
रैवतमन्वन्तर-प्रस्तावः (Raivata-manvantara-prastāvaḥ)
Slaying of Mahishasura
本章叙述瑞伐提星宿(Revatī Nakṣatra)因违背正法与业力之果而衰落,光辉受损、地位坠落。后在诸天恩泽、圣仙(ṛṣi)教诲与清净祭仪的力量下,瑞伐提得以复归本位,显现慈悲与救赎。并由此引出瑞伐多摩奴(Raivata Manu)的诞生与“瑞伐多摩奴劫”(Raivata-manvantara)的开端,彰显正法被尊奉时宇宙秩序的再度确立。
Verse 1
इति श्रीमार्कण्डेयपुराणेऽथ तामसमन्वन्तरे चतुःसप्ततितमोऽध्यायः । पञ्चसप्ततितमोऽध्यायः— मार्कण्डेय उवाच । पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः । तस्योत्पत्तिं विस्तरशः शृणुष्व कथयामि ते ॥
至此,《圣摩尔甘德耶往世书》于塔摩萨摩奴劫中的第七十四章告终。今起第七十五章。摩尔甘德耶言:“婆罗门啊,第五位摩奴以‘赖瓦塔’(Raivata)之名著称。请详听其来历;我将为你宣说。”
Verse 2
ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः । तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः ॥
曾有一位福德具足的圣仙,名闻为利塔瓦克(Ṛtavāk)。虽本无子,却为他诞生一子——大心者勒瓦提延塔(Revatyanta)。
Verse 3
स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः । तथोपनयनादींश्च स चाशीলোऽभवन्मुने ॥
他依正法为其施行从诞生礼(jātakarma)起的诸仪轨,也施行从入门受戒礼(upanayana)起的诸仪轨。然而,圣者啊,那儿子却变得行为不端。
Verse 4
यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः । दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः ॥
自那孩子出生之时起,就在那一刻,圣仙亦然——诸仙中如雄牛者——被一种缠绵不去的疾病所攫住。
Verse 5
माता तस्य परामार्तिः कुष्ठरोगादिपीडिता । जगाम स पिता चास्य चिन्तयामास दुःखितः ॥
其母陷入极度悲苦,为麻风等诸病所折磨;其父亦忧惧不安,沉入焦虑的思虑之中。
Verse 6
किमेतदिति सोऽप्यस्य पुत्रोऽप्यत्यन्तदुर्मतिः । जग्राह भार्यामन्यस्य मुनिपुत्रस्य सम्मुखीम् ॥
“这是怎么回事?”——连他的儿子,那心性极其邪恶者,也当着他的面夺取他人之妻,即一位圣仙之子的妻子。
Verse 7
ततो विषण्णमनसा ऋतवागिदमुक्तवान् । अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥
于是,心神沮丧的Ṛtavāk说道:“对世人而言,为求安宁,无子反胜于有恶子。”
Verse 8
कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः । मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः ॥
恶子常令其父心痛;他亦使其母蒙羞受挫,甚至使居于天界的自身祖先也被牵连而堕落。
Verse 9
सुहृदां नोपकाराय पितॄणाञ्च न तृप्तये । पित्रोर्दुःखाय धिग्जन्म तस्य दुष्कृतकर्मणः ॥
他对朋友毫无助益,也不能使祖先得以安慰;因其父母之忧苦——嗟乎,此恶行者之出生当受谴责。
Verse 10
धन्यास्ते तनया येषां सर्वलोकाभिसंमताः । परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः ॥
凡其子为众人所称许者,实为有福——乐于助人,性情安和,并坚定奉行正法之业。
Verse 11
अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् । नरकाय न सद्गत्यै कुपुत्रालम्बि जन्मनः ॥
如此之生无喜而昏钝,背离来世;它导向地狱而非善趣——皆因依赖那恶子之重担。
Verse 12
करोति सुहृदां दैन्यमहितानां तथा मुदम् । अकाले च जरां पित्रोः कुपुत्रः कुरुते ध्रुवम् ॥
恶子使朋友困苦,使仇敌欢喜;并且他必定令父母未老先衰。
Verse 13
मार्कण्डेय उवाच एवṃ सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः । दह्यमानमनॊवृत्तिर्वृत्तं गर्गमपृच्छत ॥
摩迦ṇḍeya说道:于是那位圣者——因那极恶之子所作所为而心火炽然——向伽尔吉耶询问所发生之事。
Verse 14
ऋतवागुवाच सुव्रतेन पुरा वेदा गृहीता विधिवन्मया । समाप्य वेदान् विधिवत् कृतो दारपरिग्रहः ॥
Ṛtavāk说道:往昔我以严谨誓戒,依规学习诸吠陀;既已如法圆满吠陀之学,便又如法进入婚姻之道。
Verse 15
सदारेण क्रियाः कार्याः श्रौताः स्मार्ता वषट्क्रियाः । न मे न्यूनाः कृताः काश्चिद्यावदद्य महामुने ॥
我与妻子一同奉行一切应行之仪——天启祭(śrauta)与传承礼(smārta)——并包括以“vaṣaṭ”作声的献供;直到今日,噢大圣者,我未曾有一事行之不备。
Verse 16
गर्भाधानविधानॆन न काममनुरुध्यता । पुत्रार्थं जनितश्चायं पुन्नाम्नो बिभ्यता मुने ॥
此子乃依所规定的受胎仪轨(garbhādhāna)而得,并非纵欲而为;为求得一子以续嗣,因畏惧名为“Put”的地狱,噢仙人。
Verse 17
सोऽयं किमात्मदोषेण मम दोषेण वा मुने । अस्मद्दुःखवहो जातो दौःशील्याद् बन्धुशोकदः ॥
那么,噢仙人,此子之生,是因其自身之过,抑或因我之过?他已成我等忧苦之负担,又以恶行使我族亲蒙受悲痛。
Verse 18
रेवत्यन्ते मुनिश्रेष्ठ जातोऽयं तनयस्तव । तेन दुःखाय ते दुष्टे काले यस्मादजायत ॥
噢诸圣中最胜者,你的此子生于“Revatī”之末;因此,由于生于不祥之时,他便成了你忧苦的缘由。
Verse 19
न तेऽपचारो नैवास्य मातुर्नायं कुलस्य ते । तस्य दौःशील्यहेतुस्तु रेवत्यन्तमुपागतम् ॥
“你并无过失,母亲亦无过失,此亦非你家族之罪。实则,那不善行的因缘已降临于罗伐提延多(Revatyanta)。”
Verse 20
ऋतवागुवाच यस्मान्ममैकपुत्रस्य रेवत्यन्तसमुद्भवम् । दौःशील्यमेतत्सा तस्मात् पततामाशु रेवती ॥
梨多婆具(Ṛtavāgu)说道:“既然我独子之恶行由罗伐提延多(Revatyanta)而起,故愿罗伐提(Revatī)速从彼等境位坠落(被投下)。”
Verse 21
मार्कण्डेय उवाच तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह । पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः ॥
摩罗迦ṇḍ耶(Mārkaṇḍeya)说道:“当那诅咒如是宣出时,罗伐提之熊(Revatī 作为ṛkṣa之形)便坠落;众人皆目睹其事,心神为惊异所摄。”
Verse 22
रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः । भावयामास सहसा वनकन्दरनिर्झरम् ॥
而那罗伐提之熊坠于鸠牟陀山(Kumuda)之上,顷刻之间,四周便涌现森林、洞窟与溪流。
Verse 23
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकॊऽभवत् । अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीधरः ॥
又因那次坠落,鸠牟陀山遂以“罗伐多迦”(Raivataka)之名闻于世间,成为遍大地极其殊妙之山。
Verse 24
तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनी सरः । ततो जज्ञे तदा कन्या रूपेणातीव शोभना ॥
由那熊的光辉之中,涌现出一座遍布莲华的湖泊;而从那湖中,于彼时诞生了一位少女,形貌极其殊胜,绝美无比。
Verse 25
रेवतीकान्तिसम्भूतां तां दृष्ट्वा प्रमुचो मुनिः । तस्या नाम चकारेत्थं रेवती नाम भागुरे ॥
见到她——由雷瓦蒂之光辉所生——圣仙普拉穆迦为她命名曰:“雷瓦蒂”,噢,婆古里。
Verse 26
पोषयामास चैवैतां स्वाश्रमाभ्याससम्भवाम् । प्रमुचः स महाभागस्तस्मिन्नेव महाचले ॥
而那位有福的圣仙普拉穆迦,便在那座大山之上、就在自己精舍近旁,将她抚育滋养,使之长成。
Verse 27
तान्तु यौवनिनीं दृष्ट्वा कान्यकां रूपशालिनीम् । स मुनिश्चिन्तमामास कोऽस्या भर्ता भवेदिति ॥
然而见她已成妙龄少女,具足美貌,圣仙便思量道:“谁将成为她的夫君?”
Verse 28
एवं चिन्तयतस्तस्य ययौ कालो महान् मुने । न चाससाद सदृशं वरं तस्या महामुनिः ॥
他如此思虑之时,岁月已逝良久,噢,圣者;然而这位大苦行者仍未能为她寻得相称的良婿。
Verse 29
ततस्तस्याः वरं प्रष्टुमग्निं स प्रमुको मुनिः । विवेश वह्निशालां वै प्रष्टारं प्राह हव्यभुक् ॥
于是圣者普罗穆迦欲为她向阿耆尼求问恩赐,便进入火室;吞受供献的阿耆尼对询问者开口说道。
Verse 30
महाबलो महावीर्यः प्रियवाग् धर्मवत्सलः । दुर्गमो नाम भविता भर्ता ह्यस्य महीपतिः ॥
他将具大力与大勇,言辞甘美而奉持达摩;名为杜尔伽摩的国王将成为她的夫君,为大地之主。
Verse 31
मार्कण्डेय उवाच । अनन्तरञ्च मृगयाप्रसङ्गेनागतॊ मुने । तस्याश्रमपदं धीमान् दुर्गमः स नराधिपः ॥
马尔坎德耶说道:于是,噢仙人,在一次狩猎途中,智者杜尔伽摩王来到了那处隐修者的住处。
Verse 32
प्रियव्रतान्वयभवो महाबलपराक्रमः । पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः ॥
他生于普利耶弗罗多的族系,具大力与雄才;为毗克罗摩尸罗之子,出自迦林底之胎。
Verse 33
स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः । अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान् ॥
进入精舍境内,大地之主看见那位纤细的女子;不见仙人,便称她为“亲爱的”,并询问那位圣者的所在。
Verse 34
राजोवाच । क्व गतो भगवाञस्मादाश्रमान्मुनिपुङ्गवः । तं प्रणे तुमिहेच्छामि तत् त्वं प्रब्रूहि शोभने ॥
国王说道:“那位可敬的圣仙、诸牟尼中的雄牛,离开此道场去了何处?我愿被引至他面前到此处;因此,佳人啊,请告知我。”
Verse 35
मार्कण्डेय उवाच । अग्निसालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषितम् । प्रियेत्यामन्त्रणञ्चैव निष्चक्राम त्वरा न्वितः ॥
摩罗迦ṇḍeya说道:那位婆罗门已去火堂;听到她的话语以及“亲爱的”这一称呼,便匆匆忙忙地迅速出来。
Verse 36
स ददर्श महात्मानं राजानं दुर्गमं मुनिः । नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः ॥
圣者看见大心的国王杜尔伽摩,佩带王者的标志,谦恭恭敬地俯首,站在他面前。
Verse 37
तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गौतमम् । गौतमानी यतां शीघ्रमर्घोऽस्य जगतीपतेः ॥
见到他后,圣者便对弟子乔多摩说:“乔多摩,快为这位大地主宰奉上阿尔伽供(迎宾供水)。”
Verse 38
एकस्तावदयं भूपश्चिरकालादुपागतः । जामाता च विशेषेण योग्योर्'घस्य मतो मम ॥
因为首先,这位国王隔了很久才到来;而且更重要的是,尤其作为女婿,我认为他确实堪受阿尔伽供。
Verse 39
मार्कण्डेय उवाच ततः स चिन्तयामास राजा जामातृकारणम् । विवेद च न तन्मौनी जगृहेऽर्घञ्च तं नृपः ॥
马尔坎德耶说:于是国王思惟那与其女婿相关的缘由;又觉察那沉默的圣仙并不受纳,于是国王收回了那用于恭敬迎接的供献(阿尔伽,arghya)。
Verse 40
तमासनगतं विप्रो गृहीतार्घं महामुनिः । स्वागतं प्राह राजेन्द्रमपि ते कुशलं गृहे ॥
那位大圣仙、婆罗门既受阿尔伽(arghya),便对已就座的国王说道:“欢迎!你家中一切安好么?”
Verse 41
कोषे बलेऽथ मित्रेषु भृत्यामात्ये नरेश्वर । तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम् ॥
噫,人中之主——你的国库、军旅与盟友可安泰?你的仆从与大臣可无恙?而你自身,噫,强臂者,万事所系者,可得安康?
Verse 42
पत्नी च ते कुशलीनी यत एवाऽनुतिष्ठति । पृच्छाम्यस्यास्ततो नाहं कुशल्योऽपरास्तव ॥
并且你的王后可安好——由她使家室之法得以延续?因此我问及她;至于你其他的善意之人(或其他女子),我并不以同样方式询问。
Verse 43
राजोवाच त्वत्प्रसादादकुशलं न क्वचिन्मम सुव्रत । जातकौतूहलश्चास्मि मम भार्यात्र का मुने ॥
国王说道:“承蒙尊者恩泽,噫,善持誓戒者,于我无处有不祥。然而我心生疑问:噫,仙人,你所说‘我在此的妻子’究竟是谁?”
Verse 44
ऋषिरुवाच रेवती सुमहाभागा त्रैलोक्यस्यापि सुन्दरी । तव भर्या वरारोहा तां त्वं राजन्न वेत्सि किम् ॥
仙人说道:“罗伐底(Revatī)——福德最胜,丽质甚至冠绝三界——正是你的王后,哦大王,形容殊妙。你难道不识得她吗?”
Verse 45
राजोवाच सुभद्रां शान्ततनयां कावेरीतनयां विभो । सुराष्ट्रजां सुजातां च कदम्बां च वरूथजाम् ॥
国王说道:“尊者,我认识苏婆陀罗(Subhadrā)、商陀多那雅(Śāntatanayā)、迦维梨多那雅(Kāverītanayā)、苏罗湿吒罗阇(Surāṣṭrajā)、苏阇多(Sujātā)与迦檀婆(Kadambā);也认识婆卢吒阇(Varūthajā)。”
Verse 46
विपाठां नन्दिनीं चैव वेद्मि भार्यां गृहे द्विज । तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि कान्वियम् ॥
“婆罗门啊,我在宫中也知道毗跋吒(Vipāṭhā)与难提尼(Nandinī)为我的妻室。然而,尊者,罗伐底并不与我同住;这位我应当认识的罗伐底究竟是谁?”
Verse 47
ऋषिरुवाच प्रियेतिसाम्प्रतं येयं त्वयोक्ता वरवर्णिनी । किं विस्मृतन्ते भूपाल श्लाघ्येयं गृहिणी तव ॥
仙人说道:“方才你自己称她为‘爱妻’——这位卓绝而光辉的女子。大地的守护者啊,你为何忘却了她?你的这位妻子实堪称颂。”
Verse 48
राजोवाच सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने । नात्र कोपं भवान् कर्तुमर्हत्यस्मासु याचितः ॥
国王说道:“我所说确为真实;然而,仙人啊,我的本意并非邪恶。此事之上,愿你莫对我们动怒——我恳求你。”
Verse 49
ऋषिरुवाच तत्त्वं ब्रवीषि भूपाल ! न भावस्तव दूषितः । व्याजहार भवान् एतद् वह्निना नृप चोदितः ॥
仙人说道:“你所言真实,噢大地的守护者;你的意志无有污秽。噢国王,你说此话,是因阿耆尼(火神)所促使。”
Verse 50
मया पृष्टो हुतवहः कोऽस्या भर्तेति पार्थिव । भविता तेन चाप्युक्तो भवान् एव अद्य वै वरः ॥
“噢国王,我曾问呼多婆诃(阿耆尼):‘谁将成为她的丈夫?’ 他回答:‘今日正是你自己作她的新郎。’”
Verse 51
तद्गृह्यतां मया दत्ता तुभ्यं कन्या नराधिप । प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम् ॥
“因此你当接纳她:噢国王,我已将这位少女许配给你。她也已被称呼(并已应允)为‘亲爱的’。你为何仍踌躇犹豫、反复思量?”
Verse 52
मार्कण्डेय उवाच ततोऽसावभवन् मौनी तेनोक्तः पृथिवीपतिः । ऋषिस्तथोद्यता कर्तुं तस्या वैवाहिकं विधिम् ॥
摩罗迦ṇḍeya说道:“于是国王被如此劝告后,默然无言。仙人便准备为她举行婚礼仪轨。”
Verse 53
तमुद्यतं सा पितरं विवाहाय महामुने । उवाच कन्या यत्किञ्चित् प्रश्रयावनतानना ॥
噢大圣者,少女见其父已为婚事备妥,便低眉含羞、谦恭地说了几句话。
Verse 54
यदि मे प्रीतिमांस्तात प्रसीदं कर्तुमर्हसि । रेवत्यृक्षे विवाहं मे तत्करोतु प्रसादितः ॥
“父亲,若您对我心生欢喜并愿赐我恩惠,那么——请以慈悲之心——让我的婚礼在瑞瓦提(Revati)宿(nakshatra)之下举行。”
Verse 55
ऋषिरुवाच रेवत्यृक्षं न वै भद्रे चन्द्रयोगि व्यवस्थितम् । अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते ॥
仙人说道:“温柔的女子啊,瑞瓦提(Revati)并不适合此仪式所需的‘月相相应’(candrayoga)。还有别的宿曜,秀眉者啊,更适宜婚配。”
Verse 56
कन्योवाच तात तेन विना कालो विफलः प्रतिभाति मे । विवाहो विफले काले मद्विधायाः कथं भवेत् ॥
少女说道:“父亲,若没有那(瑞瓦提),时间于我便如无果。像我这样的人,怎能在无果之时成就婚姻?”
Verse 57
ऋषिरुवाच ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति । चकार कोपं क्रुद्धेन तेनर्क्षं विनिपातितम् ॥
仙人说道:“曾有一位苦行者,名闻为Ṛtavāk(利多瓦克),对瑞瓦提动怒;他在忿怒中使那宿曜坠落(被投下)。”
Verse 58
मया चास्मै प्रतिज्ञाता भार्येति मदिरेक्षणा । न चेच्छसि विवाहं त्वं सङ्कटं नः समागतम् ॥
“而我已许诺将她——这位黑眸的少女——嫁与他为妻。若你不愿此婚事,那么一场重大的危难(sankat)已临到我们。”
Verse 59
कन्योवाच ऋतवाक् स मुनिस्तात किमेवं तप्तवांस्तपः । न त्वया मम तातेन ब्रह्मबन्धोः सुतास्मि किम् ॥
少女说道:“父亲,为何那位圣者Ṛtavāk要修行如此严酷的苦行?难道我父亲没有告诉他,我是‘brahma-bandhu’(仅凭出生为婆罗门者)之女吗?”
Verse 60
ऋषिरुवाच ब्रह्मबन्धोः सुता न त्वं बाले नैव तपस्विनः । सुता त्वं मम यो देवान् कर्तुमन्यान् समुत्सहे ॥
圣者说道:“孩子,你并非仅是一个‘brahma-bandhu’之女,也并非出自毫无苦行之人。你是我的女儿——因为凭我的威力,我能令其他诸神得以显现于世。”
Verse 61
कन्योवाच तपस्वी यदि मे तातस् तत् किमृक्षमिदं दिवि । समारोप्य विवाहो मे तदृक्षे क्रियते न तु ॥
少女说道:“父亲,若他确为苦行者,那么天上的这宿(ṛkṣa,星宿)又是什么?请将它上举(移其位置),使我的婚礼得以在那星宿之下举行。”
Verse 62
ऋषिरुवाच एवं भवतु भद्रन्ते भद्रे प्रीतिमती भव । आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव ॥
圣者说道:“如你所愿,吉祥者啊。高贵的女士,且当欢喜。为你之故,我将把‘勒伐底’(Revati)星宿升起并安置在月道之上。”
Verse 63
मार्कण्डेय उवाच ततस्तपः प्रभावेण रेवत्यृक्षं महामुनिः । यथापूर्वं तथा चक्रे सोमयोगी द्विजोत्तम ॥
摩罗迦ṇḍeya说道:“于是,那位大圣者凭其苦行之力——为诸‘二生者’之最胜,修持月相瑜伽者——如其所愿,恰当地复归并安置了勒伐底(Revati)星宿。”
Verse 64
विवाहञ्चैव दुहितुर्विधिवद् मन्त्रयोगिनम् । निष्पाद्य प्रीतिमान् भूयो जामातारमथाब्रवीत् ॥
在如法完成将女儿嫁与那位精通真言之人的婚礼之后,他心生欢喜,便又一次对女婿开口说道。
Verse 65
औद्वाहिकान्ते भूपाल कथ्यतां किं ददाम्यहम् । दुर्लभ्यमपि दास्यामि ममाप्रतिहतं तपः ॥
在婚礼仪轨圆满之际,圣者说道:“大王,请告诉我——我当赐你何物?纵是难得之物,我亦当成就,因为我的苦行(tapas)无有障碍。”
Verse 66
राजोवाच मनोः स्वायम्भुवस्याहमुत्पन्नः सन्ततौ मुने । मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद् वृणोम्यहम् ॥
国王说道:“圣者,我生于自生摩奴(Svāyambhuva Manu)之族系。承蒙垂恩,我祈求一子,愿其成为一劫期(Manvantara)之主宰。”
Verse 67
ऋषिरुवाच भविष्यत्येष ते कामो मनुस्त्वत्तनयो महीम् । सकलां भोक्ष्यते भूप धर्मविच्च भविष्यति ॥
圣者说道:“你的此愿必将实现。你的儿子将成为一位摩奴(Manu);大王啊,他将统御全大地,并且通达法(dharma)。”
Verse 68
मार्कण्डेय उवाच तामादाय ततो भूपः स्वमेव नगरं ययौ । तस्मादजायत सुतो रेवत्याः रैवतो मनुः ॥
马尔坎德耶说道:“于是国王携她返回自己的城邑。由她(瑞瓦蒂)诞生一子——罗伊瓦塔·摩奴(Raivata Manu)。”
Verse 69
समेतः सकलैर्धर्मैर्मानवैः पराजितः । विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित् ॥
他具足一切法(dharma),在人间不可战胜;通达一切论典(śāstra)之义,且为通晓吠陀、学问与诸论著旨趣之人。
Verse 70
तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् । कथ्यमानान् मया ब्रह्मन् निबोध सुसमाहितः ॥
在那一摩奴劫(manvantara)中,噢婆罗门,请全神贯注地聆听,我将叙述诸天、诸仙圣(ṛṣi)、因陀罗以及诸王(pārthiva)。
Verse 71
सुमेधसस्तत्र देवास्तथा भूपतयो द्विज । वैकुण्ठश्चामिताभश्च चतुर्दश चतुर्दश ॥
在那里,噢二次生者,诸天为“善慧者”(Sumedhasa)之众,诸王亦复如是;其中有毗昆陀(Vaikuṇṭha)与阿弥多婆(Amitābha)——各为十四、十四之数。
Verse 72
तेषां देवगणानान्तु चतुर्णामपि चेश्चरः । नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः ॥
而在那四类天众之中,其主为名曰毗布(Vibhū)的因陀罗;他以成就百次祭祀(yajña)而卓然著称。
Verse 73
हिरण्यलोमा वेदश्रीरूर्ध्वबाहुस्तथापरः । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥
其中所列名者有:金毛者(Hiraṇyalomā)、吠陀吉祥(Vedaśrī),以及举臂者(Ūrdhvabāhu);又有吠陀臂(Vedabāhu)、甘露居(Sudhāmā)与大圣仙帕尔迦尼亚(Parjanya)。
Verse 74
वसिष्ठश्च महाभागो वेदवेदान्तपारगः । एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः ॥
又有大福德、通达《吠陀》与《吠檀多》的婆悉吒(Vasiṣṭha)——以上即为罗伊伐多·摩奴(Raivata Manu)之摩奴劫(manvantara)中的七圣仙。
Verse 75
बलबन्धुर्महावीर्यः सुयष्टव्यस्तथापरः । सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः ॥
巴罗班度(Balabandhu)、摩诃毗梨耶(Mahāvīrya)以及苏耶什塔维耶(Suyaṣṭavya);又有萨底耶迦(Satyaka)等——这些都是罗伊伐多·摩奴之子。
Verse 76
रैवतान्तास्तु मनवः कथिता ये मया तव । स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम् ॥
如是,我已为你叙述了直到(并包括)罗伊伐多在内的诸摩奴。这些皆与自生者斯瓦扬布瓦(Svāyambhuva)相系而出——唯独斯瓦罗奇沙(Svārociṣa)摩奴例外。
Verse 77
य एषां शृणुयान्नित्यं पठेदाख्यानमुत्तमम् । विमुक्तः सर्वपापेभ्यो लोकं प्राप्नोत्यभीप्सितम् ॥
凡恒常听闻或诵读此殊胜叙事者,得离一切罪垢,终至所愿之界(世界)。
The chapter interrogates the ethics of progeny by contrasting childlessness with the calamity of a wicked son (kuputra). Ṛtavāk argues that filial adharma produces continual parental suffering and even endangers ancestral well-being, making moral character—not mere lineage—the decisive criterion of ‘beneficial’ birth.
It introduces and legitimizes the fifth Manu, Raivata, by narrating the circumstances leading to his birth (Revatī’s origin, marriage to Durgama, and their son Raivata Manu). It then supplies the customary Manvantara apparatus—named deities, Indra (Vibhu), Saptarṣis, and royal sons—serving as a formal handoff into Raivata’s Manvantara chronology.
The chapter names the deities (including Vaikuṇṭha and Amitābha groups), identifies Indra as Vibhu (associated with many sacrifices), lists Saptarṣis such as Vasiṣṭha along with Hiraṇyalomā, Vedaśrī, Ūrdhvabāhu, Vedabāhu, Sudhāmā, and Parjanya, and notes Raivata Manu’s sons (e.g., Balabandhu, Suyaṣṭavya, and Satyakādyāḥ), establishing Raivata’s Manvantara genealogy.