
हरिश्चन्द्र-विश्वामित्रोपाख्यानम् (Hariścandra–Viśvāmitropākhyānam)
Fall of Vasu
本章は、聖仙ヴィシュヴァーミトラによって王ハリシュチャンドラがダルマと真実への堅固さを試される物語である。王は聖なる誓いを守るため、王国と財宝を布施(ダーナ)として捧げ、深い苦難を受けても正道から退かない。さらに、パーンダヴァに関わる呪いの由来が後日譚として示され、後の展開の背景となる。
Verse 1
इति श्रीमार्कण्डेयपुराणे बलदेवब्रह्महत्यानाम षष्ठोऽध्यायः । सप्तमोऽध्यायः । धर्मपक्षिण ऊचुः— हरिश्चन्द्र इति राजर्षिरासीत्त्रेतायुगे पुरा । धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः ॥
かくして『聖マールカンデーヤ・プラーナ』第六章「バラデーヴァと(婆羅門殺しの)罪」は終わる。ここに第七章が始まる。ダルマの鳥たちは言った。「昔、トレーターの世に、ハリシュチャンドラという王仙がいた。生来正しく、大地の守護者であり、その優れた名声は明るく輝き渡っていた。」
Verse 2
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् । नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे ॥
その王が治めていた時、飢饉も病もなく、人々は夭折しなかった。都の民もまた、アダルマ(不義)へ心を傾けることがなかった。
Verse 3
बभूवुर्न ततोन्मत्ताः धनवीर्यतपोमदैः । नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः ॥
その時、財や力、あるいは苦行の威力に酔って狂ったり驕ったりする者はなく、またいかなる女性も成熟に至る前に子を産むことはなかった。
Verse 4
स कदाचिन्महाबाहुररण्येऽनुसरन् मृगम् । शुश्राव शब्दमसकृत् त्रायस्वेति च योषिताम् ॥
ある時、その剛腕の男は森で鹿を追っている最中、女たちが泣き叫んで「お救いください!」と繰り返す声を幾度も耳にした。
Verse 5
स विहाय मृगं राजा मा भैषीरित्यभाषत । मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान् ॥
追っていた鹿を捨てて王は言った。「恐れるな。」さらに続けて、「我が治世にあって、誰が愚かにも不義を働くというのか。」
Verse 6
तत्क्रन्दितानुसारī च सर्वारम्भविघातकृत् । एकस्मिन्नन्तरे रौद्रो विघ्नराट् समचिन्तयत् ॥
そしてその叫びに続いて現れた者がいた。あらゆる企てを破る者である。瞬く間に、猛きヴィグナラート(障碍の主)は己が策を思い描いた。
Verse 7
विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् । प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती ॥
この大いなるヴィシュヴァーミトラは、比類なき苦行を引き受け、堅固な誓願を保つ者として、神秘の諸知を成就しようとした――まず、既に知られていたシッディ(成就)とそれに伴う諸力の獲得からである。
Verse 8
साध्यमानाः क्षमामौनचित्तसंयमिनामुना । ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया ॥
このように、忍耐と沈黙と心の制御を修するその聖仙に抑えられ、彼らは恐怖に苦しみつつ叫んだ。「この行いを、いかにして成すべきか。」
Verse 9
तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः । क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिबाति मे ॥
「カウシカは光輝に満ち、しかも恐るべき者である。われらは彼の前ではまったく無力だ。これらの女たちは恐怖に叫ぶ。私には、この危難は越えがたいものに思われる。」
Verse 10
अथवायं नृपः प्राप्तो मा भैरिति वदन् मुहुः । इममेव प्रविश्याशु साधयिष्ये यथेप्सितम् ॥
「さもなくば、王が到来した。彼は繰り返し『恐れるな』と言う。この場所へただちに入り、望まれることを成し遂げよう。」
Verse 11
इति सञ्चिन्त्य रौद्रेण विघ्नराजेन वै ततः । तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत् ॥
このように思案して、猛きヴィグナラージャ(障碍の主)が働きかけた。彼に憑かれた王は、怒りに満ちて次の言葉を発した。
Verse 12
कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः । बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते ॥
「衣の端で火を押し消そうとするこの罪深き者は誰か。われは—力の熱き光輝に燃え立ち—ここに立ち、しかも夫も傍らに在るのだ。」
Verse 13
सो ’द्य मत्कार्मुकाक्षेप-विदीपितदिगन्तरैः । शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति ॥
「今日、われが弓を引き放てば、遥かな地平の果てまで燃え走る矢が彼の身をことごとく貫き、彼は長き眠り(すなわち死)に入るであろう。」
Verse 14
विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः । क्रुद्धे चर्षिवरे तस्मिन्नेशुर्विद्याः क्षणेन ताः ॥
そのときヴィシュヴァーミトラは王の言葉を聞いて憤った。かの最勝の聖仙が怒りに燃え上がるや、かの秘奥の知(ヴィディヤー)は一瞬にして消え失せた。
Verse 15
स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् । भीतः प्रावेपत अत्यर्थं सहसाश्वत्थपर्णवत् ॥
またその王も、苦行(タパス)の宝庫たるヴィシュヴァーミトラを見て恐れ、たちまちアシュヴァッタ(聖なるイチジク)の葉のように激しく震えた。
Verse 16
स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् । ततः स राजा विनयात् प्रणिपत्याभ्यभाषत ॥
聖仙が「汝、邪なる心の者よ」と言い、また「止まれ」と告げたとき、その王は謙遜して伏して礼拝し、答えた。
Verse 17
भगवन्नेष धर्मो मे नापराधो मम प्रभो । न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे ॥
おお福徳なる御方よ、これこそ我がダルマであり、主よ、我に咎はございません。おお聖仙よ、我に怒りを向け給うな。われは自らの正当なる務めに専心しているのです。
Verse 18
दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिताः । चापं चोद्यंय योद्धव्यं धर्मशास्त्रानुसारतः ॥
ダルマを知る王は、施しをなし、また臣民を守護せねばならない。さらに弓を執り、ダルマ・シャーストラの規定に従って戦うべきである。
Verse 19
विश्वामित्र उवाच । दातव्यं कस्य के रक्ष्याः कैरुद्धव्यं च ते नृप । क्षिप्रमेतत् समाचक्ष्व यद्यधर्मभयं तव ॥
ヴィシュヴァーミトラは言った。「王よ、施しは誰に与えるべきか。誰を守護し、また誰が誰を救済すべきか。もし真にアダルマを恐れるなら、速やかに我に告げよ。」
Verse 20
हरिश्चन्द्र उवाच दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः । रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः ॥
ハリシュチャンドラは言った。「施与は最上のバラモンに、また乏しい資で生きる他の者にも与えるべきである。恐れる者は守護されねばならない。さらに、追いはぎや敵対する侵略者に対しては、常に戦いを起こすべきである。」
Verse 21
विश्वामित्र उवाच यदि राजा भवान् सम्यग्राजधर्ममवेक्षते । निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा ॥
ヴィシュヴァーミトラは言った。「もし汝、王よ、王権の務めを真に守るなら、望む祭祀の報酬ダクシナーを我に与えよ。我は束縛(義務の絡み)から解き放たれることを願うバラモンである。」
Verse 22
पक्षिण ऊचुः एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना । पुनर्जातमिवात्मानं मेने प्राह च कौशिकम् ॥
鳥たちは言った。「この言葉を聞くと、王は内奥に歓喜が満ち、まるで新たに生まれたかのように感じ、再びカウシカ(Kauśika)に語りかけた。」
Verse 23
उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् । दत्तमित्येव तद्विद्धि यद्यपि स्यात् सुदुर्लभम् ॥
「どうかお告げください、福徳ある御方よ。ためらいなく施すべきものは何でしょうか。『与えた』と心に決したその瞬間に、たとえそれが得難いものであっても、真にそれは『与えられた』のだと知ってください。」
Verse 24
हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् । प्राणा राज्यं पुरं लक्ष्मीः यदभिप्रेतमात्मनः ॥
それが財—銀や金—であれ、子であれ、妻であれ、あるいはこの身そのものであれ;また生命の息吹、王国、都、繁栄であれ—人が心の奥で最も愛惜するものは(執着の対象となる)。
Verse 25
विश्वामित्र उवाच राजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः । प्रयच्छ प्रथमं तावद् दक्षिणां राजसूयिकीम् ॥
ヴィシュヴァーミトラは言った。「王よ、あなたのこの布施は受け取られた。ゆえにまず、ラージャスーヤ(Rājasūya)に定められた祭祀の謝礼ダクシナー(dakṣiṇā)を捧げなさい。」
Verse 26
राजोवाच ब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् । व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः ॥
王は言った。「尊きバラモンよ、それもまた祭祀の謝礼ダクシナーとしてあなたに捧げよう。私はあなたのもの、すなわちお仕えする者だからである。おお、再生者(両生者)の中の虎よ、受け取りたい贈り物を望むままに選びなさい。」
Verse 27
विश्वामित्र उवाच ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् । राज्यं च सकलं वीर रथाश्वगजसङ्कुलम् ॥
ヴィシュヴァーミトラは言った。「おお勇士よ、海々を伴うこの全大地を、また山々・村々・町々とともに、さらに戦車・馬・象に満ちた全王国を、余に施し給え。」
Verse 28
कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव । विना भार्यां च पुत्रं च शरीरं च तवानघ ॥
「汝の倉と宝庫、また汝の有する一切は、妻と子を離れて、さらには汝自身の身体をも離れて、ことごとく(余に)与えられるべきである。おお咎なき者よ。」
Verse 29
धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति । बहुना वा किमुक्तेन सर्वमेतत् प्रदीयताम् ॥
また法(ダルマ)を悉く知る者、法がその道を進むままにこれに随う者にとって、何を多く語る必要があろうか。これらすべてが余すところなく授けられよ。
Verse 30
पक्षिण ऊचुः प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः । तस्यार्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः ॥
鳥たちは言った。心より歓喜し、顔色も変えず(動揺なく)、その王は仙者の言葉を聞き終えると、合掌して「然り」と答えた。
Verse 31
विश्वामित्र उवाच सर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् । प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि ॥
ヴィシュヴァーミトラは言った。「もし万事が余に与えられたのなら—王国よ、ウルヴァよ、力と財と—そのとき、余という苦行者が国中に確立しているならば、王者の聖仙よ、権威は誰に属するのか。」
Verse 32
हरिश्चन्द्र उवाच— यस्मिन्नपि मया काले ब्राह्मण दत्ता वसुन्धरा । तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः ॥
ハリシュチャンドラは言った。「私が大地(領土)を一人のブラーフマナに施与した時でさえ、なおあなたがその主であった——まして今はなおさらである、ああ大地の王よ。」
Verse 33
विश्वामित्र उवाच यदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा । यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि ॥
ヴィシュヴァーミトラは言った。「もし、王よ、全大地を汝が我に与えたのなら、我が主権の及ぶ領域から汝は去るべきである。」
Verse 34
श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसंग्रहम् । तरुवल्कलमाबध्य सह पत्न्या सुतेन च ॥
彼は腰帯(śroṇī-sūtra)をはじめとする一切の装身具を捨て去り、妻と子とともに樹皮で作られた衣を身に結びつけた。
Verse 35
पक्षिण ऊचुः तथेत्य चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे । स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च ॥
鳥たちは言った。「そのとおりに。」そう語り、必要な手立てを整えると、王は妻シャイヴィヤと幼い息子を伴って旅立ち始めた。
Verse 36
व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् । क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम् ॥
そのとき王が去ろうとすると、かのブラーフマナ/苦行者は道を塞いで言った。「ラージャスーヤ(Rājasūya)に対して支払うべき祭祀の報酬ダクシナー(dakṣiṇā)を私に与えぬまま、どこへ行くのか。」
Verse 37
हरिश्चन्द्र उवाच भगवन् राज्यं एतत् ते दत्तं निहतकण्टकम् । अवशिष्टम् इदं ब्रह्मन् अद्य देहत्रयं मम ॥
ハリシュチャンドラは言った。「おお福徳ある御方よ、この王国はすでにあなたに授けられた—いまや棘なきもの(すなわち敵と災厄は取り除かれた)。おお婆羅門よ、今日の我に残るのはこの『三重の身』のみである。」
Verse 38
विश्वामित्र उवाच तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा । विशेषतो ब्राह्मणानां हन्त्यदत्तं प्रतिश्रुतम् ॥
ヴィシュヴァーミトラは言った。「それでもなお、汝は我に祭祀の謝礼(ヤジュニャ・ダクシナー)を与えねばならぬ。とりわけ婆羅門に対しては、約した施与を与えぬなら破滅を招く。」
Verse 39
यावत् तोषो राजसूये ब्राह्मणानां तभवेन्नृप । तावदेव तु दातव्या दक्षिणा राजसूयिकी ॥
王よ、ラージャスーヤ祭において与えるべきダクシナー(祭祀の謝礼)は、その祭儀を執り行う婆羅門たちが満足するに足るほどの分量で供えられるべきである。
Verse 40
प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः । रक्षितव्यास्तथा चार्तास्त्वयैव प्राक् प्रतिश्रुतम् ॥
「約したなら、まさに与えるべきである。また、暴虐なる侵略者とは戦うべきである。同様に、苦しむ者は護られねばならぬ—それこそ汝自身が先に誓ったことだ。」
Verse 41
हरिश्चन्द्र उवाच भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते । प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च ॥
ハリシュチャンドラは言った。「おお福徳ある御方よ、時は移りゆき、いまやあなたへの我が奉仕にはもはや目的がない。おお婆羅門の聖仙のうち最勝なる方よ、我に恩寵を示し、善意をもって再考していただきたい。」
Verse 42
विश्वामित्र उवाच किम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप । शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रदहक्ष्यति ॥
ヴィシュヴァーミトラは言った。「おお人々の主よ、汝の遅延の尺度として、我はいつまで汝を待てばよいのか。速やかに語れ。さもなくば、我が呪詛の火が汝を焼き尽くすであろう。」
Verse 43
हरिश्चन्द्र उवाच मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् । साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि ॥
ハリシュチャンドラは言った。「おお婆羅門のうち最勝なる者よ、一か月のうちに、約したダクシナー(dakṣiṇā、謝礼の供施金)を汝に捧げよう。今は財がない。ゆえに、それを捧げるための猶予と許しを与え給え。」
Verse 44
विश्वामित्र उवाच । गच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय । शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः ॥
ヴィシュヴァーミトラは言った。「行け、行け、王のうち最勝なる者よ。自らの義務(svadharma)を正しく守り立てよ。汝の道が吉祥であり、道中に障りも敵対者も無からんことを。」
Verse 45
पक्षिण ऊचुः अनुज्ञातश्च गच्छेति जगाम वसुधाधिपः । पद्भ्यामनुचितां गन्तुमन्वगच्छत तं प्रिया ॥
鳥たちは語った。「行け」と許しを得て、大地の主は出立した。愛しき妃は、徒歩で従うのは本来ふさわしくなかったが、それでも彼の後を追って行った。
Verse 46
तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् । दृष्ट्वा प्रचुक्रुशुः पौराः राज्ञश्चैवानुयायिनः ॥
その最勝の王が、妃と子を伴って都を去るのを見て、町の人々と王の従者たちは大声で叫び声を上げた。
Verse 47
हानाथ किं जहास्यस्मान् नित्यार्तिपरिपीडितान् । त्वं धर्मतत्परो राजन् पौरानुग्रहकृत् तथा ॥
「おお守護者よ—絶えず苦しみに悩まされる我らを、なぜお見捨てになるのですか。あなたはダルマに帰依する王であり、また都の民にも恩寵と護りを与えるお方です。」
Verse 48
नयास्मानपि राजर्षे यदि धर्ममवेक्षसे । मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम् ॥
「おお王なる聖仙よ、もしダルマを護持しようと志されるなら、我らをも導いてください。おお最上の王よ、しばし留まり—蓮華のごとき御顔を拝ませてください。」
Verse 49
पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः । यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः ॥
いつになれば、我らは再び彼を拝し、眼という蜂でその姿を吸い尽くすように味わえるのか—彼が出で立つとき、諸王が前にも後ろにも歩み従う、その御方を。
Verse 50
तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् । यस्य भृत्याः प्रयातस्य यान्त्यग्रे कुञ्जचरस्थिताः ॥
その妻は幼子を腕に抱き、彼の後に従う。去りゆくその人の従者たちは先に進み、藪や林の繁みに身を配している。
Verse 51
स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रो ’द्य गच्छति । हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम् ॥
「見よ—今日、諸王の主たるハリシュチャンドラ王は徒歩で行かれる。ああ、王よ!どうしてそのかよわき方—美しい眉、麗しい肌、そして少し上向きの鼻をもつ御方—をお捨てになるのか。」
Verse 52
पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति । तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय ॥
「道の塵にまみれたとき、汝の顔はどのようになろうか。堅く立て、堅く立て、王のうち最勝なる者よ—自らのダルマに従い、これを護れ。」
Verse 53
आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः । किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा ॥
不害(アヒンサー、慈悲にもとづく自制)こそ最高のダルマである—とりわけクシャトリヤにとって。主よ、そのダルマを捨てるなら、妻に何の益があり、子に何の益があり、財と穀物にも何の益があろうか。
Verse 54
सर्वमेतत् परित्यज्य छायाभूता वयं तव । हानाथ हा महाराज हा स्वामिन् किं जहासि नः ॥
「すべてを捨てて、われらは汝の影のごとくなった。ああ、守護者よ! ああ、大王よ! ああ、主よ—なぜわれらを見捨てるのか。」
Verse 55
यत्र त्वं तत्र हि वयं तत्सुखं यत्र वै भवान् । नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः ॥
汝の在すところに、まさにわれらも在る。汝の在すところ、それのみがわれらの幸福である。汝の在すところが都であり、われらの王の在すところが天界である。
Verse 56
इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः । अतिष्ठत स तदा मार्गे तेषामेवानुकम्पया ॥
かくして町人たちの言葉を聞いた王は、悲嘆に圧倒され、ただ彼らへの憐れみゆえに、道の途中で立ち止まった。
Verse 57
विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् । रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत् ॥
ヴィシュヴァーミトラもまた、パウラヴァの言葉によって彼が混乱に投げ込まれたのを見て、怒りと焦燥に目を見開き、近づいて語った。
Verse 58
धिक् त्वां दुष्टसमाचारम् अनृतं जिह्मभाषणम् । मम राज्यं च दत्वा यः पुनः प्राक्रष्टुम् इच्छसि ॥
恥を知れ――邪悪な振る舞いの者、偽り多く、言葉も曲がっている!我が王国を施し与えたというのに、今さらそれを奪い返そうとするのか。
Verse 59
इत्युक्तः परुषं तेन गच्छामीति सवेपथुः । ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे ॥
彼にそのように厳しく言い放たれると、彼は震えながら「行きます」と答え、ただちに立ち去って、愛する者の手を取って急ぎ引き連れた。
Verse 60
कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् । सहसा दण्डकाष्ठेन ताडयामास कौशिकः ॥
そのとき、引きずられていた――疲労で力尽きた、か弱い妻を――カウシカは突然、杖で打った。
Verse 61
तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः । गच्छामीत्याह दुःखार्तो नान्यत् किञ्चिदुदाहरत् ॥
彼女がそのように打たれるのを見て、悲嘆に沈むハリシュチャンドラ王は「行く」と言い、ほかには何も語らなかった。
Verse 62
अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः । विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति ॥
そのとき、憐れみに動かされた五柱のヴィシュヴェ・デーヴァたちは言った。「このヴィシュヴァーミトラは甚だ罪深い。いかなる世界(帰趣)に至るのか。」
Verse 63
येनायां यज्वनां श्रेष्ठः स्वराज्यादवरॊपितः । कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे । पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरःसरम् ॥
「この供犠を行う者のうち最勝の者は、誰によって自らの主権から引き落とされたのか。あるいは、大供犠において信敬(śraddhā)により清められたソーマは誰の子か。われらはそれを飲み、聖なるマントラに先導されて歓喜のうちに去ろう。」
Verse 64
पक्षिण ऊचुः इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः । शशाप तान् मनुष्यत्वं सर्वे यूयमवाप्स्यथ ॥
鳥たちは言った。彼らの言葉を聞くや、激しい怒りに圧倒されたカウシカ(Kauśika)は彼らを呪って言った。「汝らは皆、人間の身に至れ。」
Verse 65
प्रसादितश्च तैः प्राह पुनरेव महामुनिः । मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः ॥
彼らがこのようにして彼をなだめると、大聖仙は再び言った。「たとえ汝らが人として生まれても、まことに汝らには子孫はない。」
Verse 66
न दारसंग्रहश्चैव भविता न च मत्सरः । कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः ॥
「妻を迎えて蓄えることもなく、また嫉みもない。欲と怒りから解き放たれたとき、汝ら神々は再び神々となり(神性を回復し)よう。」
Verse 67
ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि । द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः ॥
その後、かの神々はそれぞれ自らの分身としてクル族の家に降下し、ドラウパディーの胎より生まれたパーンドゥの五人の子らが世に現れた。
Verse 68
एतस्मात् कारणात् पञ्च पाण्डवेया महारथाः । न दारसंग्रहं प्राप्ताः शापात् तस्य महामुनेः ॥
このゆえに、パーンドゥの五人の大車戦士たる子らは、あの大聖仙の呪詛によって、妻を迎えることを得なかった。
Verse 69
एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् । प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि ॥
これらすべては、パーンダヴァたちの物語に基づいて汝に余すところなく説き明かした。四つの問いもまた答え終えた。さらに何を聞きたいのか。
The chapter interrogates rājadharma under extreme pressure: how a king balances righteous protection and legitimate force with humility toward ascetic authority, and how truthfulness and promised gift (pratiśruti-dāna) can require total self-renunciation.
It does not primarily enumerate Manvantara chronology; instead it situates a dharma-exemplum in the Tretāyuga and uses it as a didactic bridge to Itihāsa-linked causality (the Pāṇḍavas’ origin), typical of Purāṇic moral-analytic method.
This Adhyaya is outside the Devi Mahatmyam (Adhyayas 81–93) and contains no direct Śākta stuti or goddess-episode. Its distinctive contribution is etiological: it supplies a Purāṇic backstory for the Pāṇḍavas via Viśvāmitra’s curse, embedded within the Dharmapakṣi frame.