
萨难陀那讲述:一位国王在听闻辨别之教——作为者属于被业力推动的三德(guṇa),而非真我(Ātman)——之后,再次追问“至上之善”。婆罗门导师重释śreyas:财富、子嗣、王权等世间目标皆为次要;真正的śreyas是与至上我(Paramātman)相应相契,并恒常安住于真我观修。章中分析祭祀行为之所以可坏,是因依赖可坏之物(泥与器之譬;柴薪、酥油ghee、库沙草kuśa);而paramārtha不坏不灭,非造作所得之果——真我之知既是方法亦是归宿。随后展开古老的里布(Ribhu)—尼达迦(Nidāgha)因缘:待客与问食之事成为否定“我即饥渴”的门径;关于居处与行旅的提问,被指出不适用于遍满一切的普鲁沙(Puruṣa)。第二次相会以国王/大象的层级,揭示“上/下”分别乃心所构。尼达迦认里布为上师;教诲终以宣言:宇宙本不分裂,正是婆苏提婆(Vāsudeva)的自性。国王舍离bheda-buddhi(差别之见),以觉醒的忆念与不二之观而证得现生解脱(jīvanmukti)。
Verse 1
सनंदन उवाच । निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ १ ॥
萨难陀那说道:国王听闻他那蕴含至上真义之言,便以谦恭与敬礼俯首,继而对那位“再生者”(dvija)圣贤开口。
Verse 2
राजोवाच । भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः । श्रुते तस्मिन्भ्रमंतीव मनसो मम वृत्तयः ॥ २ ॥
国王说道:“噢,薄伽梵,你所宣说之语充满至上真义;然而我一听见,心念的起伏却仿佛旋转纷乱。”
Verse 3
एतद्विवेकविज्ञानं यदि शेषेषु जंतुषु । भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ ३ ॥
噢婆罗门圣者,若你确已向诸有情示现“辨别智”(viveka-jñāna),则此智至上地趋向于原质(Prakṛti)之“大原理”——摩诃特(Mahat)。
Verse 4
नाहं वहामि शिबिकां शिबिका मयि न स्थिता । शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥ ४ ॥
“我并不抬轿,因为轿并不安住于我。此身与我不同;正是凭此身,轿舆才得以承载。”
Verse 5
गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तंते गुणाश्चैते किं ममेति त्वयोदितम् ॥ ५ ॥
众生的作为不过是诸“德性”(guṇa)的运作,而此运作为业(karma)所驱使。诸guṇa自会不断运行——既如此,怎能如你所言,正当地执著“这是我的”呢?
Verse 6
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थार्थतां गतम् ॥ ६ ॥
噢至上真义的知者,当此言入我耳道之时,我心神震荡恍惚——仿佛已抵达至上义理的真正旨趣。
Verse 7
पूर्वमेव महाभाग कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किंत्वत्र संशये ॥ ७ ॥
先前啊,福德具足的二生者,我曾前往迦毗罗仙人处,决意请问至上之善;然而于此事,我心仍存疑惑。
Verse 8
तदंतरे च भवता यदिदं वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ ८ ॥
而在其间,你所宣说的这些言辞——正因这些言辞,我心疾趋于你,求取至上真理之最高旨趣。
Verse 9
कपिलर्षिर्भगवतः सर्वभूतस्य वै किल । विष्णोरंशो जगन्मोहनाशाय समुपागतः ॥ ९ ॥
诚然,据说迦毗罗仙人乃毗湿奴之分身——一切众生之薄伽梵——为摧破迷惑世间的幻妄而降现。
Verse 10
स एव भगवान्नूनमस्माकं हितकाम्यया । प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते ॥ १० ॥
诚然,正是那位世尊,为了我等之福祉而亲临现前;故你所言确为正当。
Verse 11
तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज । तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान् ॥ ११ ॥
因此,二生圣者啊,请为我宣说那能摧破迷妄的至上之善。因为你是知识之海,诸般智慧之水化作波涛。
Verse 12
ब्राह्मण उवाच । भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि । श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते ॥ १२ ॥
婆罗门说道:“你又问何为至善;你以至上宗旨而发问。诚然,国王啊,一切真实的‘善’无非就是那至高的终极目标本身。”
Verse 13
देवताराधनं कृत्वा धनसंपदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ १३ ॥
礼敬神明之后,人便希求财富与昌盛;希求子嗣,乃至王权。然而,国王啊,至善(śreyas)却正属于那位奉爱者本身。
Verse 14
विवकिनस्तु संयोगः श्रेयोऽसौ परमात्मना । कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत् ॥ १४ ॥
然而对有辨慧之人,与至上自性——至尊我(Paramātman)相应合一,才是最高之善;至于业行与祭祀等仪轨,只是较小之善,因为它们仅赐予天界之果报。
Verse 15
श्रेयः प्रधानं च फले तदेवानभिसंहिते । आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ॥ १५ ॥
即便并非刻意追求,那果亦会生起,其中以至善(śreyas)为首要。因此,国王啊,自性当恒常被观修——为瑜伽自律者所行,亦为心志崇高者所行。
Verse 16
श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः । श्रेयांस्येवमनेकानि शतशोऽथ सहस्त्रशः ॥ १६ ॥
至善确是那合一本身——即由与至尊我(Paramātman)相应而生的无上之善。如此,诸般有益之道多不胜数,或以百计,乃至以千计。
Verse 17
संत्यत्र परमार्थास्तु न त्वेते श्रूयतां च मे । धर्मोऽयं त्यजते किं तु परमार्थो धनं यदि ॥ १७ ॥
此处确有至上的真义;然而你这些话我不应采纳——因为若财富就是最高善(paramārtha),那么此一法(dharma)便会被弃置不用。
Verse 18
व्ययश्चक्रियत कस्मात्कामप्राप्त्युपलक्षणः । मुत्रश्चेत्परमार्थाख्यः सोऽप्यन्यस्य नरेश्वर ॥ १८ ॥
既然如此,为何还要支出——若那不过是欲望得遂的标记?又若把尿液称作“最高目的”,即便如此,噢大王,那也属于他人。
Verse 19
परमार्थभूतः सोऽन्यस्य परमार्थो हि नः पिता । एवं न परमार्थोऽस्ति जगत्यत्र चराचरे ॥ १९ ॥
祂即是至上真理的化身;祂确为众生的最高归趣,亦是我们的父。故在此动与不动的世界中,别无真正的最高义(paramārtha)。
Verse 20
परमार्थो हि कार्याणि करणानामशेषतः । राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ॥ २० ॥
诚然,最高义(paramārtha)是不遗余力地统摄一切行为及其诸器的真实归宿。即便得王位等事,在此也被称为“最高义”——若以那究竟之义来领会。
Verse 21
परमार्था भवंत्यत्र न भवंति च वै ततः । ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ॥ २१ ॥
在此,至高的灵性目标确可成就;但它们并非仅由那外在的施行而生。依你之见,祭祀之业(yajña)乃依据《梨俱》《夜柔》《娑摩》三吠陀而行的仪轨。
Verse 22
परमार्थभूतं तत्रापि श्रूयतां गदतो मम । यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ॥ २२ ॥
即使在此处,也请听我所说的至上真义:凡所生起之果,皆由泥土(陶土)成就;泥土即其物质之因。
Verse 23
तत्कारणानुगमनाज्जायते नृप मृन्मयम् । एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ॥ २३ ॥
大王啊,土器之生,乃随其因——泥土而起。同样地,诸果亦由可坏之物而生,如祭火柴薪、酥油(ghee)、库沙草等。
Verse 24
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी । अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते ॥ २४ ॥
凡被造作而行之业,必先成而后坏;然至上实相(paramārtha)不坏不灭,此为智者所共许。
Verse 25
यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् । तदेवापलदं कर्म परमार्थो मतो मम ॥ २५ ॥
凡属可坏者,毫无疑问,皆依可坏之资具而立;故此等业行乃无真实果报之行。此即我所认为的至上旨趣。
Verse 26
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् । ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम् ॥ २६ ॥
由于至上宗旨(paramārtha)本身即为通向解脱(mokṣa)之道,故它并非另有一物可作“手段”去成办。大王啊,唯有对真我(Ātman)的禅观,才被称为“paramārtha”——真实的最高目的。
Verse 27
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् । परमार्थात्मनोर्योगः परमार्थ इतीष्यते ॥ २७ ॥
差别只是在与他物相对时才显现;至上的真实(Paramārtha)本身并无分裂。至上真实与我(Ātman)的合一,即被宣说为至上真理。
Verse 28
मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः । तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ॥ २८ ॥
这所谓“另一种实体”确为虚妄,因为它并非由真实之实体所成。因此,哦国王,这一切确是至善之利,毫无疑问。
Verse 29
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम । एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ॥ २९ ॥
大王,请听我略说至上真理:至上者唯一,遍满一切,平等对待众生,清净无垢,超越诸guṇa,并超出Prakṛti(物质自然)。
Verse 30
जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप । परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः ॥ ३० ॥
大王,真我(Ātman)无生、无长等诸相,遍至一切。其体性即圆满正知;然而依贤者之世俗约定,仍以名号、类别等种种称谓来指说。
Verse 31
न योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्यति । तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ॥ ३१ ॥
他既非瑜伽行者,也未真正调伏;大王,他将来也不会如此。对他而言,虽真我(Ātman)存在于自身之身与他人之身,那真实却是一而同一。
Verse 32
विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः । वेणुरंघ्रविभेदेन भेदः षङ्जादिसंज्ञितः ॥ ३२ ॥
唯有了知毗阇那(vijñāna,真知)与至上义(paramārtha)者,方能见真;妄见之人则不知。譬如笛子因指孔差别而生音阶分判,遂以“沙陀阇(Ṣaḍja)”等名而称。
Verse 33
अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः । एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः ॥ ३३ ॥
如遍满一切之风,其体性本无分裂;彼大我(Ātman)亦复如是。其一味之性真实不二;诸形差别之相,不过由外在行为之趋动而现。
Verse 34
देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः । श्रृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत् ॥ ३४ ॥
若执著于“天神”等种种差别,便沉溺分别之网;于彼而言,实无真正的正行。今且聆听,国王啊,一段古昔因缘——昔日由梨布(Ṛbhu)所歌咏者。
Verse 35
अवबोधं जनयतो निदाधस्य द्विजन्मनः । ऋभुर्नामाऽबवत्पुत्रो ब्रह्मणः परमेष्टिनः ॥ ३५ ॥
为令二生者尼达陀(Nidādha)生起觉悟(avabodha),有一子诞生,名曰梨布(Ṛbhu)——出自梵天(Brahmā)、至上安立者帕拉梅什提因(Parameṣṭhin)。
Verse 36
विज्ञात तत्त्वसद्भावो निसर्गादेव भूपते । तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा ॥ ३६ ॥
大王啊,他自始便显明为通达真如实性(tattva)之智者。往昔,普罗娑底耶(Pulastya)之子尼达伽(Nidāgha)曾为其弟子。
Verse 37
प्रादादशेषविज्ञानं स तस्मै परया मुदा । अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना ॥ ३७ ॥
他以至上的欢喜,将一切神圣之智尽皆赐予于彼;然而未证知智之真如者,心中不生趋向不二(Advaita)的内在倾向。
Verse 38
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर । देविकायास्तटे वीर नागरं नाम वै पुरम् ॥ ३८ ॥
大王啊,圣者梨布(Ṛbhu)思惟尼达迦(Nidāgha),遂至勇武之城“那伽罗”(Nāgara),其地在德维迦河(Devikā)之滨。
Verse 39
समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् । रम्योपवनपर्यंतं स तस्मिन्पार्थवोत्तम ॥ ३९ ॥
普利塔(Pṛthā)之卓越之子啊,他便住于彼处——富庶而可爱,为普罗拉斯提耶(Pulastya)所建,境域延展至幽美的园林林苑。
Verse 40
निदाधनामायोगज्ञस्तस्य शिष्योऽभवत्पुरा । दिव्ये वर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् ॥ ४० ॥
往昔,精通瑜伽的尼达陀那(Nidādhana)曾为其弟子;及至一千天年流逝之后,他便抵达其居处。
Verse 41
जगाम स ऋभुः शिष्यं निदाघमवलोकितुम् । स तस्य वैश्वदेवंति द्वारालोकनगोचरः ॥ ४१ ॥
于是梨布(Ṛbhu)前去探望弟子尼达迦(Nidāgha)。当时尼达迦正行“毗湿瓦提婆”(Vaiśvadeva)祭仪,梨布来到门前,进入其目光所及之处。
Verse 42
स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः । प्रक्षालितांघ्रिपाणिं च कृतासनपरिग्रहम् ॥ ४२ ॥
即使是盗贼——一旦被制止、归还所盗之物,并被带入自家屋内——也应如宾客般相待:为其洗足洗手,并奉上座位(āsana)。
Verse 43
उवाच स द्विजश्रेष्टो भुज्यतामिति सादरम् । ऋभुरुवाच । भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ॥ ४३ ॥
那位最尊贵的再生者恭敬地说:“请用餐吧。” Ṛbhu答道:“噢,最上等的婆罗门啊,在你家中此处所有之物,确应受用。”
Verse 44
तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम । निदाघ उवाच । सक्तुयावकव्रीहीनामपूपानां च मे गृहे ॥ ४४ ॥
“那么请告诉我:为何我对熟食从不生起恒常的欢喜?”尼达迦(Nidāgha)说:“我家中有炒粉(saktu)、大麦(yava)、稻米(vrīhi),也有甜饼(apūpa)。”
Verse 45
यद्रोचते द्विजश्रेष्ट तावद्भुंक्ष्व यथेच्छया । ऋभुरुवाच । कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे ॥ ४५ ॥
“噢,再生者中的至上者,随你所喜,愿食多久便食多久。” Ṛbhu说:“请给我粗淡之食——适合苦行者的食物——也请赐我甜美之食。”
Verse 46
संयावपायसादीनि चेक्षुका रसवंति च । निदाघ उवाच । गृहे शालिनि मद्गेहे यत्किंचिदति शोभनम् ॥ ४६ ॥
尼达迦说:“噢,Śālīna,在我家中,凡极其可喜可口之物——如saṃyāva、pāyasa等——以及甘蔗所制甜润多汁的食品,皆备有。”
Verse 47
भोज्येषु साधनं मिष्टं तेनास्यान्नं प्रसाधय । इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत् ॥ ४७ ॥
“在诸般菜肴中,备一味甘甜之食;以此调和装点,奉上他的餐食。”他如此吩咐后,那位妻子便为那位婆罗门备好了甜美的食物。
Verse 48
प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् । न भुक्तवंतमिच्छातो मिष्टमन्नं महामुनिम् ॥ ४८ ॥
她因敬重丈夫之言,确实将饭食备妥;然而在那位大牟尼尚未进食之前,她不愿以甜食奉喂于他。
Verse 49
निदाघः प्राहभूपाल प्रश्रयावनतः स्थितः । निदाघ उवाच । अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव ॥ ४९ ॥
尼达伽谦恭而立,俯首致敬,对国王说道:“至尊的满足可曾在你心中生起——亦即真正的滋养与安泰?”
Verse 50
अपि ते मानसं स्वस्थमाहारेण कृतं द्विज । क्व निवासी भवान्विप्र क्व वा गंतुं समुद्यतः ॥ ५० ॥
噢二次生者,你用食之后心意可得安稳?噢婆罗门,你居于何处,如今又将往何方而行?
Verse 51
आगम्यते च भवता यतस्तश्च निवेद्यताम् । ऋमुरुवाच । क्षुधितस्य च भुक्तेऽन्ने तृप्तिर्ब्रह्मन्विजायते ॥ ५१ ॥
“你从何处而来,为何而来?请告知我。” Ṛ牟答道:“噢婆罗门,饥者既食,满足便自然而生。”
Verse 52
न मे क्षुधा भवेत्तॄप्तिः कस्मान्मां द्विज पृच्छति । वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः ॥ ५२ ॥
于我而言,既无饥亦无饱——婆罗门二生者啊,你为何以此问我?在最初,当这属地之身被火焚尽时,主宰确然仍为如剃刀之锋般锐利的至尊,超越一切身相之境。
Verse 53
भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्भवः । क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ॥ ५३ ॥
当身中之水耗尽,人便生起口渴。饥与渴——称为身体之法——并非“我之所有”,二生者啊;因此我不与之认同。
Verse 54
ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा । मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ॥ ५४ ॥
因此,由于饥之生起已止息,我恒常安足。二生者啊,心之安稳与满足——此二者乃意之德相。
Verse 55
चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते । क्व निवासस्तवेत्युक्तं क्व गंतासि च यत्त्वया ॥ ५५ ॥
凡人所问,实不相应于那本性超越心识者。因此你说“你的住处何在,你将往何方?”——此类问辞并不契合于祂。
Verse 56
कुतश्चागम्यते त्वेतात्र्रितयेऽपि निबोध मे । पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः ॥ ५६ ॥
那么此理究竟从何而来?请为我明晰开示,即便分作三重亦可。因为此普鲁沙连同其一切范畴,遍满诸有,犹如虚空本身。
Verse 57
कुतः कुत्र क्व गंतासीत्येतदप्यर्थवत्कथम् । सोऽहं गंता न चागंता नैकदेशनिकेतनः ॥ ५७ ॥
从何处、往何处、循何路而去——连此问又怎会有意义?我即彼自性(Ātman):非行者,亦非不行者,因为我不住于任何一处。
Verse 58
त्वं चान्ये च न च त्वं त्वं नान्ये नैवाहमप्यहम् । मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव ॥ ५८ ॥
你在,众人亦在——然你不只是“你”;他们也并非真是“他者”;我亦非此分离之“我”。甘食现前,此舌便言“甜!”——我这舌,乃由你所造就。
Verse 59
किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमा । मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम् ॥ ५९ ॥
“他将说什么?”——即便在此,也请聆听,噢二生中最胜者。当甘美之物变得不再可喜,正是那甘美反成扰动之因。
Verse 60
अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारणम् ॥ ६० ॥
由不悦而生悦意;由悦意人又复厌倦。于初、于中、于终——何种食物真能成为恒久滋味之因?
Verse 61
मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेत् । पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥ ६१ ॥
如同泥土所成之屋,以泥再抹则坚固;同样,此身属地大,由地之微粒(原子)而凝实。
Verse 62
यवगोधूममुद्गादि र्घृतं तैलं पयो दधि । गुडः फलानीति तथा पार्थिवाः परमाणवः ॥ ६२ ॥
大麦、小麦、绿豆等;酥油(净化黄油);油;牛乳;凝乳(酸乳);粗糖(jaggery);以及诸果——这些也被称为属于地大之微细粒子(原子)。
Verse 63
तदेतद्भवता ज्ञात्वा मिष्टामिष्टविचारि यत् । तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये ॥ ६३ ॥
既知此理,并能辨别可喜与不可喜,当修习以息心为依止之行——因为解脱(moksha)确由此而得。
Verse 64
इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप । प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ ६४ ॥
大王啊,尼达伽听罢他那依止至上真实之言,便以恭敬顶礼俯伏,而后开口说道。
Verse 65
प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥ ६५ ॥
愿你垂慈,为我之利益;请告知你为何而来。闻汝此言,噢二次生者(dvija),我之迷惑已然消散。
Verse 66
ऋभुरुवाच । ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहागतोऽहं दास्यामि परमार्थं सुबोधितम् ॥ ६६ ॥
Ṛbhu说道:“我乃Ṛbhu,是你的师长,噢二次生者(dvija)。我来此为赐你智慧;我将把至上真理清晰开示于你。”
Verse 67
एक एवमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरुपं परात्मनः ॥ ६७ ॥
当知此一切唯是一体:整个宇宙并非真实分裂。此即以“婆苏提婆”(Vāsudeva)之名所称的至上自性——最高我之本体。
Verse 68
ब्रह्मण उवाच । तथेत्युक्त्वा निदाधेन प्रणिपातपुरः सरम् । पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ॥ ६८ ॥
梵天说道:“如是。”言毕,那位大能者即刻离去——在此之前,尼达迦先行顶礼伏地,以至高的奉爱供奉他,尽管主并未求取此等礼敬。
Verse 69
पुनवर्षसहस्त्रंते समायातो नरेश्वर । निदाघज्ञानदानाय तदेव नगरं गुरुः ॥ ६९ ॥
大王啊,又过了一千年,导师回到同一座城中,为的是赐予尼达迦智慧之明。
Verse 70
नगरस्य बहिः सोऽथ निदाघं दृष्टवान् मुनिम् । महाबलपरीवारे पुरं विशति पार्थिवे ॥ ७० ॥
随后,在城外他看见了圣者尼达迦。国王在强盛随从的簇拥下,进入了城中。
Verse 71
दूरस्थितं महाभागे जनसंमर्दवर्जकम् । क्षुत्क्षामकण्ठमायांतमरण्यात्ससमित्कुशम् ॥ ७१ ॥
福德深厚者啊,我见他远离人群喧拥,独处一隅;因饥而喉咙干枯,从林中归来,手持薪柴与库沙草。
Verse 72
दृष्ट्वा निदाघं स ऋभुरुपागत्याभिवाद्य च । उवाच कस्मादेकांतं स्थीयत भवता द्विज ॥ ७२ ॥
见到尼达伽,圣者利布走近,恭敬顶礼而说道:“噢,二次生者,为何你独自立于幽静之处?”
Verse 73
निदाघ उवाच । भो विप्र जनसंमर्द्दो महानेष जनेश्वरे । प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ॥ ७३ ॥
尼达伽说道:“噢,婆罗门,这王城之中人潮汹涌,拥挤甚大。我欲进入那可喜的城镇,因此我站在此处。”
Verse 74
ऋभुरुवाच । नराधिपोऽत्र कतमः कतमश्चेतरो जनः । कथ्यतां मे द्विजश्रेष्ट त्वमभिज्ञो मतो मम ॥ ७४ ॥
利布说道:“此处谁是人中之王,谁又是另一人?噢,二次生者中的最胜者,请告诉我——因为我认定你确是明知之人。”
Verse 75
निदाघ उवाच । योऽयं गजेंद्रमुन्मत्तमद्रिश्रृंगसमुच्छ्रयम् । अधिरुढो नरेन्द्रोऽयं परितो यस्तथेतरः ॥ ७५ ॥
尼达伽说道:“这位便是国王,骑在一头醉狂的象王之上,高耸如山峰;而在他周围站立的那位,就是另一人。”
Verse 76
ऋभुरुवाच । एतौ हि गजराजानौ दृष्टौ हि युगपन्मया । भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ॥ ७६ ॥
利布说道:“确然,我同时看见这两头王象;然而你毫无偏私,却依照吠陀所教的标志,将它们分别辨识出来。”
Verse 77
तत्कथ्यतां महाभाग विशेषो भवतानयोः । ज्ञातुमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ॥ ७७ ॥
噢,大福德者,请为我开示这二者的差别。我愿知晓:在此事中,谁是大象,谁才是真正的人中王?
Verse 78
निदाध उवाच । गजोयोऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः । वाह्यवाहकसंबंधं को न जानाति वै द्विज ॥ ७८ ॥
尼达陀说道:“婆罗门啊,下面的是象,上面坐着的是这位国王。噢二次生者,谁会不知载者与被载者之间的关系呢?”
Verse 79
ऋभुरुवाच । ब्रह्मन्यथाहं जानीयां तथा मामवबोधय । अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ॥ ७९ ॥
利布说道:“婆罗门啊,请如实教导我,使我能正确领会。所谓‘下方的众生之分’是什么意思?又有哪些被称为在上方?”
Verse 80
ब्राह्मण उवाच । इत्युक्त्वा सहसारुह्य निदाघः प्राह तं ऋभुम् । श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ ८० ॥
婆罗门说道:说完这些,尼达陀迅速登上去,对利布说:“请靠近并专心聆听;我现在就告诉你所问之事。”
Verse 81
उपर्यहं यथा राजा त्वमधःकुंजरो यथा । अवबोधाय ते ब्रह्मन्दृष्टांतो दर्शितो मया ॥ ८१ ॥
如我在上如王,你在下如象。婆罗门啊,我以此譬喻示你,为使你得以明了。
Verse 82
ऋभुरुवाच । त्वं राजेव द्विजश्रेष्ट स्थितोऽहं गजवद्यदि । तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ ८२ ॥
Ṛbhu说道:“噢,最殊胜的两次生者,若你如王者般站立,而我如大象般被安置,那么请明白告知——我究竟是什么,你又是什么?”
Verse 83
ब्राह्मण उवाच । इत्युक्तः सत्वरस्तस्य चरणावभिवंद्य सः । निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम् ॥ ८३ ॥
婆罗门说道:被如此问及,尼达达迅速俯伏礼拜其足,说道:“噢,具福者,您是我的师长——确然,您正是Ṛbhu本尊。”
Verse 84
नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा । यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ ८४ ॥
除真正的导师外,无人能有如此被“不二”修持所熏陶、所净炼的心识。因此,我深信我已得您为我的上师(Guru)。
Verse 85
ऋभुरुवाच । तवोपदेशदानाय पूर्वशुश्रूषणात्तव । गुरुस्नेहादृभुर्नामनिदाघं समुपागतः ॥ ८५ ॥
Ṛbhu说道:“为向你传授教诲——因你先前虔敬的侍奉——并出于师者的慈爱,我名Ṛbhu,特来至尼达伽处。”
Verse 86
तदेतदुपदिष्टं ते संक्षेपेण महामते । परमार्थसारभूतं यत्तदद्वैतमशेषतः ॥ ८६ ॥
噢,大慧者,此已为你略说而教——那遍满无余的“不二”真理,正是至上实相的精髓。
Verse 87
ब्राह्मण उवाच । एवमुक्त्वा ददौ विद्यां निदाघं स ऋभुर्गुरुः । निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ॥ ८७ ॥
婆罗门说道:如是言毕,师长梨婆(Ṛbhu)将圣智(vidyā)传授给尼达伽(Nidāgha)。尼达伽亦因其教诲而专心归向不二(Advaita)之道。
Verse 88
सर्वभूतान्यभेदेन ददृशे स तदात्मनः । तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः ॥ ८८ ॥
他以无差别之见观照一切众生,皆为同一自我(Ātman)。于是,那至上的两次生圣者宣说:解脱(mukti)就在梵(Brahman)自身的境地之中。
Verse 89
तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबांधवः । भव सर्वगतं ज्ञानमात्मानमवनीपते ॥ ८९ ॥
因此,你也当如是,知法者啊:对友与敌心同一味。大地之主啊,愿你成为遍一切处的智慧之知,并证悟自我(Ātman)。
Verse 90
सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रांतदृष्टिभिरात्मापि तथैकः सन्पृथक् पृथक् ॥ ९० ॥
正如虚空本是一体,却因白、蓝等差别而被误见为多样;同样,自我(Ātman)虽实为一,却在迷妄之眼前显作种种分别。
Verse 91
एकः समस्तं यदिहास्ति किंचित्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः ॥ ९१ ॥
阿周多(Acyuta)唯是一切:此间凡有所是,皆不离祂;在祂之外别无他物。祂即“我”,祂即“你”,祂即这一切;自我(Ātman)自照自明,而差别之迷不过是妄想之雾。
Verse 92
सनंदन उवाच । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप ॥ ९२ ॥
善难陀那言:蒙彼如是开示,那位最胜之王——具见至上真义之慧眼——舍离一切差别之想。又因忆念前生而生之觉知现前,遂于此生当下证得解脱。
Verse 93
परमार्थाध्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर । ब्राह्मणक्षत्रियविशां श्रोर्तॄणां चापि मुक्तिदम् ॥ ९३ ॥
噢,诸牟尼之主,此关于至上真义的最上内灵之教,已为汝宣说;对婆罗门、刹帝利、吠舍,以及以信心聆听者,此法能赐解脱。
Verse 94
यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया । ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ॥ ९४ ॥
婆罗门啊,正如汝所问,我亦如是为汝宣说。此乃清净之梵智;我又还能说什么呢?
Because ritual effects depend on perishable instruments and materials (fuel, ghee, kuśa; like clay producing a pot) and therefore arise and perish, yielding limited heavenly fruits; by contrast, paramārtha is imperishable and is realized as Self-meditation/knowledge, which directly leads to liberation.
Ribhu uses these questions to deny body–mind identification: hunger and thirst are bodily conditions, satisfaction is a mental mode, and ‘dwelling/going’ presuppose spatial limitation—none of which apply to the all-pervading Self (Puruṣa) that is beyond mind and undivided like space.
It exposes relational distinctions (‘above/below’, ‘carrier/carried’, ‘king/elephant’) as conceptual overlays. When Nidāgha is forced to define who is truly above or below, the constructed nature of difference becomes evident, preparing him to recognize the non-dual Self beyond such predicates.
That the universe is not truly divided; it is the nature of the Supreme Self denoted as Vāsudeva—Acyuta alone is everything (‘I’, ‘you’, and all), while perceived difference is a bhrama (mistaken notion).