सैवात्मा ततोऽन्यम् असत्यम् अनात्मा । अत एषा ब्रह्मासंवित्तिर्भावाभावकलाविनिर्मुक्ता चिद्विद्याऽद्वितीयब्रह्मसंवित्तिः सच्चिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरम् अनुप्रविश्य स्वयम् एकैव विभाति । यदस्ति सन्मात्रम् । यद्विभाति चिन्मात्रम् । यत्प्रियमानन्दं तदेतत् पूर्वाकारा महात्रिपुरसुन्दरी । त्वं चाहं च सर्वं विश्वं सर्वदेवता इतरत् सर्वं महात्रिपुरसुन्दरी । सत्यमेकं ललिताख्यं वस्तु तदद्वितीयम् अखण्डार्थं परं ब्रह्म ॥५॥
सा । एव । आत्मा । ततः । अन्यत् । असत्यम् । अनात्मा । अतः । एषा । ब्रह्म-असंवित्तिः । भाव-अभाव-कला-विनिर्मुक्ता । चित्-विद्या । अद्वितीय-ब्रह्म-असंवित्तिः । सत्-चित्-आनन्द-लहरी । महा-त्रिपुर-सुन्दरी । बहिः-अन्तरम् । अनुप्रविश्य । स्वयम् । एका । एव । विभाति । यत् । अस्ति । सत्-मात्रम् । यत् । विभाति । चित्-मात्रम् । यत् । प्रियम् । आनन्दम् । तत् । एतत् । पूर्व-आकारा । महा-त्रिपुर-सुन्दरी । त्वम् । च । अहम् । च । सर्वम् । विश्वम् । सर्व-देवताः । इतरत् । सर्वम् । महा-त्रिपुर-सुन्दरी । सत्यम् । एकम् । ललिता-आख्यम् । वस्तु । तत् । अद्वितीयम् । अखण्ड-अर्थम् । परम् । ब्रह्म ॥५॥
saivātmā tato'nyam asatyam anātmā | ata eṣā brahmāsaṃvittir bhāvābhāvakalāvinirmuktā cidvidyā'dvitīyabrahmasaṃvittiḥ saccidānandalaharī mahātripurasundarī bahirantaram anupraviśya svayam ekaiva vibhāti | yad asti sanmātram | yadvibhāti cinmātram | yatpriyam ānandaṃ tadetat pūrvākārā mahātripurasundarī | tvaṃ cāhaṃ ca sarvaṃ viśvaṃ sarvadevatā itarat sarvaṃ mahātripurasundarī | satyam ekaṃ lalitākhyam vastu tadadvitīyam akhaṇḍārthaṃ paraṃ brahma ||5||
ఆమెనే ఆత్మ; ఆమెకు భిన్నమైనదంతా అసత్యం, అనాత్మ. అందువల్ల ఇదే బ్రహ్మసంవిత్తి—భావ-అభావ కళల నుండి విముక్తమైన—చిద్విద్య, అద్వితీయ బ్రహ్మానుభూతి. సచ్చిదానంద లహరీ అయిన మహాత్రిపురసుందరీ బాహ్య-అంతరాలలో ప్రవేశించి స్వయంగా ఏకైకంగా ప్రకాశిస్తుంది. ఉన్నది సత్మాత్రం; ప్రకాశించేది చిత్మాత్రం; ప్రియమైనది—ఆనందం—అదే మహాత్రిపురసుందరీ యొక్క ఆదిరూపం. నీవు నేనూ, సమస్త విశ్వం, సమస్త దేవతలు మరియు ఇతరమంతా—అన్నీ మహాత్రిపురసుందరీయే. ‘లలితా’ అని ప్రసిద్ధమైన ఏక సత్య తత్త్వం—అదే అద్వితీయ, అఖండార్థ పరబ్రహ్మ॥५॥
She herself is the Self; other than that is unreal, non-self. Therefore this is the awareness of Brahman—free from the modalities of being and non-being—(this) knowledge of consciousness, the nondual awareness of Brahman. Mahātripurasundarī, a wave of Existence–Consciousness–Bliss, entering (as) the outer and the inner, shines by herself as one alone. What exists is mere being; what shines is mere consciousness; what is dear—bliss—that indeed is the primordial form of Mahātripurasundarī. You and I and the whole universe, all the deities, and all else—everything is Mahātripurasundarī. The one truth, the entity called Lalitā—this is nondual, of undivided import: the supreme Brahman.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.