Adhyaya 47
Anushanga PadaAdhyaya 47100 Verses

Adhyaya 47

Samantapañcaka at Kurukṣetra: Paraśurāma’s Tīrtha-Creation and Pitṛ-Rites (समन्तपञ्चक-तीर्थप्रशंसा)

वसिष्ठप्रोक्ते अस्मिन् आख्याने जमदग्निनन्दनः परशुरामः क्षत्रियान् हत्वा कुरुक्षेत्रं गतः। तत्र तेन पञ्च सरोवराः (समन्तपञ्चकम्) निर्मिताः। हतानां नृपाणां रक्तेन तानि पूरयित्वा, स विधिपूर्वकं स्नानं कृत्वा पितृभ्यः तर्पणं श्राद्धं च अकरोत्। एतत् तीर्थं पितृणां अक्षयतृप्तिदं सर्वपापनाशकं च अभवत्।

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्चत्वारिंशत्त मो ऽध्यायः // ४६// वसिष्ठ उवाच ततो मूर्द्धाभिषिक्तानां राज्ञाममिततेजसाम् / षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान्

इति श्रीब्रह्माण्डमहापुराणे वायुप्रोक्ते मध्यमभागे तृतीयोपोद्धातपादे भार्गवचरिते षट्चत्वारिंशत्तमोऽध्यायः। वसिष्ठ उवाच—ततः मूर्धाभिषिक्तानाममिततेजसां राज्ञां षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान्।

Verse 2

ततो राजसहस्राणि गृहीत्वा मुनिभिः सह / स जगाम महातेजाः कुरुक्षेत्रं तपोमयम्

ततो राजसहस्राणि गृहीत्वा मुनिभिः सह। स जगाम महातेजाः कुरुक्षेत्रं तपोमयम्॥

Verse 3

सरसां पञ्चकं तत्र खानयित्वा भृगुद्वहः / सुखावगाहतीर्थानि तानि चक्रे समन्ततः

सरसां पञ्चकं तत्र खानयित्वा भृगुद्वहः। सुखावगाहतीर्थानि तानि चक्रे समन्ततः॥

Verse 4

जघान तत्र वै राज्ञः शरीरप्रभवामृजा / सरांसि तानि वै पञ्च पूरयामास भार्गवः

जघान तत्र वै राज्ञः शरीरप्रभवामृजा। सरांसि तानि वै पञ्च पूरयामास भार्गवः॥

Verse 5

स्नात्वा तेषु यथान्यायं जामदग्नयः प्रतापवान् / पितॄन्संतर्पयामास यथाशास्त्रमतन्द्रितः

स्नात्वा तेषु यथान्यायं जामदग्नयः प्रतापवान्। पितॄन्संतर्पयामास यथाशास्त्रमतन्द्रितः॥

Verse 6

पितुः प्रेतस्य राजेन्द्र श्राद्धादिकमशेषतः / ब्राह्मणैः सह मातुश्च तत्र चक्रे यथोदितम्

पितुः प्रेतस्य राजेन्द्र श्राद्धादिकमशेषतः । ब्राह्मणैः सह मातुश्च तत्र चक्रे यथोदितम् ॥

Verse 7

एवं तीर्णप्रतीकः स कुरुक्षेत्रे तपोमये / उवासातन्द्रितः सम्यक् पितृपूजापरायणः

एवं तीर्णप्रतीकः स कुरुक्षेत्रे तपोमये । उवासातन्द्रितः सम्यक् पितृपूजापरायणः ॥

Verse 8

ततः प्रभृत्यभूद्राजंस्तीर्थानामुत्तमोत्तमम् / विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने

ततः प्रभृत्यभूद्राजंस्तीर्थानामुत्तमोत्तमम् । विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने ॥

Verse 9

सस्यमं तपञ्चकमिति स्थानं त्रैलोक्यविश्रुतम् / यत्र यक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम्

सस्यमं तपञ्चकमिति स्थानं त्रैलोक्यविश्रुतम् । यत्र यक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम् ॥

Verse 10

स्नानदानतपोहोमद्विजभोजनतर्पणैः / भृशमाप्यायितास्तेन यत्र ते पितरो ऽखिलाः

स्नानदानतपोहोमद्विजभोजनतर्पणैः । भृशमाप्यायितास्तेन यत्र ते पितरोऽखिलाः ॥

Verse 11

अवापुरक्षयां तृप्तिं पितृलोकं च शाश्वतम् / समन्तपञ्चकं नाम तीर्थं लोके परिश्रुतम्

अवापुरक्षयां तृप्तिं पितृलोकं च शाश्वतम्। समन्तपञ्चकं नाम तीर्थं लोके परिश्रुतम्॥

Verse 12

सर्वपापक्षयकरं महापुण्योपबृंहितम् / मर्त्यानां यत्र यातानामेनांसि निखिलानि तु

सर्वपापक्षयकरं महापुण्योपबृंहितम्। मर्त्यानां यत्र यातानामेनांसि निखिलानि तु॥

Verse 13

दूरादेवापयास्यन्ति प्रवाते शुष्कपर्णवत् / तत्क्षेत्रचर्यागमनं मर्त्यानामसतामिह

दूरादेवापयास्यन्ति प्रवाते शुष्कपर्णवत्। तत्क्षेत्रचर्यागमनं मर्त्यानामसतामिह॥

Verse 14

न लभ्यते महाराज जातु जन्मशतैरपि / समन्तपञ्चकं तीर्थं कुरुक्षेत्रे ऽतिपावनम्

न लभ्यते महाराज जातु जन्मशतैरपि। समन्तपञ्चकं तीर्थं कुरुक्षेत्रेऽतिपावनम्॥

Verse 15

यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः / कृतकृत्यस्ततो रामः सम्यक् पूर्णमनोरथः

यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः। कृतकृत्यस्ततो रामः सम्यक् पूर्णमनोरथः॥

Verse 16

उवास तत्र नियतः कञ्चित्कालं महामतिः / ततः संवत्सरस्यान्ते ब्राह्मणैः सहितो वशी

उवास तत्र नियमेन कञ्चित्कालं महामतिः। ततः संवत्सरस्यान्ते ब्राह्मणैः सहितो वशी॥

Verse 17

पितृपिण्डप्रदानाय जामदग्न्यो ऽगमद्गयाम् / ततो गत्वा ततः श्राद्धे यथाशास्त्रमरिन्दमः

पितृपिण्डप्रदानार्थं जामदग्न्यो गयां ययौ। ततो गत्वा श्राद्धकर्म यथाशास्त्रं चकार सः॥

Verse 18

ब्राह्मणांस्तर्पयामास पितॄनुद्दिश्य सत्कृतान् / शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतम्

ब्राह्मणान् तर्पयामास पितॄन् उद्दिश्य सत्कृतान्। शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतम्॥

Verse 19

पितृतृप्तिकरं क्षेत्रं तादृग्लोके न विद्यते / यत्रार्चिताः स्वकुलजैर्यथाशक्ति मनागपि

पितृतृप्तिकरं क्षेत्रं तादृग् लोके न विद्यते। यत्रार्चिताः स्वकुलजैः यथाशक्ति मनागपि॥

Verse 20

पितरः पिण्डदानाद्यैः प्राप्स्यन्ति गतिमक्षयाम् / पितॄनुद्दिश्य तत्रासौ तर्प्पितेषु द्विजातिषु

पितरः पिण्डदानाद्यैः प्राप्नुयुः गतिमक्षयाम्। पितॄन् उद्दिश्य तत्रासौ तर्पितेषु द्विजातिषु॥

Verse 21

ददौ च विधिवत्पिण्डं पितृभक्तिसमन्वितः / ततस्तत्पितरः सर्वे पितृलोकादुपागताः

ददौ च विधिवत् पिण्डं पितृभक्तिसमन्वितः। ततस्तत्पितरः सर्वे पितृलोकादुपागताः॥

Verse 22

जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः / अथ संप्रीतमनसः समेत्य भृगुनन्दनम्

जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः। अथ संप्रीतमनसः समेत्य भृगुनन्दनम्॥

Verse 23

ऊचुस्तत्पितरः सर्वे ऽदृश्या भूत्वान्तरिक्षगाः / पितर ऊचुः महत्कर्म कृतं वीर भवतान्यैः सुदुष्करम्

ऊचुस्तत्पितरः सर्वेऽदृश्या भूत्वान्तरिक्षगाः। पितर ऊचुः— महत्कर्म कृतं वीर भवतान्यैः सुदुष्करम्॥

Verse 24

अस्मानपि यथान्यायं सम्यक् तर्पितवानसि / अस्माकमक्षयां प्रीतिं तथापि त्वं न यच्छसि

अस्मानपि यथान्यायं सम्यक् तर्पितवानसि। अस्माकमक्षयां प्रीतिं तथापि त्वं न यच्छसि॥

Verse 25

क्षत्रहत्यां हि कृत्वा तु कृतकर्माभवद्यतः / क्षेत्रस्यास्य प्रभावेण भक्त्या च तव दर्शनम्

क्षत्रहत्यां हि कृत्वा तु कृतकर्माभवद्यतः। क्षेत्रस्यास्य प्रभावेण भक्त्या च तव दर्शनम्॥

Verse 26

प्राप्ताःस्म पूजिताः किं तु नाक्षय्यफलभागिनः / त्समात्त्वं वीरहत्यादिपापप्रशमनाय हि

प्राप्ताः स्म पूजिताः, किंतु नाक्षय्यफलभागिनः। तस्मात् त्वं वीरहत्यादिपापप्रशमनाय हि॥

Verse 27

प्रायश्चित्तं यथान्यायं कुरु धर्मं च शाश्वतम् / वधाच्च विनिवर्तस्व क्षत्रियाणामतः परम्

प्रायश्चित्तं यथान्यायं कुरु धर्मं च शाश्वतम्। वधाच्च विनिवर्तस्व क्षत्रियाणामतः परम्॥

Verse 28

पितुर्न्न ते ऽपराध्यन्ते न स्वतन्त्रं यतो जगत् / तन्निमित्तं तु मरणं पितुस्ते विहितं पुरा

पितुर्न तेऽपराध्यन्ते, न स्वतन्त्रं यतो जगत्। तन्निमित्तं तु मरणं पितुस्ते विहितं पुरा॥

Verse 29

हन्तुं कं कः समर्थः स्याल्लोके रक्षितुमेव वा / निमित्तमात्रमेवेह सर्वः सर्वस्य चैतयोः

हन्तुं कं कः समर्थः स्यात्, लोके रक्षितुमेव वा। निमित्तमात्रमेवेह सर्वः सर्वस्य चैतयोः॥

Verse 30

ध्रुवं कर्मानुरूपं ते चेष्टन्ते सर्व एव हि / कालानुवृत्तं बलवान्नृलोको नात्र संशयः

ध्रुवं कर्मानुरूपं ते चेष्टन्ते सर्व एव हि। कालानुवृत्तं बलवान् नृलोको नात्र संशयः॥

Verse 31

बाधितुं भुवि भूतानि भूतानां न विधिं विना / शक्यते वत्स सर्वो ऽपि यतः शक्त्या स्वकर्मकृत्

भुवि भूतानि बाधितुं भूतानां विधिं विना न शक्यते, वत्स; यतः सर्वः स्वशक्त्या स्वकर्मकृत्।

Verse 32

क्षत्रं प्रति ततो रोषं विमुच्यास्मत्प्रियेप्सया / शममा प्नुहि भद्रं ते स ह्यस्माकं परं बलम्

ततः क्षत्रं प्रति रोषं विमुच्य, अस्मत्प्रियेप्सया शमम् आप्नुहि; भद्रं ते—स ह्यस्माकं परं बलम्।

Verse 33

वसिष्ठ उवाच इत्युक्त्वान्तर्दधुः सर्वे पितरो भृगुनन्दनम् / स चापि तद्वचः सर्वं प्रतिजग्राह सादरम्

वसिष्ठ उवाच—इत्युक्त्वा सर्वे पितरः भृगुनन्दनम् अन्तर्दधुः; स च तद्वचः सर्वं सादरं प्रतिजग्राह।

Verse 34

अकृतव्रणसंयुक्तो मुदा परमया युतः / प्रययौ च तदा रामस्तस्मात्सिद्धवनाश्रमम्

अकृतव्रणसंयुक्तः परमया मुदा युतः; तदा रामः तस्मात् सिद्धवनाश्रमं प्रययौ।

Verse 35

तस्मिन्स्थित्वा भृगुश्रेष्ठो ब्राह्मणैः सहितो नृप / तपसे धृतसंकल्पो बभूव स महामनाः

तस्मिन् स्थित्वा भृगुश्रेष्ठः ब्राह्मणैः सहितो नृप; तपसे धृतसंकल्पो बभूव स महामनाः।

Verse 36

सरथं सहसाहं च धनुःसंहननानि च / पुनरागमसंकेतं कृत्वा प्रास्थापयत्तदा

सरथं सहसाहं च धनुःसंहननानि च । पुनरागमसंकेतं कृत्वा प्रास्थापयत्तदा ॥

Verse 37

ततः स सर्वतीर्थेषु चक्रे स्नानमतन्द्रितः / परीत्यपृथिवीं सर्वां पितृदेवादिबूजकः

ततः स सर्वतीर्थेषु चक्रे स्नानमतन्द्रितः । परीत्यपृथिवीं सर्वां पितृदेवादिबूजकः ॥

Verse 38

एवं क्रमेण पृथिवीं त्रिवारं भुगुनन्दनः / परिचक्राम राजेन्द्र लोकवृत्तमनुव्रतः

एवं क्रमेण पृथिवीं त्रिवारं भुगुनन्दनः । परिचक्राम राजेन्द्र लोकवृत्तमनुव्रतः ॥

Verse 39

ततः स पर्वतश्रेष्ठं महेन्द्रं पुनरप्यथ / जगाम तपसे राजन्बाह्मणैरभिसंवृतः

ततः स पर्वतश्रेष्ठं महेन्द्रं पुनरप्यथ । जगाम तपसे राजन्बाह्मणैरभिसंवृतः ॥

Verse 40

स तस्मिंश्चिररात्राय मुनि सिद्धनिषेविते / निवासमात्मनो राजन्कल्पयामास धर्मवित्

स तस्मिंश्चिररात्राय मुनि सिद्धनिषेविते । निवासमात्मनो राजन्कल्पयामास धर्मवित् ॥

Verse 41

मुनयस्तं तपस्यन्तं सर्वक्षेत्रनिवासिनः / द्रष्टुकामाः समाजग्मुर्नियता ब्रह्मवादिनः

सर्वक्षेत्रनिवासिनो ब्रह्मवादिनो नियता मुनयः तं तपस्यन्तं द्रष्टुकामाः समाजग्मुः।

Verse 42

ददृशुस्ते मुनिगणास्तपस्यासक्तमानसम् / क्षात्रं कक्षमशेषेण दग्ध्वा शान्तमिवानलम्

ते मुनिगणाः तपस्यासक्तमानसं ददृशुः; सः क्षात्रं कक्षमशेषेण दग्ध्वा शान्त इवानलः।

Verse 43

अथ तानागतान्दृष्ट्वा मुनीन्दिव्यांस्तपोमयान् / अर्घ्यादिसमुदाचारैः पूजयामास भार्गवः

अथ तानागतान् दिव्यान् तपोमयान् मुनीन् दृष्ट्वा भार्गवः अर्घ्यादिसमुदाचारैः पूजयामास।

Verse 44

कृतकौशलसंप्रश्नपूर्वकाः सुमहोदयाः / तेषां तस्य च संवृत्ताः कथाः पुण्या मनोहराः

कृतकौशलसंप्रश्नपूर्वकाः सुमहोदयाः; तेषां तस्य च संवृत्ताः कथाः पुण्याः मनोहराः।

Verse 45

ततस्तेषामनुमते मुनीनां भावितात्मनाम् / हयमेधं महायज्ञमाहर्तुमुपचक्रमे

ततः तेषां भावितात्मनाम् मुनीनां अनुमते हयमेधं महायज्ञम् आहर्तुम् उपचक्रमे।

Verse 46

संभृत्य सर्वसंभारानौर्वाद्यैः सहितो नृप / विश्वामित्रभरद्वाजमार्कण्डेयादिभिस्तथा

सर्वान् यज्ञोपकरणसम्भारान् समाहृत्य, हे नृप, और्वाद्यैः सह तथा विश्वामित्र-भरद्वाज-मार्कण्डेयादिभिर्मुनिभिः सहितः।

Verse 47

तेषा मनुमते कृत्वा काश्यपं गुरुमात्मनः / वाजिमेधं ततो राजन्नाजहार महाक्रतुम्

तेषां मनुमते कृत्वा काश्यपं स्वगुरुमात्मनः, ततः राजन् वाजिमेधं महाक्रतुम् आजहार।

Verse 48

तस्याभूत्काश्यपो ऽध्वर्युरुद्गाता गौतमो मुनिः / विश्वामित्रो ऽभवद्धोता रामस्य विदितात्मनः

तस्य काश्यपोऽभूदध्वर्युः, उद्गाता गौतमो मुनिः; विदितात्मनः रामस्य होता विश्वामित्रोऽभवत्।

Verse 49

ब्रह्मत्वमकरोत्तस्य मार्कण्डेयो महामुनिः / भरद्वाजाग्निवेश्याद्या वेद वेदाङ्गपारगाः

तस्य ब्रह्मत्वं महामुनिर्मार्कण्डेयः अकरोत्; भरद्वाजाग्निवेश्यादयश्च वेद-वेदाङ्ग-पारगाः।

Verse 50

मुनयश्चक्रुरन्यानि कर्माण्यन्ये यथाक्रमम् / पुत्त्रैः शिष्यैः प्रशिष्यैश्च सहितो भगवान्भृगुः

अन्ये मुनयः यथाक्रमम् अन्यानि कर्माणि चक्रुः; भगवान् भृगुः पुत्रैः शिष्यैः प्रशिष्यैश्च सहितः।

Verse 51

सादस्यमकरोद्राजन्नन्यैश्च मुनिभिः सह / स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः

सादस्यमकरोद्राजन् अन्यैश्च मुनिभिः सह । स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः ॥

Verse 52

ब्रह्माणं पूजयामास यथावद्गुरुणा सह / अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम्

ब्रह्माणं पूजयामास यथावद्गुरुणा सह । अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम् ॥

Verse 53

पुरग्रामशतोपेतां समुद्रांबरमालिनीम् / आहूय भृगुशार्दूलः सशैलवनकाननाम्

पुरग्रामशतोपेतां समुद्रांबरमालिनीम् । आहूय भृगुशार्दूलः सशैलवनकाननाम् ॥

Verse 54

काश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् / आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत्

काश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत् ॥

Verse 55

ततः प्रभृतिराजेन्द्र पूजयामास शास्त्रतः / हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा

ततः प्रभृतिराजेन्द्र पूजयामास शास्त्रतः । हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा ॥

Verse 56

पुरा समाप्य यज्ञान्ते तथा चावभृथाप्लुतः / चक्रे द्रव्यपरित्यागं तेषामनुमते तदा

पुरा यज्ञस्य समापनान्ते तथैवावभृथस्नानं कृत्वा तदा तेषामनुमत्या द्रव्यपरित्यागं चकार।

Verse 57

दत्त्वा च सर्वभूतानामभयं भृगुनन्दनः / तत्रापि पर्वतवरे तपश्चर्तुं समारभत्

सर्वभूतानामभयं दत्त्वा भृगुनन्दनः तत्रैव पर्वतवरे तपश्चरितुं समारभत्।

Verse 58

ततस्तं समनुज्ञाय सदस्या ऋत्विजस्तथा / ययुर्यथागतं सर्वे मुनयः शंसितव्रताः

ततः तं समनुज्ञाय सदस्या ऋत्विजश्च तथा सर्वे मुनयः शंसितव्रताः यथागतं ययुः।

Verse 59

गतेषु तेषु भगवानकृतव्रणसंयुतः / तपो महत्समास्थाय तत्रैव न्यवसत्सुखी

गतेषु तेषु भगवानकृतव्रणसंयुतः तपो महत्समास्थाय तत्रैव सुखी न्यवसत्।

Verse 60

काश्यपी तु ततो भूमिर्जननाथा ह्यनेकशः / सर्वदुःखप्रशान्त्यर्थं मारीचानुमतेन तु

ततः काश्यपी भूमिर्जननाथा ह्यनेकशः सर्वदुःखप्रशान्त्यर्थं मारीचानुमतेन तु।

Verse 61

तत्र दीपप्रतिष्ठाख्यव्रतं विष्णुमुखोदितम् / चचार धरणी सम्यक् दुखैर्ःमुक्ताभवच्च सा

तत्र विष्णुमुखोदितं दीपप्रतिष्ठाख्यं व्रतं धरणी सम्यक् चचार; सा दुःखैर्मुक्ता चाभवत्।

Verse 62

इत्येष जामदग्न्यस्य प्रादुर्भाव उदाहृतः / यस्मिञ्श्रुते नरः सर्वपातकैर्विप्रमुच्यते

इत्येष जामदग्न्यस्य प्रादुर्भाव उदाहृतः; यं श्रुत्वा नरः सर्वपातकैर्विप्रमुच्यते।

Verse 63

प्रभावः कार्त्तवीर्यस्य लोके प्रथिततेजसः / प्रसंगात्कथितः सम्यङ्नातिसंक्षेपविस्तरः

कार्त्तवीर्यस्य लोके प्रथिततेजसः प्रभावः प्रसङ्गात् कथितः, नातिसंक्षेपविस्तरः।

Verse 64

एवंप्रभावः स नृपः कार्त्तवीर्यो ऽभवद्भुवि / न तादृशः पुमात्कश्चिद्भावी भूताथवा श्रुतः

एवंप्रभावः स नृपः कार्त्तवीर्यो भुवि अभवत्; न तादृशः पुमान् कश्चिद् भूतः भावी वा श्रुतः।

Verse 65

दत्तात्रेयाद्वरं वव्रे मृतिमुत्तमपूरुषात् / यत्पुरा सो ऽगमन्मुक्तिं रणे रामेण घातितः

दत्तात्रेयाद् वरं वव्रे उत्तमपुरुषात् मृतिम्; यत्पुरा स रणे रामेण घातितो मुक्तिमगमत्।

Verse 66

तस्यासीत्पञ्चमः पुत्रः पख्यातो यो जयध्वजः / पुत्रस्तस्य महाबाहुस्तालजङ्घो ऽभवन्नृप

तस्य पञ्चमः पुत्रो जयध्वज इति प्रसिद्धोऽभवत्। तस्य महाबाहुः पुत्रस्तालजङ्घो नाम नृपोऽभवत्॥

Verse 67

अभूत्तस्यापि पुत्राणां शतमुत्तमधन्विनाम् / तालजङ्घाभिधा येषां वीतिहोत्रो ऽग्रजो ऽभवत्

तस्यापि पुत्राणां शतमभवत्, उत्तमधन्विनाम्। ये तु तालजङ्घा इति ख्याता, तेषामग्रजो वीतिहोत्रोऽभवत्॥

Verse 68

पुत्रैः सवीतिहोत्राद्यैर्हैहयाद्यैश्च राजभिः / कालं महान्तमवसद्धिमाद्रिवानगह्वरे

सवीतिहोत्राद्यैः पुत्रैः, हैहयाद्यैश्च राजभिः। हिमाद्रिवानगह्वरे स महान्तं कालमवसत्॥

Verse 69

यः पूर्वं राम बाणेन द्रवन्पृष्ठे ऽभिताडितः / तालजङ्घो ऽपतद्भूमौ मूर्छितो गाढवेदनः

यः पूर्वं रामबाणेन द्रवन् पृष्ठेऽभिताडितः। स तालजङ्घो भूमौऽपतन् मूर्छितो गाढवेदनः॥

Verse 70

ददर्श वीतिहोत्रस्तं द्रवन्दैववशादिव / रथमारोप्य वेगेन पलायनपरो ऽभवत्

तं द्रवन्तं दैववशादिव वीतिहोत्रो ददर्श। रथमारोप्य वेगेन स पलायनपरोऽभवत्॥

Verse 71

ते तत्र न्यवसन्सर्वे हिमाद्रौ भयपीडिताः / कृच्छ्रं महान्तमासाद्य शाकमूलफलाशनः

ते सर्वे तत्र हिमाद्रौ भयपीडिताः न्यवसन्; महत्कृच्छ्रमासाद्य शाकमूलफलैरेव जीवन्तः।

Verse 72

ततः शान्तिं गते रामे तपस्यासक्तमानसे / जालजङ्घः स्वकं राज्यं सपुत्रः प्रत्यपद्यत

ततः रामे शान्तिं गते तपस्यासक्तमानसे, जालजङ्घः सपुत्रः स्वकं राज्यं प्रत्यपद्यत।

Verse 73

सन्निवेश्य पुरीं भूयः पूर्ववन्नृपसत्तमः / वसंस्तदा निजं राज्यमापालयदरिन्दमः

भूयः पूर्ववत् पुरीं सन्निवेश्य नृपसत्तमः; तदा वसन् निजं राज्यं अरिन्दमः अपालयत्।

Verse 74

सुपुत्रः सानुगबलः पूर्ववैरमनुस्मरन् / अभ्याययौ महाराज तालजङ्घः पुरं तव

सुपुत्रः सानुगबलः पूर्ववैरमनुस्मरन्; महाराज, तालजङ्घः तव पुरम् अभ्याययौ।

Verse 75

चतुरङ्गबलोपेतः कंपयन्निव मेदिनीम् / रुरोदाभ्येत्य नगरीमयोध्यां स महीपतिः

चतुरङ्गबलोपेतः मेदिनीं कम्पयन्निव; स महīपतिः अयोध्यां नगरीम् अभ्येत्य रुरोद।

Verse 76

ततो निष्क्रम्य नगरात्फलगुतन्त्रो ऽपि ते पिता / युयुधे तैर्नृपैः सर्वैर्वृद्धो ऽपि तरुणो यथा

ततः स ते पिता नगरात् निष्क्रम्य, फल्गुतन्त्रोऽपि, सर्वैस्तैर्नृपैः सह युयुधे—वृद्धोऽपि तरुण इव।

Verse 77

निहतानेकमातगतुरङ्गरथसैनिकः / शत्रुभिर्निर्जितो वृद्धः पलायनपरो ऽ भवत्

अनेकमातङ्गतुरङ्गरथसैनिकान् निहत्य, शत्रुभिर्निर्जितो वृद्धः पलायनपरोऽभवत्।

Verse 78

त्यक्त्वा स नगरं राज्यं सकोशबलवाहनम् / अन्तर्वत्न्या च ते मात्रा सहितो वनमाविशत्

स नगरं राज्यं सकोशबलवाहनं त्यक्त्वा, अन्तर्वत्याः ते मात्राः सहितो वनम् आविशत्।

Verse 79

तत्र चौर्वाश्रमोपान्ते निवसन्नचिरादिव / शोकामर्षसमाविष्टो वृद्धभावेन च स्वयम्

तत्र च उर्वाश्रमोपान्ते निवसन् अचिरादिव, शोकामर्षसमाविष्टो वृद्धभावेन च स्वयम्।

Verse 80

विलोक्यमानो मात्रा ते बाष्पगद्गदकण्ठया / अनाथ इव राजेन्द्र स्वर्गलोकमितो गतः

मात्रा ते बाष्पगद्गदकण्ठया विलोक्यमानः, अनाथ इव, राजेन्द्र, इतः स्वर्गलोकं गतः।

Verse 81

ततस्ते जननी राजन्दुःखशोकसमन्विता / चितामारोपयद्भर्तू रुदती सा कलेवरम्

ततः सा जननी राजन् दुःखशोकसमन्विता । भर्तुः कलेवरं रुदती चितामारोपयत् ॥

Verse 82

अनशनादिदुःखेन भर्त्तुर्व्यसनकर्शिता / चकाराग्निप्रवेशाय सुदृढां मतिमात्मनः

अनशनादिदुःखेन भर्तुर्व्यसनकर्शिता । चकाराग्निप्रवेशाय सुदृढां मतिमात्मनः ॥

Verse 83

और्वस्तदखिलं श्रुत्वा स्वयमेव महामुनिः / निर्गत्य चाश्रमात्तां च वारयन्निदमब्रवीत्

और्वस्तदखिलं श्रुत्वा स्वयमेव महामुनिः । निर्गत्य चाश्रमात्तां च वारयन्निदमब्रवीत् ॥

Verse 84

न मर्त्तव्यं त्वया राज्ञि सांप्रतं जठरे तव / पुत्रस्तिष्ठति सर्वेषां प्रवरश्चवर्त्तिनाम्

न मर्तव्यं त्वया राज्ञि सांप्रतम् जठरे तव । पुत्रस्तिष्ठति सर्वेषां प्रवरश्चावर्त्तिनाम् ॥

Verse 85

इति तद्वचनं श्रुत्वा माता तव मनस्विनी / विरराम मृतेस्तां तु मुनिः स्वाश्रममानयत् / ततः सा सर्वदुःखानि नियम्य त्वन्मुखांबुजम्

इति तद्वचनं श्रुत्वा माता तव मनस्विनी । विरराम मृतेस्तां तु मुनिः स्वाश्रममानयत् । ततः सा सर्वदुःखानि नियम्य त्वन्मुखाम्बुजम् ॥

Verse 86

दिदृक्षुराश्रमोपान्ते तस्यैव न्यवसत्सुखम् / सुषाव च ततः काले सा त्वामौर्वाश्रमे तदा

दिदृक्षुराश्रमोपान्ते तस्यैव न्यवसत्सुखम् । सुषाव च ततः काले सा त्वामौर्वाश्रमे तदा ॥

Verse 87

जातकर्मादिकं सर्वं भवतः सो ऽकरोन्मुनिः / और्वाश्रमे विवृद्धश्च भवांस्तेनानुकंपितः

जातकर्मादिकं सर्वं भवतः सोऽकरोन्मुनिः । और्वाश्रमे विवृद्धश्च भवांस्तेनानुकंपितः ॥

Verse 88

त्वयैव विदितं सर्वमतः परमरिन्दम / एवं प्रभावो नृपतिः कार्त्तवीर्यो ऽभवद्भुवि

त्वयैव विदितं सर्वमतः परमरिन्दम । एवं प्रभावो नृपतिः कार्त्तवीर्योऽभवद्भुवि ॥

Verse 89

व्रतस्यास्य प्रभावेण सर्वलोकेषु विश्रुतः / यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत्

व्रतस्यास्य प्रभावेण सर्वलोकेषु विश्रुतः । यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत् ॥

Verse 90

तद्वृत्तान्तमशेषेण मया ते समुदीरितम् / एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव

तद्वृत्तान्तमशेषेण मया ते समुदीरितम् । एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव ॥

Verse 91

समन्त्रतन्त्रं लोकेषु सर्वलोकफलप्रदम् / न ह्यस्य कर्त्तुर्नृपतेः पुरुषार्थचतुष्टये

समन्त्रतन्त्रं लोकेषु सर्वलोकफलप्रदं; न ह्यस्य कर्तुर्नृपतेः पुरुषार्थचतुष्टये बाधा भवति।

Verse 92

भवत्यभीप्सितं किञ्चिद्दर्ल्लभं भुवनत्रये / संक्षेपेण मयाख्यातं व्रतं हैहयभूभुजः / जामदग्न्यस्य च मुने किमन्यत्कथयामि ते

भवत्यभीप्सितं किञ्चिद्दुर्लभं भुवनत्रये; संक्षेपेण मयाख्यातं व्रतं हैहयभूभुजः। जामदग्न्यस्य च मुने, किमन्यत्कथयामि ते?

Verse 93

जैमिनिरुवाच ततः स सगरो राजा कृताञ्जलिपुटो मुनिम्

जैमिनिरुवाच—ततः स सगरो राजा कृताञ्जलिपुटो मुनिमुवाच।

Verse 94

उवाच भगवन्नेतत्कर्तुमिच्छाम्यहं व्रतम् / सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे

उवाच—भगवन्, एतत्कर्तुमिच्छाम्यहं व्रतम्; सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे।

Verse 95

कर्मणानेन विप्रर्षे कृतार्थो ऽस्मि न संशयः / इत्युक्तस्तेन राज्ञातु तथेत्युक्त्वा महामुनिः

कर्मणानेन विप्रर्षे कृतार्थोऽस्मि न संशयः; इत्युक्तस्तेन राज्ञा तु तथेत्युक्त्वा महामुनिः।

Verse 96

दीक्षयामास राजानं शस्त्रोक्तेनैव वर्त्मना / स दीक्षितो वसिष्ठेन सगरो राजसत्तमः

वसिष्ठो भगवानृषिः शास्त्रोक्तेनैव विधिना राजानं दीक्षयामास। तेन वसिष्ठेन दीक्षितः सगरो राजसत्तमः।

Verse 97

द्रव्याण्यानीय विधिवत्प्रचचार शुभव्रतम् / पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः

द्रव्याण्यानीय विधिवत् स पार्थिवः शुभव्रतं प्रचचार। तेन विधिना जगन्नाथं पूजयित्वा।

Verse 98

समाप्य च यथायोग्यमनुज्ञाय गुरुं ततः / प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम्

समाप्य च यथायोग्यं गुरुमनुज्ञाय ततः। राजा प्रतिज्ञामकरोदेतदनुत्तमं व्रतम्।

Verse 99

आजीवान्तं धरिष्यामि यत्नेनेति महामतिः / अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः

आजीवान्तं यत्नेनेदं धरिष्यामीति महामतिः। अथ राजानमनुज्ञाप्य वसिष्ठो भगवानृषिः।

Verse 100

सन्निवर्त्यानुगच्छन्तं प्रजगाम निजाश्रमम्

अनुगच्छन्तं सन्निवर्त्य वसिष्ठः स्वं निजाश्रमं प्रजगाम।

Frequently Asked Questions

Samantapañcaka is the Kurukṣetra tīrtha formed around five excavated lakes; it is praised as trailokya-viśruta (world-renowned), granting inexhaustible satisfaction to the Pitṛs and destroying sins for pilgrims.

The chapter emphasizes tīrtha-snāna (ritual bathing), tarpaṇa (ancestor libations), and comprehensive śrāddha for Paraśurāma’s father (as preta) and mother, performed with brāhmaṇas according to śāstra.

It is chiefly ritual-geographical (tīrtha-māhātmya) with vaṃśānucarita coloring: Paraśurāma’s exemplary act transforms Kurukṣetra into a universally efficacious node for purification and ancestor rites.