Adhyaya 207
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 207

Adhyaya 207

本章为依托普拉婆娑圣域(Prabhāsa-kṣetra)而说的规诫性神学开示,归于自在天(Īśvara)之言。开篇依次说明与施行 śrāddha 相关的布施与其果报,强调为 pitṛs(祖灵)所作供养功德殊胜;尤其在萨拉斯瓦蒂河(Sarasvatī)近旁的圣洁处,供食一位 dvija(再生族)亦被视为极大福德。 继而转入对 pātra–apātra(堪受与不堪受之人)的伦理与法度分类:警诫怠慢仪轨,谴责盗取土地与诸般非法所得,并长篇批判 “veda-vikraya”(吠陀教导之买卖化),列举其方式与业报。与此同时,章中界定社会与仪礼的边界——净秽规则、不相应的生计,以及从被斥责之来源受取或食用饮食与财物的危险。 末段系统阐明 dāna(布施)之教:比较诸施的价值,强调须择具资格的受者(śrotriya、guṇavān、śīlavān),并指出施与非人可令功德失效。结尾重申循序的德行伦理——真实、不害、服事、节制饮食——以及特定供施(食物、灯明、香料、衣服、卧具)所结之福果,将仪礼实践与道德训诫融为一体。

Shlokas

Verse 1

ईश्वर उवाच । ईश्वर उवाच । अतः परं प्रवक्ष्यामि श्राद्धदानान्यनुक्रमात् । तारणाय च भूतानां सरस्वत्यब्धिसंगमे

自在天(Īśvara)说道:从此以后,我将依次宣说施祖祭(Śrāddha)中应当布施的诸供品,为令众生得度,于萨拉斯瓦蒂河与大海的汇合处。

Verse 2

लोके श्रेष्ठतमं सर्वं ह्यात्मनश्चापि यत्प्रियम् । सर्वं पितॄणां दातव्यं तदेवाक्षय्यमिच्छताम्

世间凡被视为最上之物,乃至自己心中最珍爱之物,都应为诸祖灵(Pitṛ)而奉献。求不坏功德者,此供献便成无尽之福。

Verse 3

जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् । दिव्याप्सरोभिः संकीर्णमन्नदो लभतेऽक्षयम्

施食之人得不坏之报:获得以阎浮那陀金(Jāmbūnada)铸成的天宫飞车,光辉如日,群集天女阿普萨拉(Apsaras)环绕。

Verse 4

आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि । आयुः प्रकाशमैश्वर्यं रूपं तु लभते च सः

凡于施祖祭(Śrāddha)仪式中,布施洁净无垢之衣作为覆护之供者,便得长寿、光明威耀、富足吉祥与端严之美。

Verse 5

कमण्डलुं च यो दद्याद्ब्राह्मणे वेदपारगे । मधुक्षीरस्रवा धेनुर्दातारमनुगच्छति

凡将净水壶(kamaṇḍalu)布施给通达吠陀的婆罗门者,必有一头流出蜜与乳的母牛随护其人,作为功德与资粮。

Verse 6

यः श्राद्धे अभयं दद्यात्प्राणिनां जीवितैषिणाम् । अश्वदानसहस्रेण रथदानशतेन च । दन्तिनां च सहस्रेण अभयं च विशिष्यते

若于施行 śrāddha 之时,赐予求生众生以“无畏”(abhaya)之护佑,则此施最为殊胜:胜过千次施马、百次施车,乃至千次施象。

Verse 7

यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा । क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु मानवः

世间一切珍宝、诸般车乘,乃至婚姻之福缘;凡虔敬奉事祖灵(Pitṛ)之人,皆能迅速获得这一切。

Verse 8

पितरः सर्वलोकेषु तिथिकालेषु देवताः । सर्वे पुरुषमायांति निपानमिव धेनवः

于一切世界,在既定的月日(tithi)之时,祖灵(Pitṛ)如同神明;他们皆来就人,如群牛聚集于饮水之处。

Verse 9

मा स्म ते प्रतिगच्छेयुः पर्वकाले ह्यपूजिताः । मोघास्तेषां भवन्त्वाशाः परत्रेह च मा क्वचित्

愿祖灵(Pitṛ)莫在神圣的节期(parva)自你处未受供敬而返。若不如法礼奉,他们的期望将成空虚——后世与今世皆不得成就。

Verse 10

सरस्वत्यास्तु सान्निध्यं यस्त्वेकं भोजयेद्द्विजम् । कोटिभोज्यफलं तस्य जायते नात्र संशयः

在圣母萨拉斯瓦蒂的临在中,若有人供养哪怕一位两次出生者(婆罗门)以食,其功德等同供养千万之众——对此毫无疑惑。

Verse 11

अमावास्यां नरो यस्तु परान्नमुपभुञ्जते । तस्य मासकृतं पुण्यमन्नदातुः प्रजायते

在阿摩婆娑耶(新月日)之时,若一人受用他人所施之食,则其一整月所积之功德,尽归于施食者。

Verse 12

षण्मासमयने भुंक्ते त्रीन्मासान्विषुवे स्मृतम् । वर्षैर्द्वादशभिश्चैव यत्पुण्यं समुपार्जितम् । तत्सर्वं विलयं याति भुक्त्वा सूर्येन्दुसंप्लवे

若在阿耶那(至日转折)之时进食,据说会耗尽六个月之功德;在毗输婆(昼夜平分之分点)进食,则耗尽三个月之功德。又凡十二年所积之福德,若于日月食之际进食,皆尽毁灭。

Verse 13

साग्रं मासं रवेः क्रान्तावाद्यश्राद्धे त्रिवत्सरम् । मासिकेऽप्यथ वर्षस्य षण्मासे त्वर्धवत्सरम्

在桑克兰提(太阳过宫)之时,其影响持续略逾一月;在首次施罗陀(初次祭祖)时,持续三年。即便在月祭中也持续一年;在半年祭中则持续半年。

Verse 14

तथा संचयनश्राद्धे जातिजन्मकृतं नृणाम् । मृत शय्याप्रतिग्राही वेदस्यैव च विक्रयी । ब्रह्मस्वहारी च नरस्तस्य शुद्धिर्न विद्यते

同样,在三摩遮耶那施罗陀(收集遗骨之祭)中,也当计入由种姓与出身所生的某些不净。然而,凡受取亡者之床者、贩卖吠陀者、盗取婆罗门之财者——对此人并无任何净化可得。

Verse 15

तडागानां सहस्रेण ह्यश्वमेधशतेन च । गवां कोटि प्रदानेन भूमिहर्ता न शुद्ध्यति

即使修建一千座水池,即使举行一百次马祭(Aśvamedha),即使布施一千万头牛——盗取土地者亦不得清净。

Verse 16

सुवर्णमाषं गामेकां भूमेरप्यर्धमंगुलम् । हरन्नरकमाप्नोति यावदाभूतसंप्लवम्

凡盗取哪怕一玛沙(māṣa)之金、一头牛,或仅半指宽之土地者,必堕地狱,直至众生劫坏之时。

Verse 17

ब्रह्महत्या सुरापानं दरिद्रस्य तु यद्धनम् । गुरोः पत्नी हिरण्यं च स्वर्गस्थमपि पातयेत्

杀害婆罗门、饮酒、夺取贫者之财、侵犯师长之妻、盗取黄金——此等罪业,足以令已居天界者亦堕落。

Verse 18

सहस्रसंमिता धेनुरनड्वान्दश धेनवः । दशानडुत्समं यानं दशयानसमो हयः

一头母牛价值如一千;一头公牛等同十头母牛。一乘车舆等同十头公牛;一匹马等同十乘车舆。

Verse 19

दशहयसमा कन्या भूमिदानं ततोऽधिकम् । तस्मात्सर्वप्रयत्नेन विक्रयं नैव कारयेत्

嫁女之施等同十匹马;而布施土地更为殊胜。因此当竭尽一切努力,切莫使圣物被售卖。

Verse 20

विशेषतो महाक्षेत्रे सर्वपातकनाशने । चितिकाष्ठं च वै स्पृष्ट्वा यज्ञयूपांस्तथैव च । वेदविक्रयकर्तारं स्पृष्ट्वा स्नानं विधीयते

尤其在这能灭尽诸罪的伟大神圣之地:若触及火葬柴木,或触及祭柱(yūpa),或触及贩卖吠陀之人,即当依仪沐浴净身。

Verse 21

आदेशं पठते यस्तु आदेशं च ददाति यः । द्वावेतौ पापकर्माणौ पातालतलवासिनौ

然而,诵读“ādeśa”者与授予“ādeśa”者——二者皆为造罪之人,注定居于帕塔拉(地下界)。

Verse 22

आदेशं पठते यस्तु राजद्वारे तु मानवः । सोऽपि देवि भवेद्वृक्ष ऊषरे कंटकावृतः । स्थितो वै नृपतिद्वारि यः कुर्याद्वेदविक्रयम्

女神啊,在王门前诵读告示(ādeśa)之人,亦将化为生于荒瘠盐碱之地、遍覆荆棘之树。同样,立于王门而将吠陀当作货物贩卖者,也会堕入此等命运。

Verse 23

ब्रह्महत्यासमं पापं न भूतं न भविष्यति । वरं कुर्वन्ध्रुवं देवि न कुर्याद्वेदविक्रयम्

从未有、亦将不有任何罪业可与“梵杀”(brahma-hatyā,杀害婆罗门)相等。因此,女神啊,即便为求自身利益,也切不可贩卖吠陀。

Verse 24

हत्वा गाश्च वरं मांसं भक्षयीत द्विजाधमः । वरं जीवेत्समं म्लेच्छैर्न कुर्याद्वेदविक्रयम्

即便是卑劣的“再生者”(二次生)——宁可杀牛而食其肉;宁可与弥勒叉(mleccha,异俗之人)同等而居——也不可犯下贩卖吠陀之罪。

Verse 25

प्रत्यक्षोक्तिः प्रत्ययश्च प्रश्नपूर्वः प्रतिग्रहः । याजनाऽध्यापने वादः षड्विधो वेदविक्रयः

所谓“贩卖吠陀”有六种:直接宣告酬金、讨价还价或索取保证、先受询问后才受礼(以问答为条件)、为报酬而主持祭祀、为报酬而教授、以及为利益而辩论争胜。

Verse 26

वेदाक्षराणि यावन्ति नियुंक्ते स्वार्थकारणात् । तावतीर्भ्रूणहत्या वै प्राप्नुयाद्वेदविक्रयी

贩卖吠陀者为私利动用多少吠陀音节,便真实招致多少次 bhrūṇa-hatyā(杀胚之罪)。

Verse 27

वेदानुयोगाद्यो दद्याद्ब्राह्मणाय प्रतिग्रहम् । स पूर्वं नरकं याति ब्राह्मणस्तदनन्तरम्

凡以“动用吠陀”为条件而给婆罗门礼物作酬价者,施与者先堕地狱;受取的婆罗门随后亦堕。

Verse 28

वैश्वदेवेन हीना ये हीनाश्चातिथ्यतोऽपि ये । कर्मणा सर्ववृषला वेदयुक्ता ह्यपि द्विजाः

凡忽略 Vaiśvadeva 供献、又在待客之道上失德者——就其行为而言,纵为“二生”之人、纵具吠陀学识,也全然等同 vṛṣala(卑下之徒)。

Verse 29

येषामध्ययनं नास्ति ये च केचिदनग्नयः । कुलं वाऽश्रोत्रियं येषां ते सर्वे शूद्रजातयः

凡不修习圣学、又不奉持圣火者;其家族非 śrotriya(无吠陀传承)者——此等皆被视为属 śūdra 之类。

Verse 30

मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात् । मातुश्चैव वरारोहे स द्विजः शूद्रसंनिभः

若有人在父亲亡故之日不以恭敬之心行施罗陀祭(śrāddha),对母亲亦复如是,噢腰肢婀娜者——此所谓“再生者”在法义地位上与首陀罗无异。

Verse 31

मृतके यस्तु भुञ्जीत गृहीतशशिभास्करे । गजच्छायासु यः कश्चित्तं च शूद्रवदाचरेत्

在丧亡不净期(sūtaka)中进食者,或在月日被“攫取”(日月食)之时进食者,以及凡在象影之下进食者——此人当被视为在法行上如同首陀罗。

Verse 32

ब्रह्मचारिणि यज्ञे च यतौ शिल्पिनि दीक्षिते । यज्ञे विवाहे सत्रे च सूतकं न कदाचन

对于守梵行的学生(brahmacārin)、正从事祭祀(yajña)者、出离修行者(yati)、正在作业的工匠、以及受灌顶持戒者(dīkṣā);同样在祭祀、婚礼或萨特拉祭会(satra)期间——绝不施行丧不净(sūtaka)。

Verse 33

गोरक्षकान्वणिजकांस्तथा कारुकुशीलवान् । स्पृश्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत्

护牛者、商贾、工匠与艺人,以及虽称“可触”却在社会上卑下者,并放债取利者——此等之人,纵使生为婆罗门,在仪轨行持上亦当如首陀罗而待之。

Verse 34

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्रायः स च शूद्रसमः स्मृतः

若有婆罗门行于致堕之业(pātana),以禁行之事(vikarma)为生,矫饰虚伪而多作恶业——此人于法义评断中被记为与首陀罗等同。

Verse 35

अस्नाताशी मलं भुंक्ते अजापी पूयशोणितम् । अहुत्वा तु कृमीन्भुंक्ते अदत्त्वा विषभोजनम्

未沐浴而食者,如食秽污;不诵持咒念(japa)者,如吞脓血;未先供奉圣火与诸天而食者,如食蠕虫;不行布施而食者,如食毒药。

Verse 36

परान्नेन तु भुक्तेन मिथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते

若人食他人之食而后行交合,据说其子嗣归于施食者;因为由食物,生殖之精(śukra)得以发动流行。

Verse 37

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः

食王者之食,夺其光辉;食首陀罗之食,夺其梵辉(brahmavarcasa);食金匠之食,夺其寿命;食皮工之食,夺其名声。

Verse 38

कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति

食工匠之食,损其子嗣;食洗衣者之食,损其气力;食庙中侍从(gaṇa)与妓女之食,则使人断绝于诸高界。

Verse 39

पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम्

医者之食,如同脓液;娼妓之食,如同诸根(indriya)之堕落;放债取利者之食,如同粪秽;贩卖兵刃者之食,如同污垢。

Verse 40

गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः । नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी

宁可是一位只知伽耶特丽真髓而能自持自律的婆罗门,也胜过那不加节制、虽通四吠陀却什么都吃、什么都卖的人。

Verse 41

सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्

贩卖肉、虫胶或盐者,立刻堕落;而婆罗门若贩卖牛乳,三日之内便成首陀罗。

Verse 42

रसा रसैर्नियंतव्या न त्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः

诸味当以诸味相调而得节制,唯独盐不可用诸味来“调制”。熟食只可用熟食来相衡;同样,芝麻应以谷物为其相当之对等。

Verse 43

भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । कृमिभूतः स विष्ठायां पितृभिः सह मज्जति

凡以芝麻作食用、涂身或布施之外之用者,必化为虫,随其祖先一同沉没于秽污之中。

Verse 44

अपूपश्च हिरण्यं च गामश्वं पृथिवीं तिलान् । अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत्

无知之人若受纳饼、黄金、牛马、田地或芝麻为施与,便如木柴一般化为灰烬。

Verse 45

हिरण्यमायु रत्नं च भूर्गौश्चाकर्षतस्तनुम् । अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः

黄金引出寿命与生命力;珠宝引来富饶吉庆;田地与牛支撑身躯。马赐予目力与强健;衣服护持肌肤;酥油(ghee)滋养光辉;芝麻护佑子嗣与繁衍。

Verse 46

अग्निहोत्री तपस्वी च क्षणवान्क्रियते यदि । अग्निहोत्रं तपश्चैव सर्वं तद्धनिनो धनम्

若行阿耆尼火供(Agnihotra)者与苦行者因匮乏而哪怕片刻依赖他人,则其火供与诸般苦行之功德,仿佛都化作所依之富人之财。

Verse 47

सोमविक्रयणे विष्ठा भेषजे पूयशोणितम् । नष्टं देवलके दानं ह्यप्रतिष्ठं च वार्धुके

贩卖苏摩(Soma)之罪,如同污秽粪秽;贩卖医药之业,如同脓与血。施与“德瓦拉卡”(devalaka)之布施徒然耗散;施与放贷者(wārḍhuka)之布施则无果无名分。

Verse 48

देवार्चनपरो विप्रो वित्तार्थी भुवनत्रये । असौ देवलकोनाम हव्यकव्येषु गर्हितः

婆罗门若专事礼拜诸天,却为求财而行——于三界之中,此人名为“德瓦拉卡”(devalaka),在向诸神与祖灵奉献供品(havya、kavya)之事上受人讥责。

Verse 49

भ्रातुर्मृतस्यभायायां यो गच्छेत्कामपूर्वकम् । धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः

若有人以欲念亲近亡兄之妻——纵使她依法(依尼瑜伽 niyoga)被指派——此人当知名为“迪迪舒帕提”(didhiṣūpati),为所讥责之夫。

Verse 50

दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः

若长兄尚未成婚,而有人先行结婚并进入奉行阿耆尼火供(Agnihotra)的家主之道,此人称为“parivettā”;其长兄则称为“parivitti”。

Verse 51

यो नरोऽन्यस्य वासांसि कूपोद्यानगृहाणि च । अदत्तान्युपयुंजानः स तत्पापतुरीयभाक्

若有人未经给予与许可而使用他人的衣物、井、水园或房舍,此人便分担那人罪业的四分之一。

Verse 52

आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते । दातुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते

然而,受邀参加施罗达(śrāddha)祭而在席间与行止不净之女相乐者,将把施主的一切罪业——凡其所作诸恶——尽皆承受于己。

Verse 53

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथंचन

当以ṛta与amṛta而活,或甚至以mṛta与pramṛta而活;亦可凭satya与anṛta度日,但无论如何,决不可依śvavṛtti而生——那如犬般卑屈、仰人鼻息的生计。

Verse 54

भक्ष्यं नित्यमृतं ज्ञेयममृतं स्यादयाचितम् । मृतं तु वृद्ध्याजीवित्वं प्रमृतं कर्षणं स्मृतम्

以正当常途所得之食,当知为ṛta;不经乞求而受得者,名为amṛta。以取息为生者称mṛta;而pramṛta则被记为以耕作(犁田)为业而活。

Verse 55

सत्यानृतं च वाणिज्यं तेन चैवोपजीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत

商业被称为 satyānṛta(真假参半),人可以以此为生。但侍奉他人被称为 śvavṛtti(狗的生活);因此,应当避免这种生活。

Verse 56

विप्रयोनिं समासाद्य संकरं परिवर्जयेत् । मानुष्यं दुर्लभं लोके ब्राह्मण्यमधिकं ततः

生于婆罗门世家,应避免 saṅkara(不当的混杂)。人身难得,而婆罗门的身份更为稀有和尊贵。

Verse 57

एकशय्यासनं पक्तिर्भाण्डपक्वान्नमिश्रणम् । याजनाध्यापनं योनिस्तथा च सह भोजनम् । नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह

同床、同座、同炊、混用器皿、授业、联姻以及共食——这九种 saṅkara(混杂)不应与卑劣者共行。

Verse 58

अजीवन्कर्मणा स्वेन विप्रः क्षात्त्रं समाश्रयेत् । वैश्यकर्माऽथवा कुर्याद्वार्षलं परिवर्जयेत्

如果婆罗门无法靠本职维生,可以从事刹帝利或吠舍的工作,但应避免首陀罗的职业。

Verse 59

कुसीदं कृषिवाणिज्यं प्रकुर्वीत स्वयं कृतम् । आपत्काले स्वयं कुर्वन्स्नानेन स्पृश्यते द्विजः

他可以靠自己的努力从事放贷、耕作和商业。在危难之时,再生族亲力亲为这些事,通过沐浴即可洁净。

Verse 60

लब्धलाभः पितॄन्देवान्ब्रांह्मणांश्चैव तर्पयेत् । ते तृप्तास्तस्य तत्पापं शमयंति न संशयः

当人获得利益之时,应以供养(tarpaṇa)使祖灵(Pitṛ)、诸天与婆罗门欢喜;他们一旦满足,必定无疑地平息此人的罪业。

Verse 61

जलगोशकटारामयाञ्चावृद्धिवणिक्क्रियाः । अनूपं पर्वतो राजा दुर्भिक्षे जीविका स्मृताः

在饥荒之时,被记为谋生之道者有:从事与水有关之业(汲水、灌溉),牧养牛群,以车乘运输,行取悦之役,乞求施舍,放贷取息,以及经商贸易;同样,居于沼泽之地、山岳之间,或依附于国王之下,也被算作在匮乏中求生的方法。

Verse 62

असतोऽपि समादाय साधुभ्यो यः प्रयच्छति । धनं स्वामिनमात्मानं संतारयति दुस्तरात्

即便有人从不善之源聚得财物,若将其施与贤善之人,则此财物连同其主人,亦能使施者渡越本难渡越的险途——轮回(saṃsāra)之流。

Verse 63

शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् । श्रोत्रिये तच्च साहस्रमनन्तं चाग्निहोत्रिके

施与首陀罗(Śūdra)之布施,其福德与所施相等;施与吠舍(Vaiśya)则被记为加倍;施与通晓吠陀的诵习者(śrotriya)则成千倍;施与行火供者(agnihotrin)则被说为无量无尽。

Verse 64

ब्राह्मणातिक्रमो नास्ति नाचरेद्यो व्यवस्थितिम् । ज्वलंतमग्निमुत्सृज्य न हि भस्मनि हूयते

不可“越过”婆罗门,也不应违犯既定的法度;因为舍弃炽燃之火,便无人把供献投向徒然的灰烬。

Verse 65

विद्यातपोभ्यां हीनेन नैव ग्राह्यः प्रतिग्रहः । गृह्णन्प्रदातारमधो नयत्यात्मानमेव च

缺乏学识与苦行者,切莫受施;因为一旦受取,便使施主堕下,自己亦同堕。

Verse 66

तस्माच्छ्रोत्रिय एवार्हो गुणवाञ्छीलवाञ्छुचिः । अव्यंगस्तत्र निर्दोषः पात्राणां परमं स्मृतम्

因此,唯有“闻吠陀者”(śrotriya)真正堪受——具德、持戒、清净;无缺无过、无可指摘——被忆念为受施者中最上。

Verse 67

कपालस्थं यथा तोयं श्वदृतौ च यथा पयः । दूषितं स्थानदोषेण वृत्तहीने तथा श्रुतम्

如水贮于头骨,如乳置于狗皮,因器皿之过而成污秽——同样,学识寄居于无正行者,亦随之被玷染。

Verse 68

दत्तं पात्रमतिक्रम्य यदपात्रे प्रतिग्रहः । तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम्

若越过堪受之器,而由不堪者受取布施,这就如同弃牛不顾,却把本为牛的日粮拿去喂驴。

Verse 69

वृत्तं तस्मात्तु संरक्षेद्वित्तमेति गतं पुनः । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः

故当护持正行;财物纵失,尚可复得。败于财者未必真败;败于行者,方为真败。

Verse 70

प्रथमं तु गुरौ दानं दत्त्वा श्रेष्ठमनुक्रमात् । ततोऽन्येषां तु विप्राणां दद्यात्पात्रानुरूपतः

首先应依次第将最上之施供养于自家上师(古鲁);其后再随诸婆罗门作为受施法器之相应资质而布施。

Verse 71

गुरौ च दत्तं यद्दानं दत्तं पात्रेषु मानवैः । निष्फलं तद्भवेत्प्रेत्य यात्युताधोगतिं प्रति

凡本应供养上师之施,而人却转施他处——纵然受者亦堪受——死后皆成无果,甚至趋向下堕之境。

Verse 72

अवमानं गुरोः कृत्वा कोपयित्वा तु दुर्मतिः । गुर्वमानहतो मूढो न शांतिमधि गच्छति

恶心愚人若侮慢上师,激起其忿怒;为轻师之罪所击者,终不获得寂静安宁。

Verse 73

गुरोरभावे तत्पुत्रं तद्भार्यां तत्सुतं विना । पुत्रं प्रपौत्रं दौहित्रं ह्यन्यं वा तत्कुलोद्भवम्

若上师不在,当依止其子——不取上师之妻与幼子;或依其孙(子之子)、外孙(女之子),乃至凡出于彼族系者皆可。

Verse 74

पंचयोजनमध्ये तु श्रूयते स्वगुरुर्यदा । तदा नातिक्रमेद्दानं दद्यात्पात्रेषु मानवः

然若闻自家上师在五由旬之内,则不可越过其应得之分;当以正法次第向堪受者行施,而不忽略上师之所当受。

Verse 75

यतिश्चेत्प्रार्थयेल्लोभाद्दीयमानं प्रतिग्रहम् । न तस्य देयं विद्वद्भिर्न लोभः शस्यते यतेः

若有出家苦行者因贪欲而求取他人正欲供施之物,智者不应施与;因为贪心从不为修行者所称赞。

Verse 76

धनं प्राप्य यतिर्लोके मौनं ज्ञानं च नाभ्यसेत् । उपभोगं तु दानेन जीवितं ब्रह्मचर्यया

若出家者在世间得了财物,却不修持圣默与智慧之道,那么至少应以布施净化享受,并以梵行(持戒清净)护持其身命。

Verse 77

कुले जन्म च दीक्षाभिर्ये गतास्ते नरोत्तमाः । सौभाग्यमाप्नुयाल्लोके नूनं रसविवर्जनात्

那些因生于良族、又经由神圣灌顶入门(迪克沙 dīkṣā)而得以高贵的至善之人,在世间获得福祉——确然由于远离感官欲乐的沉溺。

Verse 78

आयुष्मत्यः प्रजाः सर्वा भवन्त्यामिषवर्जनात्

一切子嗣皆因戒食肉类而得长寿。

Verse 79

चीरवल्कलधृक्त्यक्त्वा वस्त्राण्याभरणानि च । नागाधिपत्यं प्राप्नोति उपवासेन मानवः

身披树皮与破布,舍弃华服与饰物,人以斋戒禁食而得为那伽众之主。

Verse 80

क्रीडते सत्यवाक्येन स्वर्गे वै देवतैः सह । अहिंसया तथाऽरोग्यं दानात्कीर्तिमनुक्रमात्

以真实之语,得与诸天同游天界;以不害(阿希ṃ萨),得身心安康;以布施,得名闻——诸果依自业次第而来。

Verse 81

द्विजशुश्रूषया राज्यं द्विजत्वं चातिपुष्कलम् । दिव्यरूपमवाप्नोति देवशुश्रूषया नरः

以恭敬奉事二生者(dvija),得王权与丰盛的婆罗门德行;以恭敬奉事诸天,得成天界妙相之身。

Verse 82

अन्नदानाद्भवेत्तृप्तिः सर्वकामैरनुत्तमैः । दीपस्य तु प्रदानेन चक्षुष्माञ्जायते नरः

以施食,得深安足,并得最胜诸愿圆满;以施灯,得生而目明,视力清澈有力。

Verse 83

तुष्टिर्भवेत्सर्वकालं प्रदानाद्गन्धमाल्ययोः । लवणस्य तु दातारस्तिलानां सर्पिषस्तथा । तेजस्विनोऽपि जायन्ते भोगिनश्चिरजीविनः

以供奉香料与花鬘,得于一切时常住欢喜;又施盐、芝麻(tilā)与酥油(ghī)者,生而光耀,富足享乐,且得长寿。

Verse 84

सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय । रूपान्वितां पक्ष्मवतीं मनोज्ञां भार्यामरालोपचितां लभेत्सः

若有人以精美纹饰之衣、饰物与寝具具足,施与婆罗门一张卧榻;彼将得一位美丽的妻子——姿态娴雅,悦人可爱,睫羽动人——并以高贵德行为饰。

Verse 207

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे पात्रापात्रविचारवर्णनंनाम सप्तोत्तरद्विशततमोऽध्यायः

至此,在尊贵的《斯坎达摩诃往世书》中——于八万一千颂之《集成》(Saṃhitā)内——第七部《普拉婆娑分卷》(Prabhāsa Khaṇḍa)之第一分《普拉婆娑圣域功德》(Prabhāsakṣetra Māhātmya)中,关于施行Śrāddha祭祖仪轨、题为“辨别堪受与不堪受之受施者的说明”的第二百零七章,圆满结束。