Adhyaya 74
BattleDurgaMahishasura61 Shlokas

Adhyaya 74: King Svarashtra, the Deer-Queen’s Curse, and the Rise of Tamasa Manu

तामस-मन्वन्तर-प्रस्तावः (Tāmasa-Manvantara-Prastāvaḥ)

Battle with Mahishasura

本章は、王スヴァラーシュトラと鹿の女王の呪いを語り、その呪力によって災厄が起こり、王の運命が大きく転じるさまを描く。業(カルマ)の法とダルマの威力が示され、王は悲嘆と悔悟を経て内なる目覚めへ向かう。さらに、ターマサ・マヌ(Tāmasa Manu)の出現とターマサ・マンヴァンタラの開始を告げる序章となる。

Divine Beings

Ravi (Sūrya)Bhāraskara (Sun, as invoked by the son for divine weapons)Indra (Śikhin, as Indra of the Tāmasa Manvantara)

Celestial Realms

Anuttama lokāḥ (superior worlds attained after release from the curse)

Key Content Points

King Svarāṣṭra’s loss of sovereignty and turn to austerity on the Vitastā, followed by a world-obscuring flood.Encounter with the saving doe (rauhī) and the ethical boundary enforced by the unborn Lola, framed as a karmic consequence of prior actions.Revelation of Utpalāvatī’s curse by Sutapā, the conditions of release, and the birth, naming, and destiny of Tāmasa as Manu.Transition into manvantara cataloguing: enumeration of deva-gaṇas, Indra, saptarṣis, and the sons/kings associated with Tāmasa Manu.

Focus Keywords

Markandeya Purana Adhyaya 74Tamasa ManuTamasa ManvantaraSvarashtra story Markandeya PuranaUtpalavati curse deerLola birth Markandeya PuranaSaptarishi list Tamasa ManvantaraIndra Shikhin Markandeya PuranaManvantara chronology Markandeya PuranaPuranic karma and rebirth narrative

Shlokas in Adhyaya 74

Verse 1

इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः—७४ । मार्कण्डेय उवाच । राजाभूद्विख्यातः स्वराष्ट्रो नाम वीर्यवान् । अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः ॥

かくして『聖マールカンデーヤ・プラーナ』、アウッタマ・マンヴァンタラにおいて第七十三章は終わり、第七十四章が始まる。マールカンデーヤは語った。「スヴァラーシュトラという名高き王がいた。武勇にすぐれ、多くの祭祀を修し、賢明で、戦において不敗であった。」

Verse 2

तस्यायुḥ सुमहत्प्रादात् मन्त्रिणाराधितो रविः । पत्नीणाञ्च शतं तस्य धन्यानामभवद् द्विज ॥

その大臣が日神ラヴィを敬い鎮めたので、日神は彼にきわめて大いなる長寿を授けた。さらに彼には幸運なる妃が百人いた、ああ二度生まれの者(ブラーフマナ)よ。

Verse 3

तस्य दीर्घायुṣः पत्न्यो नातिदीर्घायुṣो मुने । कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा ॥

おお聖仙よ、その長寿の王の妃たちは長寿ではなく、時の経過とともに死へと赴いた—同様に、彼の従者や大臣、その他の人々もまた然りであった。

Verse 4

स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः । उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम् ॥

妃たちと、彼と同時代に生まれた従者(久しく連れ添う者)に囲まれていながら、彼の心は不安に沈み、昼夜を問わず気力は衰えていった。

Verse 5

तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुःखितम् । अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा ॥

彼が気力を失い—屈服して臆した家臣らに見捨てられ、大いなる悲嘆に沈んだとき—ヴィマルダと呼ばれるアナンタラが彼を国土から追放した。

Verse 6

राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः । तपस्तेपे महाभागे वितस्तापुलिने स्थितः ॥

国を追われた彼は、倦み疲れた心のまま森へ赴き、ヴィタスター河の祝福された砂州に立って苦行を修した。

Verse 7

ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रावकाशिकः । जलशायी च शिशिरे निराहारो यतव्रतः ॥

夏には「五火」の苦行を修し、雨季には露天の空の下に身をさらし、冬には水中に横たわった。彼は断食し、誓戒に堅固であった。

Verse 8

ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः । बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम् ॥

そのとき、彼が苦行を行っている最中、雨季(モンスーン)に雲が日ごとに絶え間なく雨を注ぎ、大洪水が起こった。

Verse 9

न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा । नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत् ॥

東も南も西も北も、いずれの方角も見分けられず、万物は闇に塗りつぶされたかのようであった。

Verse 10

ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् । प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः ॥

そのとき、川の大洪水に押し流されて王は岸へと追い立てられた。いくら嘆願しても舟は見つからず、大地の主は水勢に運ばれていった。

Verse 11

अथ दूरे जलौघेन ह्रियमाणो महीपतिः । आससाद जले रौहीं स पुच्छे जगृहे च ताम् ॥

さらに、水の激流に遠くまで運ばれた王は、水中でラウヒー(雌鹿)に出会い、その尾をつかんだ。

Verse 12

तेन प्लवेन स ययावूध्यमानो महीतले । इतश्चेतश्चान्धकारे आससाद तटं ततः ॥

彼は彼女を浮きとして用い、流れに乗って進み、まるで地の上を運ばれるかのようであった。闇の中で左右に翻弄されつつ、ついに岸へと至った。

Verse 13

विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् । तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः ॥

王は、広く広がって渡り難い泥濘を踏み分け、なお引きずられながらも、別の心地よい森へと到った。

Verse 14

तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् । पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ ॥

そこでは闇の中、そのラウヒーが、大地の主—その尾にしがみつく—を引きずっていった。高貴でありながらやつれ、血管が浮き出ていた。

Verse 15

तस्याश्च स्पर्शसम्भूतामवाप मुदमुत्तमाम् । सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः ॥

彼は彼女の触れたことによって最上の歓喜を得た。しかも再び闇の中をさまよううちに、その心はカーマ(欲望)に引き寄せられた。

Verse 16

विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् । नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह ॥

彼が執着に満ち、彼女の背に触れようとしているのを知って、その雌鹿は森の中で王に語りかけた。

Verse 17

किं पृष्ठं वेपथुमता करेण स्पृशसे मम । अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः ॥

なぜ震える手で私の背に触れるのですか。おお王よ、この事の成り行きはまったく別のかたちで起こったのです。

Verse 18

नास्थाने वो मनो यातं नागम्याहं तवेश्वर । किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे ॥

あなたの心は不相応なところへ向かいました。おお主よ、私はあなたが近づくべき者ではありません。むしろ、この移ろいやすい衝動こそが、あなたと交わりを結ぶうえで私に障りを生じさせるのです。

Verse 19

माङ्कण्डेय उवाच इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः । जातकौतूहलो रौहीमिदं वचनमब्रवीत् ॥

マールカṇḍेयは言った。雌鹿のその言葉を聞いて、大地の主は好奇心を起こし、ラウヒー(rauhī)に向かって次の言葉を述べた。

Verse 20

का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् । कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम ॥

王は言った。「汝は何者か。告げよ、雌鹿よ——なぜ汝は人のごとく語るのか。さらに、我が汝と共にあることを妨げる、その移ろいやすき者とは誰なのか。」

Verse 21

मृग्युवाच अहं ते दयिता भूप ! प्रागासमुत्पलावती । भार्या शताग्रमहिषी दुहिता दृढधन्वनः ॥

雌鹿は言った。「王よ、かつて私は汝の愛しき者、ウットパラーヴァティーであった。私はシャターグラの妻として正妃にあり、またドリダダンヴァンの娘である。」

Verse 22

राजोवाच किन्तु यावत्कृतं कर्म येनेमां योनिमागता । पतिव्रता धर्मपरा सा चेत्थं सथमीदृशी ॥

王は言った。「いかなる行いによって、彼女はこの胎に至ったのか。もし夫に貞節で、ダルマに専心していたなら、なぜこのような姿となったのか。」

Verse 23

मृग्युवाच अहं पितृगृहे बाला सखीभिः सहिता वनम् । रन्तुं गता ददर्शैकं मृगं मृग्या समागतम् ॥

雌鹿は言った。「私が父の家にいる若き娘であった頃、友らと遊ぶため森へ入った。そこで、雄鹿が雌鹿と交わり結ばれているのを見た。」

Verse 24

ततः समीपवर्तिन्या मया सा ताडिता मृगी । मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः ॥

「それから近づいた私は、その雌鹿を打った。彼女は私を恐れて他所へ走り去り、すると雄鹿は怒りに燃えて言葉を発した。」

Verse 25

मूढे किमेवं मत्तासि धिक्ते दौः शील्यमीदृशम् । आधानकालो येनायं त्वया मे विफलीकृतः ॥

「愚かな娘よ――なぜそのように放埒なのか。かかる悪しき振る舞いを恥じよ!この行いによって、我が受胎の時は空しく果てた。」

Verse 26

वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः । भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः ॥

「その言葉を、人が語るかのように聞いて、私は恐れ、彼に言った。『この胎内に(鹿の姿で)来たあなたは、いったい誰なのですか。』」

Verse 27

ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः । सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम् ॥

「すると彼は言った。『私は聖仙ニルヴリティチャクシュスの子である。名はスータパー。雌鹿を欲して、私は牡鹿となった。』」

Verse 28

इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने । त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते ॥

「私は愛ゆえにこの雌鹿に従い、森において彼女もまた私を慕った。しかるに汝、邪悪なる娘よ、我らを引き裂いた。ゆえに汝に呪詛を与える。」

Verse 29

मया चोक्तं तवाज्ञानादपराधः कृतो मुने । प्रसादं कुरु शापं मे न भवान् दातुमर्हति ॥

「そこで私は言った。『聖仙よ、無知ゆえに私は罪過を犯しました。どうかご慈悲をお示しください――尊き御身よ、私に呪いを下さぬように。』」

Verse 30

इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते । न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे ॥

そのように告げられると、その聖仙は私に言った。「王よ、汝が我に身を委ねぬかぎり、汝の呪詛を取り消すことはない。」

Verse 31

मया चोक्तं मृगी नाहं मृगरूपधरा वने । लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम् ॥

そして私は言った。「私は雌鹿ではない——森において鹿の姿を取った者にすぎぬ。汝は別の雌鹿を得よう。それまで我への想いを断て。」

Verse 32

इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः । नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि ॥

そのように告げられると、怒りに目を赤くし唇を震わせて彼は言った。「汝は『私は雌鹿ではない』と言った。ゆえに愚か者よ、汝は雌鹿となる。」

Verse 33

ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् । स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः ॥

そのとき私は深く苦悩し、聖仙に礼拝して、なお自らの姿のまま激しく憤る彼に、幾度も幾度も「どうかお慈悲を、どうかお慈悲を」と訴えた。

Verse 34

बालानभिज्ञा वाक्यानां ततः प्रोक्तमिदं मया । पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम् ॥

それから私は、幼く言葉にも無知であったため、こう言ってしまった。「まことに、父が不在のとき、女たちは自ら夫を選ぶものです。」

Verse 35

सति ताते कथञ्चाहं वृणोमि मुनिसत्तम । सापराधाथवा पादौ प्रसीदेश नमाम्यहम् ॥

「父が生きているうちは、どうして私が(夫を)選べましょうか、ああ賢者の中の最勝よ。私に罪があろうとなかろうと、あなたの御足に礼拝いたします。どうかご慈悲を、主よ。」

Verse 36

प्रसीदेति प्रसीदेति प्रणतायाः महामते । इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः ॥

彼女はひれ伏して「どうかご慈悲を、どうかご慈悲を」と繰り返し、賢者よ、そのように嘆願していた。すると、仙人たちの中の雄牛たるその大聖が語った。

Verse 37

न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन । मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि ॥

「我が口にした言葉は決して他の形にはならぬ。汝は雌鹿となり、このまさに同じ森で、この生のうちに死ぬであろう。」

Verse 38

मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति । लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि ॥

「そして汝が鹿の身である間、強大な腕を持つ者が汝の胎に近づくであろう。おお麗しき女よ、聖仙シッダヴィーリヤの子は『ロロ』と名づけられる。」

Verse 39

जीतिस्मरा भवित्री त्वं तस्मिन्गर्भमुपागते । स्मृतिं प्राप्य तथा वाचं मानुषीमीrayiṣ्यसि ॥

「その懐妊が成就するとき、汝は前世の記憶を保つであろう。想起を取り戻したのち、汝はまた人の言葉をも語るであろう。」

Verse 40

तस्मिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता । लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः ॥

彼が生まれるとき、汝は雌鹿としての境遇から解放される。夫により敬われ、悪しき業に汚されぬ者が到達する諸世界に汝は至るであろう。

Verse 41

सोऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै । जित्वा वसुन्धरां कृत्स्नां भविष्यति ततो मनुः ॥

また大いなる武勇を備えたローロも、まことに父の敵を討ち滅ぼす。全地を征服したのち、彼はやがてマヌ(Manu)となるであろう。

Verse 42

एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता । त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम ॥

かくして呪いを受け、私は死して畜生の身となった。しかも汝の触れ合いによって、その胎芽が我が胎内に生じたのである。

Verse 43

अतो ब्रवीमि नास्थाने तव यातं मनो मयि । न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्‍यसौ ॥

ゆえに言う。汝の心は不相応にも我に向いた。さらに我に近づくべきではない—胎内に住するローロが、まことに障碍を生ずるであろう。

Verse 44

मार्कण्डेय उवाच एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् । पुत्रो ममारिञ्जित्वेति पृथिव्यां भविता मनुः ॥

マールカṇḍेयは言った。かく告げられると、その王もまた「我が子は敵を征してのち、地上においてマヌとなるであろう」と思い、無上の歓喜に至った。

Verse 45

ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् । तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम् ॥

そのときその雌鹿は吉祥の相を具えた一子を産んだ。彼が生まれるや、あらゆる生類は歓喜に満たされた。

Verse 46

विशेषतश्च राजासौ पुत्रे जाते महाबले । सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान् ॥

とりわけその王は、力ある子が生まれたとき大いに喜んだ。その雌鹿は呪いから解き放たれ、比類なき諸世界に到達した。

Verse 47

ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम । अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः ॥

その後、すべてのリシたちが集い、ああ賢者の中の最勝者よ、来たるべき繁栄を見て、その大いなる魂の者に名を授けた。

Verse 48

तामसीं भजमानायां योनिं मातर्यजायत । तमसा चावृते लोके तामसोऽयं भविष्यति ॥

彼はタマス(tamas)の性を帯びた胎に入った母より生まれた。世が闇に覆われていたゆえ、彼は「ターマサ」(Tāmasa)と呼ばれるであろう。

Verse 49

ततः स तामसस्तेन पित्रा संवर्धितो वने । जातबुद्धिरुवाचेदं पितरं मुनिसत्तम ॥

その後、森において父に養育されたそのターマサ(Tāmasa)は、理解が目覚めると、父に向かって次の言葉を語った。ああ賢者の中の最勝者よ。

Verse 50

कस्त्वं तात कथं वाहं पुत्रो माता च का मम । किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे ॥

「愛しき者よ、汝は誰か。しかして我はいかにして汝の子となり、我が母は誰ぞ。何のために来たりしや。真実を告げよ。」

Verse 51

मार्कण्डेय उवाच । ततः पिता यथावृत्तं स्वराज्यच्यवनादिकम् । तस्याचष्टे महाबाहुः पुत्रस्य जगतीपतिः ॥

マールカンデーヤは言った。そこで父は、自らの王国を失ったことを端緒として、起こった一切を彼に語った。剛腕なる世の主は、その子にすべてを説き明かした。

Verse 52

श्रुत्वा तत् सकलं सोऽपि समाराध्य च भारस्करम् । अवाच दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ॥

それら一切を聞き終えると、彼もまたバーラスカラ(太陽神)を礼拝し、神授の武器を、その収め方と再び呼び戻す法とともに、余すところなく得た。

Verse 53

कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् । अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः ॥

それらの武器を帯びて、彼は敵どもを征し、父の御前へと連行した。やがて許しが与えられると彼らを放ち、かくして自らのダルマに堅く住した。

Verse 54

पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् । विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम् ॥

また父も、苦行と供犠によって得た自らの諸世界に到り、子の顔を見届けたのち、歓喜して身を捨て去った。

Verse 55

जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः । तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु ॥

全地を征服したのち、ターマサ(Tāmasa)という王は、ターマサと称されるマヌ(Manu)となった。いまそのマヌヴァンタラ(Manvantara)について聞け。

Verse 56

ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः । ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः ॥

そこにいかなる神々があり、その主—すなわちインドラ(Indra)が誰であったか、いかなる聖仙(ṛṣi)がいたか、またそのマヌのいかなる子らが大地の守護者となったか——これらすべてが説き明かされる。

Verse 57

सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा । एते देवगणास्तत्र सप्तविंशतिकाः मुने ॥

そこでは神々の群れは、サティヤ(Satyas)、アニヤ(Anyas)、スディヤ(Sudhiyas)、スルーパ(Surūpas)、そして同じくハラヤ(Harayas)であった。聖仙よ、その神衆は二十七であった。

Verse 58

महाबलो महावीर्यः शतयज्ञोपलक्षितः । शिखिरीन्द्रस्तथा तेषां देवानामभवद्विभुः ॥

力においても武勇においても強大で、百の供犠によって名高いシキリー(Śikhirī)が、彼らの神々の主宰たるインドラ(Indra)となった。

Verse 59

ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा । पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥

ジョーティス(Jyotis)、ダルマ(Dharma)、プリトゥ(Pṛthu)、カーヴィヤ(Kāvya)、チャイトラ(Caitra)、アグニ(Agni)、ヴァラカ(Valaka)、そしてピーヴァラ(Pīvara)——これらが七人のサプタリシ(Saptarṣi)である、ブラーフマナよ。

Verse 60

नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा । पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥

ナラ(Nara)、クシャーンティ(Kṣānti)、また同様にシャーンタ(Śānta)、ダーンタ(Dānta)、ジャーヌ(Jānu)、ジャングハー(Jaṅghā)らはターマサ(Tāmasa)の子であり、きわめて大いなる力を備えた王となった。

Verse 61

इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् । यः पठेत् शृणुयाद्वापि तमसा स न बाध्यते ॥

かくして、ブラーフマナよ、このターマサ・マンヴァンタラは宣示された。これを誦する者、あるいはただ聞く者でさえ、闇(タマス)に悩まされることはない。

Frequently Asked Questions

The chapter examines how karmic causality and dharmic restraint operate even under crisis: Svarāṣṭra’s vulnerability after loss and exile, Utpalāvatī’s curse arising from a harmful act, and the unborn Lola’s role in preventing an adharmic attachment, together illustrating that desire and suffering are regulated by prior deeds and moral boundaries.

It provides the origin-story (upākhyāna) for Tāmasa Manu—his birth, naming, training, conquest, and accession—and then begins the manvantara register by listing the deva-gaṇas, the Indra (Śikhin), the seven ṛṣis, and the royal sons who rule under Tāmasa.

Adhyāya 74 identifies the Tāmasa Manvantara’s constituents: 27 groups of gods (including Satyas and Haris), Indra named Śikhin, the saptarṣis (Jyotirdharmā, Pṛthu, Kāvya, Caitra, Agni, Valaka, Pīvara), and the principal sons/kings of Tāmasa such as Nara, Kṣānti, Śānta, Dānta, and Jānujaṅgha.