
Aśauca-vidhi (Rules of Impurity) within Śrāddha-kalpa — Chapter on Testing/Selecting Brahmanas and Honoring the Atithi
अध्यायः ऋषयः सूतं प्रति पूर्वोक्तं श्राद्धकल्पं प्रशंस्य श्राद्धविधौ ऋषेः प्रमाणमतं विस्तरेण पृच्छन्ति। सूतः मूलविधिं पूर्वमेवोक्त्वा इदानीं परिशिष्टं वदति—ब्राह्मणानां परीक्षाविधानं, दोषदर्शनात् कर्मसु परिहारः, तथापि श्राद्धे अपरिचितद्विजस्य अतिपरीक्षा न कार्या, यतः सिद्धा ब्राह्मणरूपेण विचरन्ति। अतः आगतं अतिथिं कृताञ्जलिना उपगम्य अर्घ्यपाद्याभ्यङ्गभोजनैः सत्कर्तव्यः। देवा योगीश्वराश्च बहुरूपैर्धर्ममार्गे नयन्ति; अतिथिसत्कारः अग्निष्टोमादियज्ञफलसमः, तिरस्कारः देवपितृप्रत्याख्यानहेतुः। देवा पितरश्च ब्राह्मणे प्रविश्य अनुग्रहं कुर्वन्ति; असत्कृतो दहति, सत्कृतः कामान् ददाति—तस्मादतिथौ नित्यं नमस्कारः।
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ऽशौचविधिर्नाम चतुर्दशो ऽध्योयः // १४// ऋषय ऊचुः अहो धन्यस्त्वया सूत श्राद्धकल्पः प्रकीर्तितः / श्रुता नः श्राद्धकल्पास्तु ऋषिभिर्ये प्रकीर्त्तिताः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पेऽशौचविधिर्नाम चतुर्दशोऽध्यायः॥ १४॥ ऋषय ऊचुः—अहो धन्यस्त्वया सूत श्राद्धकल्पः प्रकीर्तितः। श्रुता नः श्राद्धकल्पास्तु ऋषिभिर्ये प्रकीर्तिताः॥
Verse 2
अतीव विस्तरो ह्यस्य विशेषेण तु कीर्त्तितः / देवाशेषं महाप्राज्ञ ऋषेस्तस्य मतं यथा
अतीव विस्तरो ह्यस्य विशेषेण तु कीर्तितः। देवाशेषं महाप्राज्ञ ऋषेस्तस्य मतं यथा॥
Verse 3
सूत उवाच कीर्त्तयिष्यामि वो विप्रा ऋषेस्तस्य मतं तु यत् / श्राद्धं प्रति महाभागस्तन्मे श्रुणुत विस्तरात्
सूत उवाच—कीर्त्तयिष्यामि वो विप्रा ऋषेस्तस्य मतं तु यत्। श्राद्धं प्रति महाभागस्तन्मे शृणुत विस्तरात्॥
Verse 4
उक्तं श्राद्धंमया पूर्वं विधिश्च श्राद्धकर्मणि / परिशिष्टं प्रवक्ष्यामि ब्रह्मणानां परिक्षणम्
पूर्वं मया श्राद्धं तथा श्राद्धकर्मणि विधिश्चोक्तः। अधुना परिशिष्टं ब्रह्मणानां परीक्षणं प्रवक्ष्यामि॥
Verse 5
न मीमांस्याः सदा विप्राः पवित्रंह्येतदुत्तमम् / दैवे पित्र्ये च नियतं श्रूयते वै परीक्षणम्
विप्राः सदा मीमांस्याः न; एतत् उत्तमं पवित्रं हि। दैवे पित्र्ये च नियतं परीक्षणं श्रूयते वै॥
Verse 6
यस्मिन्दोषाः प्रदृश्येरम्स हि कार्येषु वर्जितः / जानीयाद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः
यस्मिन् दोषाः प्रदृश्येरन् सः कार्येषु वर्जितः। संवासादपि जानीयात् तं प्रयत्नतः वर्जयेत्॥
Verse 7
अविज्ञातं द्विजं श्राद्धे न परीक्षेत पण्डितः / सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम्
अविज्ञातं द्विजं श्राद्धे पण्डितो न परीक्षेत। सिद्धाः हि विप्ररूपेण इमां पृथिवीं चरन्ति॥
Verse 8
तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः / पूजयेच्चार्घ्यपाद्याभ्यां तथाभ्यञ्जनभोजनैः
तस्मात् अतिथिमायान्तम् अभिगच्छेत् कृताञ्जलिः। अर्घ्यपाद्याभ्यां पूजयेत् तथा अभ्यञ्जनभोजनैः॥
Verse 9
उर्वी सागरपर्यन्तां देवा योगेश्वरः सदा / नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन्
उर्वीं सागरपर्यन्तां देवा योगेश्वरः सदा । नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन् ॥
Verse 10
तस्माद्दद्यात्सदा दान्तः समभ्यार्च्यातिथिं नरः / व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च
तस्माद्दद्यात्सदा दान्तः समभ्यार्च्यातिथिं नरः । व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च ॥
Verse 11
अग्निष्टोमं पयसा प्राप्नुयाद्वै फलं तथोक्थस्य च पायसेन / सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव
अग्निष्टोमं पयसा प्राप्नुयाद्वै फलं तथोक्थस्य च पायसेन । सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव ॥
Verse 12
तथाप्नुयाच्छ्रद्दधा नो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् / सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम्
तथाप्नुयाच्छ्रद्दधा नो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् । सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम् ॥
Verse 13
यस्तु श्राद्धे ऽतिथिं प्राप्तं दैवे चाप्यवमन्यते / तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः
यस्तु श्राद्धेऽतिथिं प्राप्तं दैवे चाप्यवमन्यते । तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः ॥
Verse 14
देवाश्च पितरश्चैव तेमेवान्तर्हिता द्विजम् / आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात्
देवाश्च पितरश्चैव ते मेवान्तर्हिता द्विजम् । आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात् ॥
Verse 15
अपूजितो दहत्येष दिशेत्कामांश्च पूजितः / सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा
अपूजितो दहत्येष दिशेत्कामांश्च पूजितः । सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा ॥
Verse 16
वानप्रस्थो गृहस्थश्च सतामभ्यागतो यथा / वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा
वानप्रस्थो गृहस्थश्च सतामभ्यागतो यथा । वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा ॥
Verse 17
अभ्यागतः पाकचारदतिथिः स्यादपावकः / अतिथेरतिथिः प्रोक्तः सो ऽतिथिर्योग उच्यते
अभ्यागतः पाकचारदतिथिः स्यादपावकः । अतिथेरतिथिः प्रोक्तः सोऽतिथिर्योग उच्यते ॥
Verse 18
नाव्रती न च संकीर्णो नाविद्यो नाविशेषवित् / न च संतानसंबद्धो न देवी नागसे ऽतिथिः
नाव्रती न च संकीर्णो नाविद्यो नाविशेषवित् । न च संतानसंबद्धो न देवी नागसेऽतिथिः ॥
Verse 19
पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते / तस्मै सत्कृत्य दातव्यं यज्ञम्य फलमिच्छता
पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते। तस्मै सत्कृत्य दातव्यं यज्ञम्यफलमिच्छता॥
Verse 20
न वक्तव्यं सदा विप्र क्षुधिते नास्ति किञ्चन / तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः
न वक्तव्यं सदा विप्र क्षुधिते नास्ति किञ्चन। तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः॥
Verse 21
अक्लिष्ट मव्रणं युक्तं कृशवृत्तिमयाचकम् / एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत्
अक्लिष्टमव्रणं युक्तं कृशवृत्तिमयाचकम्। एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत्॥
Verse 22
नो ददामि तमित्येवं ब्रूयाद्यो वै दुरात्मवान् / अपि जातिशतं गत्वा न स मुच्येत किल्बिषात्
नो ददामि तमित्येवं ब्रूयाद्यो वै दुरात्मवान्। अपि जातिशतं गत्वा न स मुच्येत किल्बिषात्॥
Verse 23
समोदं भोजयेद्विप्रानेकपङ्क्त्यां तु यो नरः / नियुक्तो ह्यनि युक्तो वा पङ्क्त्या हरति किल्बिषम्
समोदं भोजयेद्विप्रानेकपङ्क्त्यां तु यो नरः। नियुक्तो ह्यनियुक्तो वा पङ्क्त्या हरति किल्बिषम्॥
Verse 24
पाप्मानं गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति / यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत्
पाप्मानं शीघ्रं गृह्यते, इष्टापूर्त्तं च नश्यति। यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत्॥
Verse 25
पञ्च वेदान्सेतिहासान्यः पठेद्द्विजसत्तमः / योगादनन्तरं सो ऽथ नियोक्तव्यो विजानता
पञ्च वेदान् सेतिहासान् यः पठेद् द्विजसत्तमः। योगादनन्तरं सोऽथ विजानता नियोक्तव्यः॥
Verse 26
त्रिवेदो ऽनन्तरं तस्य द्विवेदस्तदनन्तरम् / एकवेदस्ततः पश्चादुपाध्यायस्ततः परम्
त्रिवेदोऽनन्तरं तस्य द्विवेदस्तदनन्तरम्। एकवेदस्ततः पश्चादुपाध्यायस्ततः परम्॥
Verse 27
पावना ये ऽत्र संख्यातास्तान्प्रवक्ष्ये निबोधत / य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः
पावना येऽत्र संख्यातास्तान् प्रवक्ष्ये निबोधत। य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः॥
Verse 28
षडङ्गविद्ध्यानयोगौ सर्वतत्रस्तथैव च / यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः
षडङ्गविद् ध्यानयोगौ सर्वतत्रस्तथैव च। यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः॥
Verse 29
श्राद्धकल्पे भवेद्यस्तु सन्निपत्य तु पावनः / चतुर्दशानां विद्यानामेकस्यामपि पारगाः
श्राद्धकल्पे यः सन्निपत्य पावनः स्यात्, स चतुर्दशविद्यानाम् एकस्यामपि विद्याम् पारगः।
Verse 30
यथावद्वर्त्तमानाश्च सर्वे ते पङ्क्तिपावनाः / असंदेहस्तु सौपर्णाः पञ्चाग्नेयाश्च सामगाः
यथावद्वर्त्तमानाः सर्वे ते पङ्क्तिपावनाः; असन्देहाः सौपर्णाः पञ्चाग्नेयाश्च सामगाः।
Verse 31
यश्चरेद्विधिवद्विप्र समा द्वादश संततः / त्रिनाचिकेतस्त्रै विद्यो यश्च धर्मान्द्विजः पठेत्
यो विधिवद् द्वादश समाः सततं चरेत्, स त्रिनाचिकेतः त्रैविद्यः; यश्च द्विजो धर्मान् पठेत्।
Verse 32
बार्हस्पत्ये महाशास्त्रे यश्च पारङ्गतो द्विजः / सर्वे ते पावना विप्राः पङ्क्तीनां समुदात्दृताः
बार्हस्पत्ये महाशास्त्रे यः द्विजः पारङ्गतः, ते सर्वे पावना विप्राः पङ्क्तीनां समुदात्दृताः।
Verse 33
आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः / पितरस्तस्य तन्मासं तस्मिन्रितसि शेरते
श्राद्धे आमन्त्रितो यः द्विजः योषितं सेवते, तस्य पितरः तन्मासं तस्मिन् ऋतौ शेरते।
Verse 34
ध्याननिष्ठाय दातव्यं सानुक्रोशाय धीमते / यतिं वा वालखिल्यं वा भोजयेच्छ्राद्दकर्मणि
ध्याननिष्ठाय दातव्यं सानुक्रोशाय धीमते । यतिं वा वालखिल्यं वा भोजयेच्छ्राद्दकर्मणि ॥
Verse 35
वानप्रस्थाय कुर्वाणः पूजामात्रेण तुष्यते / गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः
वानप्रस्थाय कुर्वाणः पूजामात्रेण तुष्यते । गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः ॥
Verse 36
वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः / यतीनां तु कृता पूजा साक्षाद्ब्रह्मा तुं पूजितः
वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः । यतीनां तु कृता पूजा साक्षाद्ब्रह्मा तुं पूजितः ॥
Verse 37
आश्रमो ऽपावनो यस्तु पञ्चमस्संकरात्मकः / चत्वारस्त्वाश्रमाः पूच्याः श्राद्धे देवे तथैव च
आश्रमोऽपावनो यस्तु पञ्चमः संकरात्मकः । चत्वारस्त्वाश्रमाः पूज्याः श्राद्धे देवे तथैव च ॥
Verse 38
चतुराश्रमबाह्येभ्य स्तेभ्यः श्राद्धे न दापयेत् / यस्तिष्ठेद्वायुभक्षश्च चातुराश्रमबाह्यतः
चतुराश्रमबाह्येभ्यस्तेभ्यः श्राद्धे न दापयेत् । यस्तिष्ठेद्वायुभक्षश्च चातुराश्रमबाह्यतः ॥
Verse 39
अनाश्रमीतपस्तेपे न तं तत्र निमन्त्रयेत् / अयतिर्मोक्षवादी च श्रुतौ तौ पङ्क्तिदूषकौ
अनाश्रमीतपस्तेपे न तं तत्र निमन्त्रयेत् / अयतिर्मोक्षवादी च श्रुतौ तौ पङ्क्तिदूषकौ
Verse 40
उग्रेण तपसा युक्ता बहुज्ञाश्चित्रवादिनः / निन्दन्ति च द्विजातिभ्यः सर्वे ते पङ्क्तिदूषकाः
उग्रेण तपसा युक्ता बहुज्ञाश्चित्रवादिनः / निन्दन्ति च द्विजातिभ्यः सर्वे ते पङ्क्तिदूषकाः
Verse 41
औपवस्तास्तथा सांख्या नास्तिका वेदनिन्दकाः / ध्यानं निन्दन्ति ये केचित्सर्वे ते पङ्क्तिदूषकाः
औपवस्तास्तथा सांख्या नास्तिका वेदनिन्दकाः / ध्यानं निन्दन्ति ये केचित्सर्वे ते पङ्क्तिदूषकाः
Verse 42
वृथा मुण्डाश्च जटिलाः सर्वे कार्पटिकास्तथा / निर्घृणान्भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत्
वृथा मुण्डाश्च जटिलाः सर्वे कार्पटिकास्तथा / निर्घृणान्भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत्
Verse 43
कारुकादीननाचारांल्लोकवेदबहिष्कृतान् / गाय नान्वेदवृत्तांश्च हव्यकव्ये न भोजयेत्
कारुकादीननाचारांल्लोकवेदबहिष्कृतान् / गाय नान्वेदवृत्तांश्च हव्यकव्ये न भोजयेत्
Verse 44
एतैस्तु वर्त्तयेद्यस्तु कृष्णवर्णं स गच्छति / यो ऽश्नाति सह शूद्रेणा सर्वे ते पङ्क्तिदूषणाः
एतैरेव आचारैः यो वर्तते स कृष्णवर्णतां गच्छति। यः शूद्रेण सह भुङ्क्ते, ते सर्वे पङ्क्तिदूषणाः स्मृताः।
Verse 45
व्याकर्षणं सत्त्वनिबर्हणं च कृषिर्वणिज्या पशुपालनं च / शुश्रूषणं चाप्यगुरोररेर्वाप्यकार्यमेतद्धि सदा द्विजानाम्
व्याकर्षणं सत्त्वनिबर्हणं च, कृषिर्वणिज्या पशुपालनं च; गुरोः शुश्रूषणं, शत्रोश्चापि अकार्यं—एतत् सदा द्विजानाम्।
Verse 46
मिथ्यासंकल्पिनः सर्वानुद्वृत्तांश्च विवर्जयेत् / मिथ्याप्रवादी निन्दाकृत्तथा सूचकदांभिकौ
मिथ्यासंकल्पिनः सर्वान् उद्वृत्तांश्च विवर्जयेत्। मिथ्याप्रवादीं निन्दाकृतं तथा सूचकदाम्भिकौ॥
Verse 47
उपपातकसंयुक्ताः पातकैश्च विशेषतः / वेदे नियोगदातारो लोभमोहफलर्थिनः
उपपातकसंयुक्ताः पातकैश्च विशेषतः। वेदे नियोगदातारो लोभमोहफलार्थिनः॥
Verse 48
ब्रह्मविक्रयिणस्तान्वै श्राद्धकर्मणि वर्जयेत् / न वियोगास्तु वेदानां यो नियुङ्क्ते स पापकृत्
ब्रह्मविक्रयिणस्तान् वै श्राद्धकर्मणि वर्जयेत्। न वियोगास्तु वेदानां यो नियुङ्क्ते स पापकृत्॥
Verse 49
वक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा / भृतको ऽध्यापयेद्यस्तु भृतकाध्यापितस्तु यः
वक्ता वेदफलाद् भ्रश्येत्, दाता दानफलात् तथा। भृतकः योऽध्यापयेत्, तथा भृतकाध्यापितोऽपि यः॥
Verse 50
नार्हतस्तावपि श्राद्धे ब्रह्माणः क्रयविक्रयी / क्रयश्च विक्रयश्चैवाजीवितार्थे विगर्हितौ
नार्हतस्तावपि श्राद्धे ब्राह्मणाः क्रयविक्रयी। क्रयश्च विक्रयश्चैव आजीवितार्थे विगर्हितौ॥
Verse 51
वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् / आहरेद्भृतितो वेदान् वेदेभ्यश्चोपजीवति
वृत्तिर् एषा तु वैश्यस्य, ब्राह्मणस्य तु पातकम्। आहरेद् भृतितो वेदान्, वेदेभ्यश्चोपजीवति॥
Verse 52
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च / वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरैः
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिर् एव च। वृथा दारांश्च यो गच्छेद्, यो यजेत वृथाध्वरैः॥
Verse 53
नार्हतस्तावपि श्राद्धं द्विजो यश्चैव वार्धुषी / स्त्रियो रक्तान्तरा येषां परदारपराश्च ये
नार्हतस्तावपि श्राद्धं द्विजो यश्चैव वार्धुषी। स्त्रियो रक्तान्तरा येषां, परदारपराश्च ये॥
Verse 54
अर्थकामरताश्चैव न ताञ्छ्राद्धेषु भोजयेत् / वर्णाश्रमाणां धर्मेषु विरुद्धाःसर्वकर्मणि
अर्थकामरताश्चैव न ताञ्छ्राद्धेषु भोजयेत् । वर्णाश्रमधर्मेषु विरुद्धाः सर्वकर्मणि ॥
Verse 55
स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः / यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः
स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः । यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः ॥
Verse 56
न तदश्नन्ति पितरो यश्च वाच्यं समश्नुते / स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत्
न तदश्नन्ति पितरो यश्च वाच्यं समश्नुते । स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत् ॥
Verse 57
यो दद्याच्चानुसंमोहान्न तद्गच्छति वै पितॄन् / तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि
यो दद्याच्चानुसंमोहान्न तद्गच्छति वै पितॄन् । तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि ॥
Verse 58
अन्यच्च दधिसर्पिर्भ्यां शिष्टं पुत्राय नान्यथा / अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः
अन्यच्च दधिसर्पिर्भ्यां शिष्टं पुत्राय नान्यथा । अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः ॥
Verse 59
पुष्पमूलफलैर्वापि तुष्टा गच्छेयुरन्ततः / यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति
पुष्पमूलफलैर्वापि तुष्टा गच्छेयुरन्ततः। यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति॥
Verse 60
तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः / दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च
तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः। दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च॥
Verse 61
सांगुष्ठेन तथा पाद्यं नासुरेभ्यो यथा भवेत् / एतान्येव च सर्वाणि दानानि च विशेषतः
सांगुष्ठेन तथा पाद्यं नासुरेभ्यो यथा भवेत्। एतान्येव च सर्वाणि दानानि च विशेषतः॥
Verse 62
अन्तर्जानूपविष्टेन तद्वदाचमनं भवेत् / मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत्
अन्तर्जानूपविष्टेन तद्वदाचमनं भवेत्। मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत्॥
Verse 63
ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा / देवभक्ता महात्मानः पुनीयुर्दर्शनादपि
ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा। देवभक्ता महात्मानः पुनीयुर्दर्शनादपि॥
Verse 64
शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डेभ्यः प्रदापयेत् / सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम्
शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डेभ्यः प्रदापयेत्। सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम्॥
Verse 65
तस्मात्पश्यन्ति ते सर्वं यत्किञ्चिज्जगतीगतम् / व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम्
तस्मात्पश्यन्ति ते सर्वं यत्किञ्चिज्जगतीगतम्। व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम्॥
Verse 66
सत्यासत्यं च यद्दृष्टं सद सच्च महात्मभिः / सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः
सत्यासत्यं च यद्दृष्टं सदसच्च महात्मभिः। सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः॥
Verse 67
तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम्
तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम्॥
Verse 68
ऋचश्च यो वेद स वेद वेदान्यजूंषि यो वेद यज्ञम् / सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम्
ऋचश्च यो वेद स वेद वेदान् यजूंषि यो वेद यज्ञम्। सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम्॥
It is primarily ritual-legal: a supplement to śrāddha-kalpa focusing on aśauca-related conduct, Brahmana selection cautions, and the dharma of honoring the atithi; no explicit royal/sage genealogy is cataloged in the sampled verses.
Because siddhas are said to move through the world disguised as Brahmanas; excessive suspicion risks offending a potentially divine visitor, so the text prioritizes respectful hospitality while still advising avoidance when clear faults are observed.
Devas and pitrs are described as ‘entering’ the Brahmana/guest as an instrument of lokānugraha (world-benefit); honoring him yields sacrifice-like merit and desired results, while disrespect leads to divine rejection—making hospitality a cosmically consequential act.