
第四章以苏陀—毗耶娑的叙事框架展开为对话式教诲。承阿伽斯提耶的发问铺陈,诸天先以恭敬赞颂致礼于阿伽斯提耶,继而详述理想“贞顺妻”(pativratā)的伦理与仪轨形象:以罗波慕陀罗为典范,强调以自律的忠贞与持家德行为本。文中列举规范:体察并照料丈夫所需,谨慎言语与交游,回避某些公共娱乐与观赏,修苦行须得许可,并将侍奉丈夫视为宗教修持。 随后转入“果报”(phala)的强调:宣称贞顺之行具护持灵力,乃至无惧死神使者;其功德还能惠及多代。相对地,对越轨之举以警诫类型呈现,并联系不善再生的主题。后段论及寡居之戒:节制饮食、修苦行、日常供献,并以丈夫为奉爱中心而行毗湿奴礼拜;又述季节性持守(尤指毗舍迦月、迦尔提迦月、摩伽月)之浴、布施、燃灯与诸禁戒。章末以果报偈(phalāśruti)作结:聆听此教能除罪,导向吉祥后世,得生于释迦天界(Śakra-loka)。
Verse 1
सूत उवाच । मुनिपृष्टास्तदा देवा भगवंस्ते किमब्रुवन् । सर्वलोकहितार्थाय तदाख्याहि महामुने
苏多说道:当圣仙询问诸天之时,那些可敬者作何回答?为利益一切世界,伟大圣仙啊,请为我宣说。
Verse 2
श्रीव्यास उवाच । अगस्तिवचनं श्रुत्वा बहुमानपुरस्सरम् । धिषणाधिपतेरास्यं विबुधा व्यालुलोकिरे
圣者毗耶娑说道:诸天听闻阿伽斯提耶之言,先起深敬之心,遂将目光转向智慧之主——布里哈斯帕提的面容。
Verse 3
वाक्पतिरुवाच । शृण्वगस्ते महाभाग देवागमनकारणम् । धन्योसि कृतकृत्योसि मान्योसि महता मपि
言主(布里哈斯帕提)说道:听吧,吉祥的阿伽斯提耶,诸天降临的缘由。你确是有福之人;所作已成;你堪受敬礼——即便出自我这位大者。
Verse 4
प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनाः । किं न संति मुनिश्रेष्ठ काचिदन्यैव ते स्थितिः
噢,诸牟尼之最、苦行功德丰盛者——难道各处没有道场、群山与森林吗?为何你的住处却只定在此地,仿佛唯此才是你独选的安住之所?
Verse 5
तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मतेजस्त्वयि स्थिरम् । पुण्यलक्ष्मीस्त्वयि परा त्वय्यौदार्यं मनस्त्वयि
由苦行而生的福泽在你之中安住;婆罗门之光(tejas)在你之中恒常不动。至上的功德之福在你之中;慷慨与高贵之心亦在你之中。
Verse 6
पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी । तवांगच्छायया तुल्या यत्कथापुण्यकारिणी
这位吉祥的洛帕慕德罗是贞顺于夫的持夫戒者(pativratā),与您同修正法之道。她如同你身之影;甚至她的传说亦能生起福德(puṇya)。
Verse 7
पतिव्रतास्वरुंधत्या सावित्र्याप्यनसूयया । शांडिल्यया च सत्या च लक्ष्म्या च शतरूपया
在诸位著名的贞顺贤妻(pativratā)之中——阿伦达蒂、娑维特丽、阿那苏雅、商提利雅、萨提雅、拉克什米,以及沙多卢帕——
Verse 8
मेनया च सुनीत्या च संज्ञया स्वाहया तथा । यथैषा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम
又如梅娜、苏尼蒂、桑吉尼亚与斯瓦哈:正如此人(洛帕穆德拉)被赞为最上,其他并非如此——此乃既定之论。
Verse 9
भुंक्ते भुक्ते त्वयि मुने तिष्ठति त्वयि तिष्ठति । विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यते
圣者啊,你食则她食;你立则她立。你眠则她眠——而她最先醒来。
Verse 10
अनलंकृतमात्मानं तव नो दर्शयेत्क्वचित् । कार्यार्थं प्रोषिते क्वापि सर्वमंडनवर्जिता
她从不在你面前以不加妆饰之身出现。即便你因事务远行在外,她也舍离一切装饰。
Verse 11
न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये । पुरुषांतरनामापि न गृह्णाति कदाचन
她甚至不直呼你的名,为使你的寿命增长;她也从不提起任何别的男子之名。
Verse 12
आक्रुष्टापि न चाक्रोशेत्ताडितापि प्रसीदति । इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च
纵被呵斥,她亦不以呵斥相报;纵被击打,她仍安然。她说:“请如此行,我主——当作已成。”言语唯为取悦。
Verse 13
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् । किमर्थं व्याहृता नाथ सप्रसादो विधीयताम्
一经召唤,她便放下家务,迅速前来。“主君召我所为何事?愿以慈恩赐我指示。”她如是说道。
Verse 14
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते । अदापितं त्वया किंचित्कस्मैचिन्न ददात्यपि
她不在门前久留,也不在门槛处徘徊;若非你亲自赐与,她连一丝一毫也不擅自施与他人。
Verse 15
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् । नियमोदकबर्हींषि पत्रपुप्पाक्षतादिकम्
无需吩咐,她应亲自备齐一切供奉之具:净仪之清水、神圣的库沙草、叶、花、米粒等诸物。
Verse 16
प्रतीक्षमाणावसरं यथाकालोचितं हि यत् । तदुपस्थापयेत्सर्वमनुद्विग्नातिहृष्टवत्
她当守候适当之机,凡合乎时宜者,皆应呈上并安置妥当——不忧惧,也不狂喜。
Verse 17
सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् । महाप्रसाद इत्युक्त्वा परिदत्तं प्रतीच्छति
她享用丈夫所余之物——喜爱的食物、果品等——接过所递之物,并说道:“此乃大普拉萨达(圣赐)。”
Verse 18
अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि । परिचारकवर्गेषु गोषु भिक्षुकुलेषु च
她不可未先分食施与而自食——当供奉诸天、祖先与宾客;亦当分与侍从仆役、牛群及行乞修行者之家。
Verse 19
संयतोपस्करादक्षा हृष्टा व्यय पराङ्मुखी । कुर्यात्त्वयाननुज्ञाता नोपवासव्रतादिकम्
她当善于整饬家中器用,心怀欢悦,远离奢费;未经你许可,不可擅行斋戒、誓愿等诸行。
Verse 20
दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् । न गच्छेत्तीर्थयात्रादि विवाहप्रेक्षणादिषु
她应远离观望众会与庆典之事;不应前往朝圣之旅等,亦不应赴婚礼观礼等诸般场合。
Verse 21
सुखसुप्तं सुखासीनं रममाणं यदृच्छया । आंतरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित्
若其夫安睡、安坐,或随意自乐,她切不可唤起——纵有中间诸事亦然。
Verse 22
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्श येत् । स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुद्धितः
当她处于月事之时,三夜之内不应露面,亦不应使人闻其言;直至沐浴而得清净。
Verse 23
सुस्नाता भर्तृवदनमीहतेन्यस्य न क्वचित् । अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत्
沐浴洁净之后,她应寻望丈夫的面容,绝不去看他人。或者先在心中观想其夫,然后仰观日轮。
Verse 24
हरिद्रां कुंकुमं चैव सिंदूर कज्जलं तथा । कूर्पासकं च तांबूलं मांगल्याभरणं शुभम्
姜黄、藏红花粉(kunkuma)、朱砂(sindūra)与眼膏(kajjala);又有发饰(kūrpāsaka)、槟榔叶与吉祥的婚饰——皆为贞顺之妻所当奉持的圣洁瑞相。
Verse 25
केशसंस्कारकबरी करकर्णादिभूषणम् । भर्त्तुरायुष्यमिच्छंती दूरये न्न पतिव्रता
贞顺之妻,为求夫君长寿,不会弃置应有的梳饰与发辫,也不舍去手饰、耳饰等诸般饰物。
Verse 26
न रजक्या न हैतुक्या तथा श्रमणया न च । न च दुर्भगया क्वापि सखित्वं कुरुते सती
贤德之女不与洗衣女、唯利是图之女、女出家者(śramaṇī)结为密友,也不在任何处与不祥或品行不端之伴相交。
Verse 27
भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् । नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित्
她绝不与憎恨其夫之女交谈;亦不应在任何处独自停留;并且不应在任何地方裸身沐浴。
Verse 28
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि । न यंत्रकेन देहल्यां सती चोपविशेत्क्वचित्
贞淑之女不应坐在臼、杵、簸箕等筛簸之器,乃至磨石之上;也不应坐在织机之具或门槛之上——任何时候皆不可。
Verse 29
विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत् । यत्रयत्ररुचिर्भर्त्तुस्तत्र प्रेमवती सदा
除却夫妻合宜之时,她不应在任何处举止轻率放纵。凡夫君所喜所向之处,她恒常以爱与奉敬相随。
Verse 30
इदमेव व्रतं स्त्रीणामयमेवपरो वृषः । इयमेको देवपूजा भर्त्तुर्वाक्यं न लंघयेत
此即女子之唯一誓戒,此即其至上之法义(dharma)。此亦其唯一之敬神之礼:不可违越夫君之言。
Verse 31
क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा । सुस्थितं दुःस्थितं वापि पतिमेकं न लंघयेत
无论夫君羸弱无能,或遭厄运,或患病,或已年迈;无论得势安稳,或困顿受苦——她都不应离弃或违背这唯一之夫。
Verse 32
हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा । एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च
所爱欢喜时,她亦欢喜;所爱忧沉时,她亦忧沉。贤德之女心性如一,于顺境与逆境皆安住不动。
Verse 33
सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता । पतिं नास्तीति न ब्रूयादायासेषु न योजयेत्
即使酥油、盐、油等都已耗尽,守贞敬夫之妻也不应说:“没有丈夫可依。”亦不应使丈夫承担劳苦重担。
Verse 34
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् । शंकरादपि विष्णोर्वा पतिरेकोधिकः स्त्रियाः
渴求在圣地(tīrtha)沐浴功德的女子,应饮用洗涤其夫足部之水。因为对女子而言,在家居之法(dharma)中,丈夫被视为比商羯罗(Śaṅkara)乃至毗湿奴(Viṣṇu)更为至上。
Verse 35
व्रतोपवासनियमं पतिमुल्लंघ्य या चरेत् । आयुष्यं हरते भर्त्तुर्मृता निरयमृच्छति
若女子违越其夫之权而行誓愿、斋戒或诸般戒律,据说会损减丈夫的寿命;其身死后,亦堕入地狱。
Verse 36
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा । सरमा जायते ग्रामे सृगाली निर्जने वने
女子若被人言及便顶撞回嘴,且专注于嗔怒,则将再生为村落中的母狗,或荒僻森林中的母豺。
Verse 37
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ऽ । अभ्यर्च्य चरणौ भर्त्तुर्भोक्तव्यं कृतनिश्चयम्
对女子而言,宣说有一条至上之规:当先如法礼敬丈夫之足,然后方可进食,并当坚定安住于此戒行。
Verse 38
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु । न त्रपाकर वाक्यानि वक्तव्यानि कदाचन
她不应贪求高座,也不应进入他人之家;更不可在任何时候说出无耻或失于端庄之言。
Verse 39
अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत् । गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वा हसेत्
她不可出言诽谤,应远离争斗。在长者与师长面前,不可高声言语,也不可放声大笑。
Verse 40
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः । उलूकी जायते क्रूरा वृक्षकोटरशायिनी
那心术不正、弃夫而暗中游走的女子,将再生为凶残的雌鸮,栖卧于树洞之中。
Verse 41
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका । कटाक्षयतियाऽन्यं वै केकराक्षी तु सा भवेत
女子虽被击打却欲反击者,将化生为咬噬公牛的母虎;而以情欲斜目窥视他男者,则将变为斜视之眼。
Verse 42
या भर्तारं परित्यज्य मिष्टमऽश्नाति केवलम् । ग्रामे वासकरी भूयाद्वल्गुर्वापि श्वविट्भुजा
那弃夫而唯食甘美之肴的女子,将在村落中再生为“vāsakarī”,或复生为“valgū”——以犬粪为食者。
Verse 43
या त्वं कृत्याऽप्रियं ब्रूते मूका सा जायते खलु । या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनःपुन्ः
然而,那习惯说出刺耳不悦之语的女子,确实会转生为哑者。那不断嫉妒共妻者,便屡屡转生为不幸之人。
Verse 44
दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते । काणा च विमुखी चापि कुरूपा चापि जायते
妻子若移开对丈夫的目光而注视他人男子,其果报是转生为独眼,性情背离,乃至形貌丑陋。
Verse 45
बाह्यादायांतमालोक्य त्वरिता च जलाशनैः । तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः
见丈夫自外归来,她应迅速侍奉:以水与饮食,以槟榔叶之嚼物,以扇拂清风,并以足部按摩等诸般服侍。
Verse 46
तथैव चाटुवचनैः खेदसंनोदनैः परैः । या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया
同样地,以柔美之言与诸般消除疲惫之行,那欢喜取悦所爱之女子,由此亦令三界欢悦。
Verse 47
मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्त्तारं पूजये त्सदा
父亲所施有度,兄长所施有度,儿子所施亦有度;唯有丈夫为施予无量者,是故她应恒常敬奉其夫。
Verse 48
भर्ता देवो गुरुर्भर्ता धर्म तीर्थ व्रतानि च । तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत
对她而言,丈夫即是神,丈夫即是上师;丈夫亦是法(dharma)、诸圣地(tīrtha)与诸誓愿。故当舍离余事,唯独礼敬供奉其夫。
Verse 49
जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् । भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा
正如失去生命的身体顷刻便成不净,如是无夫之女,即便沐浴洁净,亦被视为恒常不净。
Verse 50
अमंगलेभ्यः सर्वेभ्यो विधवा त्यक्तमंगला । विधवा दर्शनात्सिद्धिः क्वापि जातु न जायते
在一切不祥之中,寡妇因失吉祥而被列为不祥;仅仅见到寡妇,便说无论何处何时,成就都不曾生起。
Verse 51
विहाय मातरं चैकां सर्वमंगलवर्जिताम । तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम
唯有母亲一人当被尊崇而别置;除此之外,智者甚至应摒弃那全无吉祥者的祝福,视之如同毒蛇一般。
Verse 52
कन्याविवाहसमये वाचयेयुरिति द्विजाः । भर्तुः सहचरी भूयाज्जीवतोऽजीवतोपिवा
在少女出嫁之时,二次生者(dvija)应令诵曰:“愿她为其夫之伴侣——无论夫君在世,抑或不在世。”
Verse 53
भर्ता सदानुयातव्यो देहवच्छायया स्त्रिया । चंद्रमा ज्योत्स्नया यद्वद्विद्युत्वान्विद्युता यथा
女子应恒常随侍其夫,如影随身;正如明月伴随月光,闪电伴随其光辉。
Verse 54
अनुव्रजति भर्तारं गृहात्पितृवनं मुदा । पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम
若女子欢喜随夫自家宅至祖灵林(pitṛvana),则每一步都得与马祭(Aśvamedha)同等之功德,毫无疑问。
Verse 55
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात । एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं नयेत्सती
如捕蛇者以力自穴中牵出毒蛇,如是贞烈的贤妻(satī)奋起抗拒诸使者,引其夫入天界。
Verse 56
यमदूताः पलायंते सतीमालोक्य दूरतः । अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम्
阎摩之使者远远见到贞节贤妻(satī)便逃遁,甚至舍弃其夫,即便那丈夫曾作恶业。
Verse 57
न तथा बिभीमो वह्नेर्नतथा विद्युतो यथा । आपतंतीं समालोक्य वयं दूताः पतिव्रताम्
我们这些使者并不如惧火与雷电那般惧怕;一见贞顺的持夫戒者(pativratā)奔向我们,便更为惊惧。
Verse 58
तपनस्तप्यतेत्यंतं दहनोपि च दह्यते । कंपंते सर्व तेजांसि दृष्ट्वा पातिव्रतं महः
太阳也被灼烧至极,连火焰亦似被焚;诸般光辉之力见到由贞顺妻德所生的大光明,皆为之战栗。
Verse 59
यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च । भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता
她身上有多少毫毛,便有多少亿与千万年:那守贞尽礼的妻子欢喜无量,与夫同享天界之乐。
Verse 60
धन्या सा जननी लोके धन्योसौ जनकः पुनः । धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता
世间有福的是那母亲,那父亲亦复有福;其家中住有贞顺之妻者,那位尊贵的丈夫也同样有福。
Verse 61
पितृवंश्यामातृवंश्याःपतिवंश्यास्त्रयस्त्रयः । पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते
父系三代、母系三代、夫系三代,皆因那贞顺妻子的福德而享受天界安乐。
Verse 62
शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् । पितुर्मातुस्तथापत्युरिहामुत्र च दुःखिताः
因毁坏德行,行止不端者使父族、母族与夫族三家蒙羞坠落,并在此世与后世皆受忧苦。
Verse 63
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् । तत्रेति भूमिर्मन्येत नात्र भारोस्तिपावनी
凡贞顺持戒之妻(pativratā)之足所触大地之处,大地皆认彼处为吉祥;因彼处无负担——她本身即为净化者。
Verse 64
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि । सोमो गंधवहश्चापि स्वपावित्र्याय नान्यथा
连苏利耶(Sūrya,日神)亦怀敬畏而求贞顺之妻(pativratā)之触;苏摩(Soma,月神)与甘达瓦哈(Gandhavaha,风神)亦复如是——唯为自净,别无他因。
Verse 65
आपः पतिव्रता स्पर्शमभिलष्यंति सर्वदा । अद्य जाड्यविनाशो नो जातास्त्वद्याऽन्यपावनाः
诸水恒常渴慕贞顺之妻(pativratā)之触。今日我等昏钝尽灭;今日我等得以清净——诚然,清净胜过诸余净化者。
Verse 66
गृहेगृहे न किं नार्यो रूपलावण्यगर्विताः । परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता
家家岂无自恃姿容与艳丽之女?然真正的贞顺之妻(pativratā),唯由对毗湿维沙(Viśveśa,湿婆)之虔敬而得,别无他途。
Verse 67
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च । भार्या धर्मफला भार्या सं तानवृद्धये
妻为居家者生命之根;妻亦为安乐之根。妻能结就达摩之果,妻亦为宗族绵延增长之所依。
Verse 68
परलोकस्त्वयं लोको जीयते भार्यया द्वयम् । देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति
此世与来世,实由妻子而得胜。无妻之人,不堪行诸仪轨:礼敬诸天(deva)、供奉祖先、恭敬宾客等。
Verse 69
गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता । ग्रसतेऽन्या प्रतिपदं राक्षस्या जरयाथवा
唯有其家中有守夫誓的贞妇(pativratā)者,方可称为真正的居家者(gṛhastha)。否则,日复一日,另一个——如化作衰老的罗刹女(rākṣasī)——吞噬其家。
Verse 70
यथा गंगाऽवगाहेन शरीरं पावनं भवेत् । तथा पतिव्रता दृष्ट्या शुभया पावनं भवेत्
如同入浴恒河(Gaṅgā)能净化身体,亦如是,得见守夫誓者(pativratā)吉祥之目光,便能得净。
Verse 71
अनुयाति न भर्तारं यदि दैवात्कथंचन । तत्रापि शीलं संरक्ष्यं शीलभंगात्पतत्यधः
若因命运使然,她无论如何不能随从其夫,即便如此,也当守护其品行(śīla);因为破坏品行,便会堕落下沉。
Verse 72
तद्वैगुण्यादपिस्वर्गात्पतिः पतति नान्यथा । तस्याः पिता च माता च भ्रातृवर्गस्तथैव च
由于那般过失(在其品行中),连丈夫也会从天界堕落——别无他因。她的父亲、母亲,以及同样她的诸兄弟亲族,也会受到牵连。
Verse 73
पत्यौ मृते च यायोषिद्वैधव्यं पालयेत्क्वचित् । सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते
当丈夫逝去时,女子若虔诚守持寡居之戒,便能再得其夫,并享受天界的种种妙乐。
Verse 74
विधवा कबरीबंधो भर्तृबंधाय जायते । शिरसो वपनं तस्मात्कार्यं विधवया सदा
对寡妇而言,束起发髻被说成会成为对亡夫的系缚;因此寡妇应当常行剃发之仪。
Verse 75
एकाहारः सदा कार्यो न द्वितीयं कदाचन । त्रिरात्रं पंचरात्रं वा पक्षव्रतमथापि वा
应当恒常守持一日一食,绝不再食第二次;或可受持三夜之誓、五夜之誓,乃至半月之行持。
Verse 76
मासोपवासं वा कुर्याच्चांद्रायणमथापि वा । कृच्छ्रं वराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा
或可行持一月断食,或受持月行之誓(Cāndrāyaṇa);亦可修苦行Kṛcchra、行持Varāka之律,乃至修热苦行Taptakṛcchra。
Verse 77
यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत्
以大麦之食、果食、菜食或乳誓来维系生命,应当继续这生命之息的行旅——直到气息(prāṇa)自然而然离去。
Verse 78
पर्यंकशायिनी नारी वि धवा पातयेत्पतिम् । तस्माद्भूशयनं कार्यं पतिसौख्यसमीहया
经言:寡妇若卧于床榻,便会招致亡夫之堕落。故为求夫君安乐福祉,当以地为席而眠。
Verse 79
न चांगोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् । गंधद्रव्यस्य संयोगो नैव कार्यस्तया पुनः
寡妇亦不应于任何时候以油膏摩身作妆饰;同样,也不应再使用香料与香物。
Verse 80
तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः । तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम
当每日以掺和库沙草与芝麻之水,为夫行作“塔尔帕那”(tarpaṇa)祭供;亦当如是为其父与其祖父行之,并先依仪称念姓名、族姓(gotra)等。
Verse 81
विष्णोस्तु पूजनं कार्यं पति बुद्ध्या न चान्यथा । पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम्
当以“毗湿奴即我夫君”之心而礼拜毗湿奴,不可作他想。应恒常观想夫君本身,即具毗湿奴之形相的哈利(Hari)。
Verse 82
यद्यदिष्टतमं लोके यच्च पत्युः समीहितम् । तत्तद्गुणवते देयं पतिप्रीणनकाम्यया
世间所最珍爱之物,以及夫君所曾希求之事物——皆当施与德行具足之人,以求令夫君欢喜。
Verse 83
वैशाखे कार्तिके माघे विशेषनियमांश्चरेत् । स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः
在毗舍佉月(Vaiśākha)、迦底迦月(Kārtika)与摩伽月(Māgha),应修持殊胜戒行:沐浴净身、布施、朝礼诸圣渡口(tīrtha),并屡屡称念毗湿奴(Viṣṇu)圣名。
Verse 84
वैशाखे जलकुंभांश्च कार्तिके घृतदीपकाः । माघे धान्य तिलोत्सर्गः स्वर्गलोके विशिष्यते
在毗舍佉月,施赠水罐;在迦底迦月,供奉酥油灯;在摩伽月,布施谷粮与芝麻——此等功德尤为殊胜,能招感高妙天界之果报。
Verse 85
प्रपा कार्या च वैशाखे देवे देया गलंतिका । उपानद्व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम्
在毗舍佉月,应设立施水棚(prapā),以济行人;礼拜供养时,当献水滤(galaṃtikā)。亦应布施鞋履、扇、伞、细软衣服与檀香。
Verse 86
सकर्पूरं च तांबूलं पुष्पदानं तथैव च । जलपात्राण्यनेकानि तथा पुष्प गृहाणि च
又当布施掺有樟脑的槟榔叶供品,并施花供花;亦施多种盛水器皿,以及贮花、供花之所(花舍)。
Verse 87
पानानि च विचित्राणि द्राक्षा रंभा फलानि च । देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति
当以种种清凉饮品、葡萄、香蕉与诸果,布施于尊贵的婆罗门,并祈愿曰:“愿我主欢喜。”
Verse 88
ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः । वृंताकं सूरणं चैव शूकशिंबिं च वर्जयेत्
在乌尔迦月(迦尔提迦月)中,应食大麦之食,或每日仅一餐。应避开茄子、象足薯(sūraṇa),以及豆类与荚果(śūka-śimbi)。
Verse 89
कार्तिके वर्जयेत्तैलं कार्तिके वर्जये न्मधु । कार्तिके वर्जयेत्कांस्यं कार्तिके चापिसंधितम्
在迦尔提迦月,应避油;在迦尔提迦月,应避蜜。于迦尔提迦月,应避钟铜(kāṃsya);并且在迦尔提迦月,也应避“合成之物”(saṃdhita),即混合、拼合的饮食制品。
Verse 90
कार्तिके मौननियमे घंटां चारु प्रदापयेत । पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति
在迦尔提迦月,行持默语之戒时,应供献一口庄美之铃(奉于神祇或寺院)。又,若以叶为器而食者,当布施一只钟铜器皿,内盛酥油(ghee)。
Verse 91
भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका । फलत्यागे फलं देयं रसत्यागे च तद्रसम्
若受持卧地之誓,应施与一张平滑之床,并具褥与铺陈。若舍离果品,当施果品;若舍离诸汁饮,当施与其汁。
Verse 92
धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः । धेनूर्दद्यात्प्रयत्नेन सालंकाराः सकांचनाः
若舍离谷粮,当施与彼谷粮;或如所传,当施粳稻之米(śāli)。又当殷勤布施一头母牛,装饰庄严,并随以黄金,为上妙之施。
Verse 93
एकतः सर्वदानानि दीपदानं तथैकतः । कार्तिके दीपदानस्य कलां नार्हंति षोडशीम्
一边是诸般布施,另一边是供灯之施。在迦尔提迦月,其他一切施舍,连供灯功德的十六分之一也不及。
Verse 94
किंचिदभ्युदिते सूर्ये माघस्नानं समाचरेत् । यथाशक्त्या च नियमान्माघस्नायी समाचरेत्
当太阳刚刚升起些许时,应当行“摩伽浴”。修持摩伽浴者,应依自身能力遵守所规定的戒律与行持。
Verse 95
पक्वान्नैर्भो जयेद्विप्रान्यतिनोपि तपस्विनः । लड्डुकैः फेणिकाभिश्च वटकेंडरिकादिभिः
以熟食供施,应当恭敬并使婆罗门欢喜,也应供养出家修行者及诸苦行者——以拉杜甜团、pheṇikā酥甜、以及vaṭaka、eṇḍarikā等同类供品为施。
Verse 96
घृतपक्वैः समीरचैः शुचिकर्पूरवासितैः । गर्भे शर्करया पूर्णैर्नेत्रानं दैः सुगंधिभिः
以酥油所煮之甜食——清净芬芳,并以樟脑熏香——内里充满砂糖,以及其他同类芳香供品,应当如法布施供养。
Verse 97
शुष्केंधनानां भारांश्च दद्याच्छीतापनुत्तये । कंचुकं तूलगर्भं च तूलिकां सूपवीतिकाम्
为驱除寒冷,应施与成捆的干柴;并施与上衣、内填棉絮之衣、一个小枕垫,以及可御寒的披覆之物。
Verse 98
मंजिष्ठा रक्तवासांसि तथा तूलवतीं पटीम् । जातीफल लवंगैश्च तांबूलानि बहून्यपि
亦当供奉曼吉什塔(茜草)、红色衣服与棉布;并献上许多槟榔供品,兼以肉豆蔻与丁香。
Verse 99
कंबलानि विचित्राणि निर्वातानि गृहाणि च । मृदुलाः पादरक्षाश्च सुगंध्युद्वर्त्तनानि च
当施与绚丽的毯子、避风的居所(或住宿)、柔软护足之履,以及芬芳的涂身粉膏。
Verse 100
घृतकंबलपूजाभिर्महास्नानपुरःसरम् । कृष्णागुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः
以酥油与毯子之供养而行礼,先行盛大沐浴;并在圣所内以黑沉香等熏香薰馥,如是完成仪轨。
Verse 110
इदं पातिव्रतं तेजो ब्रह्मतेजो भवान्परम् । तत्राप्येतत्तपस्तेजः किमसाध्यतमं तव
此贞妇之光辉乃为神采;汝以梵之光辉而至上。更复其上,此乃苦行(tapas)所生之光——于汝而言,何事真为最不可成?
Verse 120
साधयिष्यामि वः कार्यं विसर्ज्येति दिवौकसः । पुनश्चिंतापरो भूत्वाऽगस्तिर्ध्यानपरोभवत्
“我将成就汝等之事;汝等可去。”他对天界诸神如是言。随后他复归沉思,阿迦斯提耶入于深妙禅定(dhyāna)。
Verse 121
वेदव्यास उवाच । इमं पतिव्रताध्यायं श्रुत्वा स्त्रीपुरुषोपिवा । पापकंचुकमुत्सृज्य शक्रलोकं प्रयास्यति
毗耶娑说:无论女子或男子,若聆听此《贞顺(pātivratya)》之章,脱去罪业之衣,便将到达释迦罗(因陀罗)之界。