Adhyaya 48
Purva BhagaSecond QuarterAdhyaya 4895 Verses

Bharata’s Attachment and the Palanquin Teaching on ‘I’ and ‘Mine’

那罗陀坦言:虽已听闻解除三重苦恼之法,心仍不定,遂问如何忍受羞辱与恶人之残酷。苏多引出圣者萨难陀那,以一段古史使心再得安住。其述利沙婆后裔婆罗多王:以正法治国,礼敬阿多克沙阇(至上毗湿奴),继而舍王位,于沙拉格罗摩修行,日日供奉婆苏提婆,严持戒行。又有怀孕母鹿因惊惧而流产;婆罗多救下幼鹿,生起执著,临终心系其身,遂转生为鹿。因忆前生,他复归沙拉格罗摩,行忏悔与赎罪,后再生为具智的婆罗门。其外示愚钝,忍受众人轻蔑,并被迫为苏毗罗国王抬舆。国王责其抬得不匀时,婆罗门开示深义:重担只落于肢体与大地;强弱不过次第;众生随业在三德(guṇa)之流中运转;真我(Ātman)清净不变,超越自然(Prakṛti);“国王”“抬舆者”皆为概念安立,故以真理观照(tattva-vicāra)则“我”与“我所”之执自崩。

Shlokas

Verse 1

नारद उवाच । श्रुतं मया महामाग तापत्रयचिकित्सितम् । तथापि मे मनो भ्रांतं न स्थितिं लभतेंऽजसा ॥ १ ॥

那罗陀说道:“噢大福德者,我已听闻医治三重苦恼之法;然而我心仍迷乱不安,难以轻易得定。”

Verse 2

आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् । सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ॥ २ ॥

噢,婆罗门啊,人们怎能忍受对自身尊严的冒犯,以及恶人残酷的行径?请你这位赐予荣誉者,为我开示。

Verse 3

सूत उवाच । तच्छ्रृत्वा नारदेनोक्तं ब्रह्मपुत्रः सनंदनः । उवाच हर्षसंयुक्तः स्मरन्भरतचेष्टितम् ॥ ३ ॥

苏多说道:听闻那罗陀所言后,梵天之子善难陀那满怀欢喜,忆念婆罗多的典范行持,便开口说道。

Verse 4

सनंदन उवाच । अत्र ते कथयिष्यामि इतिहासं पुरातनम् । यं श्रुत्वा त्वन्मनो भ्रांतमास्थानं लभते भृशम् ॥ ४ ॥

善难陀那说道:在此我将为你讲述一段古老的圣史;听闻之后,你那迷惘的心将稳稳回归正道与依止。

Verse 5

आसीत्पुरा मुनिश्रेष्ट भरतो नाम भूपतिः । आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ॥ ५ ॥

噢,诸牟尼中最胜者,往昔有一位国王名为婆罗多,乃利沙婆的后裔;因其圣名,此地被称为“婆罗多之分域”(Bhārata-khaṇḍa)。

Verse 6

स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् । पालयामास धर्मेण पितृवद्रंजयन् प्रजाः ॥ ६ ॥

那位国王依父祖相传而得王位,便以正法治国,如慈父般令百姓欢悦安宁。

Verse 7

ईजे च विविधैर्यज्ञैर्भगवंतमधोक्षजम् । सर्वदेवात्मकं ध्यायन्नानाकर्मसु तन्मतिः ॥ ७ ॥

他以种种祭祀礼敬阿多克沙阇之主;观想祂为诸天之自性与本我,纵在多样行事之中,其心亦恒常安住于祂。

Verse 8

ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः । मुक्त्वा राज्यं ययौ विद्वान्पुलस्त्यपुहाश्रमम् ॥ ८ ॥

随后,在得子之后,他对诸欲境生起离染;舍弃王国,这位智者前往普拉斯提耶之子所居的隐修林。

Verse 9

शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् । तत्रासौ तापसो तापसो भूत्वा विष्णोराराधनं मुने ॥ ९ ॥

娑罗伽罗摩乃广大圣域,为求解脱者所常来亲近。于彼处,那位苦行者——成为真正修持苦行之人——奉行对毗湿奴主的礼拜,噢牟尼。

Verse 10

चकार भक्तिभावेन यथालब्धसपर्यया । नित्यं प्रातः समाप्लुत्य निर्मलेऽभलि नारद ॥ १० ॥

噢那罗陀,他以奉爱之情,随所得供品而行供奉;并且每日清晨,于清净澄澈之水中沐浴毕,仍恒常遵行日课。

Verse 11

उपतिष्टेद्रविं भक्त्या गृणन्ब्रह्माक्षरं परम् । अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ॥ ११ ॥

当以虔敬立于日神之前,诵念梵之至上不坏之音节;继而回到林庵,当礼拜婆苏提婆——宇宙之主。

Verse 12

समाहृतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः । फलैः पुष्पैंस्तथा पत्रैस्तुलस्याः स्वच्छवारिभिः ॥ १२ ॥

以自己亲手采集的供品——如祭祀用柴、库沙草、陶土等——并以果实、花与叶,以及与圣罗勒(tulasī)同献的清净之水,当行礼拜供奉。

Verse 13

पूजयन्प्रयतो भूत्वा भक्तिप्रसरसंप्लुतः । सचैकदा महाभागः स्नात्वा प्रातः समाहितः ॥ १३ ॥

她虔诚礼拜,谨慎自持,身心清净,且为奉爱(bhakti)的扩展所充满;有一次,那位福德之人清晨沐浴后,安坐凝神,心意收摄。

Verse 14

चक्रनद्यां जपंस्तस्थौ मुहुर्तत्रयमंबुनि । अथाजगाम तत्तीरं जलं पातुं पिपासिता ॥ १४ ॥

在恰克拉那迪河中,她浸没于水里,不断持诵念诵(japa)达三段牟呼尔塔。随后因口渴难耐,便来到那河岸欲饮水。

Verse 15

आसन्नप्रसवा ब्रह्मन्नैकैव हिणी वनात् । ततः समभवत्तत्र पीतप्राये जले तया ॥ १५ ॥

婆罗门啊,一只母鹿独自从林中出来,已临近分娩。随即就在那儿,在她几乎饮尽的水边,便产下幼鹿。

Verse 16

सिंहस्य नादः सुमहान् सर्वप्राणिभयंकरः । ततः सा सिंहसन्नादादुत्प्लुता निम्नगातटम् ॥ १६ ॥

狮子的吼声极其洪大,令一切众生心生恐惧。闻此狮吼如雷,她惊起跃动,跳向那低洼的河岸。

Verse 17

अत्युञ्चारोहणेनास्या नद्यां गर्भः पपात ह । तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ॥ १७ ॥

因她攀登过于仓促,腹中胎儿坠入河中。被急流之力卷走,又为层层波浪如花鬘般环绕吞没。

Verse 18

जग्राह भरतो गर्भात्पतितं मृगपोतकम् । गर्भप्रच्युतिदुःखेन प्रोत्तुंगाक्रणेन च ॥ १८ ॥

婆罗多抱起那从母胎坠落的小鹿。因流产之苦与凄厉哀号而心生悲悯,遂将其收护。

Verse 19

मुनीन्द्र सा तु हरिणी निपपात ममार च । हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ॥ १९ ॥

噢,诸牟尼之最,那母鹿倒下而亡。见鹿尸横陈,已行苦行的国王心被忧恼所压。

Verse 20

मृगपोतं समागृह्य स्वमाश्रममुपागतः । चकारानुदिनं चासौ मृगपोतस्य वै नृपः ॥ २० ॥

国王将小鹿收为所护,回到自己的林中精舍;并且日复一日,亲自照料它的一切所需。

Verse 21

पोषणं पुष्यमाणश्च स तेन ववृधे मुने । चचाराश्रमपर्यंतं तृणानि गहनेषु सः ॥ २१ ॥

在不断的滋养与照拂下,它渐渐长大,噢圣者;并在精舍边界内外徘徊,于浓密灌木间啃食青草。

Verse 22

दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः । प्रातर्गत्वादिदूरं च सायमायात्यथाश्रमम् ॥ २२ ॥

他走到很远之处,却因惧怕猛虎又再度折返。清晨出行,远行甚远;然而傍晚时分,仍回到那修行的茅庵(阿湿罗摩)。

Verse 23

पुनश्च भरतस्याभूदाश्रमस्योटजांतरे । तस्यतस्मिन्मृगे दूरसमीपपरिवर्तिनि ॥ २३ ॥

又一次,在婆罗多的修行林(阿湿罗摩)之内、茅舍之间,他的心念不断转向那只鹿;它时而远去,时而近来。

Verse 24

आसीञ्चेतः समासक्तं न तथा ह्यच्युते मुने । विमुक्तराज्यतनयः प्रोज्झिताशेषबांधवः ॥ २४ ॥

噢牟尼啊,他的心在彼处深深执著,却并未同样系念于阿周多(不堕之主)。纵然他舍弃王国与儿子,断绝其余亲缘,内心仍未能以同等的奉爱归向那不坏者。

Verse 25

ममत्व स चकारोञ्चैस्तस्मिन्हरिणपोतके । किं वृकैभक्षितो व्याघ्नैः किं सिंहेन निपातितः ॥ २५ ॥

他对那幼鹿大声生起“我所拥有”的执念(我慢、我所),忧问道:“是否被豺狼吞食?是否被猛虎攫去?或是被狮子击倒?”

Verse 26

चिरायमाणे निष्कांते तस्यासीदिति मानसम् । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ २६ ॥

当他久迟未出时,她心中生起念头:“他莫非遭遇了什么?”那只鹿因爱与喜悦而面容明朗,仍静立在她身旁。

Verse 27

समाधिभंगस्तस्यासीन्ममत्वाकृष्टमानसः । कालेन गच्छता सोऽथ कालं चक्रे महीपतिः ॥ २७ ॥

他的三摩地被打断,因为心被“这是我的”的执著所牵引。随着时光流逝,那位国王终至寿尽,落入迦罗(时间)的权柄之中。

Verse 28

पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः । मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ॥ २८ ॥

他如父亲凝望儿子般注视那幼鹿;当下所见唯有那鹿。即使在舍弃最后一息之时,他的心仍系于它。

Verse 29

मृगो बभूव स मुने तादृशीं भावनां गतः । जाति स्मरत्वादुद्विग्नः संसारस्य द्विजोत्तम ॥ २९ ॥

噢,牟尼,他因陷入那般心念而转生为鹿。又因忆念前生,噢,最胜的二次生者,他对轮回世间(saṃsāra)生起忧惧与烦恼。

Verse 30

विहाय मातरं भूयः शालग्राममुपाययौ । शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् ॥ ३० ॥

他再次离开母鹿,前往圣地沙拉格拉摩(Śālagrāma)。在那里,他以枯草与树叶自养,取之为食以维持身命。

Verse 31

मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ । तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ॥ ३१ ॥

他为那导致鹿身的业行而行忏悔与净除。就在彼处,舍弃那一身后,他再生为二次生的婆罗门(dvija),具足宿命之忆。

Verse 32

सदाचारवतां शुद्धे यागिनां प्रवरे कुले । सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित् ॥ ३२ ॥

他生于清净而卓越的家族,族中皆为持正行者与善行祭祀(yajña)之上首;他具足一切知识,真实通达诸部圣典(śāstra)的要义与真谛。

Verse 33

अपश्यत्स मुनिश्रेष्टः स्वात्मानं प्रकृतेः परम् । आत्मनोधिगतज्ञानाद्द्वेवादीनि महामुने ॥ ३३ ॥

于是,那位最胜牟尼观见自身之我(Ātman)超越于自然性(Prakṛti)之上。噢大圣者,由在自我中证得的智慧,憎恨等诸烦恼冲动皆被遣除。

Verse 34

सर्वभूतान्यभे देन ददर्श स महामतिः । न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ॥ ३४ ॥

那位大慧之人观一切众生皆不异(于唯一实在)。然而,即便已受入学圣线礼(upanayana),他仍不研习师长所传的圣闻(śruti)。

Verse 35

न ददर्श च कर्माणि शास्त्राणि जगृहे न च । उक्तोऽपि बहुशः किंचिज्जंड वाक्यमभाषत ॥ ३५ ॥

他甚至不顾经律所定之行持,也不取诸圣典而学习;纵使屡次教诲,他也只吐出寥寥数语,迟钝而无义。

Verse 36

तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् । अपद्धस्तवपुः सोऽपि मलिनांबरधृङ् मुने ॥ ३६ ॥

甚至他的言语也无修饰、无雅范,夹杂乡野俗语与市井口吻;而那人本身——噢牟尼——亦形容不整,衣着污秽。

Verse 37

क्लिन्नदंतांतरः सर्वैः परिभूतः स नागरैः । संमानेन परां हानिं योगर्द्धेः कुरुते यतः ॥ ३७ ॥

因其齿缝污秽、显得不净,城中众人皆轻蔑于他;而此等羞辱,足以使瑜伽成就与福祉兴盛大为损失。

Verse 38

जनेनावमतो योगी योगसिद्धिं च विंदति । तस्माञ्चरेत वै योगी सतां धर्ममदूषयन् ॥ ३८ ॥

纵使为世人所轻贱,瑜伽行者仍能得瑜伽成就。是故,瑜伽行者当如实行持,不毁谤贤善所护持的正法。

Verse 39

जना यथावमन्येयुर्गच्छेयुर्नैव संगतिम् । हिरण्यगर्भवचनं विचिंत्येत्थं महामतिः ॥ ३९ ॥

纵使众人轻慢他、避而不与相交,胸怀广大者亦当如是思惟:忆念由金胎(梵天,Hiraṇyagarbha)所宣说的教诲。

Verse 40

आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने । भुंक्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान् ॥ ४० ॥

他在众人前示现为愚钝或癫狂之相;并以粗淡之食度日——煮熟谷粒团、青菜、野果,以及零散的碎食。

Verse 41

यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् । पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबांधवैः ॥ ४१ ॥

人所获得的任何财富,确会被许多人所耗用,因为它是时光所生之物。及至父亲去世,那财富便为兄弟、堂表亲与诸亲族所取用。

Verse 42

कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः । सरूक्षपीनावयवो जडकारी च कर्मणि ॥ ४२ ॥

他被驱使去做农田劳作等苦役,只靠粗劣的食物维生,四肢干枯消瘦,于是做事迟钝而缓慢。

Verse 43

सर्वलोकोपकरणं बभूवाहारवेतनः । तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ॥ ४३ ॥

他成了对众人都有用的仆役,以食物为工钱而劳作;然而他仍无教化、无熏修,举止乖张,不合其本为婆罗门的天性。

Verse 44

क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत । स राजा शिबिकारूढो गंतुं कृतमतिर्द्विज ॥ ४४ ॥

婆罗门啊,苏毗罗国的宫廷侍从(kṣattā)认为那人适合服强役(viṣṭi)。国王端坐轿中,已决意启程前行。

Verse 45

बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् । श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ॥ ४५ ॥

在伊克舒玛蒂河岸边,矗立着迦毗罗圣仙的殊胜道场。他沉思道:“此轮回世间多苦,世人究竟有何真实之善?”

Verse 46

प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् । उवाह शिबिकामस्य क्षत्तुर्वचनचोदितः ॥ ४६ ॥

他欲请问名为迦毗罗的大牟尼——通达解脱之法者——便在侍从长的命令催促下,扛起了那乘舆。

Verse 47

नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः । गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ॥ ४७ ॥

在被名为“毗什底”(Viṣṭi)的恶势所攫之人中,乃至在其他人群中,那位圣贤——纵立于其中——也被毗什底所擒,婆罗门啊,他乃一切知识唯一之器。

Verse 48

जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् । ययौ जडगतिस्तत्र युगमात्रावलोकनम् ॥ ४८ ॥

他能忆念前生,愿诸罪消尽,便娶她为妻。其后他行止如痴如钝,停留彼处,只是凝望,仿佛一劫(yuga)之久。

Verse 49

कुर्वन्मतिमतां श्रेष्टस्ते त्वन्ये त्वरितं ययुः । विलोक्य नृपतिः सोऽथ विषमं शिबिकागतम् ॥ ४९ ॥

当诸智者中最卓越者尚在思量时,其余人已匆匆前行。于是国王见轿舆行进高低不匀、摇晃失衡,便留意起来。

Verse 50

किमेतदित्याह समं गम्यतां शिबिकावहाः । पुनस्तथैव शिबिकां विलोक्य विषमां हसन् ॥ ५० ॥

国王说道:“这是怎么回事?”“抬轿的人啊,走得平稳些!”然而他又见轿舆仍旧如前般高低不齐,便笑了起来。

Verse 51

नृपः किमेऽतदित्याह भवद्भिर्गम्यतेऽन्यथा । भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः । शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥ ५१ ॥

国王说:“这是怎么回事?你们走得不对。”那抬轿者多次听见这位国土之主如此发话,便答道:“他在前行。”于是他们不急不缓地继续走去。

Verse 52

राजोवाच । किं श्रांतोऽस्यल्पमध्वानं त्वयोढा शिबिका मम । किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ॥ ५२ ॥

国王说道:“路途不过短短一段,你抬着我的肩舆就疲惫了吗?你难道不能忍受劳作?你不是应当健壮吗?我看你却并不健壮。”

Verse 53

ब्राह्मण उवाच । नाहं पीवा न चैवोढा शिबिका भवतो मया । न श्रांतोऽस्मि न चायासो वोढान्योऽस्ति महीपते ॥ ५३ ॥

婆罗门说道:“我既非嗜酒之人,也并非为你抬肩舆的担夫。我不疲惫,也不觉劳苦。大王啊,另有其人方是抬舆者。”

Verse 54

राजोवाच । प्रत्यक्षं दृश्यते पीवात्वद्यापि शिबिका त्वयि । श्रमश्च भारो द्वहने भवत्येव हि देहिनाम् ॥ ५४ ॥

国王说道:“明明白白——即便今日——肩舆仍重压在你身上。凡有形之身者,负重之时必生疲劳与重担。”

Verse 55

ब्राह्मण उवाच । प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद । बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ ५५ ॥

婆罗门说道:“大王,请说出你亲眼所见之事。至于‘强’与‘弱’之类的限定词,应当随后再说,只是次要分别。”

Verse 56

त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्या तदप्यत्र भवान् श्रृणोतु वचनं मम ॥ ५६ ॥

“‘是你抬了肩舆’这一念,至今仍牢牢系在你心中;然而它并不真实。于此事上,请听我所言。”

Verse 57

भूमौ पादयुगं चाथ जंघे पादद्वये स्थिते । ऊरु जंघाद्वयावस्थौ तदाधारं तथोदरम् ॥ ५७ ॥

双足安置于大地之上;两足之上立着小腿。双腿之上承托大腿,而其所依之支撑,即为腹部(躯干)。

Verse 58

वक्षस्थलं तथा बाहू स्कंधौ चोदरसंस्थितौ । स्कंधाश्रितयें शिबिका ममाधारोऽत्र किंकृतः ॥ ५८ ॥

胸与双臂,以及安置于腹上的双肩——此舆(肩舆)依于肩上而行。那么,此处所谓“我”依凭何物?究竟被抬载的又是什么?

Verse 59

शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् । तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ॥ ५९ ॥

若此身坐于肩舆之中而被认作“你”,那么也可说“你在彼处,我在此处”;然而真实的情形并非如此。

Verse 60

अहं त्वं च तथान्ये च भूतैरुह्याश्च पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ ६० ॥

大王啊,我与你以及他人——乃至如草木之类的众生——这一切生类,皆堕入诸性(guṇa)之流,随流迁变,走向败坏与更易。

Verse 61

कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते । अविद्यासंचितं कर्मतश्चाशेषेषु जंतुषु ॥ ६१ ॥

大地之主啊,这些性(guṇa)——以清净(sattva)等为首——亦受业(karma)所制。由无明(avidyā)而业积聚,故其作用遍及一切众生,无有例外。

Verse 62

आत्मा शुद्धोऽक्षरः शांतो निर्गुणः प्रकृते परः । प्रवृद्ध्यपचयौ न स्त एकस्याखिलजंतुषु ॥ ६२ ॥

真我(Ātman)清净、不坏、寂静——无诸相,超越物质自然(Prakṛti)。彼一真我遍在一切众生之中,无增无减。

Verse 63

यदा नोपचयस्तस्य नचैवापचयो नृप । तदापि बालिशोऽसि त्वं कया युक्त्या त्वयेरितम् ॥ ६३ ॥

大王啊,既然对彼而言既无增亦无减,而你仍如此愚昧;你凭何道理说出此言?

Verse 64

भूपादजंघाकट्यूरुजठरादिषु संस्थिता । शिबिकेयं यदा स्कंधे तदा भारः समस्त्वया ॥ ६४ ॥

当这乘舆仍安置于地上——依于足、胫、髋、股、腹等处——便由多处共同支撑;而当这乘舆置于你的肩上时,全部重担便唯你一人承担。

Verse 65

तथान्यजंतुभिर्भूप शिबिकोढान केवलम् । शैलद्रुमगृहोत्थोऽपि पृथिवीसंभवोऽपि च ॥ ६५ ॥

同样地,大王啊,这乘舆以及抬负之事,不过是诸他众生之所为。即便出自山岳、林木与屋舍之物,也同样由大地而生。

Verse 66

यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप । सोढव्यः सुमहान्भारः कतमो नृप ते मया ॥ ६६ ॥

大王啊,正如人之“我与他”之别由物质机能而起,同样也会生出极重之担。请告我,大王:你所谓的重担,究竟是哪一担要我来负?

Verse 67

यद्द्रव्यो शिबिका चेयं तद्द्रव्यो भूतसंग्रहः । भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ॥ ६७ ॥

构成此轿舆的同一质料,也正是汇聚一切有情众生的质料。承蒙你的教诲,我对整个世界的理解,因平等观(samatā)而得以坚固增长。

Verse 68

सनंदन उवाच । एवमुक्त्वाऽभवंन्मौनी स वहञ्शिबिकां द्विजः । सोऽपि राजाऽवतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥ ६८ ॥

萨难陀那说道:说完这些,那位婆罗门便默然无言,仍继续抬着轿舆。国王也迅速下到地上,急忙趋前,恭敬地抱住他的双足。

Verse 69

राजोवाच । भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज । कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ॥ ६९ ॥

国王说道:“喂!喂!放下轿舆,赐我恩慈吧,哦二次生者。请告诉我——你是谁,竟站在此处,披着这般卑陋的伪装?”

Verse 70

यो भवान्यदपत्यं वा यदागमनकारणम् । तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ ७० ॥

贤者啊,无论是关于婆伐尼的子嗣,还是你来此的缘由,请都为我详说;因为我渴望聆听你的言教。

Verse 71

ब्राह्मण उवाच । श्रूयतां कोऽहमित्येतद्वक्तुं भूप न शक्यते । उपयोगनिमित्तं च सर्वत्रागमनक्रिया ॥ ७१ ॥

婆罗门说道:“请听,国王啊;以那种方式说‘我是谁’并不可行。凡人之来去,在一切处皆由某种目的(功用)所促成。”

Verse 72

सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ । धर्माधर्मोद्भवौ भोक्तुं जंतुर्देहादिमृच्छति ॥ ७२ ॥

乐与苦的受用,确实促成了此身以及一切有身之境。由法与非法(dharma 与 adharma)所生,众生得此身与诸缘,为的是承受并体验其果报。

Verse 73

सर्वस्यैव हि भूपाल जंतोः सर्वत्र कारणम् । धर्माधर्मौ यतस्तस्मात्कारणं पृच्छ्यते कुतः ॥ ७३ ॥

大王啊,对一切有身众生而言,于一切处境之中,正是法与非法(dharma 与 adharma)为其因。既然如此,又何必追问另有一个“原因”从何而来?

Verse 74

राजोवाच । धर्माधर्मौ न संदेहः सर्वकार्येषु कारणम् । उपभोगनिमित्तं च देहाद्देहांतरागमः ॥ ७४ ॥

国王说道:毫无疑问,法与非法(dharma 与 adharma)是诸行及其果报之因;而众生为了受用业果,才从此身迁至彼身。

Verse 75

यत्त्वेतद्भवता प्रोक्तं कोऽहमित्येतदात्मनः । वक्तुं न शक्यते श्रोतुं तन्ममेच्चा प्रवर्तते ॥ ७५ ॥

你所说的——对真我之探问:“我是谁?”——实难以言尽,也难以尽听尽解;然而,我心中已生起追随此道的渴慕。

Verse 76

योऽस्ति योऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते । आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विजा ॥ ७६ ॥

婆罗门啊,“谁在存在,谁被称为‘我’”,实难以言说。然“我”之一词,若唯指向真我(Ātman),并非过失,诸二生者啊。

Verse 77

ब्राह्मण उवाच । शब्दोऽहमिति दोषाय नात्मन्येवं तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ॥ ७७ ॥

婆罗门说道:“说‘我就是言语’会招致过失;而对真我(Ātman)并非如此。把对真我的觉知投射到非我之物上,是一种过错;所谓‘言语’,只是《圣闻》(Śruti)所认可的名相而已。”

Verse 78

जिह्वा ब्रवीत्यहमिति दंतौष्टतालुक नृप । एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ ७८ ॥

“大王啊,舌头说:‘我(在说)’,而牙齿、嘴唇与上腭也同样在起作用。然而这‘我’之宣称是借由舌头而立,因为其余诸者不过是助成言语生起的因缘。”

Verse 79

किं हेतुभिर्वदूत्येषा वागेवाहमिति स्वयम् । तथापि वागहमेद्वक्तुमित्थं न युज्यते ॥ ७९ ॥

“她何必还要凭借种种理由来说呢?言语本身自会宣告:‘我就是言语。’即便如此,也不应以这种方式说:‘我就是言语。’”

Verse 80

पिंडः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः । ततोऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम् ॥ ८० ॥

“大王啊,既然这具由头、手等特征所标识的身体之团,确与人(真我)相别,那么我又怎能在何处把‘我’这一称谓正当地安置在它之上呢?”

Verse 81

यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम् । न देहोऽहमयं चान्ये वक्तुमेवमपीष्यते ॥ ८१ ॥

“诸王之最胜者啊,若真有任何人高于我,那么他人或可如此言说;然而‘我并非此身’这一断言,并不适合由任何旁人代为宣称。”

Verse 82

यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तददा हि को भवान्कोऽहमित्येतद्विफलं वचः ॥ ८२ ॥

当了悟唯一的自性(普鲁沙,Puruṣa)安住于一切身中时,“你是谁、我是谁”的言语便成了空谈无义。

Verse 83

त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः । अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ ८३ ॥

“你是国王;这是肩舆;我们是走在前面并抬着它的轿夫。然而你这‘王位’并非真实不变;因此在最高义中,你并不名为王。”

Verse 84

वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्टिता । क्व वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप ॥ ८४ ॥

由树而成木材,由木材制成此肩舆,你正坐其上。于是,王啊,如今它哪里还称得上“树”,又哪里还称得上“木材”呢?

Verse 85

वृक्षारूढो महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ॥ ८५ ॥

大王啊,当你在树上时,人们并不与您交谈;当你坐在肩舆中时,也无人把你当作在地上那样称呼。

Verse 86

शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः । अन्विष्यतां नृपश्रेष्टानन्ददाशिबिका त्वया ॥ ८६ ॥

此肩舆不过是许多木片的聚合,只因排列而得名“肩舆”。王中之最啊,请你细察探求其真实;你将发现,凭正辨别,它能赐予觉悟与喜悦。

Verse 87

एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् । क्व जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥ ८७ ॥

同样地,应当细察伞与伞骨被设想为彼此分离之说。“伞从何处出生?”——这一推理同样适用于你,也同样适用于我。

Verse 88

पुमान्स्त्री गौरजा बाजी कुंजरो विहगस्तरुः । देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ ८८ ॥

男人与女人;牛、山羊与马;大象、飞鸟与树木——这些世间的称谓应知只是就身体而立,并当了知皆由业的因缘而起。

Verse 89

पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ ८९ ॥

真我实非天神,亦非人类,非禽兽,甚至非草木。大王啊,这些不过是身体形相的差别,皆从业之胎藏(受身之因)而生。

Verse 90

वस्तु राजेति यल्लेके यञ्च राजभटात्मकम् । तथान्यश्च नृपेत्थं तन्न सत्यं कल्पनामयम् ॥ ९० ॥

世人称为“国王”的那一实体,以及由“国王与侍从(随从)”所构成的一切,乃至以此方式被想作“统治者”的种种——都非究竟真实;只是由想象与概念所造作。

Verse 91

यस्तु कालांतरेणापि नाशसंज्ञामुपैति वै । परिणामादिसंभूतं तद्वस्तु नृप तञ्च किम् ॥ ९१ ॥

然而,那即便经过时日也被称作“已毁灭”的——由变异等过程所生——那究竟是什么东西呢,大王?

Verse 92

त्वं राजा सर्वसोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ॥ ९२ ॥

你是诸般忧苦之王;对父亲你是儿子,对仇敌你是仇敌;对妻子你是丈夫,对孩子你是父亲。那么,噢大王,你究竟是谁?我将为你开示。

Verse 93

त्वं किमेतच्चिरः किं तु शिरस्तव तथो दरम् । किमु पादादिकं त्वेतन्नैव किं ते महीपते ॥ ९३ ॥

你这头颅是什么?而所谓“你的头”究竟是什么——同样,你的腹又是什么?这些脚与诸肢又是什么?实则,噢大地之主,你身上有什么真可称为“你的”?

Verse 94

समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः । कोऽहमित्यत्र निपुणं भूत्वा चिंतय पार्थिव ॥ ९४ ॥

你安住为一,迥然有别于一切肢体及其诸成分。因此,噢国王,当善巧于此探问,深深观照:“我是谁?”

Verse 95

एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् । पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कथम् ॥ ९५ ॥

当如是确立了真实(tattva)之后,噢国王,又怎能仍执著“我”与“我所”,仿佛那是须以各自孤立之力去造作并维系之物?

Frequently Asked Questions

The chapter frames the danger not in compassion itself but in mamatā (possessive ‘mine-ness’) that displaces devotion to Acyuta; the mind’s fixation at death (antya-smṛti) crystallizes karmic continuity, demonstrating how attachment can redirect the trajectory of sādhana into saṃsāra.

It dismantles the assumption of a fixed agent (‘I carry’/‘you are carried’) by tracing ‘burden’ through bodily parts and material supports, then relocating reality in the nirguṇa Ātman beyond Prakṛti; social identities like ‘king’ and ‘bearer’ are shown as conceptual designations that dissolve under tattva-vicāra.