
第33章开篇,纳罗陀叙述塔罗迦败亡之身,诸天见之皆惊。虽获胜,军荼(斯甘达、古诃)却生起道义忧惧,抑止庆功赞颂,坦陈悔意,并求示“普罗耶施吉多”(prāyaścitta,忏悔赎罪)之法,尤以所诛之敌被说与鲁陀罗之信爱(Rudra-bhakti)有关。 婆苏提婆据《闻》(śruti)、《忆》(smṛti)、史诗(itihāsa)与《往世书》(purāṇa)立论:诛戮危害众生之恶徒并无罪咎;世间秩序赖以制伏暴虐。继而开示更高的净罪与解脱之道:奉事鲁陀罗,尤其礼拜“林伽”(liṅga),胜过诸般赎罪。并以神学事例赞叹湿婆至上:吞饮哈拉哈拉毒、顶戴恒河、摧破三城(Tripura)之战相,以及达克沙祭祀之警诫。 随后详述仪轨:以清水与五甘露(pañcāmṛta)沐浴林伽,供花、供食(naivedya)等;又称建立林伽功德殊胜,能荫庇家族、升至鲁陀罗界(Rudraloka)。湿婆复宣示自身与诃利(Hari)不二(abheda),以和合诸派为教义。斯甘达誓愿安立三座林伽,系于不同叙事时刻;毗湿瓦羯摩铸造之,安立过程与名号具述(尤以誓愿自在天 Pratijñeśvara、髑髅自在天 Kapāleśvara 为著),并定八日斋(aṣṭamī)与黑月十四(kṛṣṇa-caturdaśī)之行持,旁设女神(Śakti)礼敬、‘śakticchidra’之处所,及一处特赞圣渡(tīrtha):其沐浴与持咒(japa)能净罪并令亡后上升。
Verse 1
नारद उवाच । ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि । आलिंगितमिव पृथ्व्या गुणिन्या गुणिनं यथा
那罗陀说道:随后,那具如山之身倒卧于大地之上,仿佛具德的大地母亲亲自拥抱着一位具德之人。
Verse 2
दृष्ट्वा देवा विस्मितास्ते जयं जगुस्तथा मुहुः । केचित्समीपमागंतुं बिभ्यति त्रिदिवौकसः
见此情景,诸天震惊,屡屡高呼“胜利!”然而天界中也有一些神众畏惧,不敢近前。
Verse 3
उत्थाय तारको दैत्यः कदा चिन्नो निहंति चेत् । तं तथा पतितं दृष्ट्वा वसुधामण्डले गुहः
“若那魔罗迦(Tāraka)再度起身,岂不仍能杀害我们?”——见他倒卧于大地之轮上,古诃(斯坎达)便如此作念。
Verse 4
आसीद्दीनमनाः पार्थ शुशोच च महामतिः । स्तवनं चापि देवानां वारयित्वा वचोऽब्रवीत्
噢,帕尔塔,那位大心者神情黯然,悲恸叹息;他甚至止住诸天的赞颂,而后说出如下言辞。
Verse 5
शोच्यं पातकिनं मां च संस्तुवध्वं कथं सुराः । पंचानामपि यो भर्ता प्राकृतोऽसौ न कीर्त्यते
“诸天啊,你们怎能赞颂我——这可悲的罪人?即便是五根之主,若沦为世俗之人,也不配被称扬。”
Verse 6
स तु रुद्रांशजः प्रोक्तस्तस्य द्रुह्यन्न रुद्रंवत् । स्वायंभुवेन गीतश्च श्लोकः संश्रूयते तथा
据说他由鲁陀罗(Rudra)的一分而生;伤害他者,等同于伤害鲁陀罗自身。因此,人们也传闻并聆听到由自生者(Svāyambhuva,摩奴 Manu)所吟唱的一首偈颂。
Verse 7
वीरं हि पुरुषं हत्वा गोसहस्रेण मुच्यते । यथाकथंचित्पुरुषो न हंतव्यस्ततो बुधैः
若杀害一位英勇的男子,可凭“千牛赎罪”而得解脱(其罪)。因此,智者无论如何都不应杀人。
Verse 8
पापशीलस्य हनने दोषो यद्यपि नास्ति च । तथापि रुद्रभक्तोऽयं संस्मरन्निति शोचिमि
即便诛杀行恶之人并无过失,我仍哀伤,因为忆起此人曾是鲁陀罗的虔敬奉者。
Verse 9
तदहं श्रोतुमिच्छामि प्रायाश्चित्तं च किंचन । प्रायश्चित्तैरपैत्येनो यतोपि महदर्जितम्
因此我愿聆听某种赎罪之法,使凭借忏悔与补赎之行,所招致的重大罪业得以消除。
Verse 10
इति संशोचतस्तस्य शिवपुत्रस्य धीमतः । वासुदेवो गुरुः पुंसां देवमध्ये वचोऽब्रवीत्
当那位睿智的湿婆之子如此哀恸之时,婆苏提婆(Vāsudeva)——人间所尊奉的导师——在诸天众中说出了这些话。
Verse 11
श्रुतिः स्मृतिश्चेतिहासाः पुराणं च शिवात्मज । प्रमाणं चेत्ततो दुष्टवधे दोषो न विद्यते
湿婆之子啊,如果《吠陀》、《法典》、《史诗》和《往世书》被视为权威,那么诛杀恶人便无罪过。
Verse 12
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः पुमान् । तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्
那个残忍的人靠夺取他人的生命来维持自己的生命——杀了他确实是更好的做法;因为他的罪行会把人们拖向毁灭。
Verse 13
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या पचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्
杀害胎儿者将罪孽转移给施食者;不忠的妻子将罪孽转移给丈夫;弟子转移给上师,祭司转移给施主;窃贼将罪责归于国王。
Verse 14
पापिनं पुरुषं यो हि समर्थो न निहंति च । तस्य तावंति पापानि तदर्धं सोऽप्यवाश्रुते
凡是有能力却不诛杀罪人者——那罪人的诸多罪孽也会归于他,他将承担其中一半的罪过。
Verse 15
पापिनो यदि वध्यंते नैव पालनसंस्थितैः । ततोऽयमक्षमो लोकः कं याति शरणं गुह
鸠摩罗啊,如果那些身居保护之职的人不铲除罪人,那么这无助的世人还能去投靠谁呢?
Verse 16
कथं यज्ञाश्च वेदाश्च वर्तते विश्वधारकाः । तस्मात्त्वया पुण्यमाप्तं न च पापं कथंचन
若不制止恶人,祭祀与吠陀——支撑世界者——又怎能继续运转?因此,你已得功德,丝毫不染罪过。
Verse 17
अथ चेद्रुद्रभक्तेषु बहुमानस्तव प्रभो । तत्र ते कीर्तयिष्यामि प्रायश्चित्तं महोत्तमम्
若主宰啊,你对鲁陀罗的奉献者怀有深厚敬重,那么就此事,我将为你宣说至高无上的忏悔之法。
Verse 18
आजन्मसंभवैः पापैः पुमान्येन विमुच्यते । आकल्पांत च वा येन रुद्रलोके प्रमोदते
凭此,人得以解脱自出生以来积聚的诸罪;凭此,他在鲁陀罗之界欢喜安住,直至劫尽。
Verse 19
कृते पापेऽनुतापो वै यस्य स्कन्द प्रजायते । रुद्राराधनतोऽन्यच्च प्रायश्तित्तं परं न हि
斯坎达啊,凡作罪后真诚生起悔恨者,除礼敬供奉鲁陀罗外,别无更高的忏悔。
Verse 20
न यस्यालमपि ब्रह्मामहिमानं विवर्णितुम् । श्रुतिश्च भीता यं वक्ति किं तस्मात्परमं भवेत्
连梵天也不能尽述祂的伟大;连吠陀(闻传圣典)亦因敬畏而含蓄称说。如此,世间还有什么能高过祂呢?
Verse 21
अकांडे यच्च ब्रह्मांडक्षयोद्युक्तं हलाहलम् । कण्ठे दधार श्रीकण्ठः कस्तस्मात्परमो भवेत्
当突如其来的危难中,哈拉哈拉毒涌起,几欲毁灭宇宙之时——圣喉者室利迦ṇṭha(湿婆)将其含纳于喉间。谁还能高于祂?
Verse 22
दुःखतांडवदीनोऽभूदण्डसंकीर्णमानसः । मारमारश्च यो देवः कस्तस्मात्परमो भवेत्
祂为悲苦之坦达瓦的主宰,心识遍满整个宇宙之域,又为诛灭魔罗者;有哪位神祇能高于祂?
Verse 23
वियद्व्यापी सुरसरित्प्रवाहो विप्रुषाकृतिः । बभूव यस्य शिरसि कस्तस्मात्परमो भवेत्
那充满苍穹的天河圣流,在祂头顶竟只成一滴微露。谁还能大于祂?
Verse 24
यज्ञादिकाश्च ये धर्मा विना यस्यार्चनं वृथा । दक्षोऽत्र सत्यदृष्टांतः कस्तस्मात्परमो भवेत्
一切法行,自祭祀(yajña)起,若无对祂的礼敬皆成徒然;达克沙即为真实明证。谁还能大于祂?
Verse 25
क्षोणी रथो विधिर्यंता शरोऽहं मन्दरो धनुः । रथांगे चापि चंद्रार्कौ युद्धे यस्य च त्रैपुरे
在祂征伐三城(Tripura)之战中:大地为祂战车,梵天为御者,我(毗湿奴)化作箭矢,曼陀罗山为弓,月与日为车轮。
Verse 26
आराधनं तस्य केचिद्योगमार्गेण कुर्वते । दुःखसाध्यं हि तत्तेषां नित्यं शून्यमुपासताम्
有人以瑜伽之道礼敬祂;然而对那些恒常观修“空”的人而言,此行实难成就,且充满艰辛。
Verse 27
तस्मात्तस्यार्चयेल्लिंगं भुक्तिमुक्ती य इच्छति । सृष्ट्यादौ लिंगरूपी स विवादो मम ब्रह्मणः
因此,凡欲兼得世间福乐与解脱者,当礼拜祂的林伽。于创世之初,当我与梵天(Brahmā)起争论之时,祂以林伽之相示现。
Verse 28
अभूद्यस्य परिच्छेदे नालमावां बभूविव । चराचरं जगत्सर्वं यतो लीनं सदात्र च
当我们试图探求祂的边际时,终究全然不能。由祂而出、在祂之中,此一切动与不动的宇宙恒常归融、摄入其中。
Verse 29
तस्माल्लिंगमिति प्रोक्तं देवै रुद्रस्य धीमतः । तोयेन स्नापयेल्लिंगं श्रद्धया शुचिना च यः
因此,诸天宣说:此乃智者鲁陀罗(Rudra)之“林伽”。凡以清水沐浴林伽,怀信心与清净者——
Verse 30
ब्रह्मादितृणपर्यंतं तेनेदं तर्पितं जगत् । पंचामृतेन तल्लिंगं स्नापयेद्यश्च बुद्धिमान्
自梵天乃至一茎草叶,此一切世界皆因其而得满足。智者以五甘露(pañcāmṛta)沐浴彼湿婆林伽,遂成为令宇宙普遍安抚之因。
Verse 31
तर्पितं तेन विश्वं स्यात्सुधया पितृभिः समम् । पुष्पैरभ्यर्चयेल्लिंगं यथाकालोद्भवैश्चयः
以此甘露之供养,宇宙万有与诸祖灵(Pitṛ)同得满足。凡以应时而生之花供奉林伽者,即行如法相应之礼敬。
Verse 32
तेन संपूजितं विश्वं सकलं नात्र संशयः । नैवेद्यं तत्र यो दद्याल्लिंगस्याग्रे विचक्षणः
由此行持,整个宇宙皆得圆满礼敬,毫无疑虑。智者信众于林伽之前奉献食供(naivedya),便成就遍及一切的尊崇。
Verse 33
भोजितं तेन विश्वं स्याल्लिंगस्यैवं फलं महत् । किमत्र बहुनोक्तेन स्वल्पं वा यदि व बहु
由彼之行,宇宙如同得食;此即礼敬林伽之广大果报。又何须多言——供少亦然,供多亦然。
Verse 34
लिंगस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम् । तच्च लिगं स्थापयेद्यः शुचौ देशे सुभक्तितः
凡为林伽所作之事,皆令宇宙众生欢喜。若有人以清净信爱,于洁净而神圣之处安立彼林伽,其行亦普利一切。
Verse 35
स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते । यन्नित्यं यजतो यज्ञैः फलमाहुर्मनीषिणः
远离一切罪垢者,于鲁陀罗之界欢喜安住。智者宣说:彼得之果,等同于日日修行祭祀(yajña)之功德。
Verse 36
तच्च स्थापयतो लिंगं शिवस्य शुभलक्षणम् । यथाग्निः सर्वदेवानां मुखं स्कन्द प्रकीर्त्यते
对于安立林伽者——湿婆吉祥之圣徽——噢,斯甘达,正如火被称为诸天之“口”,为供品传达之通道。
Verse 37
तथैव सर्वजगतां मुखं लिंगं न संशयः । प्रारंभान्मुच्यते पापैः सर्वजन्मकृतैरपि
同样毫无疑问,林伽乃一切世界之“口”。自此行持一开始,行者便得解脱诸罪,乃至多生累积之罪亦然。
Verse 38
अतीतं च तथागामि कुलानां तारयेच्छतम् । मृन्मयं काष्ठनिष्पन्नं पक्वेष्टं शैलमेव च
他能度脱百族——既往者与将来者皆然。无论林伽以泥土制成、以木雕就、以烧砖塑成,或以石为体,安立之功皆具救度之力。
Verse 39
कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम् । कलशं तत्र चारोप्य एकविंशत्कुलैर्युतः
若布施已建成之圣所(āyatana),其福果依次增至百倍;又于其上安置灌顶宝瓶(kalaśa),则与二十一族系相连并同受其益。
Verse 40
आकल्पांतं रुद्रलोके मोदते रुद्रवत्सुखी । एवंविधफलं लिंगमतो भूयोऽप्यधो न हि
直至劫尽,他在鲁陀罗之界欢喜安住,乐如鲁陀罗自身。此即此林伽之果报;因此他再不堕入下劣之境。
Verse 41
तस्मादत्र महासेन लिंगं स्थापितुमर्हसि । यदुक्तमेतदश्लीलं यदि किंचन चात्र चेत्
因此,噢摩诃军(Mahāsena),你应当在此安立一座林伽。若此处所说之语有任何不当之处——
Verse 42
तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः । एवं वदति गोविंदे साधुवादो महानभूत्
让摩诃军亲自宣明——摩诃湿伐罗(Maheśvara)自身即为直接见证。戈文达如此言说时,众人齐声大赞:“善哉!善哉!”
Verse 43
महादेवो ह्यथालिंग्य स्कन्दं वचनब्रवीत् । यद्भवान्मम भक्तेषु प्रकरोति कृपां पराम्
于是,大天(Mahādeva)拥抱斯坎达(Skanda),说道:“因为你对我的奉献者显现至上的慈悲——”
Verse 44
तेनापि परमा प्रीतिर्मम जाता तवोपरि । किं तु यद्भगवानाह वासुदेवो जगद्गुरुः
正因那一举动,我对你生起了至高的慈爱。然而,世间导师、薄伽梵瓦苏提婆(Vāsudeva)所说之言——
Verse 45
तत्त्था नान्यथा किंचिदत्र प्रोक्तं हि विष्णुना । यो ह्यहं स हरिर्ज्ञेयो यो हरिः सोऽहमित्युता
正是如此,别无他样;因为此处毗湿奴(Viṣṇu)所说皆为真实。“与我同一者,当知为诃利(Hari);而诃利者,即是我。”——确然如是。
Verse 46
नावयोरंतरं किंचिद्दीपयोरिव सुव्रत । एनं द्वेष्टि स मां द्वेष्टियोन्वेत्येनं स माऽनुगः
噢,持善誓者,我与彼之间毫无差别,如同两盏灯的两道火焰。憎彼者即憎我;随彼者即为随我之人。
Verse 47
इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि
斯坎陀如是了知;他是我的奉爱者,确乎不可能另有他解。
Verse 48
स्कन्द उवाच । एवमेवास्मि जानामि त्वां च विष्णुं च शंकर
斯坎陀说道:“正是如此,我如是理解您,噢,商羯罗——也同样理解毗湿奴。”
Verse 49
यच्च लिंगकृते प्राह हरिर्मां धर्मवत्सलः । खे वाणी तारकवधे एवमेव पुराह माम्
而护法之主哈利就林伽之事对我所说的,也正如从前在诛灭塔罗迦之时,天界之声以同样方式告知我一般。
Verse 50
लिंगं संस्थापयिष्यामि सर्वपापा पहं ततः । एकं यत्र प्रतिज्ञा मे गृहीतास्य वधाय च
“我将在彼处安立一尊林伽,能除灭一切罪垢。其一(林伽)将立于我曾受持誓愿之地——为成就对他的诛杀。”
Verse 51
द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत् । तृतीयं यत्र निहतो हत्या पापोपशांतिदम्
第二处灵伽在于:那阿修罗失却真实之力,被圣母神力(Śakti)所摧伏而倾倒之地。第三处灵伽在于:他被诛灭之处——能息灭杀害之罪及诸般恶业。
Verse 52
इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः । त्रीणि लिंगानि शुद्धानि शीघ्रं त्वं कर्तुमर्हसि
说罢,帕瓦基(Pāvaki)召来毗湿瓦羯磨(Viśvakarman),说道:“你当速速造作三尊清净灵伽。”
Verse 53
वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः । त्रीणि लिंगानि शुद्धानि न्यवेदयत तानि च
遵巴胡勒耶(Bāhuleya)之言,那位天工巧匠造就三尊清净灵伽,并一并奉呈。
Verse 54
ततो ब्रह्मादिभिः सार्धं विष्णुना शंकरेण च । पूर्वं संस्थापयामास पश्चिमायामदूरतः
随后,他与梵天等诸神同在,并与毗湿奴及商羯罗(湿婆)一起,先将其安立于东方,离该地的西方方位不远。
Verse 55
प्रतिज्ञेश्वरमित्येव लिंगं परमशोभनम् । अष्टम्यां बहुले चात्र चैत्रे स्नात्वा उपोष्य च
那尊极其庄严光耀的灵伽名为“誓愿自在主”(Pratijñeśvara)。在此地,于恰特罗月(Caitra)黑半月之第八日(Aṣṭamī),沐浴之后并守斋戒……
Verse 56
पूजां च जागरं कृत्वा मुच्येत्पारुष्यपापतः । इत्याह स्कंदप्रीत्यर्थं स्वयं तत्र महेश्वरः
并且行供养与通宵守夜者,得脱离粗暴残忍之罪。此乃大自在天(Maheśvara)亲于彼处所宣说,为令斯坎达(Skanda)欢喜。
Verse 57
ततो द्वितीयं लिंगं तु वह्निकोणाश्रितं तथा । स्थापयामास सरसो यत्र शक्तिर्विनिर्ययौ
随后他又安立第二尊林伽,位于阿耆尼(Agni)之隅——东南方。其处在湖畔,正是圣力(Śakti)涌现之地。
Verse 58
कपालेश्वरमित्येव लिंगं पापापहं शुभम् । शक्तिं च तामभिष्टूय स्थापयामास तत्र च
此吉祥、灭罪之林伽名为“迦婆勒湿伐罗”(Kapāleśvara)。他赞颂彼圣力(Śakti)之后,也在彼处安立其临在。
Verse 59
कपालेश्वरसांनिध्यं देवीं कापालिकेश्वरीम् । तत्र चोत्तरदिग्भागे शक्तिच्छिद्रं प्रचक्षते
在迦婆勒湿伐罗(Kapāleśvara)近旁,有女神名“迦婆利迦湿伐梨”(Kāpālikeśvarī)。于彼处之北,人们指示一处名为“圣力之隙”(Śakti-chidra),即Śakti的裂口与开门。
Verse 60
पातालगंगा यत्रास्तिं सर्वपापहरा शिवा । तत्र स्नात्वा ददौ स्कंदः कृपयाभिपरिप्लुतः
在圣洁的“地下恒河”(Pātāla-Gaṅgā)流淌之处——她即是悉除诸罪的湿婆女神(Śivā)——斯坎达于彼沐浴;并以慈悲充盈之心,施行清净圣施。
Verse 61
तदा तोयं तारकाय सहितः सर्वदैवतैः
于是,他与诸天同在,将那水作为神圣的奠水供(tarpana)奉献给塔罗迦(Tāraka)。
Verse 62
काश्यपेयाय वज्रांगतनयाय महात्मने । रुद्रभक्ताय सतिलमक्षय्योदकमस्त्विति
“为迦湿耶佩耶(Kāśyapeya),为金刚肢(Vajrāṅga)之子、伟大之魂,为鲁陀罗的虔信者——愿这伴以芝麻的不竭奠水供得以安立。”他如是宣告。
Verse 63
ततो महेश्वरः प्रीतः प्राह स्कंदस्य श्रृण्वतः । चतुर्दश्यां कृष्णपक्षे मधौ चैवात्र यो नरः । स्नात्वोपोष्य समभ्यर्च्य कपालेश्वरमीश्वरीम्
随后,大自在天(Maheśvara)欢喜,在军荼(Skanda)聆听之时说道:“在蜜月(Madhu)之月、黑半月(kṛṣṇa-pakṣa)的第十四日(caturdaśī),凡人在此沐浴、守斋(upavāsa),并如法礼敬迦婆勒湿伐罗(Kapāleśvara)与女神……”
Verse 64
तेजोवधसमुद्भूतपातकेन स मुच्यते
他将从因杀害“具光者”(tejovat,具灵性光辉之存在)而生的罪垢中解脱——此乃摧折光明的重罪。
Verse 65
अस्यामेव तिथौ सोमः शिवयोगश्च तैतिलम् । षड्योगः शक्तिच्छिद्रेयो दिनं रुद्रं जपन्निशि । स्नात्वात्र सशरीरो वै रुद्रलोकं व्रजीष्यति
“就在此一月日(tithi),当苏摩(月神)与湿婆瑜伽(Śiva-yoga)相合——有吉祥的芝麻行持(tilam)与在‘能量裂隙’圣地(Śakticchidra)的六重瑜伽——凡人白昼诵念鲁陀罗真言(Rudra-japa),夜间礼拜供奉,并在此沐浴者,必将往生鲁陀罗界(Rudra-loka),甚至得以携此身而至。”
Verse 66
कपालेशस्य सांनिध्ये शक्तिच्छिद्रं हि कीर्त्यते । तस्य तुल्यं परं तीर्थं पृथिव्यां नैव विद्यते
就在迦波勒湿伐罗(Kapāleśvara)的亲临之处,宣说有一处名为“Śakticchidra”的圣地(tīrtha)。在大地之上,再无与之等同的至上朝圣处。
Verse 67
इति श्रुत्वा रुद्रवाक्यं स्कंदः प्रीतोऽभवद्भृशम् । देवाश्च मुदिताः सर्वे साधुसाध्विति ते जगुः
听闻鲁陀罗(Rudra)此言,斯坎达(Skanda)大为欢喜。诸天皆欣然同声称赞:“善哉!善哉!”