
善生童子(Sanatkumāra)向梵天讲授以太阳神苏利耶(Śeṣoditya)为核心、并推广至月神苏摩(Soma)与诸行星神(Graha)的“三相法”(tri-rūpa)仪轨。章中先列明真言之传承要素(ṛṣi/chandas/devatā):太阳明咒为 Devabhāga 仙人、Gāyatrī 韵律、主尊 Ravi;继而为月咒(Bhṛgu/Paṅkti/Soma)与火星咒(Virūpākṣa/Gāyatrī/Kuja)。随后开示六支安置(ṣaḍaṅga-nyāsa)、坛城安置(maṇḍala-nyāsa:Soma–Sūrya–Agni)、遍满诵持、于心莲观想 Ravi、大量持诵并以十分之一作火供(daśāṁśa homa)。又详述圣座(pīṭha)供养、外护轮(āvaraṇa)诸神与诸力(śakti)、依方位与隅位安置,以及每日献水(arghya)这一简要而有力的修持。后半讲每月苏摩献水仪与完整的火星星期二誓戒(Bhauma-vrata),为求子嗣与解债,采用红色法具、二十一重布置、赞颂、绕行与布施供养(dakṣiṇā)。末尾并略示水星、木星、金星(Budha、Guru、Śukra)之真言供修纲要,以及密传与受持资格之规范。
Verse 1
सनत्कुमार उवाच । अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः । मन्त्राणां यत्समाराध्य सर्वेष्टं प्राप्नुयाद्भुवि ॥ १ ॥
萨那特库玛罗说道:如今我将向你宣说,噢莲华之主,关于“三重形相(Trayī-mūrti)”的仪轨。若依诸咒如法奉修,便能于世间获得一切所愿。
Verse 2
तारो रेचिकया युक्तो मेधानेत्रयुता रतिः । ससर्गा वामकर्णोढ्यो भृगुर्वढ्यासनो मरुत् ॥ २ ॥
“塔罗(Tāra)”与“勒契迦(Recikā)”相合;“罗底(Rati)”具“美陀(Medhā)”与“内怛罗(Netra)”。“萨萨尔迦(Sasargā)”具“左耳”之相;“婆利古(Bhṛgu)”安坐于“瓦底雅(Vaḍhyā)”;“摩鲁特(Marut)”亦在此序列中被提及。
Verse 3
शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः । देवभागो मुनिश्छन्दो गायत्री देवता रविः ॥ ३ ॥
祂被宣说为“舍舍欧底提耶(Śeṣoditya)”,金辉灿然,赐予世间受用与解脱(mukti)二者。其圣见者(ṛṣi)为天分者德瓦婆伽(Devabhāga),韵律为伽雅特丽(Gāyatrī),主宰神为罗毗(Ravi,太阳)。
Verse 4
माया बीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः । सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम् ॥ ४ ॥
“摩耶(Māyā)”被宣为“种子”;“罗摩(Ramā,即吉祥天女Lakṣmī)”为“圣力(Śakti)”;而祂统摄可见与不可见的一切。其后,“心(hṛdaya)”说归于“真实者(Satya)”,“首(śiras)”则宣为梵天(Brahmā)所应。
Verse 5
विष्णवे तु शिखावर्म रुद्राय परिकीर्तितम् । नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम् ॥ ५ ॥
“髻甲(śikhā-varma)”当归于毗湿奴(Viṣṇu),亦宣为鲁陀罗(Rudra)所应。“眼(netra)”应安置于前方;其后,“神箭/法器(astra)”则宣为舍尔瓦(Śarva)所摄。
Verse 6
नेत्रो ज्वाला मनो हुं फट्स्वाहांता मनवो गणाः । पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वांतः स्थैः षडंगकम् ॥ ६ ॥
“Netra”“Jvāl┓Mano”,以及以“huṃ”“phaṭ”“svāhā”作结的诸真言,皆为真言之群。复次,当以吉祥天女拉克什米(Lakṣmī)之六字种子“Hrīṃ”(ṣaḍarṇa),行六支辅行(ṣaḍaṅga),并将其内安于自身之中。
Verse 7
शिष्टारौजठरे पृष्टे तयोर्ङेंताख्यया न्यसेत् । आदित्यं च रविं पश्चाद्भानुं भास्करमेव च ॥ ७ ॥
于背部下腹之处(jaṭhara),当为彼二处作安置(nyāsa),置入名为“ṅeṃtā”的句式。其后,当安置太阳之名:阿底提耶(Āditya)、罗毗(Ravi),继而婆奴(Bhānu),以及婆斯迦罗(Bhāskara)。
Verse 8
सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः । सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङे हृदयोंऽतिमान् ॥ ८ ॥
行者当作安置(nyāsa):将苏利耶(Sūrya,日神)安于头顶、口、心、隐秘处与双足;并复安置以“sadya…”起首之五音(五咒),连同短元音及其余诸音,依次圆满心部安置(hṛdaya-nyāsa)。
Verse 9
ह्रीं रमामध्यगामष्टौ वर्णांस्तारादिकान्न्यसेत् । मूर्द्धास्यकंठहृत्कुक्षिनाभिलिंगगुदेषु च ॥ ९ ॥
以安置(nyāsa)将八个音节安立:以塔罗(Tārā,即 oṁ)为首,中含罗摩(Ramā,室利/拉克希米);分别安于头、口、喉、心、腹、脐、生殖器与肛门。
Verse 10
सचंद्रस्वरपूर्वं तु ङेतं शीतांशुमण्डलम् । मूर्द्धादिकंठपर्यंतं न्यसेञ्चांद्रिमनुस्प्ररन् ॥ १० ॥
随后,先摄取月音(candra)之音位,以安置(nyāsa)将清凉月轮自头顶安至喉间,并于内心忆念月华之光。
Verse 11
स्पर्शान्सेंदून्समुञ्चार्य ङेंतं भास्करमण्डलम् । न्यसेत्कंठादिनाभ्यंतं ध्यायन्प्रद्योतनं हृदि ॥ ११ ॥
既正音诵出触类辅音(sparśa)并合诸元音,当以安置(nyāsa)将光耀的日轮(bhāskara-maṇḍala)自喉安至脐域,并于心中观想其照明之辉。
Verse 12
यादीन्सचंद्रानुञ्चार्य ङेतं च वह्निमंडलम् । नाभ्यादिपादपर्यंतं न्यसेद्वह्निमनुस्मरन् ॥ १२ ॥
诵出以“ya”起首之诸音并合月(candra)之附加,又诵“ṅe”之音,当观想阿耆尼之火轮(vahni-maṇḍala),并以安置(nyāsa)自脐而下至足,恒常忆念火之本性。
Verse 13
प्रोक्तोऽयं मण्डलन्यासो महातेजोविधायकः । आदिठांतार्णपूर्वं ङेंनमोंतं सोममण्डलम् ॥ १३ ॥
如是已宣说此圣坛图安置法(maṇḍala-nyāsa),能赐予广大灵性光辉。应从最初的种子音开始,依所示音节次第为前导,安置苏摩曼荼罗,并以以“namo”作结的真言圆满。
Verse 14
मूर्द्धादिहृदयांतं तु विन्यसेत्साधकोत्तमः । डकारादिक्षकारांतवर्णाद्यं वह्निमण्डलम् ॥ १४ ॥
至上行者当自头顶至心间行安置(nyāsa)。火轮(Vahni-maṇḍala)应以“ḍa”起首,至“kṣa”而终,依诸音节次第安放。
Verse 15
ङेंतं हृदादिपादान्तं विन्यसेत्सुसमाहितः । अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः ॥ १५ ॥
以圆满摄心,当自心间起,安置(真言音节)直至足端。此安置法具阿耆尼与苏摩之性,被宣说为能赐一切成就。
Verse 16
न्यसेत्सेंदून्मातृकार्णाञ्जयांतपुरुषात्मने । नमोंते व्यापकं मंत्री हंस्नयासोऽयमीरितः ॥ १६ ॥
当以种子音(bīja)与母音字母(Mātṛkā)为安置,奉于内在之我——胜者之人(Jayanta-Puruṣa)。随后持咒者当诵:“礼敬于汝,遍一切者。”此即所称“哈ṃ萨安置法”(Haṃsa-nyāsa)。
Verse 17
अष्टावष्टौ स्वराञ्शेषान्पंचपञ्च मितान्पुनः । उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान् ॥ १७ ॥
继而安置其余诸元音——八个又八个——再安置五与五的定量诸组。既以阿底提耶(太阳神)为首而布列,亦当依次安置九曜(九位行星神,Graha)。
Verse 18
आधारलिंगयोर्नाभौ हृदि कंठे मुखांतरे । भ्रूमध्ये च तथा भाले ब्रह्मरंघ्रे न्यसेत्क्रमात् ॥ १८ ॥
应依次行安置(nyāsa):先于脐轮(在ādhāra与liṅga之间),继而于心莲、喉间、口内、眉间、额上,最后安置于梵孔(brahma-randhra,顶门)。
Verse 19
हंसाख्यमग्नीषोमाख्यं मंडलत्रयमेव च । पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत् ॥ १९ ॥
应先安立三种曼荼罗——名为“天鹅(Haṃsa)”与“火月(Agnīṣoma)”等——再复行三重安置(nyāsa);其后以根本真言(mūla-mantra)修持遍满安置/诵持(vyāpaka)。
Verse 20
एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं हृदबुजे । दानाभयाब्जयुगलं धारयंतं करै रविम् ॥ २० ॥
如是依仪轨完成安置(nyāsa)后,应于心莲中观想苏利耶(Sūrya)——观想罗毗(Ravi),以双手持一对莲华徽记,施与布施之恩(dāna)与无畏(abhaya)。
Verse 21
कुंडलां गदकेयूरहारिणं च त्रयीतनुम् । ध्यात्वैवं प्रजपेन्मंत्री वसुलक्षं दशांशतः ॥ २१ ॥
如是观想主尊——佩耳环,执钺槌(gādā),臂戴臂钏并挂项链,其身即三吠陀之体——持咒者当诵持此咒八十万遍,并依法以其十分之一作供献(daśāṁśa)。
Verse 22
रक्तांभोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ । प्रथमं पीठयजने धर्मादीनां स्थले यजेत् ॥ २२ ॥
应依法以红莲或芝麻投入火中作供(护摩)。在坛座供奉(pīṭha-yajana)中,应先于法(Dharma)等随从诸神之座处行礼供养。
Verse 23
प्रभूतं विमलं शारं समाराध्यमनंतरम् । परमादिमुखं मध्ये खबिंबांतं प्रपूजयेत् ॥ २३ ॥
随后应礼拜那丰盈、无垢、精要之本原,能即刻亲近而奉事;其至上、太初之圣面安住于中央,延展直至天穹之圆轮(苍穹天球)。
Verse 24
सोमाग्निमंडलं पूज्यरविमंडलमर्चयेत् । दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ॥ २४ ॥
礼拜月与火之曼荼罗之后,应再礼拜日之曼荼罗。(诸神圣威力名为)Dīptā、Sūkṣmā、Jayā、Bhadrā、Vibhūti,以及同样的 Vimalā。
Verse 25
अमोघा विद्युता सर्वतोमुखी पीठशक्तयः । ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नींदुसंयुताः ॥ २५ ॥
诸座力(Piṭha-Śakti)名为 Amoghā、Vidyutā 与 Sarvatomukhī。她们由三短音节之诵出而生/而被指示,并与 klīṃ、hīṃ、nā 诸音节相合,兼具 vahni(火)与 indu(月)之要素。
Verse 26
स्वरा बीजानि शक्तीनां तदाद्याः पूजयेत्तुः ताः । ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ ॥ २६ ॥
诸音调(svara)乃诸咒力(śakti)之种子音节(bīja);故应于最初即加礼拜。它们体现梵天、毗湿奴与湿婆之体性;并由它们,此一切显现——连同所余之分(śeṣa)——亦得维持。
Verse 27
एवं चान्ते योग पीठात्मने हृदयमीरयेत् । ताराद्योऽयं पीठमंत्रस्त्वनेनासनमादिशेत् ॥ २७ ॥
如是,于终了之时,应诵出(启请)奉献于瑜伽座自性(Yoga-Pīṭha Self)之心真言。此乃以“tārā”开首之座真言;凭此应制定/安立仪式之座(āsana)。
Verse 28
ध्रुवो वियद्बिंदुयुतं खं खखोल्काय दृन्मनुः । नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः ॥ २८ ॥
具慧的修行者应于心中观想九音真言之圣像(mūrti):以音节“kha”与“viyat”(虚空、天界)及点(bindu)相合,令其在观修中安住不动(dhruva);并依仪轨施行“kha-kholkā”之真言构成与dṛn真言之法。
Verse 29
साक्षिणं जगतां तस्यामावाह्य विधिवद्यजेत् । ततः षडंगामाराध्य द्विक्ष्वष्टांगं प्रपूजयेत् ॥ २९ ॥
当于彼处(坛/图式)依法迎请诸世界之见证者,依正仪而礼拜。继而恭敬修行六支仪轨(ṣaḍaṅga),然后在两处(两组)如法供奉八支之相(aṣṭāṅga)。
Verse 30
संपूज्य मध्ये वादित्यं रविं भानुं च भास्करम् । सूर्यं दिशासु सद्यादिपंच ह्रस्वादिकानिमान् ॥ ३० ॥
于中央如法供奉阿底提耶(Āditya,日神)——以Ravi、Bhānu、Bhāskara与Sūrya之名——之后,当于诸方安置以“sad-”起首之五类诸组,并安置诸短元音(hrasva)及其相关形态。
Verse 31
स्वस्वनामादिवर्णाद्याः शक्तयोऽर्च्या विदिक्षु च । उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत् ॥ ३१ ॥
于诸隅方(中间方位,vidik)亦当礼敬诸Śakti,依其各自名号之首音而起。随后供奉Uṣā(曙光)、Prajñā(智慧)、Prabhā(光辉)与Sandhyā(暮昏);继而依次礼拜梵天(Brahmā)及其余诸天。
Verse 32
पुरतोऽरुणमभ्यर्च्य सोमं ज्ञं च गुरुं भृगुम् । दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम् ॥ ३२ ॥
先于前方礼拜阿鲁那(Aruṇa);继而供奉苏摩(Soma,月神)、Jña(水星)、古鲁(Guru,木星)与婆利古(Bhṛgu,金星)。随后,既已按诸方位对其余诸神行所定供献,亦当礼敬Bhūmija(火星)与Śanaiścara(土星)。
Verse 33
राहुं केतुं च कोणेषु पूर्ववत्परिपूजयेत् । इंद्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः ॥ ३३ ॥
同样地,应如先前所说,在诸方隅角礼拜罗睺与计都;智者亦当依前法,礼敬因陀罗等诸天(执金刚杵等诸标志者)。
Verse 34
इत्थं संपूज्य विधिवद्भास्करं भक्तवत्सलम् । समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने ॥ ३४ ॥
如法供奉亲爱信众的婆斯迦罗(太阳)之后,当摄心专注,日日向昼主底涅舍献上阿尔伽亚(恭敬的净水供献)。
Verse 35
प्राणानायम्य सद्भूमौ न्यासान्कृत्वा पुरोदितान् । विधाय मंडलं भानोः पीठं पूर्ववदर्चयेत् ॥ ३५ ॥
在清净之地调息行持(般若那耶摩),并作先前所说诸安置法(nyāsa)后,当绘制太阳曼荼罗,继而如前法礼拜婆奴之座(pīṭha)。
Verse 36
ध्यात्वार्कं प्रयजेद्द्विव्यैर्मानसैरुपचारकैः । पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम् ॥ ३६ ॥
观想阿尔迦(太阳)之后,当以天妙之心供(意念供养)而礼拜之;并应备一只华美铜器,可盛一普拉斯塔之水。
Verse 37
निधाय मंडले रक्तचंदनादिविनिर्मिते । विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः ॥ ३७ ॥
将其安置于以赤檀等制成的曼荼罗之中,口诵母神字母(Mātr̥kā)之根本种子音,按逆序而诵,同时以水注满。
Verse 38
सूर्यबिंबविनिर्गच्छत्सुधांबुधिविभावितैः । कुंकुमं रोजनां राजीं चंदनं रक्तचंदनम् ॥ ३८ ॥
诸香之物——仿佛被从日轮涌出的甘露大海所加持——包括:藏红花、罗遮那(rocanā)、芬芳的彩粉与条纹、檀香以及红檀香。
Verse 39
करवीरं जपाशालिकुशश्यामाकतंडुलान् । तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे ॥ ३९ ॥
当于吉祥之水中投入:夹竹桃(karavīra)、朱槿花(japā)、稻米、库沙草(kuśa)、黍类śyāmāka之粒、芝麻、竹与大麦。
Verse 40
सांगं सावरणं तत्रावाह्यार्कं पूर्ववद्यजेत् । गंधपुष्पधूपदीपनैवेद्याद्यै र्विधानतः ॥ ४० ॥
于彼处,先迎请(āvāhya)日神阿尔迦(Arka),当如前法礼拜——与其诸分与随从(sāṅga),并与周匝眷属围绕(sāvaraṇa)同受供养——依仪轨以香、花、熏香、灯明、食供(naivedya)等而行。
Verse 41
प्राणायामत्रयं कृत्वा कुर्यादंगानि पूर्ववत् । सुधाबीजं चंदनेन दक्षे करतले लिखेत् ॥ ४१ ॥
行三次调息(prāṇāyāma)之后,当如前作诸支分仪(aṅga-nyāsa等);并以檀香膏在右手掌上书写“甘露种子音”(sudhā-bīja)。
Verse 42
तेनाच्छाद्यार्ध्यपात्रं च जपेन्मनुमनन्यधीः । अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम् ॥ ४२ ॥
随后,以彼物覆于阿尔伽供器(arghya-pātra)之上;行者当一心不二而诵持真言。诵满一百零八遍后,应再如法供奉婆斯迦罗(Bhāskara,日神)。
Verse 43
हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः । आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः ॥ ४३ ॥
双手捧持器皿,跪膝俯至地面;继而将器皿举至头顶发际之上,于日轮将被遮蔽之时(即日食之际),以净布行遮覆之仪。
Verse 44
दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः । साधकेन स्वकैक्येन मूलमंत्रं धिया जपन् ॥ ४४ ॥
随后,定住目光,摄持其心;再度礼敬日神之后,修行者安住于与自我(我性)内在合一之境,当以专注之慧,于心中默诵根本真言。
Verse 45
अर्ध्यं दद्याद्रविं ध्यायव्रक्तचंदनमंडले । दत्त्वा पुष्पांजलिं भूयो जपेदष्टोत्तरं शतम् ॥ ४५ ॥
观想罗毗(日神)安住于红檀香膏所成之圆坛中,奉献阿尔伽(敬水供)。继而再献一把花供,并诵念真言一百零八遍。
Verse 46
नित्यं वा तद्विनेऽप्येवमर्ध्यं दद्याद्विवस्वते । तेन तुष्टो दिनेशोऽस्मै दद्याद्वित्तं यशः सुखम् ॥ ४६ ॥
或者,即便不具足彼等全仪,也当日日如法向毗婆斯梵(日神)奉献阿尔伽敬水。日之主因此欢喜,赐予其财富、名声与安乐。
Verse 47
पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति । अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम् ॥ ४७ ॥
此阿尔伽供养被称为能赐子与孙,并成就所愿一切;亦能增长寿命与健康。
Verse 48
धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् । तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम् ॥ ४८ ॥
它赐予财富与五谷、牲畜与安泰;田地、友伴与配偶。又赐光辉与力量、名声与美誉、学识、昌盛以及人生诸般享受。
Verse 49
गायत्र्याराधनासक्तः संध्यावंदनतत्परः । एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित् ॥ ४९ ॥
一位婆罗门若专心礼敬伽雅特丽,并勤修三时礼(Sandhyā-vandana)——如此诵持此咒——则无论何处何时,都不遭受苦难。
Verse 50
विकर्तनाय निर्माल्यमेवं संपूज्य दापयेत् । वियद्वह्निमरुत्साद्यांतार्वीसेंदुसमन्वितम् ॥ ५० ॥
如此,在如法礼敬毗迦尔塔那(太阳神)之后,应奉献已成圣的供余(nirmālya)。随后当行布施,施与一组礼物,配以虚空、火、风等诸象征,并连同大地、海/河与月亮之象。
Verse 51
मार्तंडभैरवाख्यं हि बीजं त्रैलोक्यमोहनम् । बिंबबीजेन पुटितं सर्वकामफलप्रदम् ॥ ५१ ॥
确实,名为“玛尔坦达·怖罗婆”(Mārtaṇḍa-bhairava)的种子真言,能迷摄三界;当以“宾婆”(Biṃba)种子加以包裹强化时,便成为赐予一切所愿之果的真言。
Verse 52
पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः । भृगुर्जलेंदुमन्वाढ्यः सोमाय हृदयांतिमः ॥ ५२ ॥
在此亦然,其余部分智者当依前述而知:圣者婆利古(Bhṛgu)应与“阇楞度”(Jalendu)相应;“安瓦陀雅”(Anvāḍhya)应与苏摩(Soma)相应;“心终”(Hṛdayāntima)亦同样与苏摩相应。
Verse 53
षडक्षरो मंत्रराजो मुनिरस्य भृगुर्मतः । छंदः पंक्तिस्तु सोमोऽस्य देवता परिकीर्तिता ॥ ५३ ॥
此六音节的王者真言,其圣见者(ṛṣi)被认为是婆利古(Bhṛgu);其韵律为般克底(Paṅkti),其主宰神祇被宣说为苏摩(Soma)。
Verse 54
आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये । षड्दीर्घेण स्वबीजेन षडंगानि समाचरेत् ॥ ५४ ॥
首要的种子音(bīja)应以前置“namaḥ”;由此召起其神力(śakti),其仪轨运用(viniyoga)为成就一切所求。以自身的种子真言配合六个长元音,当行六支安置(ṣaḍ-aṅga nyāsa)之法。
Verse 55
पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् । विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम् ॥ ५५ ॥
当观想月神:其面如盛开圆满之莲,光洁如水晶;乌黑卷发映衬其容。手持所爱白莲,身佩珍珠花鬘,清辉庄严。
Verse 56
ऋतुलक्षं जपेन्मंत्रं पायसेन ससर्पिषा । जुहुयात्तद्दशांशेन पीठे सोमांतपूजिते ॥ ५६ ॥
当依所定“随季一洛叉”之数持诵真言(japa),继而以乳粥(pāyasa)和酥油(ghee)作供,行火供(homa)。火供次数为持诵数的十分之一,于已加持并依苏摩仪轨礼敬圆满之座坛(pīṭha)上施行。
Verse 57
मूर्तिमूलेन संकल्प्य पूजयेद्विधिवद्विधुम् । केसरेष्वंगपूजा स्यात्पत्रेष्वेताश्च शक्तयः ॥ ५७ ॥
先以神形之根本真言立誓愿(saṅkalpa),然后依仪轨礼拜月神(Vidhū)。于莲之花丝(kesara)行诸支供养(aṅga-pūjā),并在花瓣之上安置、召请这些同一的神力(śakti)。
Verse 58
रोहिणी कृत्तिका चैव रेवती भरणी पुरः । रात्रिरार्द्रा ततो ज्योत्स्ना कला हारसमप्रभा ॥ ५८ ॥
罗希尼与克里提迦,亦有瑞瓦蒂——而婆罗尼列于其前。其后为罗特丽与阿尔德罗;再后是焦慈那与迦罗,光辉如项链之线。
Verse 59
सुशुक्लमाल्यवसनामुक्ताहारविभूषिताः । सर्वास्स्तनभराक्रांता रचितांजलयः शुभाः ॥ ५९ ॥
她们佩以极白的花鬘与衣裳,又以珍珠项链为饰;众女皆胸乳丰盈沉重,吉祥端立,合掌恭敬。
Verse 60
स्वप्रियासक्तमनसो मदविभ्रममंथराः । समभ्यर्च्याः सरोजाक्ष्यः पूर्णेंदुसदृशाननाः ॥ ६० ॥
那些莲眼女子——心系所爱,因情醉而步态慵缓,面容宛如满月——应当如法恭敬供养,礼拜尊崇。
Verse 61
दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः । आदित्यभूसुतबुधमंददेवेज्यराहवः ॥ ६१ ॥
于仪式之叶尖,当如法礼拜八曜,自日神始——即太阳、火星(地之子)、水星、土星(行迟者)、木星(诸天之师)、以及罗睺(致蚀者)。
Verse 62
शुक्रकेतुयुता ह्येते पूज्याः पत्रग्रगाग्रहाः । रक्तारुणश्वेतनीलपीतधूम्रसिताऽसिताः ॥ ६२ ॥
这些诸曜与 शुक्र(金星)及计都同在,确应礼拜——彼等皆循所定轨道而行。其色分别为:红、赭、白、蓝、黄、烟色、淡色与暗色。
Verse 63
वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः । सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः ॥ ६३ ॥
将相应之手安置于左大腿上,右手结无畏印(abhaya-mudrā)。智者行者当礼敬诸方护世神(lokapāla),并供奉其器皿(pātra)与兵器,以及神祇之乘具(vāhana)。
Verse 64
एव संसाधितो मंत्रः प्रयच्छेदिष्टमात्मनः । पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये ॥ ६४ ॥
如是成就之真言,能赐行者所愿之果。于满月之日,节制饮食,当在月出之时向月神旃陀罗(Chandra)奉献阿尔伽(arghya,恭敬之水供)。
Verse 65
मंडलत्रितर्यं कुर्यात्प्राक्प्रत्यगायतं भुवि । पश्चिमे मंडले स्थित्वा पूजाद्रव्यं च मध्यमे ॥ ६५ ॥
当于地上画三重曼荼罗(maṇḍala),自东向西纵向排列。行者立于西侧曼荼罗中,并将供品置于中央曼荼罗。
Verse 66
संस्थाप्य सोममन्यस्मिन्मंडलेऽब्जसमन्विते । समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम् ॥ ६६ ॥
将苏摩(Soma)安置于另一处饰以莲花的曼荼罗中后,应依所规定的仪轨如法礼拜,先从供奉座基(pīṭha)开始。
Verse 67
स्थापयेद्राजतं पात्रं पुरतस्तत्र मंत्रवित् । सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम् ॥ ६७ ॥
于彼处,通晓真言者应在前方安置一只银器;以圣牛苏拉毗(Surabhī)之乳注满,触之而诵所规定之摩奴(manu)真言。
Verse 68
अष्टोत्तरशतं पश्चाद्विद्या मंत्रेण मंत्रवित् । दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये ॥ ६८ ॥
随后,通晓真言者应以“毗提耶(Vidyā)真言”诵念一百零八遍,并向尼沙迦罗——月神——奉献阿尔伽(arghya),以成就一切所愿之事。
Verse 69
कुर्यादनेन विधिना प्रतिमासमतंद्रितः । वर्षांतरेण सवष्टं प्राप्नोति भुविमानवः ॥ ६९ ॥
人应当依此法门每月勤修,不可懈怠;一年之内,便能在此世间获得圆满成就与兴盛福泽。
Verse 70
विद्ये विद्यामालिनि स्यादंत चंद्रिणि कतवदेत् । चंद्रमुखि द्विठांतोऽयं विद्यामंत्र उदाहृतः ॥ ७० ॥
“(应当称呼她:)‘噢,毗提耶(Vidyā)!噢,知识之鬘者!噢,具月华光辉者!噢,月面者!’如此,以两个音节‘ṭha’作结,此即宣说为毗提耶真言。”
Verse 71
एवं कुमुदिनीनाथमंत्रं यो जपति ध्रुवम् । धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभतेऽचिरात् ॥ ७१ ॥
因此,凡恒常持诵此“库穆迪尼那他(Kumudinīnātha)”真言者,不久便得财富、谷粮资具、子孙绵延,以及吉祥福运。
Verse 72
अथांगारकमंत्रं तु वक्ष्ये धनसुतप्रदम् । तारो दीर्घेंदुयुग्व्योम तदेवेंदुयुतः पुनः ॥ ७२ ॥
现在我将宣说阿迦罗迦(Aṅgāraka,火星)之真言,能赐财富与子嗣:由“塔罗”(tāra,即唵 oṃ)起,继以长音“ī”,再加“因度”(indu,ṃ),继以“yug”(ga),再以“vyoma”(ha);并再一次以同样次第与“因度”(ṃ)相合。
Verse 73
षांतः सर्गी च चंडीशौ क्रमार्दिदुविसर्गिणै । षडर्णोऽयं महामंत्रो मंगलस्याखिलेष्टदः ॥ ७३ ॥
“ṣāṃ”“taḥ”“sar”“gca”“caṇḍīśa”诸音节依次排列,并以离声(visarga)作结,即成此六音大咒,能赐吉祥,圆满一切所愿。
Verse 74
विरूपाक्षो मुनिश्छंदोगायत्रं देवता कुजः । मंत्रार्णैः षड्भिरंगानि क्रुर्वन्ध्यायेद्धरात्मजम् ॥ ७४ ॥
此咒之圣仙(ṛṣi)为毗卢帕叉(Virūpākṣa);韵律为伽耶垂(Gāyatrī);主宰神为俱阇(Kuja,火星)。以咒音行六支安置(aṅga-nyāsa)后,当观想大地之子——火星神。
Verse 75
मेषस्थं रक्तवस्रांगं शूलशक्तिगदावरान् । करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत् ॥ ७५ ॥
当忆念大地之子(火星神)安住白羊宫:衣身皆赤,手持三叉戟、神枪(śakti)与钉锤;其出自伊沙那(湿婆)之汗。
Verse 76
रसलक्षं जपेन्मंत्रं दशांशं खदिरोद्भवैः । समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम् ॥ ७६ ॥
当持诵此咒十万遍;继而以其中十分之一作火供,以佉地罗(khadira,金合欢)柴投于圣火,并于湿婆派圣座(Śaiva pīṭha)上礼拜俱阇(火星)。
Verse 77
प्रागंगानि समाराध्य ह्येकविंशतिकोष्टकम् । मंगलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः ॥ ७७ ॥
先当如法供养前行诸支分;继而礼拜二十一重的神圣安置。于是摩伽罗(Maṅgala,火星)、大地之子,便成除债之主,赐财之神。
Verse 78
स्थिरासनो महाकायः सर्वकर्मावरोधकः । लोहितो लोहिताक्षश्च सामगानां कृपाकरः ॥ ७८ ॥
祂安坐坚固,身躯广大;能制止一切邪行。祂为赤红之尊,双目微赤,并以慈悲护念诵唱《娑摩》圣歌之人。
Verse 79
धरात्मजः कुजो भौमो भूमिदो भूमिनंदनः । अंगारको महीसूनुः सर्वरोगापहारकः ॥ ७९ ॥
“大地之子——库阇(Kuja)、婆乌摩(Bhauma);赐地者、大地之欢;安伽罗迦(Aṅgāraka)、摩诃伊(Mahī)之子——(火星),能除一切疾病者。”
Verse 80
वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः । इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै ॥ ८० ॥
“祂能降雨,也能止雨,并赐予一切事业与所求之成就。”如是,确已宣说大地之子(Bhūsuta)的二十一种形相(mūrti)。
Verse 81
मंगलादीन्यजेन्मंत्री स्वस्वस्थानस्थितान्क्रमात् । इंद्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः ॥ ८१ ॥
修持真言者当依次礼敬从曼伽罗(Maṅgala)等诸神,各安其位而供奉。亦当礼敬因陀罗等,并同供金刚杵(Vajra)等天界神兵。如此,真言便得成就(siddha)。
Verse 82
सुतकामा कुरंगाक्षी भौमव्रतमुपाचरेत् । मार्गशीर्षेऽथ वैशाखे व्रतारंभः प्रशस्यते ॥ ८२ ॥
渴望得子的女子啊,鹿眼之人,应当奉行婆乌摩誓(Bhauma-vrata,周二之誓)。此誓之开端,尤以摩伽尸尔沙月(Mārgaśīrṣa)与毗舍佉月(Vaiśākha)最为称赞。
Verse 83
अरुणोदयवेलायामुत्थायावश्यकं पुनः । विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता ॥ ८३ ॥
于黎明初现之时(阿鲁诺达耶),当起身再行必行之净化仪轨;以“吠陀·帕玛尔伽”之枝如法洁齿之后,应守语业,节制言语。
Verse 84
स्नात्वा रक्तांबरधरा रक्तमाल्यविलेपना । नैवेद्यादींश्च संभारान्रक्तान्सर्वान्प्रकल्पयेत् ॥ ८४ ॥
沐浴之后,她当着红衣,佩红花鬘,涂红色香膏;并备办一切供仪之具——自食供(naivedya)起——皆令呈红色。
Verse 85
योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया । रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत् ॥ ८५ ॥
召请一位具德的婆罗门后,当依其教示礼拜俱阇(Kuja,火星)。应坐于红色座具之上,所坐之地先以红牛之牛粪涂抹而净。
Verse 86
आचम्य देशकालौ च स्मृत्वा काम्य समुच्चरन् । मङ्गलादीनि नामानि स्वकीयांगेषु विन्यसेत् ॥ ८६ ॥
行阿遮摩那(净口)后,忆念处所与时辰,随所愿而宣说誓愿(saṅkalpa);继而作支分安置(aṅga-nyāsa),将以“曼伽罗(Maṅgala)”为首的吉祥名号安置于自身诸肢。
Verse 87
मुखे प्रविन्यसेत्साध्वी सामगानां कृपाकरम् । धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके ॥ ८७ ॥
贤淑之女当作安置(nyāsa):于口中安置赐恩的主、萨摩歌者之护主;于鼻孔与双眼安置大地之子(火星);并于额上安置俱阇——布弥(Bhūmi)之子。
Verse 88
भूमिदं तु भ्रुवोर्मध्ये मस्तके भूमिनन्दनम् । अङ्गारकं शिखायां च सर्वांगे च महीसुतम् ॥ ८८ ॥
将(真言/圣名)“Bhūmida”安置于两眉之间;“Bhūminandana”安置于头顶;“Aṅgāraka”安置于发髻之上;并以“Mahīsuta”遍布全身。
Verse 89
बाहुद्वये न्यसेत्पश्चात्सर्वरोगापहारकम् । मूर्द्धादि वृष्टिकर्तारमापादांतं न्यसेत्सुधीः ॥ ८९ ॥
随后将(真言之力)安置于双臂,作为除灭一切疾病者。智者当自头至足安置之,作为降雨者,赐予滋生命雨。
Verse 90
विन्यसेद्रृष्टिहर्तारं मूर्द्धांतं चरणादितः । न्यसेदंते ततो दिक्षु सर्वकार्यार्थसिद्धिदम् ॥ ९० ॥
自足起而上行至头顶,当为那位“除去有害目光”的神祇作安置(nyāsa)。随后于终了时,将(真言之力)安置于诸方;由此成就一切所愿与诸般仪轨事业。
Verse 91
नाभौ हृदि शिरस्यारं वक्रे भूमिजमेव च । विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम् ॥ ९१ ॥
将那“轮辐”(神秘之辐)安置于脐、于心、于首;并同样在那弯曲之处安置地所生者(Dharā-putra)。如是于自身之中布置完毕,便依先前所教观想大地之子。
Verse 92
मानसैरुपचारैश्च संपूज्यार्ध्यं निधापयेत् । एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे ॥ ९२ ॥
以心供亦尽礼敬之后,当将阿尔伽(敬献之水)置于铜盘之上、具二十一格的三角坛图之中。
Verse 93
आवाह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेत् । अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत् ॥ ९३ ॥
于彼处,先召请安伽罗迦(火星神),以红花等供品礼拜之。先安抚并奉事仪轨之诸支分,然后如法敬礼摩伽罗及其余诸曜(graha)。
Verse 94
एकविंशतिकोष्ठेषु चक्रमारं च भूमिजम् । त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः ॥ ९४ ॥
于二十一格中,当安置“轮魔”Cakramāra与“地生”Bhūmija。又于诸三角位如法供奉诸神之后,并当在外侧礼敬八位母神(Mātr̥kā)。
Verse 95
इंद्रादीनथ वज्रादीन्बाह्ये संपूजयेत्पुनः । धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत् ॥ ९५ ॥
继而于外坛,再礼敬因陀罗等诸天,并供奉金刚杵(Vajra)等诸神兵。献上香与灯之后,当奉上以小麦制成之食供(nivedya)。
Verse 96
ताम्रपात्रे शुद्धतोयपूरिते रक्तचंदनम् । रक्तपुष्पाक्षतफलान्याक्षिप्यार्ध्यं समर्पयेत् । मंगलाय ततो मंत्री इदं मंत्रद्वयं पठेत् ॥ ९६ ॥
以铜器盛满净水,投入红檀香膏、红花、阿克沙塔(不碎米)与果品,继而奉为阿尔伽(ārghya)供。随后,为求吉祥,行仪之咒师当诵此二句真言。
Verse 97
भूमिपुत्र महातेजः स्वेदोद्भवपिनाकिनः । सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमोऽस्तु ते ॥ ९७ ॥
噫,大地之子,光辉炽盛者——噫,持品那迦弓之品那迦因(Pinākin),由汗而生者——我为求子而来,今已归依于汝。愿汝纳受此阿尔伽供。敬礼于汝。
Verse 98
रक्तप्रवालसंकाश जपाकुसुमसन्निभ । महीसुत महाभाग गृहाणार्ध्यं नमोऽस्तु ते ॥ ९८ ॥
噢,你光辉如赤珊瑚,宛若朱槿之花——大福德的地母之子啊,请受此阿尔伽(仪式供水)。向你致敬礼拜。
Verse 99
एकविंशतिपूर्वोक्तैर्ङेनमोंतैंश्च नामभिः । ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः ॥ ९९ ॥
以先前所传的二十一个名号——从音节“ṅe”起,并含“namoṁ”“taiṁ”等——随后当礼拜顶礼,从“tārā…”之咒开始;并应作同样数目的绕行礼(pradakṣiṇā)。
Verse 100
धरणीगर्भसंभूतं विद्युत्तेजः समप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ १०० ॥
我礼敬摩伽罗(Maṅgala):出自大地之胎,光耀如闪电之辉,形貌青春,手执长矛。
Verse 101
ततो रेखात्रयं कुर्यात्खदिरांगारकेण च । मार्जयेद्वामपादेन मंत्राभ्यां च समाहिता ॥ १०१ ॥
随后,她应以伽提罗木(khadira)之炭画出三道线;并当摄心专注,一边诵念两段真言,一边以左足拭抹(或抹平)之。
Verse 102
दुःखदौर्भाग्यनाशाय पुत्रसंतानहेतवे । कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ॥ १०२ ॥
为灭除忧苦与厄运,并为得子嗣相续,我今以左足拭去这所画的三道线。
Verse 103
ऋणदुः खविनाशाय मनोभीष्टार्थसिद्धिये । मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ॥ १०३ ॥
为摧毁债务所致之苦,并成就心中所愿,我拭去由三世所生的三道黑痕。
Verse 104
स्तुवीत धरणीपुत्रं पुष्पांजलिकरा ततः । ध्यायंती तत्पदांभोजं पूजासांगत्वसिद्धये ॥ १०४ ॥
随后,双手合掌捧花供养,当赞颂大地之子;观想其足下莲华,使供奉之礼具足圆满。
Verse 105
ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्र्यनाशिने । सौभाग्यसुखदो नित्यं भव मे धरणीसुत ॥ १०५ ॥
礼敬于汝,除债之主,灭苦破贫者。噢大地之子,愿汝恒常赐我吉祥与安乐。
Verse 106
तप्तकांचनसंकाश तरुणार्कसमप्रभ । सुखसौभाग्यधनद ऋणदारिद्य्रनाशक ॥ १०६ ॥
噢神明,光辉如熔金,威耀似初升之日——赐乐、赐福、赐财者;灭债除贫者。
Verse 107
ग्रहराज नमस्तेऽस्तु सर्वकल्याणकारक । प्रसादं कुरु देवेश सर्वकल्याणभाजन ॥ १०७ ॥
噢诸星之王,敬礼于汝,成就一切吉祥者。噢天神之主,愿垂慈恩;汝乃一切安泰之所依。
Verse 108
देवदानवगंधर्वयक्षराक्षसपन्नगाः । आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः ॥ १०८ ॥
天神、达那婆、乾闼婆、夜叉、罗刹与那伽等众,皆得至“湿婆”之吉祥安泰,恒常心愿圆满。
Verse 109
आचिरादेव लोकेऽस्मिन्यस्याराधनतो जनाः । प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे ॥ १०९ ॥
向那位“大地之子”致敬:世人在此世以其供奉,便能迅速得乐;我今恭敬顶礼于彼。
Verse 110
यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति । पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ॥ ११० ॥
顶礼大地之子:当其行于逆行曲折之轨,便使世人受苦;然若依法供奉,则赐安乐与福运。
Verse 111
नभसि द्योतमानाय सर्वकल्याणहेतवे । मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे ॥ १११ ॥
敬礼摩伽罗(火星):辉耀苍穹,为一切吉祥之因,并赐财富与子嗣。
Verse 112
प्रसादं कुरु मे भौममंगलप्रद मंगल । मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः ॥ ११२ ॥
噢婆乌摩(火星),赐吉祥之吉祥者,愿垂慈于我。噢乘白羊者,具鲁陀罗之魂者,赐我子嗣、财富与美名。
Verse 113
एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् । यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः ॥ ११३ ॥
如是赞颂、顶礼之后,恭敬送别“大地之子”,当随己力奉献供施,并领受婆罗门的祝福。
Verse 114
गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम् ॥ ११४ ॥
先向师尊奉上达克希那(供养金),然后当食用由师尊所供献并许可的食物。
Verse 115
एवमावत्सरं कुर्यात्प्रतिमंगलवासरम् । तिलैर्होमं विधायाथ शतार्द्धं भोजयोद्द्विजान् ॥ ११५ ॥
应如是守持此誓戒满一年,每逢周二皆行之。随后以芝麻行火供(护摩),并供养两次五十位——即一百位——婆罗门。
Verse 116
भौममूर्तिं स्वर्णमयीमाचार्याय समर्पयेत् । मंडलस्थे घटेऽभ्यर्च्येत्सुतसौभाग्यसिद्धये ॥ ११६ ॥
应将金制的婆牟(Bhauma,火星)圣像奉献于阿阇梨。于仪轨曼荼罗中安置净瓶(ghaṭa)而礼拜婆牟,则得成就:儿子福运昌盛、安康吉祥。
Verse 117
एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् । ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि ॥ ११७ ॥
如是,专心守持此誓的女子,将得福相吉祥之子。男子亦当修此誓,以灭除债累,并为求得财富。
Verse 118
ब्राह्मणः प्रजपेन्मन्त्रंमग्निर्मूर्द्धेति वैदिकम् । अंगारकस्य गायत्रीं वक्ष्ये यजनसिद्धये ॥ ११८ ॥
婆罗门应诵念以“阿耆尼在头顶(mūrdhan)”开头的吠陀真言。今为令祭祀(yajña)圆满成就,我将宣说安伽罗迦(火星)之伽耶特丽(Gāyatrī)真言。
Verse 119
अंगारकाय शब्दांते विद्महे पदमीरयेत् । शक्तिहस्ताय वर्णांते धीमहीति समुञ्चरेत् ॥ ११९ ॥
在“安伽罗迦(Aṅgāraka)”之名词末,应诵出句足“vidmahe”;在“持力之手(Śaktihasta)”诸音节末,应如法诵“dhīmahi”。
Verse 120
तन्नो भौमः प्रचोवर्णान्दयांदिति च संवदेत् । भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा ॥ १२० ॥
应诵曰:“愿婆乌摩(Bhauma,火星)策发我等文字与言语,并赐予慈悲。”此即婆乌摩之伽耶特丽;若以持诵(japa)反复念诵,能成就一切所愿。
Verse 121
भौमोपासनमेतद्धि बुधमन्त्रमथोच्यते । फांतः कर्णेंदुसंयुक्तो बुधो ङेंते हदंतिमः ॥ १२१ ॥
此即礼敬婆乌摩(Bhauma,火星)之法。今宣说布陀(Budha,水星)之真言:以“phāṃ”起,合“耳”与“月”之记号,并加“Budha”;以“ṅeṃte”作结,末辅音为“ha”。
Verse 122
रसाणों बुधमन्त्रोऽयं मुनिब्रह्मास्य कीर्तितः । पंक्तिश्छैदो देवता तु बुधः सर्वेष्टदो नृणाम् ॥ १२२ ॥
此为布陀(Budha,水星)之真言;传说其圣见者(ṛṣi)为诸牟尼中之梵天(Brahmā)。其韵律为Paṅkti,其主宰神为布陀,能赐人间一切所愿成就。
Verse 123
आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये । वंदे बुधं सदा भक्त्या पीताम्बरविभूषणम् ॥ १२३ ॥
宣说最初的种子音节;其神力为“namaḥ(南无/敬礼)”;其运用在于成就一切所求。我恒以虔敬礼拜布陀(Budha,水星神),身着黄衣,佩戴庄严饰物。
Verse 124
जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् । ध्यात्वेवं प्रजपेसहस्रं विजितेंद्रियः ॥ १२४ ॥
如是观想此尊——形相圆满,左手安置于膝,另一手作施无畏印——调伏诸根者应诵持此真言一千遍。
Verse 125
दशांशं जुहुयादाज्यैः पीठे पूर्वोदितेऽर्चयेत् । अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत् ॥ १२५ ॥
当以酥油作火供,奉献十分之一为供品,并于先前所规定的坛座(pīṭha)上礼拜。又当礼拜布陀(Budha),并同礼其诸支分力(aṅga)、诸母神、护方神(守护诸方位者)及诸天神兵(相应之神力)。
Verse 126
एवं सिद्धे मनौ मंत्री साधयेत्स्वमनोरथान् । सहस्रं प्रजपेन्मंत्रं नित्यं दशदिनावधि ॥ १२६ ॥
如是令真言成就之后,行者当成办自身所愿。其后应每日恒常诵持真言一千遍,持续十日为期。
Verse 127
तस्याशु ग्रहजा पीडा नश्यत्येव न संशयः । बुधस्याराधनं प्रोक्तं गुरोराराधनं श्रृणु ॥ १२७ ॥
对他而言,由诸行星(graha)所致的苦恼必将迅速消灭,毫无疑问。布陀(Budha)的供奉已宣说;现在请聆听对古鲁(Guru,木星神)的供奉法。
Verse 128
बृंहस्पतिपदं ङेंऽतं सेंद्वाद्यर्णाघमंडितम् । नमोंतो वसुवर्णोऽयं मुनिर्ब्रह्मास्य संमतः ॥ १२८ ॥
此圣贤蒙梵天(Brahmā)认可,身放金色光辉。其名由“Bṛhaspati”一词构成,以音节“ṅeṃ”为尾,前缀以“seṃ”“dvā”点缀,并以“namoṃ”作结。
Verse 129
छन्दोऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् । हृच्छक्तिर्दीर्घवह्नींदुयुगलेनांगकल्पना ॥ १२९ ॥
其韵律为阿努什图布(Anuṣṭubh);主宰本咒之神为苏罗阿阇梨(Surācārya,天界导师);本初种子音为bīja。并指明心力hṛcchakti;肢体安置(aṅga-nyāsa)当以“vahnī”与“indu”两音之长音(dīrgha)成对而行。
Verse 130
न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् । किरंतं पीतपुष्पालंकारालेपांशुकार्चितम् ॥ १३० ॥
其左手安置于珠宝之堆,右手将之散布。众以黄色花鬘、饰物、涂香与细妙衣服恭敬供养。
Verse 131
सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् । लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत् ॥ १३१ ॥
当观想天界导师——一切学识之宝藏——金光灿然。应诵念十万遍,继而以其十分之一作火供(homa),以酥油ghee或熟食为供品。
Verse 132
धर्मादिपीठे प्रयजेदंगदिक्पालहेतिभिः । एवं सिद्धे मनौ मंत्री साधयेदिष्टमात्मनः ॥ १३२ ॥
于以“法(Dharma)”为首之坛座上,当以诸仪轨之支分、诸方护法(dikpāla)及其兵器而行供奉。如此令真言成就后,持咒者便能为自身圆满所愿之果。
Verse 133
विपरोगादिपीडासु कलहे स्वजनोद्भवे । पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये ॥ १३३ ॥
若遭重病及诸般苦恼所逼,或自家眷属之中起争讼者,当取毕波罗(圣无花果)树所出之薪枝为柴,向火中奉献供投(āhuti),以令诸患止息。
Verse 134
हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः । स विंशतिशतं शीघ्रं वासांसि लभते महीम् ॥ १३४ ॥
如是持咒者连行三日供火,以夜开之花浸润酥油而作供投,便能迅速得二千衣服,并得田地。
Verse 135
गुरोराराधनं प्रोक्तं श्रृणु शुक्रस्य सांप्रतम् । वस्रं मे देहि शुक्राय ठद्वयांतो ध्रुवादिकः ॥ १३५ ॥
奉师(古鲁)之礼与恭敬之法已说。今当听关于舒克罗(Śukra,金星)之仪轨:当诵曰:“愿赐我一衣,以奉舒克罗。”其诵从“德鲁瓦”(Dhruvā)等起,至以二个ṭha为标记之终句(ṭhadvaya)而止。
Verse 136
रुद्रार्णोऽयं मनुर्ब्रह्मा मुनिश्छन्दो विराहुत । दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया ॥ १३६ ॥
于此咒法(vidyā)中:主音为鲁陀罗(Rudra);见咒圣者(ṛṣi)为摩奴(Manu);梵天(Brahmā)宣为主宰;牟尼(Muni)为仙贤;韵律为Chandas;供投之式为Virāhuta;本尊为Daityejya;种子音为Bīja;德鲁瓦(Dhruva)为力(śakti);而Vasupriyā为最可爱者(相应之能量/配偶)。
Verse 137
भूनेत्र चन्द्रनेत्राग्निनेत्रार्णैः स्यात्षडंगकम् । शुक्लांबरालेपभूषं करेण ददतं धनम् ॥ १३७ ॥
以‘bhū’、‘netra’、‘candra’、‘netra’、‘agni’与‘netra’诸音节,成六支(ṣaḍaṅga)之法。应观想本尊:身着白衣,涂香严饰,以一手施与财宝。
Verse 138
वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः । अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ॥ १३८ ॥
智者行者应忆念并纠正:以左手作与舒克罗(Śukra)相关之讲解手印(mudrā)不当所生的过失。为作忏悔,当诵此真言一万遍,并以其十分之一之数,以酥油(ghee)投入火中作供。
Verse 139
धर्मादिपीठे प्रयजेदंगेंद्रादितदायुधैः । श्वेतपुष्पैः सुगंधैश्च जुहुयाद् भृगुवासरे ॥ १३९ ॥
于婆利古(Bhṛgu)之日,即周五,当在以“法”(Dharma)为首的坛座(pīṭha)上行供养,奉献安根德罗(Aṅgendra)等诸者之兵器;并以洁白芬芳之花作火供。
Verse 140
एकविंशतिवारं यो लभतेसोंऽशुकं मणीन् । मनवोऽमो सदा गोप्या न देया यस्य कस्यचित् ॥ १४० ॥
凡得此(仪轨/真言)二十一遍者,便得衣服与宝珠。此真言当恒常秘藏,不可随便授与他人。
Verse 141
भक्तियुक्ताय शिष्याय देया वा निजसूनवे ॥ १४१ ॥
此法当授与具足奉爱(bhakti)之弟子,或否则授与己之亲子。
Nyāsa is presented as the mechanism that internalizes the deity and the mantra-grid by installing phonemes, bījas, and maṇḍala principles (Soma–Sūrya–Agni) onto bodily loci and ritual space. In Śāstric terms, it converts recitation into embodied worship (arcana) and prepares the practitioner for vyāpaka-japa and fruit-bearing homa.
It explicitly allows a simplified regimen: daily arghya to Vivasvān/Sūrya even without the full mandala and homa. This is framed as sufficient to yield prosperity, fame, happiness, longevity, and health when performed consistently.
It gives a full vow-architecture: timing (Tuesday; favored months), color-coded materials (red garments, red flowers, red seat), body-nyāsa with Mars epithets, a 21-compartment ritual diagram, arghya mantras, circumambulations, symbolic wiping of three lines for debt/sorrow, year-long observance, final homa, feeding brāhmaṇas, and gifting a gold icon—typical of Purāṇic vrata manuals.