Adhyaya 24
VyadhaDharmaTeaching43 Shlokas

Adhyaya 24: Kuvalayashva’s Refusal of Gifts and the Vision of Madalasa’s Maya

कुवलयाश्वोपाख्याने मदालसामायादर्शनम् (Kuvalayāśvopākhyāne Madālasā-māyā-darśanam)

The Fowler's Discourse

このアドヒャーヤでは、王クヴァラヤーシュヴァがダルマに堅く立ち、贈り物や称賛を執着なく退ける。ついで王は、王妃マダーラサーの示す「マーヤー(幻力)」の光景を目の当たりにし、世の無常と迷いを悟って、識別と離欲、そして心の静けさへと導かれる。

Celestial Realms

गन्धर्वलोक (Gandharva sphere, implied by Madālasā’s lineage)

Key Content Points

Kuvalayāśva refuses gold, jewels, vehicles, and pleasures, asserting that with his father alive he lacks nothing and has no ethical basis for supplication (yāñcā).He asks for a non-material boon: the preservation of puṇya-saṃskāra and dharma-oriented resolve as the supreme fruit of merit.At the prince’s latent desire to see Madālasā, Aśvatara manifests her as māyā; the warning against contact highlights the instability of sense-driven cognition.Kuvalayāśva’s collapse demonstrates how rāga (attachment) can overpower even a dharmic intellect; the nāga’s explanation restores discernment.The episode closes with consolation, disclosure of the illusion, and the prince’s return to his city—advancing the Madālasā frame-story toward its ethical instruction.

Focus Keywords

Markandeya Purana Adhyaya 24Madalasa UpakhyanaKuvalayashva and AshvataraMadalasa Maya DarshanamPunya Samskara and DharmaPuranic ethics on renunciationIllusion (Maya) in Markandeya Purana

Shlokas in Adhyaya 24

Verse 1

इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने कुवलयाश्वपातालगमनं नाम त्रयोविंशोऽध्यायः । चतुर्विंशोऽध्यायः । जड उवाच कृताहारं महात्मानामधिपं पवनाशिनाम् । उपासाञ्चक्रिरे पुत्रौ भूपालतनयस्तथा ॥

かくして『シュリー・マーラカンデーヤ・プラーナ』のマダーラサー章において、「クヴァラヤーシュヴァのパーターラ行」と名づけられた第23章は終わる。第24章。ジャダは言った。「“風を食む者”(ナーガ)たちの大いなる心の主が食事を終えると、その二人の子ら、また王の子らも同様に、奉仕して彼に付き従った。」

Verse 2

कथाभिरनुरूपाभिः स महात्मा भुजङ्गमः । प्रीतिं सञ्जनयामास पुत्रसख्युरुवाच च ॥

ふさわしい対話によって、その大心の蛇は親愛の情を呼び起こし、そして王子の友(クヴァラヤーシュヴァ)に語りかけた。

Verse 3

तव भद्र ! सुखं ब्रूहि गेहमभ्यागतस्य यत् । कर्तव्यमुत्सृजाशङ्कां पितरीव सुतो मयि ॥

おお高貴なる者よ、何が汝を喜ばせるか告げよ—我が家に来た者のために何をなすべきか。疑いを捨て、我にとって父に対する子のようであれ。

Verse 4

रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् । यद्वाभिमतमत्यर्थं दुर्लभं तद्वृणुष्व माम् ॥

銀であれ金であれ、衣、乗り物、座—きわめて望まれ得がたいものは何であれ、我より選び取れ。

Verse 5

कुवलयाश्व उवाच तव प्रसादाद्भगवन् ! सुवर्णादि गृहे मम । पितुरस्ति ममाद्यापि न किञ्चित् कार्यमीदृशम् ॥

クヴァラヤーシュヴァは言った。「御恵みにより、主よ、我が家には父より今なお黄金などがございます。かようなものは要りませぬ。」

Verse 6

ताते वर्षसहस्राणि शासतीमां वसुन्धराम् । तथैव त्वयि पातालं न मे याञ्चोन्मुखं मनः ॥

我が父はこの大地を幾千年も治めた。ゆえに、たとえ汝とともにパーターラにあろうとも、我が心は(恩寵を)乞い求めることに傾かぬ。

Verse 7

ते स्वर्ग्याश्च सुपुण्याश्च येषां पितरि जीवति । तृणकोटिसमं वित्तं तारुण्याद्वित्तकोटिषु ॥

父がなお生きている者は、天に祝福され、功徳に富む。彼らにとって、財が山と積まれていても取るに足らず—草の葉が億万とあるがごとく—若き力という宝に比べれば無に等しい。

Verse 8

मित्राणि तुल्यशिष्टानि तद्वद्देहमनामयम् । जनिता ध्रियते वित्तं यौवनं किं नु नास्ति मे ॥

我には同じほどに洗練された友があり、また健やかな身体もある。父は生き、財もあり、若さもある—いったい何が欠けていようか。

Verse 9

असत्यार्थे नृणां याञ्चाप्रवणं जायते मनः । सत्यशेषे कथं याञ्चां मम जिह्वा करिष्यति ॥

目的が真実でないとき、人の心は乞い願うことから離れてゆく。もし私に真実だけが残るのなら、どうして舌が願いの言葉を口にできようか。

Verse 10

यैर् न चिन्त्यं धनं किञ्चिन् मम गेहेऽस्ति नास्ति वा । पितृबाहुतरुच्छायां संश्रिताः सुखिनो हि ते ॥

我が家に財があるか否かを、彼らは少しも案ずる必要はない。父の腕という樹の陰に守られて、彼らはまことに幸福なのである。

Verse 11

ये तु बाल्यात् प्रभृत्येव विना पित्रा कुटुम्बिनः । ते सुखास्वादविभ्रंशान् मन्ये धात्रैव वञ्चिताः ॥

しかし、幼少の時より父なくして生きる家の主たちを、私は創造主そのものにより奪われた者と見る。彼らは幸福の味わいそのものを欠いているからである。

Verse 12

तद्वयं त्वत्प्रसादेन धनरत्नादिसञ्चयान् । पितृमुक्तान् प्रयच्छामः कामतो नित्यमर्थिनाम् ॥

ゆえに、汝の恩寵によって、我らは望みのままに、また求める者には常に、財宝の蔵・宝珠などを、父の許しを得て施与のために解き放ち授けよう。

Verse 13

तत् सर्वमिह संप्राप्तं यदङ्घ्रियुगलं तव । मच्चूडामणिना स्पृष्टं यच्चाङ्गस्पर्शमाप्तवान् ॥

ここで得られた一切は――我が頭上の宝珠が汝の両足に触れ、また我が身が汝の御身に触れることを得たがゆえである。

Verse 14

जड उवाच इत्येवं प्रसृतं वाक्यमुक्तः पन्नगसत्तमः । प्राह राजसुतं प्रीत्या पुत्रयोरुपकारिणम् ॥

ジャーダは言った。かく言葉が語られるや、蛇族の最勝者は歓喜し、二人の子の恩人たる王子に向かって語りかけた。

Verse 15

नाग उवाच यदि रत्नसुवर्णादि मत्तोऽवाप्तुं न ते मनः । यदन्यन्मनसः प्रीत्यै तद्ब्रूहि त्वं ददाम्यहम् ॥

ナーガは言った。もし汝の心が我より宝珠や黄金などを得ることを望まぬなら、ほかに何が汝の心を喜ばせるか告げよ――それを授けよう。

Verse 16

कुवलयाश्व उवाच भगवन्स्त्वत्प्रसादेन प्रार्थितस्य गृहे मम । सर्वमस्ति विशेषेण संप्राप्तं तव दर्शनात् ॥

クヴァラヤーシュヴァは言った。ああ尊き御方よ、汝の恩寵により、我が家には求めるものはすべて備わっております。まことに、ただ汝を拝見しただけで、万事は殊勝に成就いたしました。

Verse 17

कृतकृत्योऽस्मि चैतेन सफलं जीवितञ्च मे । यदङ्गसंस्लेषमितस्तव देवस्य मानुषः ॥

これによって、成すべきことは成し遂げられ、わが命もまた実りあるものとなった――ただの人間であるこの私が、汝なる神聖なる女神(デーヴィー)と身をもって触れ合うことを得たからである。

Verse 18

ममोत्तमाङ्गे त्वत्पादरजसा यदिहास्पदम् । कृतं तेनैव न प्राप्तं किं मया पन्नगेश्वर ॥

ここにて汝の御足の塵が我が頭上に宿った以上、それだけで成し遂げられぬものが何かあろうか。おお蛇族(ナーガ)の主よ、我に得られぬものが何であろう。

Verse 19

यदि त्ववश्यं दातव्यो वरो मम यथेप्सितः । तत्पुण्यकर्मसंस्कारो हृदयान्मा व्यपैतु मे ॥

もし我が望む恩寵がまことに授けられるべきなら、その功徳ある行いの高貴なる薫習(サンスカーラ)が、我が心より去らぬように。

Verse 20

सुवर्णमणिरत्नादि वाहनं गृहमासनम् । स्त्रियोऽन्नपानं पुत्राश्च चारुमाल्यानुलेपनम् ॥

黄金、宝玉と装身具;乗り物;家と座;女人;飲食;息子たち;そして美しき花鬘と香油—

Verse 21

एते च विविधाः कामा गीतवाद्यादिकञ्च यत् । सर्वमेतन्मम मतं फलं पुण्यवनस्पतेः ॥

そしてこれら多様な享楽、また音楽や楽器など――これらすべては、我が見るところ「功徳の樹」の果である。

Verse 22

तस्मान्नरेण तन्मूलः कार्यो यत्नः कृतात्मना । कर्तव्यः पुण्यसक्तानां न किञ्चिद्भुवि दुर्लभम् ॥

それゆえ、自制ある人はその根本(功徳)に向かって努め励むべきである。功徳に帰依する者にとって、地上に得難いものは何もない。

Verse 23

अश्वतर उवाच एवम् भविष्यति प्राज्ञ ! तव धर्माश्रिता मतिः । सत्यञ्चैतत् फलं सर्वं धर्मस्योक्तं यथा त्वया ॥

アシュヴァタラは言った。「そのとおりであります、賢者よ—あなたの心はダルマに確立されています。そしてあなたが語られたとおり、このダルマの果報はすべて真実です。」

Verse 24

तथाप्यवश्यं मद्गेहमागतॆन त्वयाधुना । ग्राह्यं यन्मानुषे लोके दुष्प्राप्तं भवतो मतम् ॥

それでも、いまあなたが我が家に来られた以上、何かを受け取らねばなりません—人の世で得難いとあなたが思うものを。

Verse 25

जड उवाच तस्यैतद्वचनं श्रुत्वा स तदा नृपनन्दनः । मुकावलोकनं चक्रे पन्नगेश्वरपुत्रयोः ॥

ジャダは言った。これらの言葉を聞くと、王子は沈黙のまま、蛇の主の二人の息子へと視線を投げた。

Verse 26

ततस्तौ प्रणिपत्योभौ राजपुत्रस्य यन्मतम् । तत्पितुः सकलं वीरौ कथयामासतुः स्फुटम् ॥

するとその二人の勇士は礼拝してから、王子の意図するところを父に明瞭に、余すところなく語り告げた。

Verse 27

पुत्रापूचतुः ततोऽस्य पत्नी दयिता श्रुत्वेमं विनिपातितम् । अत्यजद्दयितान् प्राणान् विप्रलब्धा दुरात्मना ॥

そのとき息子たちはその事を問うた。彼が打ち倒されたと聞いた愛妻は、悪しき者に欺かれて、愛惜する命の息を捨て去った。

Verse 28

केनापि कृतवैरेण दानवेन कुबुद्धिना । गन्धर्वराजस्य सुता नाम्ना ख्याता मदालसा ॥

悪意を抱くダーナヴァが怨恨を捏造したため、ガンダルヴァ王の娘で「マダーラサー」と名高い彼女は、その策謀の標的であり道具とされた。

Verse 29

कृतज्ञोऽयं ततस्तात ! प्रतिज्ञां कृतवानिमाम् । नान्या भार्या भवित्रीति वर्जयित्वा मदालसाम् ॥

それから、敬愛する父よ、この恩知らずの男は誓願した。「ほかのいかなる女も我が妻とはならぬ」と。かくしてマダーラサーを退けた。

Verse 30

द्रष्टुं तां चारुसर्वाङ्गीमयं वीर ! ऋतध्वजः । तात ! वाञ्छति यद्येतत् क्रियते तत् कृतं भवेत् ॥

おお勇士よ、麗しき肢体をもつ彼女を、リタドヴァジャは見たいと願っている。敬愛する父よ—それが望みなら、そうなされよ;それで成就したものと数えられよう。

Verse 31

अश्वतर उवाच भूतैर्वियोगिनो योगस्तादृशैरेव तादृशः । कथमेतद्विना स्वप्नं मायां वा शम्बरॊदिताम् ॥

アシュヴァタラは言った。「衆生から隔てられた者にとって『結合』とは、同類のものに限られ、また同様の手段によって生じるのみである。これがどうしてあり得よう、夢でないなら—あるいはシャンバラが示したマーヤーでないなら?」

Verse 32

जड उवाच प्रणिपत्य भुजङ्गेशं पुत्रः शत्रुजितस्ततः । प्रत्युवाच महात्मानं प्रेमलज्जासमन्वितः ॥

ジャダは言った。ついでシャトルジットの子は、ナーガたちの主に頭を垂れて礼拝し、愛情と慎み深い羞恥に満ちて、その大徳者に答えた。

Verse 33

मायामयीमप्यधुना मम तात ! मदालसाम् । यदि दर्शयते मन्ये परं कृतमनुग्रहम् ॥

敬愛する父上、たとえマダーラサーがマーヤーによって成るものでも、いま彼女を私にお示しくだされば、それを私へのこの上ない御恩寵と存じます。

Verse 34

अश्वतर उवाच तस्मात् पश्येह वत्स ! त्वं मायाञ्चेद् द्रष्टुमिच्छसि । अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः ॥

アシュヴァタラは言った。「それゆえ、愛しい子よ、マーヤーを見たいのなら、ここを見なさい。汝は恩寵に値する。家においては、客として来た幼子でさえ師(グル)として遇すべきである。」

Verse 35

जड उवाच आनयामास नागेन्द्रो गृहगुप्तां मदालसाम् । तेषां सम्मोहनार्थाय ज्जल्प च ततः स्फुटम् ॥

ジャダは言った。ナーガの主は、家の内に秘しておいたマダーラサーを連れ出し、ついで彼らを惑わすため、明瞭に語った。

Verse 36

दर्शयामास च तदा राजपुत्राय तां शुभाम् । सेयं न वेति ते भार्या राजपुत्र ! मदालसा ॥

それから彼はその吉祥なる女性を王子に示して言った。「王子よ、彼女は汝の妻であるか、否か——マダーラサーか?」

Verse 37

जड उवाच स दृष्ट्वा तां तदा तन्वीं तत्क्षणात् विगतत्रपः । प्रियेत्य् तामभिमुखं ययौ वाचमुदीरयन् । निवारयामास च तं नागः सोऽश्वतरस्त्वरन् ॥

ジャダは言った。あのほっそりした女を見たとたん、彼はたちまち恥を失い、「愛しき者よ!」と叫び声を上げて彼女に近づいた。だがナーガ(蛇神)と俊敏なアシュヴァタラが、急いで彼を制止した。

Verse 38

अश्वतर उवाच मायैयं पुत्र ! मा स्प्राक्षीः प्रागेव कथितं तव । अन्तर्धानमुपैत्याशु माया संस्पर्शनादिभिः ॥

アシュヴァタラは言った。「子よ、これはマーヤー(幻力)である。触れてはならぬ。前にも告げたとおり、幻は触れようとし、関わろうとするや、たちまち消え失せるのだ。」

Verse 39

ततः पपात मेदिन्यां स तु मूर्च्छापरिप्लुतः । हा प्रियेत्य् वदन् सोऽथ चिन्तयामास भामिनीम् ॥

そのとき彼は眩暈に打たれ、地に倒れた。「ああ、愛しき者よ!」と叫びつつ、情欲に燃えるその女のことを思い悩み始めた。

Verse 40

अहो स्नेहोऽस्य नृपतेर्ममोपऱ्यचलं मनः । येनायं पातनोऽरीणां विना शस्त्रेण पातितः ॥

ああ——この王の私への愛執はかくも深い。彼の堅固な心は私に据えられているがゆえに、「敵を倒す者」と呼ばれる彼が、いかなる武器もなくして倒されてしまった。

Verse 41

मायेति दर्शिता तेन मिथ्या मायेति यत्स्फुटम् । वाय्वम्बुतेजसां भूमेराकाशस्य च चेष्टया ॥

彼によって、それが「マーヤー」、まことに虚偽のマーヤーであることが、風・水・火・地・空(虚空)の働きによって明らかに示された。

Verse 42

जड उवाच ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः । कथयामास तत् सर्वं मृतसञ्जीवनादिकम् ॥

ジャダは言った。するとそのナーガの蛇なる者はクヴァラヤーシュヴァを慰め、死者を甦らせたことをはじめ、関わる一切の事柄を彼に語り聞かせた。

Verse 43

ततः प्रहृष्टः प्रतिलभ्य कान्तां प्रणम्य नागं निजगाम सोऽथ । सुशोभमानः स्वपुरं तमश्वम् आरुह्य संचितितमभ्युपतेम् ॥

それから彼は、愛しき人を取り戻して歓喜し、ナーガに礼拝して帰途についた。光り輝きつつ、その馬にまたがり、自らの都へと向かい、決意した事を胸に抱いて進んだ。

Frequently Asked Questions

The chapter examines what is truly worth requesting (or refusing) when offered boons: material prosperity versus the inner continuity of dharmic disposition (puṇya-saṃskāra). It also tests the stability of renunciation by exposing how attachment can reassert itself through māyā.

This Adhyāya does not develop Manvantara chronology. Instead, it advances the Madālasā-upākhyāna by deepening its ethical instruction—linking merit to character formation and illustrating māyā as a narrative device for moral testing.

It is outside the Devī Māhātmya (Adhyāyas 81–93) and contains no direct Śākta stuti or goddess-episode. Its closest thematic overlap is the broader Purāṇic use of māyā as an explanatory category for delusion and attachment, here enacted through the illusory Madālasā.