨应将此供施赠与一位婆罗门——尤当施与在家毗湿奴信徒(Vaiṣṇava)——并连同其坛罐与承座一并奉上,且备齐食供(naivedya)及所需诸具。

Verse 42

पश्चाच्च पारणं कुर्याद्द्विजान्भोज्य सुहृद्वृतः । एवं कृते वरारोहे न भूयो जायते क्वचित् ॥ ४२ ॥

随后应行帕拉那(pāraṇa,结愿终仪),供养并宴食二生者(婆罗门),并为善友所环绕。噢,腰胯娴美的女士,如法成办此事者,便不再于任何处再生(得解脱)。

Verse 43

बहुजन्मार्ज्जितं पापं ज्ञानाज्ञानकृतं च यत् । तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥ ४३ ॥

多生累积之罪——无论明知或不知而作——皆尽皆灭,正如黑暗在日出时消散。

Verse 44

यथाशास्त्रं मया तुभ्यं वर्णिता द्वादशी शुभे । या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि ॥ ४४ ॥

噢,吉祥的女士,我已依照经典(śāstra)如法为你宣说十二日斋(Dvādaśī)的行持。正是这同一誓愿,噢,女神,你在往昔另一生中也曾修行过。

Verse 45

यस्यास्तवातुला पुष्टिर्वर्तते वर्तयिष्यति । भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी ॥ ४५ ॥

承其恩泽,无比的兴盛已然现前,并将长久延续,恒常赐予你的丈夫与儿子安乐。

Verse 46

तस्यास्त्वया तुरीयांशो देयश्चेन्मह्यमादरात् । तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम् ॥ ४६ ॥

若你以恭敬之心赐我其中四分之一,那么我将心生欢喜,前往那位毗湿奴的至上境界。

Verse 47

वित्ताह्रुतिजं पापं यद्भूतं मम सुंदरि । तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे ॥ ४७ ॥

美丽的女子啊,我因夺取财物而积成的罪业,愿你赐我你所有的一分之四,作为净化此罪的因缘。

Verse 48

जीवितेनापि वित्तेन भर्तारं वंचयेत्तु या । कृमियोनिशतं गत्वा पुल्कसी जायते तु सा ॥ ४८ ॥

凡欺骗丈夫的女子——无论为保命或为财物——将经历百次投生于虫胎,随后转生为Pulkasī。

Verse 49

सुरतं याचमानाय पत्ये वित्तं च मानिनि । या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम् ॥ ४९ ॥

傲慢的女子啊,那愚妻在丈夫求亲密时不肯应允,又吝于财物不与,必定无疑会成kāṣṭhīlā,身心如木般僵硬。

Verse 50

तत्पातकविशुद्ध्यर्थं देहि मे द्वादशीभवम् । तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा ॥ ५० ॥

为净除那罪过,请赐我Dvādaśī之日的功德之分。若你对我尚有怜悯,愿将那神圣功德按四分之一赐与我。

Verse 51

एतच्छ्रुत्वा वचस्तस्याः काष्ठीलायाः सुलोचने । पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च ॥ ५१ ॥

苏洛迦那(Sulocanā)明眸善睐,听闻kāṣṭhīlā之言,便赐与她功德;她以手掬水,注入对方掌中,作为正式施与之仪。

Verse 52

यत्कृतं हि मया पूर्वमेकादश्यामुपोषणम् । तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम् ॥ ५२ ॥

凭我往昔守持圣洁的爱迦达希(Ekādaśī)斋戒所得福德之四分之一,愿此名为迦湿提罗(Kāṣṭhīla)的病苦得以解脱、消除。

Verse 53

पूर्वजन्मकृतात्पापात्सत्यं सत्यं मयोदितम् । एवमुक्ते तु वचने मया विद्युत्समप्रभा ॥ ५३ ॥

因前世所造之罪,我才说出——真实,真实。待我言毕,她便现身,光辉如闪电。

Verse 54

दृष्टा दिव्यविमानस्था गच्छंती वैष्णवं पदम् । पतिर्हि दैवतं लोके वंचनीयो न भार्यया ॥ ५४ ॥

人们见她端坐于天界飞车之上,前往毗湿奴至上的归处——毗湿奴信众的圣境。因为在此世间,丈夫被视为如神明一般,妻子不应欺瞒于他。

Verse 55

देहेन चापि वित्तेन यदीच्छेच्छोभनां गतिम् । सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ॥ ५५ ॥

若你愿求吉祥之途——或以身行善,或以财施福——便告诉我你所求为何;为我夫君之故,我将赐予你所愿。

Verse 56

वित्तं देहं तथा पुत्रं यच्चान्यद्वा वरानने । किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना ॥ ५६ ॥

噢,容颜姣美者,无论是财富、身体、儿子或其他任何事物——在此世间,对女子而言,除了一位丈夫之外,还有什么别的神明可依止呢?

Verse 57

तस्यार्थे वा त्यजेद्वित्तं जीवितं वा सुलोचने । कल्पकोटिशतं साग्रं विष्णुलोके महीयते ॥ ५७ ॥

为了他,哪怕舍弃财富甚至生命也在所不惜,美丽的女子啊。这样的人将在毗湿奴的世界里受到亿万劫的尊崇。

Verse 58

अग्न्यादिसाक्ष्ये वृतमीक्ष्य निष्ठुरा युक्तं सुधोरैर्व्यसनैर्द्विजात्मजा । पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा ॥ ५८ ॥

尽管有火神阿格尼作证誓言,这位铁石心肠的婆罗门之女,虽身陷不幸,却仍拒绝丈夫乞求的财富;因这罪孽,她化为了一条虫。

Verse 59

एतन्मया दुष्टमनंगयष्टि कौमारभावे पितृवेश्मवासे । ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु ॥ ५९ ॥

噢,邪恶的爱神卡玛之奴,当我还是少女住在父亲家中时,我领悟了对丈夫真正有益的真理。现在我献出一切,请收下吧,美丽的女子。

Verse 60

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने माघमाहात्म्यं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥

《大那罗陀往世书》后篇,莫希尼传记之卡斯提拉插话中,名为“摩迦月之伟大”的第三十一章至此结束。

Frequently Asked Questions

The chapter frames Māgha as a time when water is divinely ‘radiant’ and uniquely sin-destroying; thus the seasonal vrata context (Māgha) amplifies the act beyond place-based merit, making it a mokṣa-oriented purifier rather than merely a heaven-bestowing tīrtha act.

Fast on Hari’s day (Ekādaśī/Harivāsara) leading into Dvādaśī; fashion Varāha in gold, place it on/with a pot in a new auspicious copper vessel filled with seeds and covered with white cloth; worship with lamps and garlands; keep night vigil; gift the complete setup to a Vaiṣṇava brāhmaṇa householder; then perform pāraṇa and feed brāhmaṇas.

It presents deception of one’s husband and withholding intimacy/wealth as causes for degraded rebirth (worm-wombs and kāṣṭhīlā state), while showing that properly performed Viṣṇu-centered vrata merit—especially Ekādaśī/Dvādaśī—can purify even deep karmic residue and enable liberation.