Sukta 10.27
अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् । सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥
अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानम् । सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥
ápaśyaṃ grā́maṃ váhamānam ārā́d acakráyā svadháyā vártamānam | síṣakty aryáḥ prá yugā́ janā́nāṃ sadyáḥ śiśnā́ prámināno navī́yān ||
దూరం నుంచే నేను ఆ కదిలే గ్రామం (సమూహం/సేన) ను చూశాను—చక్రాలు లేకుండానే మోసుకుపోయేది, తన స్వధా (స్వనియమం/అంతఃశక్తి) చేతనే ప్రవహించేది. ఆర్యుడు (శ్రేష్ఠుడు) మనుష్యుల యుగ-పరంపరలను ముందుకు జూస్తాడు; అతడు సదా-నవీనుడు, క్షణంలోనే పాత నిర్మాణాల కఠిన పురుషత్వాన్ని విరిచివేస్తాడు.
अप॑श्यम् । ग्रामम् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् । सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥अपश्यम् । ग्रामम् । वहमानम् । आरात् । अचक्रया । स्वधया । वर्तमानम् । सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रमिनानः । नवीयान् ॥apaśyam | grāmam | vahamānam | ārāt | acakrayā | svadhayā | vartamānam | sisakti | aryaḥ | pra | yugā | janānām | sadyaḥ | śiśnā | pra-minānaḥ | navīyān