
阿伽斯提耶向斯甘达请问迦尸(Kāśī)的辉煌,以及湿婆在塔拉迦罗(Tārakāra,迦尸)中的作为。斯甘达叙述瑜伽圣者阇耆沙毗耶(Jaigīṣavya)的事迹:他立下极严的尼耶摩(niyama)誓愿——在再次瞻见湿婆那具“viṣama‑īkṣaṇa”(独特之目、三目)之莲足之前,绝不饮食,并断言未得此达尔善(darśana)而受用的食物,于灵性上有缺。唯有湿婆知其誓,遂遣南迪(Nandin)至一处幽美洞窟迎请;南迪以神妙“līlā‑kamala”之触使其复苏强健,并引至湿婆与高丽(Gaurī)之前。 阇耆沙毗耶献上长篇湿婆赞颂(Śiva‑stotra),罗列诸多圣号,宣示唯归依大天(Mahādeva)的彻底投诚(śaraṇāgati)。湿婆欢喜赐福:与主不绝相近、常住于阇耆沙毗耶所立之林伽(liṅga)处,并授以瑜伽教诲,使其成为卓越的瑜伽导师;此赞颂被宣告能除大罪、增长功德与虔爱。 本章亦标举迦尸的仪轨地理:阇耶什塔伊湿伐罗(Jyeṣṭheśvara,自显林伽)与阇耶什塔高丽(Jyeṣṭhā Gaurī)在阇耶什塔井(Jyeṣṭha‑vāpī)附近显现;规定大朝圣(yātrā)之期(阇耶什塔月白半第十四日、周一、阿奴罗陀星宿 Anurādhā);阇耶什塔月庆典与夜间守夜;在阇耶什塔圣地(Jyeṣṭha‑sthāna)行施祖祭(śrāddha)之利益;以及后来得名“尼瓦塞沙”(Nivāseśa,湿婆自立之居处林伽)。果报偈(phalaśruti)总结:专心聆听者得离罪垢,并蒙护佑免诸苦恼。
Verse 1
अगस्त्य उवाच । दृष्ट्वा काशीं दृगानंदां तारकारे पुरारिणा । किमकारि समाचक्ष्व प्राप्तां बहुमनोरथैः
阿伽斯提亚说:在塔拉卡拉,三城毁灭者(湿婆)得见迦尸——悦目之城。请告诉我:历经无数夙愿而至彼处之后,究竟做了什么?
Verse 2
स्कंद उवाच । पतिव्रतापते ऽगस्त्य शृणु वक्ष्याम्यशेषतः । मृगांकलक्ष्मणोत्कंठं काशी नेत्रातिथीकृता
斯甘达说:阿伽斯提亚啊,贞信之士的主宰,请听,我将无遗尽述。迦尸成为双眼的贵客,竟也令那以月为徽记者(湿婆)心生渴慕。
Verse 3
अथ सर्वज्ञनाथेन भक्तवत्सलचेतसा । जैगीषव्यो मुनिश्रेष्ठो गुहां तस्थो निरीक्षितः
随后,住于洞窟中的最胜牟尼耆吉沙维亚,被那全知之主所察觉;其心慈爱,尤怜护诸信众。
Verse 4
यमनेहसमारभ्य मदंराद्रिं विनिर्ययौ । अद्रींद्र सुतया सार्धं रुद्रेणोक्षेंद्रगामिना
他自Yamaneha启程,前往Madaṃra山;与山王之女同行,并与乘牛而行的鲁陀罗同往——那牛为群兽之王。
Verse 5
तं वासरं पुरस्कृत्य जग्राह नियमं दृढम् । जैगीषव्यो महामेधाः कुंभयोने महाकृती
尊奉那一日,宏慧而志坚的耆吉沙毗耶立下牢固誓愿,噢,壶生的阿伽斯提耶。
Verse 6
विषमेक्षण पादाब्जं समीक्षिष्ये यदा पुनः । तदांबुविप्रुषमपि भक्षयिष्यामि चेत्यहो
“待我再得瞻仰那‘异目者’(湿婆)的莲华足时——唯在那时——我才饮用哪怕一滴水!”他如是宣言。
Verse 7
कुतश्चिद्धारणायोगादथवा शंभ्वनुग्रहात । अनश्नन्नपिबन्योगी जैगीषव्यः स्थितो मुने
或因某种瑜伽定力之力,或因商婆(湿婆)之加被,瑜伽行者耆吉沙毗耶安住不动,噢牟尼——不食亦不饮。
Verse 8
तं शंभुरेव जानाति नान्यो जानाति कश्चन । अतएव ततः प्राप्तः प्रथमं प्रमथाधिपः
唯有商婆(湿婆)真正知晓他;除此之外,无人知之。因此,从那里起,普罗摩他众之主最先前来。
Verse 9
ज्येष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः । तत्पर्वणि महायात्रा कर्तव्या तत्र मानवैः
在耶什塔月(Jyeṣṭha)明半月第十四日——逢星期一且值阿努拉达(Anurādhā)宿之时——于此吉庆法会之日,众人应在彼处举行大朝圣。
Verse 10
ज्येष्ठस्थानं ततः काश्यां तदाभूदपि पुण्यदम् । तत्र लिंगं समभवत्स्वयं ज्येष्ठेश्वराभिधम्
随后,在迦尸(Kāśī)出现了名为“耶什塔圣处”(Jyeṣṭhasthāna)的神圣之地,能赐广大功德。其处有一尊林伽自然而现,号称“耶什塔自在天”(Jyeṣṭheśvara)。
Verse 11
तल्लिंगदर्शनात्पुंसां पापं जन्मशतार्जितम् । तमोर्कोदयमाप्येव तत्क्षणादेव नश्यति
仅仅瞻礼彼林伽,众生百生所积之罪即刻消灭;正如旭日一出,黑暗当下退散。
Verse 12
ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान् । ज्येष्ठेश्वरं समालोक्य न भूयो जायते भुवि
人在耶什塔圣池沐浴,并向祖先奉献塔尔帕那(tarpaṇa)之后,若得瞻见耶什塔自在天(Jyeṣṭheśvara),便不再于世间复生。
Verse 13
आविरासीत्स्वयं तत्र ज्येष्ठेश्वर समीपतः । सर्वसिद्धिप्रदा गौरी ज्येष्ठाश्रेष्ठा समंततः
在彼处、于耶什塔自在天(Jyeṣṭheśvara)近旁,圣母高丽(Gaurī)亲自显现——赐予一切成就(siddhi)者;名为“耶什塔高丽”(Jyeṣṭhā-Gaurī),周遍最为殊胜。
Verse 14
ज्येष्ठे मासि सिताष्टम्यां तत्र कार्यो महोत्सवः । रात्रौ जागरणं कार्यं सर्वसंपत्समृद्धये
在耶什塔(Jyeṣṭha)月的白半第八日,应于彼处举行盛大庆典。夜间当守夜精进,以令一切福泽兴盛圆满。
Verse 15
ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापी परिप्लुता । सौभाग्यभाजनं भूयाद्योषा सौभाग्यभागपि
礼敬耶什塔·高丽(Jyeṣṭhā-Gaurī),并在耶什塔瓦比(Jyeṣṭhavāpī)之水中沐浴后,女子便成吉祥福运之器,实为瑞福昌盛之同享者。
Verse 16
निवासं कृतवाञ्शंभुस्तस्मिन्स्थाने यतः स्वयम् । निवासेश इति ख्यातं लिंगं तत्र परं ततः
由于商布(Śambhu)亲自于彼处安住,那里的至上林伽遂以“尼瓦塞沙”(Nivāseśa)之名而闻名。
Verse 17
निवासेश्वरलिंगस्य सेवनात्सर्वसंपदः । निवसंति गृहे नित्यं नित्यं प्रतिपदं पुनः
供奉礼事尼瓦塞湿伐罗(Nivāseśvara)之林伽,则一切福财吉祥常来安住于家中,日日如是,复又复然。
Verse 18
कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः । ज्येष्ठां तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा
至善之人若在耶什塔斯塔那(Jyeṣṭhasthāna)依仪轨行施罗达(śrāddha),便确能赐予祖灵“至上满足”,宛如以蜂蜜与酥油供养他们。
Verse 19
ज्येष्ठतीर्थे नरः काश्यां दत्त्वा दानानि शक्तितः । ज्येष्ठान्स्वर्गानवाप्नोति नरो मोक्षं च गच्छति
在迦尸(Kāśī)的耶什陀圣渡(Jyeṣṭha tīrtha),人若随力布施,便得至高诸天,并且亦趋向解脱(mokṣa)。
Verse 20
ज्येष्ठेश्वरो र्च्यः प्रथमं काश्यां श्रेयोर्थिभिर्नरैः । ज्येष्ठागौरी ततोभ्यर्च्या सर्वज्येष्ठमभीप्सुभिः
在迦尸(Kāśī),求至善者当先礼拜耶什陀自在主(Jyeṣṭheśvara);继而礼拜耶什陀高丽(Jyeṣṭhāgaurī),由此渴求无上卓越者,得为最上之最上。
Verse 21
अथ नंदिनमाहूय धूर्जटिः स कृपानिधिः । शृण्वतां सर्वदेवानामिदं वचनमब्रवीत्
于是,杜尔迦提(Dhūrjaṭi)——慈悲之藏的湿婆(Śiva)——召唤难提(Nandī);在诸天众神聆听之际,说出了这番言语。
Verse 22
ईश्वर उवाच । शैलादे प्रविशाशु त्वं गुहास्त्यत्र मनोहरा । तदंतरेस्ति मे भक्तो जैगीषव्यस्तपोधनः
自在天(Īśvara)说:“速入舍罗陀(Śailāda);彼处有一幽美洞窟。其间住着我的信徒阇耆沙毗耶(Jaigīṣavya),乃苦行威力(tapas)之宝。”
Verse 23
महानियमवान्नंदिस्त्वगस्थिस्नायु शेषितः । तमिहानय मद्भक्तं मद्दर्शन दृढव्रतम्
“难提(Nandī),他持大戒律,几乎只余皮骨筋络。将我那信徒带来此处;他以求见我之圣观(darśana)而誓愿坚固。”
Verse 24
यदाप्रभृत्यगां काश्या मंदरं सर्वसुंदरम् । महानियमवानेष तदारभ्योज्झिताशनः
自他来到迦尸——曼陀罗,极其秀美、诸美之最——此人便奉行严峻的戒律;并从那时起即断绝饮食。
Verse 25
गृहाण लीलाकमलमिदं पीयूषपोषणम् । अनेन तस्य गात्राणि स्पृश सद्यः सुबृंहिणा
取此嬉戏之莲,滋养如甘露。以此触其肢体,立刻令他强健丰盈。
Verse 26
ततो नंदी समादाय तल्लीलाकमलं विभोः । प्रणम्य देवदेवेशमाविशद्गह्वरां गुहाम्
于是难提取起主的神圣“戏莲”,礼拜诸天之天主,便进入那幽深的洞窟之中。
Verse 27
नंदी दृष्ट्वाथ तं तत्र धारणादृढमानसम् । तपोग्नि परिशुष्कांगं कमलेन समस्पृशत्
难提见他在彼处——由持念而心志坚固——便以莲触那瑜伽之主;其身已为苦行之火所枯槁。
Verse 28
तपांते वृष्टिसंयोगाच्छालूर इव कोटरे । उल्ललास स योगींद्रः स्पर्शमात्रात्तदब्जजात्
当苦行圆满之际,仅凭那莲的一触,瑜伽之王便霍然奋起——如空穴中的 chālūra 草木,得雨相合而蓬勃舒展。
Verse 29
अथ नंदी समादाय सत्वरं मुनिपुंगवम् । देवदेवस्य पादाग्रे नमस्कृत्य न्यपातयत्
于是难提迅速扶起那位“诸圣之雄”,在诸神之神足前顶礼,将其安置于足下。
Verse 30
जैगीषव्योथ संभ्रांतः पुरतो वीक्ष्य शंकरम् । वामांगसन्निविष्टाद्रितनयं प्रणनाम ह
随后耆吉沙毗耶满怀敬畏,见到商羯罗立于面前,山岳之女端坐其左,便俯首礼拜。
Verse 31
प्रणम्य दंडवद्भूमौ परिलुठ्य समंततः । तुष्टाव परया भक्त्या स मुनिश्चंद्रशेखरम्
他如杖般伏地顶礼,又向四方翻滚致敬;那位牟尼以至上的虔爱赞颂月冠者旃陀罗舍迦罗。
Verse 32
जैगीषव्य उवाच । नमः शिवाय शांताय सर्वज्ञाय शुभात्मने । जगदानंदकंदाय परमानंदहेतवे
耆吉沙毗耶曰:敬礼湿婆——寂静者、遍知者、吉祥之灵;他是世间欢喜之根本,亦是至乐之因。
Verse 33
अरूपाय सरूपाय नानारूपधराय च । विरूपाक्षाय विधये विधिविष्णुस्तुताय च
敬礼于无相而亦具相者,能现无量诸相者;敬礼于三眼之主、施设法度之宰——亦为梵天与毗湿奴所赞颂者。
Verse 34
स्थावराय नमस्तुभ्यं जंगमाय नमोस्तुते । सर्वात्मने नमस्तुभ्यं नमस्ते परमात्मने
礼敬于汝,既为不动者,亦为行动态;礼敬于汝,万有之灵;礼敬于汝,至上真我。
Verse 35
नमस्त्रैलोक्यकाम्याय कामांगदहनाय च । नमो शेषविशेषाय नमः शेषांगदाय ते
礼敬于汝,三界所共愿者;礼敬于汝,焚尽爱神迦摩之身者。礼敬于汝,超越余剩与差别者;礼敬于汝,赐予“余恩”——最后救度之慈恩者。
Verse 36
श्रीकंठाय नमस्तुभ्यं विषकंठाय ते नमः । वैकुंठवंद्यपादाय नमोऽकुंठितशक्तये
礼敬于汝,吉祥喉者;礼敬于汝,含毒喉者。礼敬于彼,其足连毗昆塔亦所敬仰;礼敬于汝,威力无碍无阻者。
Verse 37
नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने । सकृत्प्रणाममात्रेण देहिदेहनिवारिणे
礼敬于彼,半身为圣力(Śakti)者;礼敬于无身者,亦礼敬于仍示现妙身者。礼敬于主,众生但一度顶礼,便能除却有身之系缚者。
Verse 38
कालाय कालकालाय कालकूट विषादिने । व्यालयज्ञोपवीताय व्यालभूषणधारिणे
礼敬于时间本身,亦礼敬于摧灭时间者;礼敬于吞饮迦拉库塔毒者;礼敬于以蛇为圣线、以群蛇为庄严饰物者。
Verse 39
नमस्ते खंडपरशो नमः खंडें दुधारिणे । खंडिताशेष दुःखाय खड्गखेटकधारिणे
礼敬于汝,执裂断之斧者;礼敬于汝,持断割之刃者。礼敬于彼,能斩尽一切忧苦者;礼敬于彼,执剑持盾者。
Verse 40
गीर्वाणगीतनाथाय गंगाकल्लोलमालिने । गौरीशाय गिरीशाय गिरिशाय गुहारणे
礼敬于彼:诸天歌咏所赞之主,佩戴恒河翻涌波涛之花鬘者;礼敬于高丽(帕尔瓦蒂)之主、群山之主——湿婆——安住于迦尸圣窟神庙者。
Verse 41
चंद्रार्धशुद्धभूषाय चंद्रसूर्याग्निचक्षुषे । नमस्ते चर्मवसन नमो दिग्वसनायते
礼敬于彼:以清净半月为庄严者;其眼为月、日与火者。礼敬于汝:以兽皮为衣者;礼敬于汝:以十方、以苍穹为衣者。
Verse 42
जगदीशाय जीर्णाय जराजन्महराय ते । जीवायते नमस्तुभ्यं जंजपूकादिहारिणे
礼敬于汝,世间之主——超越时劫之古老者——能除老迈与反复生死者。礼敬于汝,万有之生命本身,能驱散热病等诸般苦恼者。
Verse 43
नमो डमरुहस्ताय धनुर्हस्ताय ते नमः । त्रिनेत्राय नमस्तुभ्यं जगन्नेत्राय ते नमः
礼敬于汝,手持达玛鲁小鼓者;礼敬于汝,手持神弓者。礼敬于三目者;礼敬于汝,宇宙之眼者。
Verse 44
त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर । त्रिविष्टपाधिनाथाय त्रिवेदीपठिताय च
顶礼于你,手中威猛执持三叉戟者;顶礼于你,承载行于三途之圣恒河(Gaṅgā)者。顶礼于你,统御诸天界之主;亦顶礼于你,为三部吠陀所颂扬者。
Verse 45
त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च । दीक्षिताय नमस्तुभ्यं देवदेवाय ते नमः
顶礼于你,具足三部吠陀之体、恒常满足安然者;顶礼于你,赐予信众满足喜悦者。顶礼于你,受灌顶之主;顶礼于你,诸神之神。
Verse 46
दारिताशेषपापाय नमस्ते दीर्घदर्शिने । दूराय दुरवाप्याय दोषनिर्दलनाय च
顶礼于你,撕裂一切罪业者;顶礼于你,远见洞察者。顶礼于你,超越难及、难以证得者;而你亦摧碎一切过失与垢染。
Verse 47
दोषाकर कलाधार त्यक्तदोषागमाय च । नमो धूर्जटये तुभ्यं धत्तूरकुसुमप्रिय
顶礼于你——虽在迷妄者眼中似为“过失之藏”,你却是诸神圣技艺与威力之所依;顶礼于你,永不为垢染所触者。顶礼于你,哦 Dhūrjaṭi,喜爱曼陀罗花(dhattūra)者。
Verse 48
नमो धीराय धर्माय धर्मपालाय ते नमः । नीलग्रीव नमस्तुभ्यं नमस्ते नीललोहित
顶礼于坚毅者,顶礼于法(Dharma)本身,顶礼于护法之主。顶礼于你,蓝喉之尊;顶礼于你,尼罗罗希多(Nīlalohita)。
Verse 49
नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक । नमः प्रमथनाथाय पिनाकोद्यतपाणये
噢!仅以忆念汝名便得功德者,汝赐其三界主权圆满;礼敬普罗摩他众之主,礼敬执举毗那迦神弓、手高扬者。
Verse 50
पशुपाशविमोक्षाय पशूनां पतये नमः । नामोच्चारणमात्रेण महापातकहारिणे
礼敬解脱众生、解除世间系缚之主——帕舒帕提,万类众生之主。唯以称诵其名,亦能除灭最重之罪。
Verse 51
परात्पराय पाराय परापरपराय च । नमोऽपारचरित्राय सुपवित्रकथाय च
礼敬超越复超越者,至上归依、彼岸之极;礼敬其行迹无量无边,礼敬其圣传最为净化。
Verse 52
वामदेवाय वामार्धधारिणे वृषगामिने । नमो भर्गाय भीमाय नतभीतिहराय च
礼敬婆摩提婆;礼敬持左半身、乘圣牛者。礼敬婆伽,礼敬威怖者,礼敬除去归伏礼拜者恐惧之主。
Verse 53
भवाय भवनाशाय भूतानांपतये नमः । महादेव नमस्तुभ्यं महेश महसांपते
礼敬婆婆(Bhava),礼敬摧毁轮回生起者;礼敬一切众生之主。噢摩诃提婆,向汝顶礼;噢摩醯湿伐罗,诸光辉与威力之主。
Verse 54
नमो मृडानीपतये नमो मृत्युंजयाय ते । यज्ञारये नमस्तुभ्यं यक्षराजप्रियाय च
礼敬牟陀罗尼(帕尔瓦蒂)之主;礼敬于汝,胜死者。噫,破除祭祀傲慢之“祭敌”,我向汝顶礼——亦为夜叉之王所爱敬者。
Verse 55
यायजूकाय यज्ञाय यज्ञानां फलदायिने । रुद्राय रुद्रपतये कद्रुद्राय रमाय च
礼敬诸祭司之祭司,礼敬祭祀本身,礼敬赐予一切祭果者。礼敬鲁陀罗,礼敬诸鲁陀罗之主,礼敬威烈之鲁陀罗——而亦为安乐与憩息之源者。
Verse 56
शूलिने शाश्वतेशाय श्मशानावनिचारिणे । शिवाप्रियाय शर्वाय सर्वज्ञाय नमोस्तु ते
礼敬持三叉戟者,礼敬恒常之主,游行于火葬场者。礼敬湿婆妃(帕尔瓦蒂)所爱者,礼敬舍尔瓦,礼敬遍知者——愿我向汝顶礼。
Verse 57
हराय क्षांतिरूपाय क्षेत्रज्ञाय क्षमाकर । क्षमाय क्षितिहर्त्रे च क्षीरगौराय ते नमः
礼敬哈罗,其形即忍;礼敬知田者(内在之我);噫,成就忍耐者,我向汝顶礼。礼敬坚忍之力,礼敬除去大地重担者,礼敬汝乳白之光辉。
Verse 58
अंधकारे नमस्तुभ्यमाद्यंतरहिताय च । इडाधाराय ईशाय उपेद्रेंद्रस्तुताय च
噫,驱散幽暗之主,礼敬于汝;礼敬无始无终者。礼敬伊陀(Iḍā)之所依,礼敬自在之主,礼敬为优波因陀罗(毗湿奴)与因陀罗所赞颂者。
Verse 59
उमाकांताय उग्राय नमस्ते ऊर्ध्वरेतसे । एकरूपाय चैकाय महदैश्वर्यरूपिणे
礼敬乌玛之爱主乌玛坎塔;礼敬威猛者,具上升之精力与圆满梵行者。礼敬一相之主、无二之唯一者,其自性即至上主权与广大威德。
Verse 60
अनंतकारिणे तुभ्यमंबिकापतये नमः । त्वमोंकारो वषट्कारो भूर्भुवःस्वस्त्वमेव हि
礼敬于你,无尽之作为者,安比迦之主。唯你是神圣的唵;你是祭仪中的“瓦沙特”呼声;你确是Bhūr、Bhuvaḥ、Svaḥ——三界本身。
Verse 61
दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव । स्तुतिं कर्तुं न जानामि स्तुतिकर्ता त्वमेव हि
此处一切所有——可见与不可见者——噢摩达婆,皆是你。我不知如何赞颂;因为唯你才是真正成就赞颂者。
Verse 62
वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते । नान्यं वेद्मि महादेव नान्यं स्तौमि महेश्वर
你是所言之义,你是言说之者,你亦是言语本身——我向你顶礼。我不识他者,噢大天;我不赞他者,噢大自在天。
Verse 63
नान्यं नमामि गौरीश नान्याख्यामाददे शिव । मूकोन्यनामग्रहणे बधिरोन्यकथाश्रुतौ
我不礼拜他者,噢高丽之主;我不称念他名,噢湿婆。愿我在称他名时成哑,在听他事时成聋。
Verse 64
पंगुरन्याभिगमनेऽस्म्यंधोऽन्यपरिवीक्षणे । एक एव भवानीश एककर्ता त्वमेव हि
愿我对趋向他物之路如跛者,对观望他物之眼如盲者。唯有你是独一者,主啊;唯有你是唯一的行作者。
Verse 65
पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना । अतस्त्वमेव शरणं भूयोभूयः पुनःपुनः
唯有你是唯一的护持者,也是唯一的收摄者;种种差别只是迷妄的想象。因此唯有你是我的归依——一再又一再。
Verse 66
संसारसागरे मग्नं मामुद्धर महेश्वर । इति स्तुत्वा महेशानं जैगीषव्यो महामुनिः
“我沉没于轮回之海——救拔我吧,摩诃伊湿伐罗!”如此赞颂摩诃伊舍那后,大圣者耆吉沙毗耶继续行事。
Verse 67
वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः । इति स्तुतिं समाकर्ण्य मुनेश्चंद्रविभूषणः । उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम्
他摄持言语,立于你不动之相前,宛如自身亦为不动。听罢圣者之赞歌,月为冠饰的主心生欢喜,对那牟尼说道:“说吧,选择一项恩赐。”
Verse 68
जैगीषव्य उवाच । यदि प्रसन्नो देवेश ततस्तव पदांबुजात् । मा भवानि भवानीश दूरं दूरपदप्रद
耆吉沙毗耶说:“若你欢喜,诸天之主啊,那么愿我不离你的莲华足下——噢婆伐尼主,赐予至上境界者——愿我永不远离,永不远离。”
Verse 69
अपरश्च वरो नाथ देयोयमविचारतः । यन्मया स्थापितं लिंगं तत्र सान्निध्यमस्तु ते
又愿赐我一恩,主啊,请勿迟疑:凡我所安立之林伽之处,愿有你恒常的神圣临在。
Verse 70
ईश्वर उवाच । जैगीषव्य महाभाग यदुक्तं भवतानघ । तदस्तु सर्वं तेभीष्टं वरमन्यं ददामि च
自在天说道:“吉吉沙毗耶啊,福德卓著、清净无垢者——你所祈求的一切,愿皆随你心愿而成;我亦再赐你一恩。”
Verse 71
योगशास्त्रं मया दत्तं तव निर्वाणसाधकम् । सर्वेषां योगिनां मध्ये योगाचार्योऽस्तु वै भवान्
“我已赐你瑜伽之教,此为证入涅槃之资粮;在一切瑜伽行者之中,愿你确为瑜伽导师。”
Verse 72
रहस्यं योगविद्याया यथावत्त्वं तपोधन । संवेत्स्यसे प्रसादान्मे येन निर्वाणमाप्स्यसि
“苦行之珍宝啊,承我恩典,你将如实了知瑜伽之学的奥秘;由此你必得证入涅槃。”
Verse 73
यथा नदी यथा भृंगी सोमनंदी यथा तथा । त्वं भविष्यसि भक्तो मे जरामरणवर्जितः
“如同那提、如同婆陵祇、如同苏摩难提一般——你亦将如此:成为我的奉献者,远离衰老与死亡。”
Verse 74
संति व्रतानि भूयांसि नियमाः संत्यनेकधा । तपांसि नाना संत्यत्र संति दानान्यनेकशः
此处有众多誓愿与种种戒律;亦有多样苦行,并有无数布施之法。
Verse 75
श्रेयसां साधनान्यत्र पापघ्नान्यपि सर्वथा । परं हि परमश्चैष नियमो यस्त्वया कृतः
此处有成就至善之方便,亦有诸行能于一切方面灭罪;然而你所奉行的此戒最为殊胜,实为至上。
Verse 76
परो हि नियमश्चैष मां विलोक्य यदश्यते । मामनालोक्य यद्भुक्तं तद्भुक्तं केवलत्वघम्
此戒实为最上:当先瞻仰于我,然后方可进食。若不瞻仰而食,所食即成纯然自我之罪。
Verse 77
असमर्च्य च यो भुङ्क्ते पत्रपुष्पफलैरपि । रेतोभक्षी भवेन्मूढः स जन्मान्येकविंशतिम्
纵使只食叶、花与果,若不先礼拜而食,此愚人将于二十一世中成为“食精者”。
Verse 78
महतो नियमस्यास्य भवतानुष्ठितस्य वै । नार्हंति षोडशी मात्रामप्यन्ये नियमा यमाः
就你所修持的此大戒而言,其他诸禁制与修法——诸“制”(yama)与“行”(niyama)——连十六分之一亦不及。
Verse 79
अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा । अतो नैःश्रेयसीं लक्ष्मीं तत्रैव प्राप्स्यसि ध्रुवम्
因此你将恒常安住于我足下;并且就在此处,你必定获得至善的吉祥福德——究竟解脱。
Verse 80
जैगीषव्येश्वरं नाम लिंगं काश्यां सुदुर्लभम् । त्रीणि वर्षाणि संसेव्य लभेद्योगं न संशयः
在迦尸(Kāśī)有一尊极为稀有的林伽,名为“阇耆湿婆耶主”(Jaigīṣavyeśvara)。若虔诚亲近供奉三年,必得瑜伽成就——毫无疑问。
Verse 81
जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः । षण्मासेन लभेत्सिद्धिं वाञ्छितां मदनुग्रहात्
抵达阇耆湿婆耶(Jaigīṣavya)之洞窟,专心修习瑜伽者,凭我的加持,六个月内便得所愿悉地。
Verse 82
तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः । विलोक्या च गुहा रम्या परासिद्धिमभीप्सुभिः
你这尊林伽应当由信众竭诚礼拜;而那可爱清净的洞窟,也应为希求至上悉地者前往瞻礼。
Verse 83
अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम् । नाशयेदघसंघानि दृष्टं स्पृष्टं समर्चितम्
在此吉耶湿提湿伐罗(Jyeṣṭheśvara)圣域中,你的林伽赐予一切悉地。若得瞻见、触礼并如法供奉,便能灭除成群罪业。
Verse 84
अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः । कोटिभोज्यफलं सम्यगेकैकपरिसंख्यया
在吉耶湿提诃湿伐罗的圣域中,供养湿婆的瑜伽行者,确实获得如同供养无数亿众的功德;按每一位瑜伽行者逐一计算。
Verse 85
जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः । कलौ कलुषबुद्धीनां पुरतश्च विशेषतः
应当竭力谨慎地将“阇耆湿伐耶湿伐罗”林伽秘藏守护;尤其在迦梨时代,更要避开那些心念污浊之人。
Verse 86
करिष्याम्यत्र सांनिध्यमस्मिंल्लिंगे तपोधन । योगसिद्धिप्रदानाय साधकेभ्यः सदैव हि
噢,苦行之宝啊!我将在此林伽中安住我的临在,确实恒常不息,为的是赐予修行者瑜伽成就。
Verse 87
ददे शृणु महाभाग जैगीषव्यापरं वरम् । त्वयेदं यत्कृतं स्तोत्रं योगसिद्धिकरं परम्
听着,噢大福德者!我再赐你一项关于阇耆湿伐耶的恩赐:你所作的这首赞颂偈至高无上,能成就瑜伽之果。
Verse 88
महापापौघशमनं महापुण्यप्रवर्धनम् । महाभीतिप्रशमनं महाभक्तिविवर्धनम्
它能平息滔天重罪之流,增长广大福德,安定极大恐惧,并增盛深厚的虔敬之心。
Verse 89
एतत्स्तोत्रजपात्पुंसामसाध्यं नैव किंचन । तस्मात्सर्वप्रयत्नेन जपनीयं सुसाधकैः ४
凭借反复诵念此赞颂,世人无有任何不可成就之事。因此,真诚的修行者应竭尽全力持诵此偈。
Verse 90
इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः । ददर्श ब्राह्मणां स्तत्र समेतान्क्षेत्रवासिनः
如是赐予其恩愿之后,灭爱之敌斯摩罗阿利(湿婆)含笑之目,遂在彼处观见聚集的婆罗门——居于圣域迦尸之众。
Verse 91
स्कंद उवाच । निशम्याख्यानमतुलमेतत्प्राज्ञः प्रयत्नतः । निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते
斯堪达言:“智者若以勤恳之心聆听此无比圣传,便得离罪清净;诸般灾厄与凶障,不能胜伏彼凡人。”