
本章由两段相连的叙述构成。(一) 仪轨与圣地指引:伊湿伐罗引导朝圣者前往吉祥海滨的阿伽尼提尔塔(Agnitīrtha),并指出索摩那陀(Somnātha)以南的帕德玛迦提尔塔(Padmaka tīrtha)为举世闻名、能灭罪的圣地。经文详述沐浴与“瓦帕那”(vapanam,剪发/剃发之仪)的次第:心中观想商羯罗(Śaṅkara),将头发置于规定之处,再次行snāna沐浴,并以信心作tarpaṇa供水祭。又分别说明男女与居家者的限制,警诫不可在无咒、非节期、非规定仪式之下贸然触海;并传授亲近大海的咒式,以及将金饰手环(kankaṇa)投入海中作为供献的一部分。 (二) 因缘神学:天女(Devī)问,海洋既为诸河归宿,又与毗湿奴(Viṣṇu)与吉祥天女拉克什米(Lakṣmī)相应,为何仍会染“过失”(doṣa)。伊湿伐罗叙述往昔:在普拉婆娑(Prabhāsa)长久祭祀之后,诸天因婆罗门索取dakṣiṇā而受逼迫,遂藏身海中;海洋却以隐匿之肉供给婆罗门,因此遭诅咒,除特定条件外成为“不可触/不可饮”。梵天(Brahmā)调停设立补救:于parva吉时、河流汇合处、塞图班达(Setubandha)及若干提尔塔,触海反成净化并得大功德;海洋亦以珠宝作补偿。章末指出瓦达瓦那拉(Vāḍavānala,海底之火,如金壶般“饮水”)的地理所在,并称阿伽尼提尔塔为受护持、效力极高的秘要圣地,闻其名亦能净化重罪之人。
Verse 1
ईश्वर उवाच । अग्नितीर्थं ततो गच्छेत्सागरस्य तटे शुभे । यत्राऽसौ वाडवो मुक्तः सरस्वत्या वरानने
自在天说道:“其后当往海滨吉祥之处的火圣渡(Agnitīrtha),美颜者啊;在彼处,娑罗萨伐底释放了那‘瓦陀婆’——海底之火。”
Verse 2
दक्षिणे सोमनाथस्य सर्वपापप्रणाशनम् । तीर्थं त्रैलोक्यविख्यातं पद्मकं नाम नामतः
在苏摩那陀(Somanātha)之南,有一处能灭尽诸罪的圣渡处(tīrtha),名闻三界,名曰“莲华处”(Padmaka)。
Verse 3
धन्वंतरशते प्रोक्तं सोमेशाज्जलमध्यगम् । कुण्डं पापहरं प्रोक्तं शतहस्तप्रमाणतः । तत्र स्नानं प्रकुर्वीत विगाह्य निधिमंभसाम्
在檀梵多利(Dhanvantari)所说的一百处圣地中,有一方除罪之池(kuṇḍa),位于靠近苏摩伊沙(Someśa,苏摩那陀)之水中,周量百肘。应当沉入这水之宝藏,在彼处行沐浴净礼。
Verse 4
आदौ कृत्वा तु वपनं सोमे श्वरसमीपतः । शंकरं मनसा ध्यायन्केशांस्तत्र परित्यजेत् । समुत्तार्य ततः केशान्भूयः स्नानं समाचरेत्
起初,当在苏摩伊湿伐罗(Someśvara)近旁行剃发礼;心中观想商羯罗(Śaṅkara),将发留置于彼处。随后收拢取去其发,再次行沐浴净礼。
Verse 5
यत्किंचित्कुरुते पापं मनुष्यो वृत्तिकर्शितः । तदेव पर्वतसुते सर्वं केशेषु तिष्ठति
凡人因生计艰迫而造作的任何罪业——噢,山之女——都被说是寄住于发丝之中。
Verse 6
तस्मात्सर्वप्रयत्नेन केशांस्तत्र विनिक्षिपेत् । तदेव सोमनाथाग्रे कृत्वा तु द्विगुणं फलम्
是故当竭尽心力将发安置于彼处;而在苏摩那陀之前行此一事,其功德果报加倍。
Verse 7
अग्नितीर्थसमीपस्थं कपर्द्दिद्वारमध्यगम् । तत्रैव द्विगुणं ज्ञेयमन्यत्रैकगुणं स्मृतम्
在靠近阿格尼提尔塔的迦帕尔迪之门处,功德应知为加倍;在别处则被记为一倍。
Verse 8
क्षुरकर्म न शस्तं स्याद्योषितां तु वरानने । सभर्तृकाणां तत्रैव विधिं तासां शृणुष्व मे
美颜者啊,女子以剃刀刮剃并不相宜。如今请听我说:在彼处,对有夫之妇当遵行的特别法则。
Verse 9
सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् । ततो देवान्विधानेन तर्प्पयेत्पितृदेवताः
将所有头发拢起,剪至两指之长;随后依所定仪轨行“塔尔帕那”(供水慰悦),以令诸天与祖灵神祇得满足。
Verse 10
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः
剃发(蒙达那)与斋戒(禁食)——此乃一切圣浴之地(提尔塔)所规定的行持。
Verse 11
गंगायां भास्करे क्षेत्रे मातापित्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तसु स्मृतम्
经教示,剃发(瓦帕那)适宜于七种时机:在恒河,在日神圣域(婆斯迦罗-刹帝罗),当母亲或父亲或师长去世之时,于安立圣火之仪(阿陀那),以及于饮苏摩之祭。
Verse 12
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । नासौ तत्फलमाप्नोति वपनाद्यच्च लभ्यते
纵使有人举行千千次阿湿婆梅陀(马祭),也得不到在圣地(tīrtha)依仪剃发所获之果报。
Verse 13
विना मन्त्रेण यस्तत्र देवि स्नानं समाचरेत् । समाप्नोति क्वचिच्छ्रेयो मुक्त्वैकं पर्ववासरम्
噢,女神啊,在彼处不诵真言而沐浴者,有时也能得些许利益;但在神圣的节日“帕尔梵”(parvan)之日,连那点福德也会失去。
Verse 14
विना मंत्रं विना पर्व क्षुरकर्म विना नरैः । कुशाग्रेणापि देवेशि न स्प्रष्टव्यो महोदधिः
若无真言、若非适当的帕尔梵(parvan)时日、且无人行剃发之仪——噢,诸天之主母啊,切莫触碰大海,哪怕仅以库沙草尖亦不可。
Verse 15
एवं स्नात्वा विधानेन दत्त्वाऽर्घ्यं च महोदधौ । संपूज्य पुष्पगंधैश्च वस्त्रैः पुण्यानुलेपनैः
如是依仪沐浴,并向大海奉献阿尔伽(arghya)之后,当以花、香、衣布与吉祥涂香,圆满礼敬供养。
Verse 16
हिरण्मयं यथाशक्त्या निक्षिपेत्तत्र कंकणम्
随其能力,应在彼处安置供奉一只金手镯。
Verse 17
एवं कृत्वा विधानं तु स्पर्शयेल्लवणोदधिम् । मन्त्रेणानेन देवेशि ततः सांनिध्यतां व्रजेत्
如是完成所规定的仪轨之后,应触及咸海;以此真言,噢诸天之母,随后便得神圣的亲临与近在(sāṃnidhya)。
Verse 18
ॐ नमो विष्णुगुप्ताय विष्णुरूपाय ते नमः । सांनिध्ये भव देवेश सागरे लवणाम्भसि
“唵。礼敬毗湿奴护(Viṣṇugupta);礼敬汝——具毗湿奴之形者。噢诸天之主,愿在此咸水之海中亲临(赐予sāṃnidhya)。”
Verse 19
अग्निश्च रेतो मृडया च देहो रेतोधा विष्णुरमृतस्य नाभिः । एतद्ब्रुवन्पार्वति सत्यवाक्यं ततोऽवगाहेत्तु पतिं नदीनाम्
“阿耆尼为种子;此身由湿婆的慈恩之力而成;毗湿奴承载此种子,亦是不死甘露之脐。”说出这些真实之语,噢帕尔瓦蒂,随后当入于水中——诸河之主——以行净浴。
Verse 20
ॐ नमो रत्नगर्भाय मन्त्रेणानेन भामिनि । कंकणं प्रक्षिपेत्तत्र ततः स्नायाद्यदृच्छया
“唵,礼敬宝胎者(Ratnagarbha)!”——以此真言,噢光辉的女神,应将一只手镯投于其处,随后依仪轨而沐浴。
Verse 21
ततश्च तर्पयेद्देवान्मनुष्यांश्च पितामहान् । तिलमिश्रेण तोयेन सम्यक्छ्रद्धासमन्वितः
随后,具足正信者,应以掺和芝麻之水,如法行作怙念供(tarpaṇa)——向诸天、众人以及祖先先灵恭敬奠水。
Verse 22
आजन्मशतसाहस्रं यत्पापं कुरुते नरः । सकृत्स्नात्वा व्यपोहेत सागरे लवणाम्भसि
人于数十万生中所造诸罪,只要在咸海之水中沐浴一次,便能尽皆抛却。
Verse 23
वृषभस्तत्र दातव्यः प्रवृत्ते क्षुरकर्मणि । आत्मप्रकृतिदानं च पीतवस्त्रं तथैव च
于彼处,行剃发之仪时,当施舍一头公牛;亦应随己资力而行布施,并奉上一件黄色衣裳。
Verse 24
अनेन विधिना तत्र सम्यक्स्नानं समाचरेत् । स्पर्शयेद्वाडवं तेजश्चान्यथा दोषभाग्भवेत्
依此仪轨,当于彼处如法沐浴;并当以仪式触及瓦陀婆之火的威光,否则便招致过失。
Verse 25
वरः शापश्च तस्यायं पुरा दत्तो यथा द्विजैः
此即其昔日所受之恩赐与诅咒,正如婆罗门圣贤先前所授。
Verse 26
देव्युवाच । कुत्र कुत्र महादेव जलस्नानाद्विशुध्यति । किमर्थं सागरे दोषः प्राप्यते कौतुकं महत्
女神说道:“噢,大天(摩诃提婆)啊,于何处以水沐浴便得清净?又为何说在大海中反而会招致过失?此于我实为大奇。”
Verse 27
यत्र गंगादयः सर्वा नद्यो विश्रांतिमागताः । यत्र विष्णुः स्वयं शेते यत्र लक्ष्मीः स्वयं स्थिता
在那里,恒河以及一切诸河皆来安息;在那里,毗湿奴亲自安卧;在那里,吉祥天女拉克什米亲自现前而立——
Verse 28
किमर्थं वरशापं तु तस्य दत्तं द्विजैः पुरा । सर्वं विस्तरतो ब्रूहि महान्मे संशयोऽत्र वै
究竟因何缘故,往昔婆罗门圣者(再生者)会赐予它那恩许与诅咒?请为我详尽宣说一切;我在此处确已生起极大的疑惑。
Verse 29
ईश्वर उवाच । दीर्घसत्रं पुरा देवि प्रारब्धं सुरसत्तमैः । प्रभासं तीर्थमासाद्य सम्यक्छ्रद्धा समन्वितैः
自在天(Īśvara)说道:“噢,女神啊,久远以前,诸天中最殊胜者开启了一场漫长的祭祀会(dīrgha-satra)。他们抵达普拉婆娑的圣渡口(tīrtha)后,以圆满的信心与恭敬而奉行之。”
Verse 30
ततः सत्रावसाने तु दत्त्वा दानमनेकधा । सर्वस्वं ब्राह्मणेन्द्राणां प्रभासक्षेत्रवासिनाम्
随后,在那场祭祀会结束之时,他们以种种方式行布施——乃至将自己所有的一切——奉献给居住于普拉婆娑圣域的最尊贵婆罗门。
Verse 31
तावदन्ये द्विजास्तत्र दक्षिणार्थं समागताः । देशीयास्तत्र वास्तव्याः शतशोऽथ सहस्रशः
与此同时,另一些再生者(婆罗门祭司)也为求得达克希那(祭礼酬金)而聚集于彼处;他们是当地居民,居于其地,或成百,或成千而来。
Verse 32
प्रार्थनाभङ्गभीताश्च ततो देवाः सवासवाः । प्रणष्टास्तान्सुरान्दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः
诸天连同因陀罗,惧怕使婆罗门的祈求落空,便隐没不见。婆罗门见诸神消失,遂追随其后。
Verse 33
खेचरत्वं पुरा देवि ह्यासीदग्रभुवां महत् । तेन यांति द्रुतं सर्वे यत्र यत्र सुरालयाः
噢,女神啊,远古之时,最尊胜者具足在空中行走的大神力。凭此能力,他们能迅疾前往诸神居处所在之地,无论何方。
Verse 34
एवं सर्वत्रगामित्वं तेषां वीक्ष्य दिवौकसः । प्रविष्टाः सागरं भीता ऊचुर्वाक्यं च तं पुनः
见他们具足遍行诸方之能,天界诸神惊惧,遂入大海;复又对他(大海)说出这些话。
Verse 35
शरणं ते वयं प्राप्ता ब्राह्मणेभ्यो भयं गताः । नास्ति वित्तं च दानार्थं तस्माद्रक्ष महोदधे
我们因惧怕婆罗门而来投奔于你。我们已无财物可作布施,故请护佑我们,噢,大海之主。
Verse 36
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् । विशेषतश्च देवानां रक्षणं बहुपुण्यदम्
一边是诸般祭祀,圆满具足上妙供施;另一边是救护那因危难而战栗的众生之命。尤其护持诸天,更能赐予广大功德。
Verse 37
समुद्र उवाच । ब्राह्मणेभ्यो न भीः कार्या कथंचित्सुरसत्तमाः । अहं वो रक्षयिष्यामि प्रविशध्वं ममोदरे
大海说道:“诸天中最胜者啊,切莫以任何方式畏惧婆罗门。我将护佑你们——进入我腹中深处。”
Verse 38
ततस्ते विबुधाः सर्वे तस्य वाक्येन हर्षिताः । प्रविष्टा गह्वरां कुक्षिं तस्यैव भय वर्ज्जिताः
于是诸神皆因他的话而欢喜,进入他那如洞窟般幽深的腹中,在那里便远离了恐惧。
Verse 39
समुद्रोऽपि महत्कृत्वा निजरूपं च भूरिशः । जलजाञ्जीवसंघातान्धृत्वा तीरसमीपतः
大海也极大地扩展自身形体,聚集无数水族生灵,使其靠近海岸。
Verse 40
ततश्चक्र उपायं स ब्राह्मणानां निपातने । मत्स्यानामामिषं पक्त्वा महान्नेन च गोपितम्
随后他想出一计,要使婆罗门败落:他烹煮鱼肉,并将其藏在大量米饭之下。
Verse 41
अथोवाच द्विजान्सर्वान्प्रणिपत्य कृतांजलिः । प्रसादः क्रियतां विप्रा मुहूर्त्तं मम सांप्रतम्
随后他向一切二次出生者俯伏顶礼,合掌说道:“尊贵的婆罗门啊,愿你们此刻垂怜于我——赐我这一瞬。”
Verse 42
आतिथ्यग्रहणादेव दीनस्य प्रणतस्य च । युष्मदर्थं मया सम्यगेतत्पाकं समावृतम् । क्रियतां भोजनं भूयो गंतव्यमनु नाकिनाम्
只因你们接受了那贫困而俯伏者的款待,我已为你们恭敬周全地备好此食。请享用此供养;随后当与诸天一同启程前行。
Verse 43
अथ ते ब्राह्मणा मत्वा समुद्रं श्रद्धयान्वितम् । बाढमित्येव तं प्रोच्य बुभुजुः स्वर्णभाजने
于是那些婆罗门认为大海具足信心,便答道:“善哉,如是。”随即以金器进食。
Verse 44
न व्यजानंत तन्मांसं गुप्तं स्वादु क्षुधार्द्दिताः
他们为饥饿所逼,竟未识出那暗藏的肉,因为其味甘美可口。
Verse 45
ततस्तृप्ताश्च ते विप्रा ब्राह्मणा विगतक्षुधः । आशीर्वादं ददुः सर्वे ब्राह्मणाः शंसित व्रताः
随后那些婆罗门既已饱足、饥意尽消,便都赐下祝福——皆是以誓戒与修持闻名的婆罗门。
Verse 46
भोजनांतो ब्राह्मणानां प्राणांतः क्षत्रजन्मनाम् । आशीविषाणां सर्पाणां कोपो ज्ञेयो मृतावधिः । प्रेरयामास देवान्वै गम्यतामित्युवाच तान्
“婆罗门用餐之终,犹如刹帝利族类之命终;而毒蛇之怒,当知至死方息。”说罢,他催促诸天道:“当启程离去。”
Verse 47
ततो देवाः सगंधर्वा गच्छंतः शीघ्रगा वियत् । गच्छतस्तांस्ततो दृष्ट्वा ब्राह्मणास्तत्र वंदिता
随后,诸天与乾闼婆一同迅疾穿行于虚空;见他们离去,那里的婆罗门便恭敬顶礼致敬。
Verse 48
दक्षिणार्थं समुत्पेतुः सुरानुद्दिश्य पृष्ठतः
他们又从后方起身,面向诸天,意欲上前求取达克希那(供养之礼、酬赠)。
Verse 49
ततः प्रपतिता भूमौ द्विजास्ते सहसा पुनः । अभक्ष्यभक्षणात्ते वै ब्राह्मणा मांसभक्षणात्
随后,那些“再生者”婆罗门又骤然仆倒在地——因为他们食了禁食之物,竟吞食了肉。
Verse 50
निष्कृतिं तां परिज्ञाय समुद्रस्य रुषान्विताः । ददुः शापं महादेवि रौद्रं रौद्रवपुर्द्धराः
他们识破那所谓“赎罪”实乃大海所为,便怒火充盈——噢,摩诃提毗——现出忿怒之相,宣下凶烈的诅咒。
Verse 51
यस्मादभक्ष्यं मांसं वै ब्राह्मणानां परं स्मृतम् । त्वयोपहृतमस्माकं सुगुप्तं भक्ष्यसंयुतम्
因为肉食确被传记为婆罗门所绝对禁戒;而你却将它带给我们,巧加隐藏,混入可食之物中。
Verse 52
एकतः सर्वमांसानि मत्स्यमांसं तथैकतः । एकतः सर्वपापानि परदारास्तथैकतः
一边是各种肉食,另一边唯有鱼肉;一边是诸般罪业,另一边唯有亲近他人妻子的罪。
Verse 53
एवं वयं विजानन्तो यदि मांसस्य दूषणम् । तथापि वंचिताः सर्वे अपरीक्षितकारिणः
尽管我们明知食肉之过,然而众人仍被蒙蔽欺诳,只因行事不加审察。
Verse 54
यस्मात्पापमते क्रूरं त्वया वै वञ्चिता वयम् । मांसस्य भक्षणात्तस्मादपेयस्त्वं भविष्यसि
既然你这怀罪意而残酷者确实欺诳了我们,因此因这食肉之业,你将成为“不可饮用者”(你的水将不宜饮用)。
Verse 55
अस्पृश्यस्त्वं द्विजेंद्राणामन्येषां च नृणां भुवि । तवोदकेन ये मर्त्त्याः करिष्यंति कुबुद्धयः
你将为最尊贵的再生族(婆罗门)及世间其他人所不触;那些愚昧的凡人若要取用你的水—
Verse 56
स्नानं ते नरकं घोरं प्रयास्यंति न संशयः । कृतघ्नानां च ये लोका ये लोकाः पापकर्मिणाम्
若在你中沐浴,他们必堕入可怖的地狱,毫无疑问——去往忘恩负义者之界,及作恶者之界。
Verse 57
तांस्तवोदक संस्पर्शाल्लप्स्यंते मानवा भुवि
因触及你圣水之力,世间之人亦将获得同样的归宿与果报。
Verse 58
ईश्वर उवाच । एवं शप्तः समुद्रस्तैर्ब्राह्मणैर्वरवर्णिनि । ततो वर्षसहस्रं तु ह्यस्पृश्यः संबभूव ह
自在天(Īśvara)说道:“美色之女啊,如此被那些婆罗门诅咒之后,大海确实在一千年间成了不可触之物。”
Verse 59
ततस्त्रासाकुलो भूत्वा सर्वांस्तानिदमब्रवीत् । देवकार्यमिदं विप्रा मया कृतमबुद्धिना
随后他惊惧不安,对众人说道:“诸婆罗门啊,此事本为诸天之业;然我愚昧而行,缺乏正当的明辨。”
Verse 60
बुभूषता परं धर्मं शरणागतसंभवम् । कामात्क्रोधाद्भयाल्लोभाद्यस्त्यजेच्छरणागतम्
欲守持至上之法——由护佑归依求救者而生之法——若有人因欲、因嗔、因惧、因贪而弃舍投奔求护之人,当受谴责。
Verse 61
सत्याद्वापि स विज्ञेयो महापातककारकः । युष्मद्भीत्या समायाताः स्वर्गिणः शरणं मम
纵使以“真实”为名,此人亦当被认作造作大罪者:若他弃舍那些因惧你们而来投我求庇护者——即便他们是天界之众。
Verse 62
ते मया रक्षिताः सम्यग्यथाशक्त्या ह्युपायतः । शोषयिष्येऽहमात्मानं यस्माच्छप्तः प्रकोपतः
“我已尽力以相应之法妥善护持他们;然而因愤怒之中受了诅咒,如今我将使自身枯竭。”
Verse 63
भवद्भिर्नोत्सहे स्थातुं जनस्पर्शविनाकृतः । एवमुक्त्वा ततो देवि समुद्रः सरितांपतिः । आत्मानं शोषयामास दुःखेन महता स्थितः
“失却与众生相触之缘,我不能在你们面前停留。”说罢,女神啊,大海——诸河之主——怀着无量悲苦,开始使自身渐渐枯竭。
Verse 64
ततो देवगणाः सर्वे स्थलाकारं महार्णवम् । शनैःशनैः प्रपश्यंतो भयेन महताऽन्विताः
于是诸天众神,缓缓地、缓缓地,看见大海化作旱地之形,心中充满极大的恐惧。
Verse 65
ऊचुर्गत्वा तु लोकेशं देवदेवं पितामहम् । अस्मत्कृते द्विजैः शप्तः सागरो ब्राह्मणोत्तमैः
他们遂前往世间之主——毗多摩诃(Pitāmaha)、诸神之神——禀告道:“为我等之故,大海被最上等的婆罗门所诅咒。”
Verse 66
स शोषयति चात्मानं दुःखेन महतान्वितः । समुद्राज्जलमादाय प्रवर्षंति बलाहकाः
“他正以无量悲苦自令枯竭;而雨云从大海汲水,复又倾注为甘霖。”
Verse 67
ततः संजायते सस्यं सस्याद्यज्ञा भवंति च । यज्ञैः संजायते तृप्तिः सर्वेषां त्रिदिवौकसाम्
由那雨水而生五谷;由五谷而兴祭祀(yajña)。由祭祀而起,诸天众生皆得满足欢悦。
Verse 68
एवं तस्य विनाशेन नाशोऽस्माकं भविष्यति । तस्मात्त्वं रक्ष तं गत्वा यथा शोषं न गच्छति
如此,若他毁灭,我等亦将随之覆亡。故汝当速往护持,使其不至于彻底干涸枯竭。
Verse 69
यथा तुष्यंति विप्रास्ते तथा नीतिर्विधीयताम्
当立正当之行持,使彼诸婆罗门皆得圆满欢喜。
Verse 70
देवानां वचनाद्ब्रह्मा गत्वा सागरसन्निधौ । समुद्रार्थे ययाचे तान्ब्राह्मणान्क्षेत्रवासिनः
奉诸天之命,梵天(Brahmā)前往大海之滨;为海之缘故,向居于此圣域的婆罗门众恳请。
Verse 71
ब्रह्मोवाच । प्रसादः क्रियतामस्य सागरस्य द्विजोत्तमाः । यथा पवित्रतां याति मद्वाक्यात्क्रियतां तथा
梵天曰:“噫,诸最胜二生者(dvija)!愿汝等垂恩于此大海;依我所请而行,使其得至清净。”
Verse 72
प्रदास्यति स युष्मभ्यं रत्नानि विविधानि च
他也将赐予你们种种珍宝。
Verse 73
यूयं भविष्यथात्यंतं भूमिदेवा इति क्षितौ । नाम्ना मद्वचनान्नूनं सत्यमेतन्मयोदितम्
在大地之上,你们必将确然以“土地之神”之名为人所知;凭我之言,此事无疑——此真理由我宣告。
Verse 74
ब्राह्मणा ऊचुः । नान्यथा कर्तुमिच्छामस्तव वाक्यं जगत्पते । न च मिथ्याऽत्मनो वाक्यं प्रमाणं चात्र वै भवान्
婆罗门们说道:“噢,世间之主,我们不愿违背你的言语而行。人自己的言语不应虚妄;而在此,确然唯你自身即是权威与凭证(pramāṇa)。”
Verse 76
तन्नो वाक्यात्सुरश्रेष्ठ हितं वा यदि वाहितम् । परं स्याज्जगतां श्रेयः सर्वेषां च दिवौकसाम् । तथा कुरु जगन्नाथ अस्माकं हितकारणम्
噢,诸天之中最胜者,若由我等之言能成就某种利益,愿其成为诸世界与一切天界住民的至上安乐。噢,宇宙之主,请如是施行——亦为我等之利。
Verse 77
नान्यथा शक्यते कर्त्तुं द्विजानां वचनं हि तत् । ब्राह्मणाः कुपिता नूनं भस्मीकुर्युः स्वतेजसा
此事不能另作他法,因为那正是二次生者之言。若婆罗门发怒,必将以自身的灵性光辉把(一切)化为灰烬。
Verse 78
देवान्कुर्युरदेवांश्च तस्मात्तान्नैव कोपयेत् । यस्मादेव तव स्पर्शस्त्रिधा मेध्यो भविष्यति
他们能使诸天变为非天,因此不可触怒他们。正因你的触及,大海将成三重净化之水,堪为圣仪所用。
Verse 79
पर्वकाले च संप्राप्ते नदीनां च समागमे । सेतुबंधे तथा सिंधौ तीर्थेष्वन्येषु संयुतः
当节期来临,在诸河汇合之处——于塞图班达、于大海,以及其他诸圣渡处——(彼/此)皆与之相应而现于其间。
Verse 80
इत्येवमादिसर्वेषु मध्येऽन्यत्र न कर्मणि । यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् । तत्फलं तव तोयस्य स्पर्शादेव भविष्यति
如是,在一切此类圣行之中,别无他业可比:在诸圣渡所得之功德、在诸祭祀所得之功德——同一果报,唯由触及你的水而生。
Verse 81
गयाश्राद्धे तु यत्पुण्यं गोग्रहे मरणेन च । तत्फलं तव तोयस्य स्पर्शादेव भविष्यति
在伽耶行施罗陀(śrāddha)所得之功德,以及在牛摄处(Go-graha)舍身所得之功德——同一果报,唯由触及你的水而至。
Verse 82
अपेयस्त्वं तथा भावि स्वादमात्रेण केवलम् । गंडूषमपि पीतं च तोयस्याशुभनाशनम्
你也将被视为不宜饮用——唯可略尝其味。然而,即便仅以一口作漱口之用,此水亦能摧灭诸不祥。
Verse 84
यावत्त्वं तिष्ठसे लोके यावच्चद्रार्कतारकाः । तवोदकामृतैस्तृप्तास्तावत्स्थास्यंति पूर्वजाः
只要你仍住世间,只要月、日与群星尚存,你的祖先便将长久得以安住,因你所供之水如甘露而得满足。
Verse 86
यात्रायामथवान्यत्र पर्वकाले शशिग्रहे । अत्र स्नास्यति यः सम्यक्सागरे लवणांभसि । अश्वमेधसहस्रस्य फलं प्राप्स्यति मानवः
无论在朝圣之旅,或在他时——逢节日或月食之际——凡于此处在海中咸水里如法沐浴者,必得等同千次马祭(Aśvamedha)之功德。
Verse 87
श्रीसोमेशसमुद्रस्य अंतरे ये मृता नराः । पापिनोऽपि गमिष्यंति स्वर्गं निर्धूतकल्मषाः
凡在圣者室利·苏摩伊沙之海的神圣境域内死去的人——纵使有罪——亦将升往天界,诸垢业尽被抖落净除。
Verse 88
एवं भविष्यति सदा तव मद्वचनाद्विभो । प्रयच्छस्व द्विजेंद्राणां रत्नानि विविधानि च
必将永远如此,伟力者啊,凭我之言。是故,当以种种珍宝布施于最上二生者(dvija)。
Verse 89
माघे मासि च यः स्नायान्नैरंतर्येण भावितः । पौंडरीकफलं तस्य दिवसेदिवसे भवेत्
又凡于摩伽月(Māgha)以不间断之恒常与虔敬而沐浴者,其人将日日生起“白莲果”(Pauṇḍarīka)之大功德。
Verse 90
ईश्वर उवाच । पितामहवचः श्रुत्वा बाढमित्येव सागरः । ब्राह्मणेभ्यः सुरत्नानि ददौ श्रद्धा समन्वितः
自在天说道:大海听闻祖父神(梵天)之言,便答曰:“如是。”怀具虔信,遂将上妙珍宝施与诸婆罗门。
Verse 91
ब्राह्मणैर्ब्रह्मणो वाक्यमशेषं समनुष्ठितम् । क्षुरकर्म तथा कृत्वा स्नानं सर्वेऽपि चक्रिरे
诸婆罗门将梵天之教敕悉皆奉行;既行剃发之仪(刮剃之行),众人遂同入圣浴。
Verse 92
एवं पवित्रतां प्राप्तस्तीर्थत्वं लव णोदधिः । तस्य मध्ये महादेवि लिंगानां पंचकोटयः
如是,盐海得至清净,成为圣渡处(tīrtha)。而在其间,噢大女神,有五俱胝之湿婆林伽。
Verse 93
भविष्यति नृणां लोके तव सौख्यविवर्द्धनम् । पितॄणां तव तोयेन यः करिष्यति तर्पणम् । पूर्वोक्तेन विधानेन तस्य पुण्यफलं शृणु
在人世间,此将增长你的安乐。凡依先前所说之法,以你之水为祖灵(Pitṛ)行供养回向(tarpaṇa)者——且听他所获之福德果报。
Verse 94
मध्ये तु प्रावृतं सर्वमस्मिन्मन्वंतरे प्रिये । चक्रमैनाकयोर्मध्ये दिशि दक्षिणमुच्यते
爱者啊,于此摩奴劫(Manvantara)中,居于中央的一切皆被说为覆蔽、围合。于恰克拉(Cakra)与摩那迦(Maināka)之间,其方位被称为南方。
Verse 95
शातकुम्भमये कुम्भे धनुषायुतविस्तृते । तत्र कुंभस्य मध्यस्थो वडवानलसंज्ञितः
在一只金制的宝瓶(kumbha)中,其广阔延展达一万弓长;就在那宝瓶的正中央,安住着被称为瓦ḍ瓦那罗(Vaḍavānala,“母马之火”)者。
Verse 96
सूचीवक्त्रो महाकायः स जलं पिबते सदा । एतदंतरमासाद्य अग्नितीर्थं प्रचक्षते
其口如针而身躯广大,恒常饮尽诸水。抵达此间隙之域,便被宣称为“阿耆尼圣渡”(Agni-tīrtha),即火之圣地。
Verse 97
तस्य मध्ये महासारं वाडवं यत्र वै मुखम् । श्रीसोमेशाद्दक्षिणतो धन्वंतरशतावधि । उत्तरान्मानसात्पूर्वं यावदेव कृतस्मरम्
在其中央安置着雄浑的精髓——即瓦ḍ瓦(海底之火)之口真实所在。此处在圣索梅沙(Śrī-Someśa)之南,距一百“dhanvantara”;又自玛那萨(Mānasā)向北,东延直至克利塔斯玛拉(Kṛtasmarā)。
Verse 98
एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित् । ब्रह्मघ्नोपि विशुध्येत श्रुत्वैतन्नात्र संशयः
此事当秘藏,噢腰胯端美者;不可随意授与他人。即便弑害婆罗门者,闻此亦得清净——于此无疑。
Verse 99
एवं शापो वरो दत्तः सागरस्य यथा द्विजैः । पूर्वं रुष्टैस्ततस्तुष्टैस्तत्सर्वं कथितं मया
如是,诸“二生者”(dvija)先怒后悦,遂赐予大海既有诅咒亦有恩赐。此一切缘起,我已尽皆叙说。