婆悉吒(Vasiṣṭha)叙述:达摩昂伽陀召来其母桑提耶瓦利(Sandhyāvalī),调停鲁克芒伽陀王与摩希尼之间的争执。桑提耶瓦利坚持:在哈利瓦萨拉/爱迦达希(Harivāsara/Ekādaśī)之日,国王不可食用罪恶或禁忌之食,并劝摩希尼另求他愿,以保全国王的 satya(真实誓言)与 vrata(戒愿)。教诲继而扩展为妇德(strī-dharma):妻子当扶持丈夫守持正法之愿;若逼迫丈夫堕入 adharma,则招致地狱果报与卑下再生。摩希尼又详论过失、命运,以及受孕之时心念为先、决定子嗣禀性。随后章节转入嵌入譬喻:卡什提拉(Kāṣṭhīlā)向桑提耶瓦利忏悔前生——因傲慢、不救落难之夫与家中贪欲,业力层层下坠,终至一段惊心的罗刹事件:掳掠、共妻争竞、欺诳与将起的杀害。章末止于危机之中,以爱迦达希之法与真实誓愿为道德核心。
Verse 1
वसिष्ठ उवाच । तत्पितुर्वचनं श्रुत्वा पुत्रो धर्मांगदस्तदा । आहूय जननीं शीघ्रं नाम्ना संध्यावलीं शुभाम् ॥ १ ॥
瓦西什塔说道:听到父亲的话后,儿子达摩昂伽陀当即迅速召来他那吉祥的母亲,名为桑迪娅瓦丽。
Verse 2
सूर्यायुत समप्रख्यां तेजसा रुचिरस्तनाम् । पालयंतीं धरां सर्वां पादविन्यासविक्रमैः ॥ २ ॥
她以堪比一万轮太阳的光辉而灿然,形貌端丽;凭借足迹与步伐的雄伟威力,她支撑并护持整个大地。
Verse 3
पुत्रस्य वचनात्प्राप्ता तत्क्षणं नृपसन्निधौ । श्राविता मोहिनी वाक्यं पितुर्वाक्यं तथैव च ॥ ३ ॥
依儿子之言,她立刻来到王前;并使摩希尼聆听儿子的陈述,也同样聆听父亲的陈述。
Verse 4
उभयोः संविदं कृत्वा परिसांत्वय्य मोहिनीम् । भोजनाय स्थितामेनां नृपस्य हरिवासरे ॥ ४ ॥
在使双方达成共识之后,他安抚了那位迷惑人的摩希尼。然而在国王的哈利瓦萨拉——哈利(毗湿奴)的圣日——她仍站着准备进食。
Verse 5
यथा नो च्यवते सत्याद्यथा भुंक्ते न मे पिता । तथा विधीयतामेवं कुशलं चोभयोर्भवेत् ॥ ५ ॥
愿如此安排:使我不偏离真谛,使我父亲不必参与不义或受苦;愿如此成就,使我们二人同得安乐。
Verse 6
तत्पुत्रवचनं श्रुत्वा देवी संध्यावली नृप । मोहिनीं श्लक्ष्णया वाचा प्राह ब्रह्मसुता तदा ॥ ६ ॥
大王啊,女神桑迪娅瓦丽——梵天之女——听罢儿子之言,便以柔和之语对摩希尼说道。
Verse 7
माग्रहं कुरु वामोरु कथंचिदपि भूपतिः । नास्वादयति पापान्न संप्राप्ते हरिवासरे ॥ ७ ॥
美腿的女子啊,切莫执拗;无论如何,当哈利瓦萨拉——哈利(毗湿奴)的圣日,即爱迦达希——到来之时,国王绝不品尝罪恶之食。
Verse 8
अनुवर्तय राजान गुरुरेष सनातनः । सदा भवति या नारी भर्तुर्वचनकारिणी ॥ ८ ॥
大王啊,当随顺而行——此乃永恒的行持法则:女子恒被称为贞善之人,当她奉行夫君之言与命。
Verse 9
तस्याः स्युरक्षयया लोकाः सावित्र्यास्तु यथामलाः । यद्यनेन पुरा देवि तव दत्तः करो गिरौ ॥ ९ ॥
女神啊,她所得诸界将成不坏,清净无垢,如由萨维特丽所证之境;因为久远以前,在山上,正是此人曾向你献出其手,立下婚约。
Verse 10
कामार्तेन विमूढेन तन्न योऽग्यं विचिंतितम् । यद्देयं तद्ददात्येष ह्यदेयं प्रार्थयस्व मा ॥ १० ॥
他为欲火所逼而迷狂,未曾思量何者相宜。他只会施与应当施与之物;因此,莫向我祈求那不应施与之物。
Verse 11
विपत्तिरपि भद्रैव सन्मार्गे संस्थितस्य तु । न भुक्तं येन सुभगे शैशवेऽपि हरेर्दिने ॥ ११ ॥
即便遭遇厄难,对安住正道之人亦真为吉祥——福德者啊——因为此人自幼以来,未曾以饮食破犯哈利的圣日。
Verse 12
स कथं भोक्ष्यते पुण्ये माधवस्य दिनेऽधुना । कामं वरय वामोरुवरमन्यं सुदुर्लभम् ॥ १२ ॥
如今在摩陀婆(毗湿奴)的圣日,他怎能进食?美腿的女子啊,宁可另择他愿,纵使那恩赐再难得亦可。
Verse 13
तं ददात्येव भूपालो निवृत्ता भव भोजने । मन्यसे यदि मां देवि धर्मांगदविरोहिणीम् ॥ १३ ॥
国王必定会赐予。故而,女神啊,请止息进食——若你认为我是不违逆正法(Dharma)之庄严者。
Verse 14
अस्मज्जीवितसंयुक्तं राज्यं वरय सुव्रते । सप्तद्वीपसमेतं हि ससरिद्वनपर्वतम् ॥ १४ ॥
噢,持守清净誓愿者,请择取与我等生命相系之国土——即含七洲之境,并具江河、森林与群山。
Verse 15
कनिष्ठाया वरिष्ठाहं करिष्ये पादवंदनम् । भर्तुरर्थे विशालाक्षि प्रसीद तनुमध्यमे ॥ १५ ॥
纵然我为长者,也愿向幼者足下顶礼。为我夫君之故,明眸广目者啊——愿你垂怜,纤腰淑女啊。
Verse 16
वाचा शपथदोषैस्तु संनिरुध्य पतिं हि या । अकार्यं कारयेत्पापा सा नारी निरये वसेत् ॥ १६ ॥
那罪恶的女子以言语——借誓言与诅咒之过失——束缚其夫,强令其行不当之事,必住于地狱。
Verse 17
सा च्युता नरकाद्धोरात्सप्तजन्मानि पंच च । सूकरीं योनिमाप्नोति चांडालीं च ततः परम् ॥ १७ ॥
自那可怖地狱堕出之后,她还要经历十二次转生;先入母猪之胎,继而又成旃陀罗之女。
Verse 18
एवं ज्ञात्वा मया देवि विक्रियां पापसंभवाम् । निवारितासि वामोरु सखीभावेन सुंदरि ॥ १८ ॥
因此,噢女神,我既已明了这由罪业所生的有害偏差,便以友爱之心约束了你,噢美腿的佳人,噢绝色之女。
Verse 19
विपक्षस्यापि सद्बुद्धिर्दातव्या धर्ममिच्छता । किं पुनः सखिसंस्थायास्तव पद्मनिभानने ॥ १९ ॥
求持正法者,纵对敌对之人亦当施以善劝;何况于你这立于友位者呢,噢莲华面者。
Verse 20
संध्या वलीवचः श्रुत्वा मोहिनी मोहकारिणी । उवाच कनकाभां तां भर्तुर्ज्येष्ठां प्रियां तदा ॥ २० ॥
听闻桑迪娅之言后,摩希尼——迷惑众生、引生幻惑者——便对那位金辉灿然的女子开口;她乃其夫所钟爱的长妻。
Verse 21
माननीयासि मे सुभ्रु करोमि वचनं तव । विद्वद्भिर्मुनिभिर्य्यत्तु गीयते नारदादिभिः ॥ २१ ॥
噢秀眉之人,你于我当受敬重;我将依你之言而行——此乃智者与牟尼诸圣(如那罗陀等)所歌咏称扬者。
Verse 22
यदि तन्नाचरेद्राजा भोजनं हरिवासरे । क्रियतामपरं देवि मरणादधिकं तव ॥ २२ ॥
若国王不肯在哈利瓦萨拉(主哈利的圣日)禁食不食,噢女神,你便当另作他法——因为此事对你而言,比死亡更为可怖。
Verse 23
ममापि दुःखदंह्येतद्दैवाज्जल्पाम्यहं शुभे । कस्येष्टमात्महननं कस्येष्टं विषभक्षणम् ॥ २३ ॥
即使对我来说这也是痛苦的;然而,吉祥的女子啊,迫于命运,我不得不说。谁会希望自我毁灭?谁会希望服毒呢?
Verse 24
पतनं वा गिरेर्मूर्ध्रः क्रीडा वापि बिलेशयैः । व्याघ्रसिंहाभिगमनं समुद्रतरणं तथा ॥ २४ ॥
无论是从山顶坠落,还是与穴居生物嬉戏;无论是接近虎狮,还是横渡大洋。
Verse 25
दरुक्तानृतवाक्यं वा परदाराभिमर्शनम् । अपथ्यभक्षणं लोके तथाभक्ष्यस्य भक्षणम् ॥ २५ ॥
说粗鲁和虚假的话,亲近他人的妻子,吃世上不洁之物,以及食用禁忌之物——这些都是恶行。
Verse 26
मृगाटनमथाक्षैर्वा क्रीडनं साहसं तथा । छेदनं तृणकाष्ठानां लोष्टानामवमर्द्दनम् ॥ २६ ॥
游荡狩猎,掷骰赌博,鲁莽娱乐,割草伐木,践踏土块——这些都是应避免的行为。
Verse 27
हिंसनं सूक्ष्मदेवानां जलपावकखेलनम् । दैवाविष्टो वरारोहे नरः सर्वं करोति वै ॥ २७ ॥
美臀的女子啊,当一个人被神力攫取时,他确实什么都做得出来——他甚至可能伤害微细的神灵,把玩水火。
Verse 28
त्रिवर्गविच्युतं घोरं यशोदेहहरं क्षितौ । नरकार्हो नरो देवि करोत्यशुभकर्म तत् ॥ २८ ॥
噢女神,凡人所作不祥之业,使其堪受地狱之报;此业极其可怖,令其失离人生三义(法、利、欲),并在世间毁坏其名声与身心安泰。
Verse 29
साहं पापा दुराचारा वक्तुकामा सुनिर्घृणम् । यादृशेन हि भावेन योनौ शुक्रं समुत्सृजेत् ॥ २९ ॥
我——罪恶而行径不端者——愿说那最无怜悯之举:人究竟怀着何等心念,将精液排入胎宫之中?
Verse 30
तादृशेन हि भावेन संतानं संभवेदिति । साहं विवादभावेन राज्ञो रुक्मांगदस्य हि ॥ ३० ॥
诚然,正由此等心态,子嗣方能成就。于是我怀着争辩之意,前往鲁克芒伽达王之前。
Verse 31
जाता जलजजातेन स्त्रीरूपा वरवर्णिनी । दुष्टभावा तथा जाता कर्त्री दुष्टं नृपस्य तु ॥ ३१ ॥
由那莲华所生者而生,她化作肤色绝美的女子;然而她亦带着邪恶之性而来,成为在国王心中煽动恶行之人。
Verse 32
न लग्नं न ग्रहा देवि न होरा पुण्यदर्शिनी । तत्कालभावना ग्राह्या तद्भावो जायते सुतः ॥ ३२ ॥
噢女神,洞见福德者,决定的既非上升点,亦非诸星辰,亦非命盘;当取为根本者,是彼时彼刻的心念。孩子出生,便承载那同一心性。
Verse 33
तेन भावेन जातस्य दाक्षिण्यं नोपपद्यते । न च व्रीडा न च स्नेहो न धर्मो देवि विद्यते ॥ ३३ ॥
若人生来具此心性,便不能如法具足慷慨。噢女神啊,此人既无羞惭,亦无爱意,更寻不见丝毫达摩。
Verse 34
जानन्नपि यथायुक्तस्तं भावमनुवर्तते ॥ ३४ ॥
即便明知(真相),人仍会——按其所当行——继续随顺那同一心态而行。
Verse 35
वक्ष्ये वचः प्राणहरं तवाधुना भर्तुः सलोकस्य वधूजनस्य । धर्मापहं वाच्यकरं ममापि कर्तुं न शक्यं मनसापि भीरु ॥ ३५ ॥
噢怯弱者,我今将对你说出足以夺命之言——关于你的夫君与此世诸女。然而,凡是夺损达摩、使之可行之语,我却不能出口;即使在心念中也不能,怯者啊。
Verse 36
करोषि वाक्यं यदि मामकं हि भवेच्च कीर्तिर्महतीह लोके । भर्तुर्यशः स्यात्त्रिदिवे गतिस्ते पुत्रे प्रशंसा मम धिग्विवादः ॥ ३६ ॥
若你依我之言而行,你在此世必得大名。你夫之荣光将达天界;你自身之道亦将在彼处被提升;你之子将受称赞——故我之争辩,到此为止。
Verse 37
वसिष्ठ उवाच । मोहिनीवचनं श्रुत्वा देवी संध्यावली विभो । धैर्यमालंब्य तां तन्वीं ब्रूहि ब्रूहीत्यचोदयत् ॥ ३७ ॥
瓦西什塔说道:噢大能者,听闻摩希尼之言后,女神桑迪娅瓦丽振作勇气,一再催促那纤细的女子道:“说吧,说吧!”
Verse 38
कीदृशं वदसे वाक्यं येन दुःखं भवेन्मम । भर्तुर्मे सत्यकरणे न दुःखं जायते क्वचित् । आत्मनो निधने वापि पुत्रस्य निधनेऽपि वा । भर्तुरर्थे प्रकुर्वंत्या राज्यनाशे न मे व्यथा ॥ ३८ ॥
你说的是怎样的话,竟会令我生起忧苦?为成就我夫君的真实(誓愿),我心中从未生起悲恼。纵使因此而我身殒命,或我子丧命——只要是为夫君之故而行,即便国土失落,于我亦非痛苦。
Verse 39
यस्या दुःखी भवेद्भर्ता भार्याया वरवार्णिनी । समृद्धायाः सपापायास्तस्याः प्रोक्ता ह्यधोगतिः ॥ ३९ ॥
肤色姣好的女子啊,若有妻子虽富足却造罪,由于她使丈夫陷于忧苦,那么对她确已宣说:必得下劣之归趣,堕落之命运。
Verse 40
सा याति नरकं पापा पूयाख्यं युगसप्ततिम् । ततश्छुछुन्दरी स्याच्च सप्त जन्मानि भारते ॥ ४० ॥
那罪恶的女子将堕入名为“普雅”(Pūya)的地狱,历经七十劫;其后在婆罗多(印度)之地,她将七生七世转生为悍妇、好争之女。
Verse 41
ततः काकी ततः श्याली गोधा गोत्वेन शुद्ध्यति । भर्तुरर्थे तु या वित्तें विद्यमानं न यच्छति ॥ ४१ ॥
其后她转为雌鸦;其后又为豺。再生为蜥蜴,继而因得牛身而获净化。然而那女子,明明财物具足,却不为丈夫之福祉而施与——(其果报亦如经中所宣)。
Verse 42
जीवितं वा वरारोहे विष्ठायां सा भवेत्क्रिमिः । क्रिमियोनिविनिर्मुक्ता काष्ठीला जायते शुभे ॥ ४२ ॥
腰胯婀娜的女子啊,无论在生之时或死后,她都将成为粪秽中的蛆虫;从虫胎得解脱之后,吉祥者啊,她又将转生为一种卑下的生类,名为“卡什提拉”(kāṣṭhīlā)。
Verse 43
मम कौमारभावे तु मत्पितुः काष्ठपाटकः । अग्निप्रज्वालनाथ हि काष्ठं पाटयते चिरम् ॥ ४३ ॥
在我童年时,父亲的劈柴人常为点燃祭祀的圣火而劈开柴薪,并且长久不停地劈着。
Verse 44
सखीभिः सहिता चाहं क्रीडासंसक्तमानसा । काष्ठं पाटयतस्तस्य समीपमगमं तदा ॥ ४४ ॥
我与女伴们同行,心神沉浸于嬉戏之中,那时便走近他,见他正在劈木。
Verse 45
तत्र दृष्टा मया सुभ्रु काष्ठीला दारुनिर्गता । नवनीतनिभं देहं बिभ्राणा चांजनत्विषम् ॥ ४५ ॥
在那里,哦眉目秀美者,我看见迦湿提罗从一段木中显现,身躯柔软如新酥,光泽幽黑如眼药(安阇那)。
Verse 46
कनिष्ठिकांगुलिसमा स्थौल्ये ह्यंगुलिमानिका । तां दृष्ट्वा पतितां भूमौ हंतुं ध्वांक्षः समागतः ॥ ४६ ॥
有一物厚实,约如小指般大小,落在地上。见它躺着,一只乌鸦上前,意欲啄取并夺走。
Verse 47
यावद्गृह्णाति वक्त्रेण काष्ठीलां क्षुधितः स तु । तावन्निवारितः सद्यो मया लोष्टेन तत्क्षणात् ॥ ४७ ॥
正当那饥饿的乌鸦将要用喙叼住迦湿提罗之时,我在那一瞬立刻以土块击之,及时阻止了它。
Verse 48
सा मुक्ता ताडितेनेत्थं वायसेन वरानने । सक्षता तुंडसंस्पृष्टा न च शक्ता पलायितुम् ॥ ४८ ॥
噢,容颜姣好的女子!她被乌鸦如此击打后虽得解脱;然因受伤且被其喙触及,终不能逃离。
Verse 49
ततः सा वेपमाना तु प्राणत्यागमुपागमत् । सिक्ता किंचिज्जलैनैव ततः स्वास्थ्यमुपागता ॥ ४९ ॥
随后她战栗不已,几近舍命。然只被洒上少许清水,便又恢复安康。
Verse 50
तततः सा मानुषीवाचा मामाह वरवर्णिनी । संध्यावलीति संबोध्य सखीमध्यसमास्थिताम् ॥ ५० ॥
继而那位肤色明净的女子以人声对我说道,呼唤我“桑提雅瓦丽(Sandhyāvalī)”,当时她立于同伴之中。
Verse 51
सुमंतुनाम्नो हि मुनेः सर्वज्ञस्य सुताऽभवम् । पूर्वजन्मनि पत्नी च कौंडिन्यस्य शुभानने ॥ ५१ ॥
噢,吉祥美颜者!前生我曾为全知牟尼苏曼图(Sumantu)之女;又在更早的一世,我亦曾为考恩迪尼亚(Kauṇḍinya)之妻。
Verse 52
न्यवसं कान्यकुब्जे तु सुसमृद्धा सुदर्पिता । जनन्या बंधुवर्गस्य पितुरिष्टतमा ह्यहम् ॥ ५२ ॥
我曾居于迦尼亚库布阇(Kānyakubja),富足昌盛,却因自负而傲慢。于父亲前我最为钟爱;在母族亲眷之中,我亦最受偏宠。
Verse 53
पित्रा दत्ता ततश्चाहं कौंडिन्याय महात्मने । कुलीनाय सरूपाय स्त्रीसंगरहिताय च ॥ ५३ ॥
随后,我父亲将我嫁与大心的拘陀尼耶(Kauṇḍinya)——出身高贵,仪容端正,且不贪恋与他女相交之乐。
Verse 54
शयनीयादिकं दत्तं यौतुकं जनकेन मे । श्वशुरेणापि मे दत्तं सुवर्णस्यायुतं पुरा ॥ ५४ ॥
我父亲赐我嫁妆,有卧具等物;而从前,我的公公也曾赐我一“阿由多”——即一万枚金钱。
Verse 55
पितृश्वशूरवित्ताभ्यां परिपूर्णाभवं तदा । गोमहिष्यादिसंयुक्ता धनधान्यसमन्विता ॥ ५५ ॥
那时,我因父亲与公公的财富而衣食无缺;又有牛、野牛等牲畜相随,并具足财宝与丰盈谷粮。
Verse 56
इष्टा श्वशुरयोश्वाहं सौशीन्येन जनस्य च । कालेन पंचतां प्राप्तः श्वशुरो वेदतत्त्ववित् ॥ ५६ ॥
因我行止端雅,我为公婆与众人所爱;时日推移,公公——通达吠陀真义者——归于五大之境(即辞世)。
Verse 57
तं मृतं पतिमादाय श्वश्रूरग्निं विवेश सा । ततो भर्तांजलिं दत्वा पित्रोः श्राद्धमथाकरोत् ॥ ५७ ॥
她抱起亡夫之身,步入婆母所备之火。随后,她以恭敬之心向夫献上合掌之供(añjali),并为诸祖灵(pitṛ)举行施食追荐的 śrāddha 仪轨。
Verse 58
गते मासद्वये देवि भर्ता मे राजमंदिरम् । गतः कौतुकभावेनहृच्छयेन प्रपीडितः ॥ ५८ ॥
噢,女神啊,两个月过去后,我的丈夫怀着好奇之心、又被心中炽烈的渴望所折磨,前往王宫。
Verse 59
तत्र वेश्याः सुरूपाढ्या यौवनेन समन्विताः । प्रविशत्यां नृपगृहे दृष्टास्तेन द्विजन्मना ॥ ५९ ॥
在那里,他看见一群歌伎娼姬,容貌姣美、青春洋溢,正进入国王的宫殿;那位“再生者”(婆罗门)看得分明。
Verse 60
तासां मध्यात्तु द्वे गृह्यवित्तदानेन भूरिणा । स्वगृहे धारयामास क्रीडार्थं दुर्मतिः पतिः ॥ ६० ॥
然而在她们之中,那愚昧的丈夫以大量家财收买了两名女子,把她们留在自己家中,只为取乐嬉戏。
Verse 61
ताभ्यां वित्तमशेषं तु क्षयं नीतं निषेवणात् । वर्षत्रये गते देवि निस्वो जातः पतिर्मम ॥ ६१ ॥
因与那两人沉溺往来,我们的财物尽皆耗尽。三年过去后,噢,女神啊,我的丈夫竟成了赤贫之人。
Verse 62
ततो मां प्रार्थयामास देहि मेऽङ्गविभूषणम् । तन्मया नहि दत्तं तु भर्त्रे व्यसनिने तदा ॥ ६२ ॥
随后他哀求我说:“把你的首饰给我。”但那时我没有交给丈夫,因为他已堕入恶习与不幸之中。
Verse 63
सुभगे सर्वमादाय गताहं मंदिरं पितुः । ततः पितृगृहे वित्तं भृत्यादिकमशेषतः ॥ ६३ ॥
噢有福者,我携带一切前往父亲的家。随后在父家之中,我将所有财物连同仆从等尽皆取走,毫无遗留。
Verse 64
विक्रीय दत्तं वैश्याभ्यां तच्चापि क्षयमागतम् । क्षेत्रधान्यादिकं यच्च सभांडं सपरिच्छदम् ॥ ६४ ॥
凡已售出并交付给两位商人之物,后来若遭损失或败坏——无论是田地、谷粮等,连同器皿与一切附属之具——皆应依此处所宣示之法则而论。
Verse 65
स्वल्पमूल्येन विक्रीयगतो नदनदीपतिम् । नावमारुह्य मे भर्ता विवेशांतर्महोदधेः ॥ ६५ ॥
我的丈夫以微价被卖,遂前往诸河之主——大海。登舟之后,他进入那浩瀚海域的深处。
Verse 66
स गतो दूरमध्वानं पश्यमानोऽद्भुतानि च । शुभे समुद्रजातानि जीवचेष्ठांकितानि च ॥ ६६ ॥
他行旅甚远,目睹诸般奇观——海中所生的吉祥之物,仿佛带着有情众生活动的印记。
Verse 67
प्रभंजनवशं प्राप्ता सा नौका शतयोजनम् । गता विशीर्णतां तत्र मृतास्ते नावमाश्रिताः ॥ ६७ ॥
那舟为狂风所制,行至百由旬,遂在彼处破碎;凡依舟为庇护者,皆尽丧命。
Verse 68
मत्पतिर्दैवयोगेन दीर्घ काष्ठं समाश्रितः । वायुना नीयमानोऽसौ प्राचीनेन स्वकर्मणा ॥ ६८ ॥
因宿命与天意之合,我的夫君攀附在一段长木上;被风所载而漂行,乃为自身往昔业力所驱使。
Verse 69
आससादाचलं देवि रत्नश्रृंगविभूषितम् । बहुनिर्झरणोपेतं बहुपक्षिसमन्वितम् ॥ ६९ ॥
女神啊,他抵达一座群峰如宝石般辉饰的山岳,泉瀑纷然,百鸟充盈其间。
Verse 70
बहुवृक्षैः समाकीर्णं नानापुष्पफलोपगैः । उल्लिखंतं हि शिखरैः खमध्यं स्वात्मनस्त्रिभिः ॥ ७० ॥
山中林木繁盛,花果各异;其三座高峰峻拔,仿佛凭自身的崇高,直欲划破中天。
Verse 71
तं दृष्ट्वा पर्वतं दिव्यं त्यक्त्वा नौकाष्ठमद्भुतम् । आरुरोह मुदायुक्तो वित्ताकांक्षी सुलोचने ॥ ७१ ॥
见到那奇妙而神圣的山岳,他舍弃了那非凡的木筏;心怀欢喜,却又为求财之欲所驱,便攀登而上,哦明眸的女子。
Verse 72
विशश्राम मुहूर्तं तु क्षुत्पिपासासमन्वितः । तत उत्थाय भक्ष्यार्थं वृक्षांस्तत्र व्यलोकयत् ॥ ७२ ॥
他为饥渴所迫,稍作歇息;继而起身,在那里环顾诸树,寻觅可食之物。
Verse 73
सुपक्वास्तत्र मृद्वीका दृष्ट्वा भुक्त्वा मुदान्वितः । शांतिं प्राप्तस्ततोऽपश्यत्सालमेकं सुनिर्मलम् ॥ ७३ ॥
在那里,他看见葡萄熟透;见之便食,心生欢喜。得了安宁之后,他又看见一株娑罗树,独立而极其清净无垢。
Verse 74
घनच्छायं मेघनिभं पंचाशत्पुरुषोच्छ्रयम् । तस्याधस्तात्स सुष्वाप स्वोत्तरीयं प्रसार्य च ॥ ७४ ॥
在那树下——浓荫如云,形似乌云,高达五十人之高——他铺开自己的上衣,躺下入睡。
Verse 75
मोहिन्या निद्रया चैव संप्रघूर्णितलोचनः । तावत्सुप्तोऽतिखिन्नोऽसौ यावत्सूर्योऽस्ततां गतः ॥ ७५ ॥
在迷惑之睡的笼罩下,他双目翻转;那极度疲惫之人一直沉睡,直到太阳西沉落下。
Verse 76
सूर्येऽस्तं समनुप्राप्ते समायाते निशामुखे । अभ्यगाद्राक्षसो घोरो गर्जमानो यथा घनः ॥ ७६ ॥
当太阳落山、夜幕初临之时,一位可怖的罗刹走近,咆哮如雷云。
Verse 77
अंकेनादाय तन्वंगीं सीतामिव दशाननः । शुभां काशीपतेः पुत्रीं नाम्ना रत्नावलीं शुभाम् ॥ ७७ ॥
他把那肢体纤柔的少女抱上膝头——如十首罗波那掳走悉多一般——夺取了迦尸之主的吉祥之女、名为宝鬘(Ratnāvalī)的福德少女。
Verse 78
अधौतपादां सुश्रोणीं सौम्यदिक्छीर्षशायिनीम् । पतिकामा कुमारी सा नाविंदत्सदृशं पतिम् ॥ ७८ ॥
她虽是腰胯娴美的少女,却不洗足,卧时又将头朝向不祥之方;纵然渴望夫君,仍未得相称之配。
Verse 79
सर्वयोषिद्वरा बाला रुदती निद्रयाकुला । पिता तस्याः प्रदाने तु चिंताविष्टो ह्यहर्न्निशम् ॥ ७९ ॥
那位少女——众女之冠——啼哭不止,忧惧缠身,又被睡意所扰;而她的父亲为将女儿出嫁之事忧心忡忡,昼夜不宁。
Verse 80
दीपच्छायाश्रिते तन्वि शयने सा व्यवस्थिता । अटमानेन पापेन दृष्टा सा रूपशालिनी ॥ ८० ॥
纤细的女子啊,她安卧在灯影庇护的床榻上;那游荡的罪人望见了她——那具足姿容之美者。
Verse 81
दीपरत्नैः सुखचिते धारयंती च कंकणे । उभयोर्दश रत्नानि निष्के च दशपंच च ॥ ८१ ॥
她佩戴镶嵌宝石、令人欢悦的手镯;两只手镯各有十颗宝珠,而颈饰(niṣka)上则有十五颗。
Verse 82
सीमंते सप्त रत्नानि केयूरेऽष्टौ च पंच च । एवं रत्नाचितां बालां शातकुम्भसमप्रभाम् ॥ ८२ ॥
她的发缝(sīmanta)上有七颗宝石;臂钏(keyūra)上有八颗又有五颗。如此宝饰满身的少女,光辉如精炼之金。
Verse 83
जहार राजभवनात्तां तदा चारुहासिनीम् । वायुमार्गं समाश्रित्य क्षणात्प्राप्तः स्वमालयम् ॥ ८३ ॥
随后他从王宫带走那位容颜姣好、含笑动人的女子;循风之道而行,顷刻间便抵达自己的住处。
Verse 84
तं पर्वतं स यत्रास्ते पतिर्मेशालमाश्रितः । तत्र तस्य गुहां दृष्ट्वा सुवर्णसदृशप्रभाम् ॥ ८४ ॥
他前往那座山——主所安住之处,并以梅舍罗(Meśāla)为依止;在那里他看见主的洞窟,光辉灿然如黄金。
Verse 85
तद्भयस्यासहा तत्र प्रविवेशास्य पश्यतः । अनेकैर्मणिविन्यासैः संयुक्तां चित्रमंदिराम् ॥ ८५ ॥
她难以承受那份恐惧,便在他注视之下走入其中,进入一座奇妙殿宇,镶饰着无数宝珠的陈设。
Verse 86
नानाद्रव्यसमाकीर्णां शयनासनसंयुताम् । भोजनैः पानपात्रैश्च भक्ष्यभोज्यैरनेकधा ॥ ८६ ॥
其中堆满各类资具,备有床榻与座席;又有饮食、盛饮之器,以及种种点心与佳肴,丰饶充足。
Verse 87
प्रविश्य तत्र शय्यायां मुमोचोत्पललोचनाम् । रुदतीमतिसंत्रस्तां पीनश्रोणिपयोधराम् ॥ ८७ ॥
他进入其中,把那位莲眼女子安置在床榻上;她啼哭不止,惊惧至极,身姿丰盈,腰胯与胸脯皆饱满。
Verse 88
तस्यास्तु रुदितं श्रुत्वा तस्य भार्या हि राक्षसी । आजगाम त्वरायुक्ता यत्रासौ राक्षसः स्थितः ॥ ८८ ॥
听到她的哭泣声,那位罗刹女——他的妻子——急忙赶到那罗刹所停留之处。
Verse 89
तां दृष्ट्वा चारुसर्वांगीं तप्तकांचनसप्रभाम् । पप्रच्छ निजभर्तारं क्रुद्धा निर्भर्त्सती सती ॥ ८९ ॥
见到她——肢体皆美、光辉如炽金——萨蒂愤然带着责难,质问自己的丈夫。
Verse 90
किमर्थमाहृता चेयं जीवंत्यां मयि निर्घृणं । अन्यां समीहसे भार्यां नाहं भार्यां भवामि ते ॥ ९० ॥
“无情之人啊!我尚活着,你为何把这女子带来?你贪求另一个妻子;我不再作你的妻。”
Verse 91
एवं ब्रुवाणां तां भर्ता राक्षसीमसितेक्षणाम् । उवाच राक्षसो हर्षात्स्वां प्रियां चारुलोचनाम् ॥ ९१ ॥
她如此说时,她的丈夫——那罗刹——欢喜地对自己心爱的妻子、那黑眸而秀目的罗刹女说道。
Verse 92
त्वदर्थमाहृतं भक्ष्यं मया कोश्याः शुभानने । दैवोपपादितं द्वारि द्वितीयं मम तिष्ठति ॥ ९२ ॥
“美面者啊,我从库房取来这份食物给你。另有一份,承天意安排,正立在我门前。”
Verse 93
शालवृक्षाश्रितः शेते विप्रश्चैको वरानने । तमानय त्वरायुक्ता येनाहं भक्ष्यमाचरे ॥ ९३ ॥
美貌的女子啊,有一位孤身的婆罗门正倚在娑罗树下安卧。你速速去把他带来,使我得以将他作为食物。
Verse 94
राक्षसस्य वचः श्रुत्वा कुमारी साब्रवीदिदम् । मिथ्या राक्षसि भर्ता ते भाषते त्वद्भयादयम् ॥ ९४ ॥
少女听了罗刹的话,便说道:“罗刹女啊,你的丈夫在说谎;他这样说只是因为惧怕你。”
Verse 95
ज्ञात्वा त्वां जरयोपेतां विरूपामतिजिह्यगाम् । सुप्तां पितृगृहे रात्रौ मां समासाद्य कामतः ॥ ९५ ॥
他明知你已被衰老所困,形容丑陋,舌头过分外伸;却在夜里于你父家、你沉睡之时,因欲念驱使而来接近我。
Verse 96
अनूढां रुदतीं भद्रे भार्यार्थं समुपानयत् । इतीरितमुपाकर्ण्य वचनं राजकन्यया ॥ ९६ ॥
“贤淑的夫人啊,把那未出嫁、仍在哭泣的少女带到这里来,好让她被迎为妻。”听到王女所说的这番话,她便凝神细听。
Verse 97
क्रोधयुक्तातिमात्रं वै बभूव क्षिपती वचः । तस्याश्च रूपमालोक्य सत्यमेवावधारयत् ॥ ९७ ॥
她被极大的愤怒所吞没,抛出尖刻之言;然而他一见她的形貌,便确信这确是实情。
Verse 98
चिंतयामास चाप्येवं भार्यार्थे ह्याहृतेति च । अवश्यं मूर्घ्निं कीलं मे रोषयिष्यति राक्षसः ॥ ९८ ॥
他心中思量道:“确实,她是因我的妻子而被掳去;那罗刹必定震怒,要把钉子钉入我的头顶。”
Verse 99
मास्म सीमंतिनी काचिद्भेवत्सा भुवनत्रये । या सापत्न्येन दुःखेन पीड्यमाना हि जीवति ॥ ९९ ॥
愿三界之中,永无一位尚有幼子在世的女子,因共妻之苦与妒怨而受折磨、勉强度日。
Verse 100
सर्वेषामेव दुःखानां महच्चेदं न संशयः । सामान्यद्रव्यभोगादि निष्ठा चैवापरा भवेत् ॥ १०० ॥
在一切苦难之中,此实为重大之因——毫无疑问:执著于享受寻常财物等;而这般执念又成另一重系缚。
Verse 101
एवं सा बहु संचिंत्य भर्तारं वाक्यमब्रवीत् । मदीया मम भक्ष्यार्थँ त्वयानीता सुलोचना ॥ १०१ ॥
她反复思量良久,便对丈夫说道:“这位明眸的女子是我的——是你为我的食物而带来的。”
Verse 102
तं विप्रमानयिष्यामि भक्ष्यार्थं तव सुव्रत । ततः स राक्षसः प्राह गच्छगच्छेति सत्वरम् ॥ १०२ ॥
“噢,持善誓者,我将把那位婆罗门带来给你作食。”随即那罗刹说道:“去吧,去吧,快些!”
Verse 103
सृक्किणी स्रवतेऽत्यर्थं तस्य भक्षणकाम्यया । ततः सा राक्षसी घोरा श्रुत्वा पतिसमीरितम् ॥ १०३ ॥
她的嘴角因想吞食他而流下大量的口水。那时,那可怕的罗刹女听到了丈夫所说的话,便做出了反应。
Verse 104
निर्जगाम दुरंताशा ददर्श द्विजसत्तमम् । रूपयौवनसंयुक्तं विद्यारत्नविभूषितम् ॥ १०४ ॥
于是,那个欲望难填的女子走出去,看见了那位最优秀的婆罗门,他拥有美貌与青春,并饰以知识的宝珠。
Verse 105
तं दृष्ट्वा मायया भूत्वा सुंदरी षोडशाब्दिका । हृच्छयेन समाविष्टा तदंतिकमुपागमत् ॥ १०५ ॥
看见他后,她施展幻术变成了一位美丽的十六岁少女,心中充满爱欲,走近了他。
Verse 106
अब्रवीत्सा पृथुश्रोणी तं विप्रं प्रीतिसंयुता । कस्त्वं कस्मादिहायतः किमर्थमिह तिष्ठसि ॥ १०६ ॥
那位丰臀的美丽女子充满爱意地对婆罗门说:“你是谁?从哪里来?为何留在此处?”
Verse 107
पृच्छामि पतिकामाहं राक्षसी हृच्छयातुरा । स्वभर्त्राहं परित्यक्ता त्वां पतिं कर्तुमागता ॥ १०७ ॥
我问你是因为我想找个丈夫。我是个被爱欲折磨的罗刹女。被自己的丈夫抛弃后,我来此是为了让你做我的丈夫。
Verse 108
तच्छ्रुत्वा वचनं तस्या भर्ता मे भयसंयुतः । उवाच वचनं प्राज्ञो धैर्यमालंब्य तां शुभे ॥ १०८ ॥
听闻她的话语,我的丈夫虽被恐惧所攫,仍开口答复;那位智者执持勇气,对她说道:“噢,吉祥者。”
Verse 109
रक्षोमानुषसंयोगः कथं राक्षसि संभवेत् । मानुषास्तु स्मृता भक्ष्या राक्षसानां न संशयः ॥ १०९ ॥
噢,罗刹女!罗刹与人类女子之间怎会有结合?人类自古被视为罗刹的食物——此事毫无疑问。
Verse 110
तच्छ्रुत्वा वचनं सा तु पुनस्तं प्राह सादरम् । असंभाव्यं च जगति संभवेद्दैवयोगतः ॥ ११० ॥
听了那番话,她又恭敬地对他说:“即便世间看似不可能之事,也能因天命(daiva)的会合而成就。”
Verse 111
पुराणे श्रूयते ह्येतद्भविष्यं भारते स्थितम् । हिडंबा राक्षसी विप्र भीमभार्या भविष्यति ॥ १११ ॥
确实,在诸《往世书》中听闻此事,乃将发生于婆罗多(Bhārata)之未来:噢婆罗门,罗刹女希檀芭(Hiḍambā)将成为毗摩(Bhīma)之妻。
Verse 112
मानुषोत्पादितः पुत्रो भविष्यति घटोत्कचः । अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति ॥ ११२ ॥
由人类女子所生之子将名为伽托乌迦遮(Ghaṭotkaca)。他将对一切兵刃无可伤害,唯有因“沙克蒂”(Śakti)神圣之枪而得其死。
Verse 113
तस्माद्विषादं मा विप्रकुरु त्वं दैवयोगतः । भार्या तवाहं संजाता दव हि बलवत्तरम् ॥ ११३ ॥
因此,婆罗门啊,不要悲伤;这是命运的结合所致。正是由于命运,我才成为你的妻子——因为命运确实是更强大的力量。
Verse 114
मर्त्यलोकं गते शक्त्रे वैरोचनिनिरीक्षणे । तदंतरं समासाद्य भर्ता मे घोरराक्षसः ॥ ११४ ॥
当帝释天(Śakra)前往凡间观察毗卢遮那之女(Vairocanī)时,就在那之后不久,我的丈夫——一个可怕的罗刹(Rākṣasa)——来到了我面前。
Verse 115
तद्गृहाच्छक्तिमहरद्दीप्तामग्रिशिखामिव । सेयं समाश्रिता चात्र शालवृक्षे तु वासवी ॥ ११५ ॥
她从那所房子里夺取了那股力量(Shakti),它像火舌一样熊熊燃烧;那股力量如今庇护于此,在这个地方,在一棵沙罗树(Śāla tree)上——噢,瓦萨维(Vāsavī)。
Verse 116
अहत्वैकं द्विजश्रेष्ठ नगच्छति पुरंदरम् । यद्वधाय प्रक्षिपेत्तां सोऽमरोऽपि विनश्यति ॥ ११६ ॥
噢,最优秀的婆罗门啊,如果不杀死哪怕一个(这样的存在),就无法到达普兰达拉(Purandara,即帝释天)那里。但是,如果有人将那个存在扔出去被杀,即使那个人——哪怕是神——也会灭亡。
Verse 117
साहमारुह्य शालाग्रं शक्तिमानीय भास्वराम् । त्वत्करे संप्रदास्यामि भर्तुर्निधनकाम्यया ॥ ११७ ॥
“我将亲自爬上大厅的顶端,取下那把闪耀的长矛,并把它交到你的手中——以此以此期盼我丈夫的死亡。”
Verse 118
यदि त्वमनया शक्त्या न हिंससि निशाचरम् । खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः ॥ ११८ ॥
如果你不以此神力击倒这夜行罗刹,那恶徒无疑将吞噬你我二人。
Verse 119
तव शत्रुर्महानेष ममापि च परंतप । येनाहृता कुमारीह भार्यार्थं मंदबुद्धिना ॥ ११९ ॥
歼敌者啊,此人是你我之大敌,正是这愚钝之徒为了娶妻而将那位少女掳掠至此。
Verse 120
सपत्नभावो जनितो मम भर्त्रा दुरात्मना । व्यापादितेऽस्मिन्नुभयोः क्रीडनं संभविष्यति ॥ १२० ॥
我那邪恶的丈夫挑起了妻妾间的争斗。若此人被杀,她们二人便能自在享乐,安稳度日。
Verse 121
यद्यन्यथा वदेर्वाक्यं त्वामहं रतिवर्द्धन । तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी ॥ १२१ ॥
罗底伐弹那啊,若我对你所言不实,违背真心,愿我无法分享那以此意图所行圣举之功德。
Verse 122
या गतिर्ब्रह्महत्यायां कुत्सिता प्राप्यते नरैः । तां गतिं हि प्रपद्येऽहं यद्येतदनृतं भवेत् ॥ १२२ ॥
若我所言虚假,愿我堕入那杀害婆罗门者所受的恶报深渊之中。
Verse 123
मद्यं हि पिबतो ब्रह्मन् ब्राह्मणस्य दुरात्मनः । या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम् ॥ १२३ ॥
婆罗门啊,愿我也遭受那为心恶而饮醉酒之婆罗门所规定的可怖归宿。
Verse 124
गुरुदारप्रसक्तस्य जतोः पापनिषेविणः । या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम् ॥ १२४ ॥
二生中最尊者啊,若我所言为虚,愿我承受那沉溺师妻、习于作恶之人的同等报应。
Verse 125
स्वर्णन्यासापहरणे मेदिनीहरणे च या । आत्मनो हनने या हि विहिता मुनिभिर्द्विज ॥ १२५ ॥
二生者啊,诸牟尼为盗取托付之金、侵夺土地,乃至自戕所制定的同一赎罪法,应当一并施行。
Verse 126
गतिस्तामनुगच्छामि यद्येतदनृतं वदे । पंचम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे ॥ १२६ ॥
若我此言不实,愿我亦随之受同等归宿——如在月相第五日(Pañcamī)与第八日(Aṣṭamī)食肉所招之罪。
Verse 127
स्त्रीसंगमे तरुच्छेदे यत्पापं शशिनः क्षये । यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत् ॥ १२७ ॥
凡因与女子在不当之时交合、砍伐树木、于月亏之际行事、食用他人残余之酥油(ghee)、以及白昼行淫而生之罪——皆在此被举为相当之恶业。
Verse 128
वैश्वदेवमकर्तुश्च गृहिणो हि द्विजस्य यत् । भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात् ॥ १२८ ॥
对于再生族的居士,不行毗湿瓦提婆(Vaiśvadeva)供献;拒绝施舍给行乞的出家者;以及寡妇一日两食——皆被宣说为可责之行。
Verse 129
तैलं भोक्तुश्च संक्रांतौ गोभिस्तीर्थं च गच्छतः । तथा मृदमनुद्धृत्य स्नातुः परजलाशये ॥ १२९ ॥
在转节日(Saṅkrānti)食用油者,与牛同往圣地渡口(tīrtha)者,以及未先求允/未取净土而在他人池塘沐浴者——皆被视为不当之行,招致仪轨之过。
Verse 130
निषिद्धवृक्षजनितं दंतकाष्ठं च खादतः । गामसेवयतो बद्ध्वा पाखंडपथगामिनः ॥ १३० ॥
以禁树所生之齿木(dantakāṣṭha)洁齿者,以及违背法度而与母牛行淫者——当被缚束,并被视为行走于异端欺诳之道(pākhaṇḍa)的人。
Verse 131
पितृदेवार्चनं कर्तुः काष्ठग्रावस्थितस्य यत् । गोहीनां महिषीं धर्तुर्भिन्नकांस्ये च भुंजतः ॥ १३१ ॥
站在木或石上而行祭祀者所作的祖灵(Pitṛ)与诸天(Deva)供奉;在无牛之处畜养母水牛者;以及以裂纹青铜器进食者——皆被宣说为不当,或无有果报。
Verse 132
अधौतभिन्नपारक्यवस्त्रसंवीतकर्मिणः । नग्रस्त्रीप्रेक्षणं कर्तुरभक्ष्यस्य च भोजिनः ॥ १३२ ॥
以未洗之衣、破裂之衣或他人之衣而行仪式者;窥视裸女者;行不当行之事者;食禁食者——皆被列为仪轨中不净的越法之人。
Verse 133
कथायां श्रीहरेर्विघ्नं कर्तुर्यत्पातकं द्विज । तेन पापेन लिप्येऽहं यदि वच्मि तवानृतम् ॥ १३३ ॥
噢,二次生者,凡阻碍圣洁的“室利·哈利”事迹讲述之人所招致的罪业——若我对你说出任何虚妄,我也必被同一罪业所染。
Verse 134
उक्तान्येतानि पापानि यान्यनुक्तान्यपि द्विज । सर्वेषां भागिनी चाहं यद्येतदनृतं वदे ॥ १३४ ॥
噢,二次生者,这些罪业已被陈述,乃至未曾陈述的也在其中。若我所言为虚妄,愿我亦分担这一切罪业。
Verse 135
एवं संबोधितो देवि भर्ता मे पापया तया । तथेति निश्चयं चक्रे भवितव्येन मोहितः ॥ १३५ ॥
噢,女神啊,被那罪恶的女子如此劝说后,我的丈夫——为必然将至之命运之力所迷惑——下定决心,说道:“就这样吧。”
Verse 136
निर्द्रव्यो व्ययसनासक्तो मद्वाक्यकलुषीकृतः । उवाच राक्षसीं वाक्यं सर्वंसिद्धिप्रदायकम् ॥ १३६ ॥
他身无财物,沉溺于灾厄与恶习,又被我的言语所玷污,便对那罗刹女说出一句被称为能赐予一切成就的话。
Verse 137
शीघ्रमानय तां शक्तिं करोमि वचनं तव । सर्वमेतत्प्रदेयं हि त्वया मे राक्षसे हते ॥ १३७ ॥
“快把那神圣的śakti(神力之兵器)带来;我将遵行你的命令。确实,这一切都应赐予我——因为我的魔众已被你所杀。”
Verse 138
द्रव्याशया प्रविष्टोऽहं सागरं तिमिसंकुलम् । तच्छ्रुत्वा राक्षसी शक्तिं समानीय नगस्थिताम् ॥ १३८ ॥
因贪求财物,我踏入那黑暗密布的海洋。她闻此事,便召来一股如罗刹女般的力量,原居于山上。
Verse 139
ददौ मद्भर्तृसिद्ध्यर्थं विमुंचंतीं महार्चिषम् । एतस्मिन्नेव काले तु राक्षसः काममोहितः ॥ १३९ ॥
她献上那宏大而光辉的供奉,并将其放出,为成就丈夫之事。就在此时,一名被欲望迷惑的罗刹前来行动。
Verse 140
गमनायोद्यतः कन्यां सा भीता वाक्यमब्रवीत् । कुमारीसेवने रक्षो महापापं विधीयते ॥ १४० ॥
当他正要走向那少女时,她惊惧地说道:“罗刹啊,玷污处女将招致大罪。”
Verse 141
छलेनाहं हृता काश्याः सुप्ता पितृगृहात्वया । तव दोषो न चेहास्ति भवितव्यं ममेदृशम् ॥ १४१ ॥
你以诡计在我熟睡之时,从父家将我自迦尸掳走。然而此处并非你的过错;我命当如此,注定要经历这般。
Verse 142
गुहामध्यगतायास्तुको मे त्राता भविष्यति । विधियोगाद्भवेद्भर्ता विधियोगाद्भवेत्प्रिया ॥ १४२ ॥
当我困在洞窟深处时,谁将护佑于我?凭借命运的安排得以获得丈夫,也凭同一命运得以获得所爱之人。
Verse 143
भवेद्विधिवशाद्विद्या गृहं सौख्यं धनं कुलम् । विधिना प्रेर्यमाणस्तु जनः सर्वत्र गच्छति ॥ १४३ ॥
凭借命定之力(vidhi),人得学识、居所、安乐、财富与家族血脉。确然,众生被此命定所驱使,便随之在各处行走往来。
Verse 144
अवश्यं भविता भर्ता त्वमेव रजनीचर । विधइना विहिते मार्गे किं करिष्यति पंडितः ॥ १४४ ॥
必定唯有你将成为夫君,噢夜行者。既然道路已由命定所安排,即便智者又能如何作为?
Verse 145
तस्मादानयत विप्रं शालवृक्षाश्रित त्विह । घृतं जलं कुशानग्निं विवाहं विधिना कुरु ॥ १४५ ॥
因此,把那位依止娑罗树而住的婆罗门带到此处。备好酥油、水、库沙草与圣火,依正法仪轨完成婚礼。
Verse 146
विनापि दर्भतोयाग्नीन्न्यथोक्तविधिमतरा । ब्राह्मणस्यैव वाक्येन विवाहः सफलो भवेत् ॥ १४६ ॥
即便没有达婆草(库沙草)、水与祭火,即便所述仪轨有所欠缺,婚姻亦能因婆罗门权威之言而得圆满成就。
Verse 147
न हतो यदि विप्रस्तु भार्यया तव राक्षस । वृत्ते होमस्य कार्ये तु तं भवान् भक्षयिष्यति ॥ १४७ ॥
“噢罗刹,若那位婆罗门未被你妻所杀,那么当行护摩(homa)之时,你自己将把他吞食。”
Verse 148
एवमुक्ते तु वचने तया वै राजकन्यया । विश्वस्तमानसो दर्पान्निर्जगाम स राक्षसः ॥ १४८ ॥
公主说完这些话后,那罗刹——心神虽已安定,却仍为傲慢所驱——便走出离去。
Verse 149
सत्वरं हृच्छयाविष्टस्तमानेतुं बहिः स्थितः ॥ १४९ ॥
他被心痛所侵,急忙走到外面站着,意欲把那人带入其中。
Verse 150
तस्य निर्गच्छतो देवि क्षुतमासीत्स्वयं किल । सव्यं चाप्यस्फुरन्नेत्रं स्ववस्त्रं स्खलितं तथा ॥ १५० ॥
女神啊,当他正要出发时,据说他忽然自发打了个喷嚏;左眼也跳动,连自己的衣裳也滑落——如此种种凶兆显现。
Verse 151
अनाहृत्य तु तत्सर्वं निर्गतोऽसौ दरीमुखात् । बिभ्राणां मानुषं रूपं स्वामपश्यन्नितंबिनीम् ॥ १५१ ॥
然而他并未带走任何东西,便从洞口走出;继而化作人形,看见了自己的妻子——那位腰胯纤细的女子。
Verse 152
घटयंतीं तु संबंधं भार्याभर्तृसमुद्भवम् । परित्यजामि त्वां पापं राक्षसं क्रूरकर्मिणम् ॥ १५२ ॥
你这妄图强行编造夫妻所生之系缚者——我弃绝你!噫,罪人啊,行事残酷的罗刹!
Verse 153
मानुषीप्रमदासक्तं मच्छरीरस्य दूषकम् । तच्छ्रुत्वा दारुणं वाक्यं भार्यया समुदीरितम् । ईर्ष्याकोपसमायुक्तस्त्वभ्यधावन्निशाचरः ॥ १५३ ॥
听到妻子说出那残酷之语:“你迷恋人间女子,玷污了我的身躯。”那夜行者被嫉妒与怒火所缠,猛然冲上前去。
Verse 154
उत्क्षिप्य बाहू प्रविदार्य वक्त्रं संप्रस्थितो भक्षयितुं स चोभौ । कालेन वेगात्पवनो यथैव समुच्चरन्वाक्यमनर्थयुक्तम् ॥ १५४ ॥
他高举双臂,张口大裂,猛冲而来欲吞噬二人,并呼喊着荒诞无义之语——如同被时劫之力驱使的狂风。
Verse 155
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नाम सप्तविंशोऽध्यायः ॥ २७ ॥
至此,尊贵《大那罗陀往世书》后分(Uttara-bhāga)中,摩希尼事迹里的第二十七章——《迦湿提罗传》——圆满结束。
Sandhyāvalī frames Ekādaśī as Hari’s own sacred day where eating becomes a dharma-violation that undermines vrata-kalpa, royal conduct, and satya; she therefore redirects Mohinī toward alternative boons so the king’s vow remains intact.
It operates as an upākhyāna (embedded exemplum) that concretizes karmaphala: domestic ethical failures—especially withholding support for a husband’s welfare and acting from pride/greed—are shown to generate prolonged suffering across hells and rebirths, reinforcing the chapter’s vrata-and-satya ethic.
Mohinī asserts that horoscope/planets are secondary to the bhāva (state of mind) at conception; the child is born bearing that disposition, which then shapes character traits like generosity, modesty, affection, and dharma-orientation.