Adhyaya 14
VaivasvataCurrent AgeHumanity94 Shlokas

Adhyaya 14: The Messenger of Yama Explains Karmic Retribution and the Causes of Naraka Torments

कर्मविपाक-यातना-वर्णन (Karmavipāka–Yātanā–Varṇana)

Vaivasvata Manvantara

本章中,阎摩(Yama)之使者阐明业报之理,并说明众生在那罗迦(Naraka,地狱)受诸苦刑的因缘。他指出,欺诳、暴行、盗取、违背达摩以及亵渎神圣等罪业,必招感与其相称的惩罚。此段叙述以严峻而警策的语气,唤起对罪业的敬畏,劝人守正行善,以免堕入地狱之苦。

Divine Beings

यम (Yama)यमकिङ्कर (Yamakiṅkara; attendant/messenger of Yama)प्रजापति (Prajāpati)

Celestial Realms

नरक (Naraka; hell realms)स्वर्गलोक (Svargaloka; heaven realm)

Key Content Points

The Yamakiṅkara specifies the king’s fault (ṛtuvyatikrama linked to sexual misconduct/neglect) and declares the sin limited, after which the king is directed toward enjoyment of accrued merit.The king’s observational questions introduce an eschatological catalogue: recurring regeneration of eyes/tongues, cutting by karapatra-like leaves, cooking in hot sands/oils, and other mechanized or animal-mediated torments.A philosophical synthesis of karmavipāka: puṇya and pāpa ripen by deśa-kāla conditions and are exhausted only through bhoga (experienced fruition), producing repeated births across human, divine, and animal states.Ethical taxonomy of sins and punishments: lustful gaze at others’ wives and covetousness (eyes torn), false/hostile teaching and slander (tongues torn), fomenting divisions among kin and social relations (karapatra cutting), cruelty and obstruction of others’ well-being (hot-sand punishments), ritual/hospitality transgressions and impurity (varied naraka outcomes).The chapter underscores speech-ethics (asadvāk, nindā, paiśunya), guru/parent reverence, and communal dharma as central criteria in the moral economy of afterlife suffering.

Focus Keywords

Markandeya Purana Adhyaya 14Karmavipaka in Markandeya PuranaNaraka punishments VajratundaYamakingkara dialoguePuranic ethics of speech and slanderRituvyatikrama sin and consequencesPitri putra samvada Markandeya Purana

Shlokas in Adhyaya 14

Verse 1

इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम त्रयोदशोऽध्यायः । चतुर्दशोऽध्यायः पुत्र उवाच इति पृष्टस्तदा तेन शृण्वतां नो महात्मना । उवाच पुरुषो याम्यो घोरोऽपि प्रसृतं वचः ॥

至此,《圣·摩尔迦ṇḍeya往世书》第十三章——名为“父与子之对话”——告终。随后开启第十四章。当他(儿子)发问之时,那位大心者静听;阎摩的一位可怖之使者开口说道。

Verse 2

यमकिङ्कर उवाच महराज ! यथात्थ त्वं तथैतन्नात्र संशयः । किन्तु स्वल्पं कृतं पापं भवता स्मारयामि तत् ॥

阎摩的侍从说道:“大王啊,你所言确是如此,毫无疑虑。然而,我将提醒你:你曾犯下一桩微小之罪。”

Verse 3

वैदर्भो तव या पत्नी पीवरी नाम नामतः । ऋतुमत्याः ऋतुर्वन्ध्यस्त्वया तस्याः कृतः पुरा ॥

你那位来自毗达婆(Vidarbha)的妻子,名为毗瓦丽(Pīvarī)——当她处于应孕的正当时令(ṛtu)之际——你在久远以前曾违犯其ṛtu,使她成了“失其时令之孕”(即破坏了应守之ṛtu)。

Verse 4

शुशोभनायां कैकेय्यामासक्तेन ततो भवान् । ऋतुव्यतिक्रमात् प्राप्तो नरकं घोरमीदृशम् ॥

其后,你迷恋于美貌的凯凯伊(Kaikeyī),因违犯应守之ṛtu,遂堕入可怖之地狱。

Verse 5

होमकाले यथा वह्निराज्यपातमवेक्षते । ऋतौ प्रजापतिस्तद्वद् बीजपातमवेक्षते ॥

正如行火供(homa)之时,火神等待酥油供献;同样,在正当时令(ṛtu)中,生主(Prajāpati)亦守候“种子之落”(即受胎)。

Verse 6

यस्तमुल्लङ्घ्य धर्मात्मा कामेष्वासक्तिमान् भवेत् । स तु पित्र्यादृणात् पापमवाप्य नरकं पतेत् ॥

凡自以为正直而仍违越此法、贪著诸欲乐者,因轻慢祖先之法度而招致罪业,终将堕入地狱。

Verse 7

एतावदेव ते पापं नान्यत् किञ्चन विद्यते । तदेहि गच्छ पुण्यानामुपभोगाय पार्थिव ॥

你的罪仅此而已,并无他过。故而来吧——如今,王者啊,去享受你功德之果报。

Verse 8

राजोवाच यास्यामि देवानुचर यत्र त्वं मां नयिष्यसि । किञ्चित्पृच्छामि तन्मे त्वं यथावद्वक्तुमर्हसि ॥

国王说道:“噢,诸天的侍从,我将前往你所引领之处。然而我有一问——请如实而准确地告诉我,正如其本然。”

Verse 9

वज्रतुण्डास्त्वमी काकाः पुंसां नयनहारिणः । पुनः पुनश्च नेत्राणि तद्वदेवेषां भवन्ति हि ॥

“这些乌鸦,喙如霹雳金刚(vajra),啄裂人的双眼;而一次又一次,那些眼睛又以同样方式重新生成。”

Verse 10

किं कर्म कृतवन्तश्च कथयैतज्जुगुप्सितम् । हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम् ॥

“请告诉我:他们造作了何等业行,才会遭遇这可憎之事?同样地,他们的舌头也被撕扯而去——却又一次次重新生出。”

Verse 11

परपत्रेण पाट्यन्ते कस्मादेतेऽतिदुःखिताः । करम्भवालुकास्वेते पच्यन्ते तैलगोचराः ॥

“为何这些众生陷于极端苦难——被‘parapatra’(如剃刀般的叶刃/刀片)切割?又为何他们被煮于粥与沙中,并被迫在油里翻动行走?”

Verse 12

अयोमुखैः खगैश्चैते कृष्यन्ते किंविधा वद । विश्र्लिष्टदेहबन्धार्ति-महारावविराविणः ॥

“请告诉我:这些被铁喙之鸟拖拽的,是何等罪人——当其身躯的系缚被撕裂时,他们在剧痛中发出震天的哀号。”

Verse 13

अयश्चञ्चुनिपातेन सर्वाङ्गक्षतदुःखिताः । किमेतेऽनिष्टकर्तारस्तुद्यन्तेऽहर्निशं नराः ॥

“被铁喙坠落所击,遍体创伤而受苦——这些作恶之人是谁?为何这等人竟昼夜受人称颂?”

Verse 14

एताश्चान्याश्च दृश्यन्ते यातनाः पापकर्मिणाम् । येन कर्मविपाकेन तन्ममाशेषतो वद ॥

“这些以及许多别样的苦刑,皆见于作恶者。它们由何种业行成熟而生?请你无所遗漏,尽数告知我。”

Verse 15

यमकिङ्कर उवाच यन्मां पृच्छसि भूपाल ! पापकर्मफलोदयम् । तत्तेऽहं सम्प्रवक्ष्यामि संक्षेपेण यथातथम् ॥

阎摩之使者说道:“大王,你所问于我者——罪业之果如何生起——我将如实而略要地为你解说。”

Verse 16

पुण्यापुण्ये हि पुरुषः पर्यायेण समश्नते । भुञ्जतश्च क्षयं याति पापं पुण्यमथापि वा ॥

“人依次领受福德与罪过;当他经历(其果报)之时,罪——或福——便随之耗尽。”

Verse 17

न तु भोगादृते पुण्यं किञ्चिद्वा कर्म मानवम् । पापकं वा पुनात्याशु क्षयो भोगात् प्रजायते ॥

“然而,除非亲自受用(其果),人的任何行为——无论福业或罪业——都不会迅速消除;其消尽唯由受报之体验(bhoga)而起。”

Verse 18

परित्यजति भोगाच्च पुण्यापुण्ये निबोध मे । दुर्भिक्षादेव दुर्भिक्षं क्लेशात् क्लेशं भयाद्भयम् ॥

当从我处了知福德与罪业的运作:由饥馑唯生饥馑;由苦恼生苦恼;由恐惧生恐惧——一种境况往往引生同类之境。

Verse 19

मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः । गतिं नानाविधां यान्ति जन्तवः कर्मबन्धनात् ॥

由死者又生出所谓“更死者”——即贫困之人、作恶之人。众生为自身业力所系缚,趋向种种不同的归趣。

Verse 20

उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् । श्रद्धधानाश्च शान्ताश्च धनदाः शुभकारिणः ॥

他们从庆典至庆典,从天界至天界,从安乐至安乐——即具信心者、性情和顺者、施财行布施者与行善者。

Verse 21

व्यालकुञ्जरदुर्गाणि सर्पचौरभयानि तु । हताः पापेन गच्छन्ति पापिनः किमतः परम् ॥

穿越猛兽与象群之险,穿越艰难之地,穿越蛇与盗贼之惧——罪人如是而行,为自身之罪所击倒。除此之外,还须多言吗?

Verse 23

अनेकशतसाहस्र-जनमसंचयसञ्चितम् । पुण्यापुण्यं नृणां तद्वत् सुखदुःखाङ्कुरोद्भवम् ॥

人之福德与罪过,积聚自数十万生所汇成的储藏;由此生起安乐与忧苦之芽。

Verse 24

यथा बीजं हि भूपाल ! पयांसि समवेक्षते । पुण्यापुण्ये तथा कालदेशान्यकर्मकारकम ॥

大王啊,正如种子依赖水与诸缘而生长,功德与罪过的成熟亦依赖时、处及其他助缘之行而得其果报。

Verse 25

स्वल्पं पापं कृतं पुंसां देशकालोपपादितम् । पादन्यासकृतं दुःखं कण्टकोत्थं प्रयच्छति ॥

人若在时处因缘所限而造作微罪,其所感之苦亦微,如行步失当而为荆棘所刺之痛。

Verse 26

तत् प्रभूततरं स्थूलं शूलकीलकसम्भवम् । दुःखं यच्छति तद्वच्च शिरोरोगादि दुःसहम् ॥

然若其罪更为繁多粗重,则所感之苦如枪矛或木桩所致之痛;亦复招致难堪之苦,如头痛及诸般疾病。

Verse 27

अपथ्याशनशीतोष्ण-श्रमतापादिकारकम् । तथान्योऽन्यमपेक्षन्ते पापानि फलसङ्गमे ॥

当诸罪引生不善饮食、寒热、疲劳、发热等诸般效应时,彼此便相互依存;及其果报会合之际,遂同趋成熟。

Verse 28

एवं महान्ति पापानि दीर्घरोगादिविक्रियाम् । तद्वच्छस्त्राग्निकृच्छ्रार्ति-बन्धनादिफलाय वै ॥

是故重罪招致诸般失调,如经久不愈之疾病;亦结诸果,如遭兵刃与火所苦、严酷困厄、囚禁等类。

Verse 29

स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छति । स्पर्शं वाप्यथवा शब्दं रसं रूपमथापि वा ॥

即使是微小的功德之行,纵然随意而作,也能赐予怡人的芬芳;同样也带来悦意的触感、悦耳的声音、甘美的滋味,以及美好的形相。

Verse 30

चिराद् गुरुतरं तद्वन् महान्तमपि कालजम् । एवं च सुखदुःखानि पुण्यापुण्योद्भवानि वै ॥

随着时日推移,它也同样变得更为沉重、更为强烈,乃至因岁月流转而增长广大。因此,乐与苦确实由功德与罪业而生。

Verse 31

भुञ्जानोऽनेकसंसारसम्भवानिह तिष्ठति । जातिदेशावरुद्धानि ज्ञानाज्ञानफलानि च ॥

经历由无数轮回所生的果报,有情仍滞留于此世间;而知识与无明之结果,则受其出生(种类/种姓)与所处地域之限制。

Verse 32

तिष्ठन्ति तत्र युक्तानि लिङ्गमात्रेण चात्मनि । वपुषा मनसा वाचा न कदाचित्क्वचिन्नरः ॥

在那里,它们仍然存续,仅以微细的“标记”(liṅga)与自我相系。一个人无论以身、以意、以语,在任何处、任何时,都未曾离此系属而行。

Verse 33

अकुर्वन् पापकं कर्म पुण्यं वाप्यवतिष्ठते । यद्यत्प्राप्नोति पुरुषो दुःखं सुखमथापि वा ॥

若未曾造作罪业——亦未曾造作福业——则无人能留以受其果报。凡人所获,无论苦或乐,皆由业(行动)而来。

Verse 34

प्रभूतमथवा स्वल्पं विक्रियाकारि चेतसः । तावताऽस्य पुण्यं वा पापं वाप्यथ चेतरम् ॥

无论大或小,只要它在心中引起变异;依其程度,对他便成为功德或罪业,或招感相应之果报。

Verse 35

उपभोगात्क्षयं याति भुज्यमानमिवाशनम् । एवमेतॆ महापापं यातनाभिरहर्निशम् ॥

一经受报,便趋于耗尽——如食物被食用而尽。是故这些众生以昼夜之苦刑,消尽重罪。

Verse 36

क्षपयन्ति नरा घोरं नरकान्तरविवर्तिनः । तथैव राजन् पुण्यानि स्वर्गलोकेऽमरैः सह ॥

众人轮转于诸般地狱,消尽可怖之罪。亦复如是,王啊,他们在天界与不死诸天同处时,也将功德受尽而耗竭。

Verse 37

गन्धर्वसिद्धाप्सरसां गीताद्यैरुपभुञ्जते । देवत्‍वे मानुषत्वे च तिर्यक्त्वे च शुभाशुभम् ॥

他们在乾闼婆、悉达与阿普萨罗之中,以歌咏等而享受(其功德)。在天身、人身乃至畜生之身中,他们亦经历吉祥与不吉祥。

Verse 38

पुण्यपापोद्भवं भुङ्क्ते सुखदुःखोपलक्षणम् । यत्त्वं पृच्छसि मां राजन् यातनाः पापकर्मिणाम् । केन केनेति पापेन तत्ते वक्ष्याम्यशेषतः ॥

他领受由功德与罪业所生之果,表现为乐与苦。既然你问我,王啊,关于作恶者所受诸苦刑——“究竟由哪一种特定之罪而起?”——我将为你详尽宣说。

Verse 39

दुष्टेन चक्षुषा दृष्टाः परदाराः नराधमैः । मानसेन च दुष्टेन परद्रव्यञ्च सस्पृहैः ॥

那些最卑劣的人,以污秽之眼窥视他人之妻,又以污秽之心贪求他人之财——对于此等罪业,经中记述了可怖的报应。

Verse 40

वज्रतुण्डाः खगास्तेषां हरन्त्येते विलोचने । पुनः पुनश्च सम्भूतिरक्ष्णोरेषां भवत्यथ ॥

喙如霹雳之鸟啄出他们的双眼;而后双眼又一次次再生(只为再度被撕夺)。

Verse 41

यावतोऽक्षिनिमेषांस्तु पापमेभिर्नृभिः कृतम् । तावद्वर्षसहस्राणि नेत्रात्ति प्राप्नुवन्त्युत ॥

他们作罪之时有多少次眨眼的刹那,便有多少千年要承受双眼被撕夺之苦。

Verse 42

असच्छास्त्रोपदेशास्तु यैर्दत्ता यैश्च मन्त्रिताः । सम्यग्दृष्टेर्विनाशाय रिपूणामपि मानवैः ॥

凡宣说虚妄邪说者,以及劝人行此者——为毁坏正见,纵使(用之)对付仇敌——亦将招致严厉的后果。

Verse 43

यैः शास्त्रमन्यथा प्रोक्तं यैरसद्वागुदाहृता । वेददेवद्विजातीनां गुरोर्निन्दा च यैः कृता ॥

凡所宣说之教违背《沙斯特拉》(śāstra)者;凡出虚妄之言者;以及凡诋毁吠陀、诸天、二生者(dvija)与上师者——其刑罚将于下文宣示。

Verse 44

हरन्ति तेषां जिह्वाश्च जायमानाः पुनः पुनः । तावतो वत्सरानेते वज्रतुण्डाः सदारुणाः ॥

那些恒常可怖的鸟,喙如金刚雷霆,啄裂并拔出其舌;纵使舌头一次又一次再生,也要在同样多的年岁里反复被拔出。

Verse 45

मित्रभेदं तथा पित्रा पुत्रस्य स्वजनस्य च । याज्योपाध्याययोर्मात्रा सुतस्य सहचारिणः ॥

凡制造离间者——在朋友之间、在父与子之间、在自家亲族之中;在行祭者与其主祭的祭司/导师之间;在母与子之间;以及在同伴之间——(以下将加以叙述)。

Verse 46

भार्यापत्योश्च ये केचिद् भेदं चक्रुर्नराधमाः । त हेमे पश्य पाट्यन्ते करपत्रेण पार्थिव ॥

那些卑劣之人,挑拨夫妻之间、父母与子女之间的和合——看吧,国王啊:他们被名为“迦罗帕特罗”(karapatra)的剃刀般利叶切割成碎片。

Verse 47

परोपतापकाः ये च ये चाऽऽह्लादनिषेधकाः । तालवृन्तानिलस्थान-चन्दनोशी्रहारीणः ॥

凡折磨他人者,凡剥夺他人安适与享乐者——夺走扇子(以取清风)、通风的憩所、檀香膏与芬芳的乌施罗草(uśīra)者——皆列于罪人之中。

Verse 48

प्राणान्तिकं ददुस्तापमदुष्टानाञ्च येऽधमाः । करम्भवालुकासंस्थास्त इमे पापभागिनः ॥

那些对无辜者施加致命酷热与折磨的可怜罪徒——这些罪人被迫居于名为“羯蓝婆-瓦卢迦”(karambha-vālukā)的刑罚中(以热沙或如稠粥般灼烫之物受苦)。

Verse 49

भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः । दैवे वाप्यथवा पित्र्ये स द्विधा कृष्यते खगैः ॥

若有人食用他人的 śrāddha 祭供——受一人之邀,却享用属于另一人的供品,无论是奉献诸天之仪,或奉献祖灵之礼——此人将被群鸟拖拽撕裂,分为两段。

Verse 50

मर्माणि यस्तु साधूनामसद्वाग्भिर्निकृन्तति । तमिमे तुदमानास्तु खगास्तिष्ठन्त्यवारिता ॥

然而,以恶言切入善人要害者——这些鸟啄咬刺戳其身,肆无忌惮地立于其上,毫不收敛。

Verse 51

यः करोति च पैशुन्यमन्यवागन्यथामतिः । पाट्यते हि द्विधा जिह्वा तस्येत्थं निशितैः क्षुरैः ॥

凡好搬弄是非、诽谤中伤者——口说一套、心想一套——其舌将被锋利剃刀劈裂为二。

Verse 52

माता-पित्रोर्गुरूणाञ्च येऽवज्ञां चक्रुरुद्धताः । त इमे पूयविण्मूत्र-गर्ते मज्जन्त्यधोमुखाः ॥

那些傲慢之人,轻蔑母亲、父亲与师长——将头朝下坠入满是脓血、粪秽与尿液之坑。

Verse 53

देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च । अभुक्तवत्सु येऽश्नन्ति तद्वत् पित्रग्निपक्षिषु ॥

凡在诸神、宾客、所依附的众生、仆役与来访者尚未得食之时便先行进食者——于祖灵、圣火与群鸟亦同样有罪。

Verse 54

दुष्टास्ते पूयनिर्यास-भुजः सूचীমुखास्तु ते । जायन्ते गिरिवर्ष्माणः पश्यैते यादृशा नराः ॥

那些恶人将成为吞食脓汁与腥臭渗液者;其口如针孔般狭小,所生之身如山岳般巨大——且看这些人将变作何等众生。

Verse 55

एकपङ्क्त्या तु ये विप्रमथवेतरवर्णजम् । विषमं भोजयन्तीह विड्भुजस्त इमे यथा ॥

凡在此世令婆罗门或他种姓之人同列而食,却施食不均者——此等之人将成为食粪者。

Verse 56

एकसार्थप्रयातं ये निः स्वमर्थार्थिनं नरम् । अपास्य स्वान्नमश्नन्ति त इमे श्लेष्मभोजिनः ॥

凡同在一队商旅出行,却弃置无资无援、求助之人,而后自食其粮者——此等将成为食痰者。

Verse 57

गोबाह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैर्नरेश्वर । तेषामेतेऽग्निकुम्भेषु लेलिह्यन्त्याहिताः कराः ॥

大王啊,凡以自身食余不净(ucchiṣṭa)而触及母牛、婆罗门与圣火者——其人之手被置于火器之中,在彼处恒为火焰所舔噬。

Verse 58

सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैस्तु कामतः । तेषां याम्यैर्नरैर्नेत्रे न्यस्तो वह्निः समेध्यते ॥

凡处于食余不净(ucchiṣṭa)之时,仍故意仰视日、月与众星者——阎魔之使将火置入其眼中,并使之燃起。

Verse 59

गावोऽग्निर्जननी विप्रोज्येष्ठभ्राता पिता स्वसा । जामयो गुरवो वृद्धा यैः स्पृष्टास्तु पदा नृभिः ॥

凡以足踢触牛、火、母亲、婆罗门、长兄、父亲、姊妹、姻亲之女性亲属、师长及老者之人——其后必随极其惨重之果报。

Verse 60

बद्धाङ्घ्रयस्ते निगडैलौहैरग्निप्रतापितैः । अङ्गारराशिमध्यस्थास्तिष्ठन्त्याजानुदाहिनः ॥

其足以火炙热之铁镣系缚;立于燃烧炭堆之间,灼烧直至膝部。

Verse 61

पायसं कृशरं छागो देवाऽन्नानि च यानि वै । भुक्तानि यैरसंस्कृत्य तेषां नेत्राणि पापिनाम् ॥

乳粥(pāyasa)、杂饭(kṛśara)、山羊肉,以及凡为诸神所设之食物——若罪人未经正当奉献与仪轨而食此供品,其眼将受刑罚。

Verse 62

निपातितानां भू-पृष्ठे उद्वृत्ताक्षि निरीक्षताम् । सन्दंशैः पश्य कॄष्यन्ते नरैर्याम्यैर्मुखात्ततः ॥

被掷倒于地,双目上翻而视;继而阎摩之使以钳子自其面上拔出其眼。

Verse 63

गुरु-देव-द्विजातीनां वेदानाञ्च नराधमैः । निन्दा निशामिता यैश्च पापानामभिनन्दताम् ॥

凡卑劣之人听闻对师长、诸神、二生者(dvija)与吠陀之诋毁,并且赞同此等罪人者——皆受惩罚。

Verse 64

तेषामयोमयान् कीलानग्निवर्षान् पुनः पुनः । कर्णेषु प्रेरयन्त्येते याम्या विलपतामपि ॥

对他们而言,阎摩之使者反复将铁钉楔入其耳中,令火如雨降下,纵使他们哀号不止。

Verse 65

यैः प्रपा-देव-विप्रौको-देवालयसभाः शुभाः । भङ्क्त्वा विध्वंसमानिताः क्रोधलोभानुवर्तिभिः ॥

凡被嗔怒与贪欲驱使而毁坏、使之倾覆者:公共饮水之处与蓄水设施、供诸天与婆罗门居止之所、寺庙,以及吉祥集会之堂——皆受惩罚。

Verse 66

तेषामेतैः शितैः शस्त्रैर्मुहुर्विलपतां त्वचः । पृथक् कुर्वन्ति वै याम्याः शरीरा॒दतिदारुणाः ॥

对他们而言,极其残酷的阎摩仆从执此利器,反复将皮肤从躯体上剥离;他们在哀号中受此刑。

Verse 67

गोब्राह्मणार्कमार्गेषु येऽवमेहन्ति मानवाः । तेषामेतानि कॄष्यन्ते गुदेनान्त्राणि वायसैः ॥

凡在人与牛、婆罗门及太阳相关之道路或处所小便者,其肠腑将被乌鸦自肛门处扯出。

Verse 68

दत्त्वा कन्यां च एकस्मै द्वितीयाय प्रयच्छति । स त्वेवं नैकधाच्छिन्नः क्षारनद्यां प्रवाह्यते ॥

凡将处女许配于一人,继而又转许于第二人者,必被斩成无数碎段,并被卷入一条灼蚀性的盐卤之河而漂流。

Verse 69

स्वपोषणपरो यस्तु परित्यजति मानवः । पुत्रभृत्यकलत्रादिबन्धुवर्गमकिञ्चनम् ॥

凡一心只顾自身生计而抛弃无助的亲族圈——儿子、仆从、妻子及其余诸人——者,必招致极其沉重的业报。

Verse 70

दुर्भिक्षे सम्भ्रमे वापि सोऽप्येवं यमकिङ्करैः । उत्कृत्य दत्तानि मुखे स्वमांसान्यश्नुते क्षुधा ॥

在饥荒或惊惶之时,此人亦被阎摩之使者如此对待:割下他自身的肉置于其口中,他因饥饿而吞食之。

Verse 71

शरणागतान् यस्त्यजति लोभाद् वृत्त्युपजीविनः । सोऽप्येवं यन्त्रपीडाभिः पीड्यते यमकिङ्करैः ॥

凡因贪欲而弃绝投奔其庇护者——以其为生计所依之人——者,亦被阎摩之使者以诸刑具折磨。

Verse 72

सुकृतं ये प्रयच्छन्ति यावज्जन्म कृतं नराः । ते पिष्यन्ते शिलापेषैर्यथैते पापकर्मिणः ॥

凡终身不报答、亦不承认他人所施之善者,皆为石磨所碾碎;他们便如此受苦,如同这些作恶之人。

Verse 73

न्यासापहारिणो बद्धाः सर्वगात्रेषु बन्धनैः । कृमिवृश्चिककाकोलैर्भुज्यन्तेऽहर्निशं नराः ॥

凡盗取他人托付之寄存财物者,四肢百骸皆被镣铐束缚,昼夜为蛆虫、蝎子与食腐之兽所噬。

Verse 74

क्षुत्क्षामास्तृट्पतज्जिह्वातालवो वेदनातुराः । दिवामैथुनिनः पापाḥ परदारभुजश्च ये ॥

饥肠辘辘,舌颚因干渴而焦灼,痛苦不堪——这些在白昼行房的罪人,以及那些染指他人妻子的奸淫者,皆在此受罚。

Verse 75

तथैव कण्टकैर्दीर्घैरायसैः पश्य शाल्मलिम् । आरोपिता विभिन्नाङ्गाः प्रभूतासृक्स्रवाविलाः ॥

同样,且看那长满长铁刺的设摩罗树(Shalmali):罪人被迫攀爬其上,肢体被撕裂,全身浸透并涂满了涌流的鲜血。

Verse 76

मूषायामपि पश्यैतान् नाश्यमानान् यमानुगैः । पुरुषैः पुरुषव्याघ्र ! परदारावमर्षिणः ॥

且看他们在熔炉中被阎摩(Yama)的随从毁灭——人中之虎啊——那些对他人妻子纵欲无度的人。

Verse 77

उपाध्यायमधः कृत्वा स्तब्धो योऽध्ययनं नरः । गृह्णाति शिल्पमथवा सोऽप्येवं शिरसा शिलाम् ॥

一个傲慢轻视其导师却仍求学或习艺的人,他也受罚:他头顶着一块巨石。

Verse 78

बिभ्रत् क्लेशमवाप्नोति जनमार्गेऽतिपीडितः । क्षुत्क्षामोऽहर्निशं भारपीडाव्यथितमस्तकः ॥

他背负着它,遭遇苦难,在大道上深受折磨——日夜因饥饿而憔悴,头因重负的压迫而疼痛。

Verse 79

मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि । त इमे श्लेष्मविण्मूत्रदुर्गन्धं नरकं गताः ॥

凡以尿、痰与粪秽污浊清水者——彼等即堕入一处充满痰秽、粪秽与尿秽恶臭的地狱。

Verse 80

परस्परञ्च मांसानि भक्ष्यन्ति क्षुधान्विताः । भुक्तं नातिथ्यविधिना पूर्वमेभैः परस्परम् ॥

他们为饥饿所逼,竟互相吞食彼此之肉——因为往昔这些人进食时不守待客之正法,各各轻慢他人。

Verse 81

अपविद्धास्तु यैर्वेदा वह्नयश्चाहिताग्निभिः । त इमे शालशृङ्गाग्रात् पात्यन्तेऽधः पुनः पुनः ॥

凡弃置吠陀、怠慢圣火者——纵为已受灌顶之圣火守持者——亦屡屡自娑罗树角状尖峰之顶被掷落。

Verse 82

पुनर्भूपतयो जीर्णा यावज्जीवन्ति ये नराः । इमे कृमित्वमापन्ना भक्ष्यन्तेऽत्र पिपीलिकैः ॥

这些人——虽已年迈仍再度为主而苟延其寿——在此化作蠕虫,遂为蚁群所食。

Verse 83

पतितप्रतिग्रहादानाद्यजनान्नित्यसेवनात् । पाषाणमध्यकीटत्वं नरः सततमश्नुते ॥

因受取堕落不净者之施与,因纳受此等供献,又因恒常食用不当与禁物,一人便不断招致在石中为虫之境。

Verse 84

पश्यतो भृत्यवर्गस्य मित्राणामतिथेस्तथा । एको मिष्टान्नभुग् भुङ्क्ते ज्वलदङ्गारसञ्चयम् ॥

若有人在仆从、友人及宾客注视之下,独自享用甘美之食——彼于地狱中等同吞食一堆炽燃的火炭。

Verse 85

वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते । पृष्ठमांसं नृपैतॆन यतो लोकस्य भक्षितम् ॥

其背常为可怖之群狼啃噬——因为此王吞食人民之肉,即所谓“背肉”(本应由他护持之处)。

Verse 86

अन्धोऽथ बधिरो मूको भ्राम्यतेऽयं क्षुधातुरः । अकृतज्ञोऽधमः पुंसामुपकारेषु वर्तताम् ॥

此人先盲,继而聋哑,饥饿所逼而流离徘徊——忘恩负义者,乃诸依助人行善而生之人中最下劣者。

Verse 87

अयं कृतघ्रो मित्राणामपकारी सुदुर्मतिः । तत्पकुम्भे निपतति ततो यास्यति पेषणम् ॥

此人背叛友朋——为害作恶,心怀邪恶——堕入煮沸之釜;继而被送往碾磨之处,受粉碎之刑。

Verse 88

करम्भवालुकां तस्मात् ततो यन्त्रानपीडनम् । असिपत्रवनं तस्मात् करपत्रेण पाटनम् ॥

由彼处(复至)“沙粥”之刑(令其吞食夹砂而滚烫之糊);继而受机具碾压粉碎。由彼处(复至)剑叶之林;继而为锯叶所割裂撕碎。

Verse 89

कालसूत्रे तथा छेदमनेकाश्चैव यातनाः । प्राप्य निष्कृतिमेतस्मान्न वेद्मि कथमेष्यति ॥

既已受过“迦罗苏多罗”(Kālasūtra)之刑,又遭割裂残害及诸多苦楚;纵然由此获得赎罪之法(niṣkṛti),我仍不知他将以何种方式继续前行。

Verse 90

श्राद्धसङ्गतिनो विप्राः समुत्पत्य परस्परम् । दुष्टा हि निःसृतं फेनं सर्वाङ्गेभ्यः पिबन्ति वै ॥

那些为不正当利益而错误依附于施罗陀祭(śrāddha)的婆罗门彼此扑向争夺;因其败坏,竟真地饮下从全身诸肢渗出的泡沫。

Verse 91

सुवर्णस्तेयी विप्रघ्रः सुरापी गुरुतल्पगः । अधश्चोर्ध्वञ्च दीप्ताग्नौ दह्यमानाः समन्ततः ॥

盗金者、杀婆罗门者、饮酒者、以及玷污师长床榻者——在炽烈火焰中燃烧;下方与上方皆受焚灼,四面八方尽被炙烤。

Verse 92

तिष्ठन्त्यब्दसहस्राणि सुबहूनि ततः पुनः । जायन्ते मानवाः कुष्ठ-क्षयरोगादिचिह्नताः ॥

他们在那里停留数千年之久;随后又再生为人,身带麻风、痨瘵(消耗之疾)等诸般征兆。

Verse 93

मृताः पुनश्च नरकं पुनर्जाताश्च तादृशम् । व्याधिमृच्छन्ति कल्पान्तपरिमाणं नराधिप ॥

他们死后又再入地狱;而再生之时,仍遭此等疾病——如此循环,直至延续到一个量度,直到一劫(aeon)之终,哦,大王。

Verse 94

गोग्घ्रो न्यूनतरं याति नरके 'थ त्रिजन्मनि । तथोपपातकानाञ्च सर्वेषामिति निश्चयः ॥

杀牛者将堕入较低等的地狱,随后还要在三次转生中受苦;一切次等罪(upapātaka)亦复如是——此为既定之结论。

Verse 95

नरकप्रच्युतानि यानि यैर्यैरिहितपातकैः । प्रयान्ति योनिजातानि तन्मे निगदतः शृणु ॥

听我宣说:他们从地狱堕落而出之后,将依其所造各别罪业,进入诸种胎门,受生于何等之身。

Frequently Asked Questions

The chapter investigates karmavipāka—the principle that merit and sin inevitably ripen into experiential results—and clarifies how specific ethical breaches (especially of sexual restraint, truthful speech, loyalty, hospitality, and reverence to parents/gurus) generate correspondingly specific naraka-yātanās.

This Adhyāya is not a Manvantara-chronology unit; it functions instead as a moral-analytic excursus within the dialogue frame, supplying a doctrine of action–result and a taxonomy of punishments that can be applied across cosmic ages rather than detailing any particular Manu or lineage.

Adhyāya 14 is outside the Devī Māhātmya (Adhyāyas 81–93) and contains no Śākta stuti or Devī battle narrative; its contribution is ethical and eschatological, emphasizing dharma, purity, and speech-conduct as determinants of post-mortem states.