
नीललोहितरुद्रप्रादुर्भाव-नामस्थानपत्नीपुत्रवर्णन (Nīlalohita-Rudra-prādurbhāva–nāma-sthāna-patnī-putra-varṇana)
Markandeya's Powers
本章叙述尼罗罗希多(鲁陀罗)以炽盛神光显现;梵天为其分配诸多名号、居处与方位、座位等神圣安立。又详述鲁陀罗的配偶(圣力Śakti)、子嗣以及由其所出的诸系谱与族类,彰显宇宙秩序与对鲁陀罗主的敬奉功德。
Verse 1
इति श्रीमार्कण्डेयपुराणे दुः सहोत्पत्तिसमापनं नामैकपञ्चाशौऽध्यायः द्विपञ्चाशोऽध्यायः— मार्कण्डेय उवाच । इत्येष तामसः सर्गो ब्रह्मणोऽव्यक्तजन्मनः । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥
至此,《圣·摩尔甘底耶往世书》中名为“Duḥsaha起源之结语”的第五十一章告终。摩尔甘底耶说道:“由无显(Avyakta)而生的梵天之昏暗性(tāmasa)造化,如是已毕。今我将宣说与鲁陀罗相关的造化;当我陈述之时,汝等谛听。”
Verse 2
तनयाश्च तथैवाष्टौ पत्न्यः पुत्राश्च ते तथा । कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतः प्रभोः ॥
同样地,有八位儿子,他们也各有妻子与子嗣。在劫(kalpa)之初,当主宰梵天(Brahmā)入定观想时,一位在本性上与他相等的儿子被孕生/显现出来。
Verse 3
प्रादुरासीदथाङ्के ’स्य कुमारो नीललोहितः । रुरोद सुस्वरं सो ’थ द्रवंश्च द्विजसत्तम ॥
随后,在他的膝上显现出一名男童,名为尼罗罗希多(Nīlalohita)。他放声啼哭,也四处奔跑,噢,二次生者中最殊胜者。
Verse 4
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह । नाम देहीति तं सो ’थ प्रत्युवाच जगत्पतिम् ॥
梵天在他啼哭时对他说:“你为何哭泣?”他便回答世间之主:“请赐我一个名号。”
Verse 5
रुद्रस्त्वं देव ! नाम्नासि मा रोदीर्धैर्यमावह । एवमुक्तस्ततः सो ’थ सप्तकृत्वो रुरोद ह ॥
“你的名号是鲁陀罗(Rudra),噢,神明;不要哭——安定你的心。”虽如此告诫,他仍又哭了七次。
Verse 6
ततो ’न्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च वै द्विज ॥
于是主宰又赐给他另外七个名号;并且,噢,婆罗门,他也为这八位(及其妻子与子嗣)分别安置了居处。
Verse 7
भवं शर्वं तथेशानं तथा पशुपतिं प्रभुः । भीममुग्रं महादेवमुवाच स पितामहः ॥
那位大祖(梵天 Brahmā)宣说诸名:婆婆(Bhava)、舍尔瓦(Śarva)、伊舍那(Īśāna)、兽主(Paśupati)、可畏者(Bhīma)、猛厉者(Ugra)以及大天(Mahādeva),并另有“鲁陀罗”(Rudra)之名。
Verse 8
चक्रे नामान्यथैतानि स्थानान्येषाञ्चकार ह । सूर्यो जलं मही वह्निर्वायुराकाशमेव च ॥
于是他确立了这些名号,也安置了它们的住处:太阳、水、大地、火、风,以及虚空(以太)。
Verse 9
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् । सुवर्चला तथैवोमा विकेशी चापरा स्वधा ॥
“受灌顶者(苦行者)、婆罗门与苏摩(Soma)”——这些(连同前述者)依次为其住处。其配偶为苏瓦尔查拉(Suvarcalā),又有乌玛(Umā)、维克希(Vikeśī),以及另一位名为斯瓦达(Svadhā)。
Verse 10
स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् । सूर्यादीनां द्विजश्रेष्ठ ! रुद्राद्यैर्नामभिः सह ॥
而(其余的配偶)依次为:娑婆诃(Svāhā)、诸方位(Diśaḥ)、迪克沙(Dīkṣā)与罗希尼(Rohiṇī)——与以“鲁陀罗”起首的诸名相配,适用于以“太阳”起首的那一组;噢,婆罗门中最胜者。
Verse 11
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गो ’थ सन्तानो बुधश्चानुक्रमात् सुतः ॥
而他们的诸子,依次为:沙奈什查罗(Śanaiścara)、舒克罗(Śukra)、罗希坦伽(Lohitāṅga)、摩诺阇婆(Manojava)、斯坎达(Skanda)、萨尔伽(Sarga)、桑塔那(Santāna)以及布陀(Budha)。
Verse 12
एवम्प्रकारो रुद्रोऽसौ सतीं भार्यामविन्दत । दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम् ॥
于是,鲁陀罗(Rudra)得娶萨蒂(Satī)为妻。然而因达克沙(Dakṣa)的忿怒,她遭到拒斥;而那位萨蒂遂舍弃了自身之躯。
Verse 13
हिमवद्दुहिता साभून्मेनायां द्विजसत्तम । तस्या भ्राता तु मैनाकः सखाम्भोधेरनुत्तमः ॥
噢,最殊胜的二生者,她成为喜马瓦特(Himavat)之女,由梅娜(Menā)所生。其兄为迈那迦(Maināka),乃大海无与伦比的挚友。
Verse 14
उपयेमे पुनश्चैनामनन्यां भगवान्भवः । देवौ धाताविधातारौ भृगोः ख्यातिरसूयत ॥
随后,具福德的婆婆(Bhava,即湿婆 Śiva)再度迎娶她——那无可比拟者。婆罗瞿(Bhṛgu)之妻迦耶蒂(Khyāti)诞下两位天神:达特利(Dhātṛ)与毗达特利(Vidhātṛ)。
Verse 15
श्रियञ्च देवदेवस्य पत्नी नारायणास्य या । आयातिर्नियतिश्चैव मेरोः कन्ये महात्मनः ॥
又有室利(Śrī)——诸神之神那罗延那(Nārāyaṇa)之配偶。并且,阿耶蒂(Āyāti)与尼耶蒂(Niyati)乃大心的梅鲁(Meru)之二女。
Verse 16
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ । प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ॥
达特利(Dhātṛ)与毗达特利(Vidhātṛ)各有二妻;由她们诞生二子——普拉那(Prāṇa)与摩利迦ṇḍu(Mṛkaṇḍu),即我光耀的父亲。
Verse 17
मनस्विन्यामहं तस्मात् पुत्रो वेदशिरा मम । धूम्रवत्यां समभवत् प्राणस्यापि निबोध मे ॥
由摩那斯维尼,我得一子,名为韦陀希罗。又由杜姆罗伐蒂,亦诞生了普拉那之子——当从我言而知此。
Verse 18
प्राणस्य द्युतिमान् पुत्र उत्पन्नस्तस्य चात्मजः । अजराश्च तयोः पुत्राः पौत्राश्च बहवोऽभवन् ॥
普拉那之子名为光明者(Dyutimān)者诞生,他亦有一子。由彼二人又生诸子,名为阿阇罗(Ajarā),并有众多孙裔。
Verse 19
पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत । विराजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः ॥
马利支之妻三部底(Sambhūti)生下了满月者(Paurṇamāsa)。而毗罗阇(Virajā)与帕尔瓦塔(Parvata)乃那位大心者的两位儿子。
Verse 20
तयोः पुत्रांस्तु वक्ष्येऽहं वंशसंकीर्तने द्विज । स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास्तथा ॥
今当于族谱诵述中,宣说他们的诸子,噢二次生者。安吉罗娑(Aṅgiras)之妻忆念(Smṛti)亦生下诸女。
Verse 21
सिनीवाली कुहूश्चैव राका भानुमती तथा । अनसूया तथैवात्रेर् जज्ञे पुत्रानकल्मषान् ॥
西尼瓦利(Sinīvālī)与库胡(Kuhū)、罗迦(Rākā)与婆奴摩底(Bhānumatī)——此等为诸女。又阿底利(Atri)之妻阿那苏雅(Anasūyā)生下无垢之子。
Verse 22
सोमं दुर्वाससं चैव दत्तात्रेयञ्च योगिनम् । प्रीत्यां पुलस्त्यभार्यायां दत्तोऽन्यस्तत्सुतोऽभवत् ॥
苏摩(Soma)、杜尔瓦萨(Durvāsas)以及瑜伽行者达塔特雷耶(Dattātreya)——这些(儿子)相继诞生。又由普拉斯提耶(Pulastya)之妻普利蒂(Prīti)生出另一子,名为达塔(Datta);他遂为她之子。
Verse 23
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे । कर्दमश्चार्ववीरश्च सहिष्णुश्च सुतत्रयम् ॥
在前世,人们记得他于自生者摩奴期(Svāyambhuva Manvantara)为阿迦斯提耶(Agastya)。他有三子:迦尔达摩(Kardama)、阿尔瓦毗罗(Ārvavīra)与萨希什努(Sahiṣṇu)。
Verse 24
क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः । क्रतोस्तु सन्नतिर्भार्या बालखिल्यानसूयत ॥
生主普罗诃(Pulaha)之妻刹摩(Kṣamā)诞生了后裔。又,克罗图(Kratu)之妻萨那提(Sannati)诞生了巴拉奇利耶(Bālakhilya)诸仙。
Verse 25
षष्टिर्यानि सहस्राणि ऋषीणामूर्ध्वरेतसाम् । ऊर्जायान्तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥
有六万位仙人(ṛṣi)为上行精者(ūrdhvaretas),清净自持,守护其生殖之力。又,瓦西什塔(Vasiṣṭha)之妻乌尔迦(Ūrjā)确实诞生了七位儿子。
Verse 26
रजोगात्रोर्ध्वबाहुश्च सबलश्चानघस्तथा । सुतपाः शुक्ल इत्येते सर्वे सप्तर्षयः स्मृताः ॥
罗阇伽特罗(Rajogātra)、乌尔德瓦跋呼(Ūrdhvabāhu)、萨婆罗(Sabala)、阿那伽(Anagha)、苏塔帕(Sutapā)与舒克罗(Śukla)——这一切都被追忆为七仙(saptarṣi)。
Verse 27
योऽसावग्निरभीमानी ब्रह्मणस्तनयोऽग्रजः । तस्मात् स्वाहा सुतान् लेभे त्रीन् उदारौजसो द्विज ॥
那位阿耆尼(Agni)——阿毗摩尼(Abhimānī)——为梵天之子、长子;由他,娑嚩诃(Svāhā)得三子,噢二次生者,皆具辉煌威能。
Verse 28
पावकं पवमानञ्च शुचिं चापि जलाशिनम् । तेषान्तु सन्ततावन्ये चत्वारिंशच्च पञ्च च ॥
即帕瓦迦(Pāvaka)、帕瓦摩那(Pavamāna)与舒支(Śuci)——亦名阇罗阿辛(Jalāśin)。在他们的世系中另有诸位,共四十五位。
Verse 29
कथ्यन्ते बहुशश्चैते पिता पुत्रत्रयञ्च यत् । एवमेकोनपञ्चाशद् दुर्जयाः परिकीर्तिताः ॥
这些屡被宣说——即父与三子之组。由是,所谓“四十九位杜尔阇耶(Durjayā)”被加以记述。
Verse 30
पितरो ब्रह्मणा सृष्टा ये व्याख्याता मया तव । अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये ॥
由梵天所造之祖灵(Pitṛ)——我已向你阐明——即阿耆尼施瓦塔(Agniṣvātta)、婆梨沙陀(Barhiṣad),以及无火者与有火者。
Verse 31
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥
由他们,斯瓦陀诃(Svadhā)生二女——梅那(Menā)与陀梨尼(Dhāriṇī)。二者皆为梵论女(brahmavādinī,阐说梵者),亦皆为瑜伽女行者(yoginī),噢二次生者。
Verse 32
उत्तमज्ञानसम्पन्ने सर्वैः समुदिते गुणैः । इत्येषा दक्षकन्यानां कथितापत्यसन्ततिः । श्रद्धावान् संस्मरन्नित्यं प्रजावानभिजायते ॥
具足殊胜智慧,圆满成就一切德行——如是已叙述由达克沙(Dakṣa)诸女所生后裔之谱系。若有人以信心日日忆念此事,便得子嗣之福,后代昌盛。
The chapter frames a theological logic of naming and cosmic function: Rudra’s affect (his weeping) becomes the etiological basis for divine nomenclature, while the allocation of multiple names and stations articulates how a single deity is systematized into differentiated cosmic roles within creation.
Rather than detailing a specific Manu, the chapter supplies the genealogical infrastructure used by Manvantara narratives: it enumerates lineages of deities, ṛṣis, and Pitṛs (e.g., Dhātā–Vidhātā; Prāṇa–Mṛkaṇḍu; Agni’s sons; Pitṛ classes), which later function as recurring anchors for Manvantara-era progeny and cosmic administration.
This Adhyāya is outside the Devī Māhātmya (81–93), but it contributes a key Śaiva–Śākta connective motif through Satī: her relinquishing of the body due to Dakṣa’s conflict and her rebirth as Himavat’s daughter anticipates later Śākta/Śaiva theological developments without presenting the Devī Māhātmya’s battle-narratives or stutis.