Samantapañcaka at Kurukṣetra: Paraśurāma’s Tīrtha-Creation and Pitṛ-Rites (समन्तपञ्चक-तीर्थप्रशंसा)
ततस्ते जननी राजन्दुःखशोकसमन्विता / चितामारोपयद्भर्तू रुदती सा कलेवरम्
tataste jananī rājanduḥkhaśokasamanvitā / citāmāropayadbhartū rudatī sā kalevaram
ततः सा जननी राजन् दुःखशोकसमन्विता । भर्तुः कलेवरं रुदती चितामारोपयत् ॥