Adhyaya 19
Kashi KhandaPurva ArdhaAdhyaya 19

Adhyaya 19

本章以层层递进的对话与示范故事展开,核心人物为德鲁瓦(Dhruva)。开篇有人观见一位光辉而坚定不移的存在,宛如支撑并衡量宇宙的标尺,于是随从诸众(gaṇa)讲述德鲁瓦的来历:他出自自生摩奴(Svāyambhuva Manu)与乌塔那帕达王(Uttānapāda)的世系;宫中苏尼蒂(Sunīti)与苏茹琪(Suruci)两位王后地位有别;并有朝廷一幕,德鲁瓦当众被拒,不许登上父王膝座/王座之位,受辱于众。 随后转入伦理与心性的开示。苏尼蒂以业力因果与累积福德解释荣辱,劝其收摄情绪、忍耐自持,安受果报,知其与往昔所作相系。德鲁瓦则以修苦行(tapas)的决心回应,只求母亲准许与祝福,以追求更高的成就。 他入林修行,遇见七圣(Saptarṣi)。诸圣询问其出离之因,听毕其事,阿特里(Atri)引导他将志愿转向虔敬:宣示戈文达/瓦苏德瓦(Govinda/Vāsudeva)莲足为至上归依,并以持诵(japa)为成就世间与出世间目标之道。诸圣离去后,德鲁瓦以瓦苏德瓦为中心继续苦行,呈现从社会创痛走向严整灵修誓愿的主题脉络。

Shlokas

Verse 1

शिवशर्मोवाच । तिष्ठन्नेकेन पादेन कोयं भ्रमति सत्तमौ । अनेकरशनाव्यग्र हस्ताग्रो व्यग्रलोचनः

湿婆舍曼(Śivaśarman)说道:“噢,诸善中最胜者,此人是谁——独足而立却四处游走,众多绳带纷乱摇动,双手前伸,目光不安?”

Verse 2

त्रिलोकीमंडपस्तंभ सन्निभोभाभिरावृतः । अतुलं ज्योतिषां राशिं तुलया तुलयन्निव

他宛如三界曼荼罗殿堂的一根巨柱,被光辉所环绕;仿佛正以天平衡量那不可计量的诸天光明之聚。

Verse 3

सूत्रधार इव व्योम व्यायामपरिमापकः । त्रैविक्रमोंघ्रिदंडो वा प्रोद्दंडो गगनांगणे

他如同舞台的总管丈量苍穹的广袤,伫立于天庭的院落之中——宛若三步神(Trivikrama)足之高举杖柱。

Verse 4

अथवांबरकासारसारयूपस्वरूपधृक् । कोयं कथय तं देवौ कृपया परया मम

又或者,他呈现为高耸的祭柱,乃苍穹光辉之精髓。请告知我吧,诸位天神——以至大慈悲——此人究竟是谁?

Verse 5

निशम्येति वचस्तस्य वयस्यस्य विमानगौ । प्रणयादाहतुस्तस्मै ध्रुवां ध्रुवकथां गणौ

二人听罢同伴之言,乘天车而行的两位侍从,怀着亲爱之情,向他讲述了坚贞不移的德鲁瓦(Dhruva)之事。

Verse 6

गणावूचतुः । मनोः स्वायंभुवस्यासीदुत्तानचरणः सुतः । तस्य क्षितिपतेर्विप्र द्वौ सुतौ संबभूवतुः

两位侍从说道:“自生者摩奴(Svāyambhuva Manu)生有一子,名乌塔那帕达(Uttānapāda)。婆罗门啊,那位大地之王又生了两个儿子。”

Verse 7

सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो परः । मध्ये सभं नरपतेरुपविष्टस्य चैकदा

由苏鲁琪(Suruci)生下长子乌塔摩(Uttama);由苏尼蒂(Sunīti)生下另一子德鲁瓦(Dhruva)。有一次,国王端坐于会众之中……

Verse 8

सुनीत्या राजसेवायै नियुक्तोऽलंकृतोर्भकः । ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः

奉苏尼蒂之命入王宫侍奉,装饰华美的幼童德鲁瓦,专心守礼行善,与达特雷伊迦之子们一同服侍。

Verse 9

स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह । दृष्ट्वोत्तमं तदुत्संगे निविष्टं जनकस्य वै

他走近大地之主——乌塔那帕达王——俯首顶礼。见尊贵的幼子乌塔摩安坐在父王膝上,他便明白那份恩宠所归。

Verse 10

प्रोच्चसिंहासनस्थस्य नृपतेर्बाल्यचापलात् । आरोढुकामस्त्वभवत्सौनीतेयस्तदा ध्रुवः

因童稚之轻率,苏尼蒂之子德鲁瓦当时竟想攀上国王那高高的宝座。

Verse 11

आरुरुक्षुमवेक्ष्यामुं सुरुचिर्धुवमब्रवीत् । दौर्भगेय किमारोढुमिच्छेरंकं महीपतेः

见他将要攀登,苏鲁琪对德鲁瓦说道:“不幸者啊,你为何想登上君王的膝上?”

Verse 12

बालबालिशबुद्धित्वादभाग्या जठरोद्भव । अस्मिन्सिंहासने स्थातुं न त्वया सुकृतं कृतम्

“因孩童般的愚昧啊,腹中所生的不幸者,你未曾修得功德,怎配立于此宝座之上?”

Verse 13

यदि स्यात्सुकृतं तत्किं दुर्भगोदरगोऽभवः । अनेनैवानुमानेन बुध्यस्व स्वाल्पपुण्यताम्

“若你真有功德,为何会出自‘不幸之胎’而生?就凭此推断,当知你福业(puṇya)之微薄。”

Verse 14

भूत्वा राजकुमारोपि नालंकुर्या ममोदरम् । सुकुक्षिजममुं पश्य त्वमुत्तममनुत्तमम्

“纵然你是王子,也不配来荣耀我的膝上。你且看这位乌塔玛(Uttama)——至上无比——出自我吉祥之胎。”

Verse 15

अधिजानुधराजानेर्मानेन परिबृंहितम् । प्रांशोः सिंहासनस्यास्य रुचिश्चेदधिरोहणे

那高耸的宝座——高过国王膝上——因其威仪而更显森严;苏鲁琪(Suruci)也以抬举此座为乐,仿佛那是应当登临的尊位。

Verse 16

कुक्षिं हित्वा किमवसः सुरुचेश्च सुरोचिषम् । मध्ये भूपसभं बालस्तयेति परिभर्त्सितः

他离开膝上,那孩子——被苏鲁琪以锋利的光彩般言辞斥责——就在王廷众会之中受辱蒙羞。

Verse 17

पतन्निपीतबाष्पांबुर्धैर्यात्किंचिन्न चोक्तवान् । उचिताऽनुचितं किंचिन्नोचिवान्सोपि पार्थिवः

他退去时强咽泪水;然而凭着坚忍,竟一句不言。国王亦复沉默,不说应说之语,也不说不应说之语。

Verse 18

नियंत्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् । विमृज्य च सभालोकं शोकं संमृज्य चेष्टितैः

他被王后所约束——因她所蒙宠幸之福的威重——便收摄其心;环顾会众,并以外在举止竭力拭去忧伤。

Verse 19

शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ । सुनीतिर्नीतिनिलयमवलोक्याथ बालकम्

那幼童以孩提的纯朴礼仪向国王顶礼,回到自家居处。随后,苏尼蒂见到她的孩子——善行之所依——便细细端详。

Verse 20

सुखलक्ष्म्यैवचाज्ञासीद्ध्रुवं समवमानितम् । अभिसृत्य च तं बालं मूर्ध्न्युपाघ्राय सा सकृत्

凭他安乐与光彩的消退,她便知达鲁瓦受了侮辱。她急趋至童子前,轻嗅并亲吻了一次他的头顶。

Verse 21

किंचित्परिम्लानमिव ससांत्वं परिषस्वजे । अथ दृष्ट्वा सुनीतिं स रहोंतः पुरवासिनीम्

见他似略显萎顿,她以安慰之语拥抱他。随后,他见到住在宫中内室的苏尼蒂,便私下走近她。

Verse 22

दीर्घं निःश्वस्य बहुशो मातुरग्रे रुरोद ह । सांत्वयित्वाश्रुनयना वदनं परिमार्ज्य च

他长长叹息,反复不已,在母亲面前哭泣。她泪眼盈盈地安慰他,并拭去他脸上的泪痕。

Verse 23

दुकूलांचल संपर्कैर्मृदुलैर्मृदुपाणिना । पप्रच्छ तनयं माता वद रोदनकारणम् । विद्यमाने नरपतौ शिशो केनापमानितः

母亲以柔软之手,轻触他细衣的衣缘,问其子曰:“告我汝哭之因。国王在此,谁敢辱此孩童?”

Verse 24

अपोथसमुपस्पृश्य तांबूलं परिगृह्य च । मात्रा पृष्टः सोपरोधं ध्रुवस्तां पर्यभाषत

他漱口毕,取槟榔而含;母亲问之,德鲁瓦便以抑而不发的愤懑答复于她。

Verse 25

संपृच्छे जननि त्वाहं सम्यक्शंस ममाग्रतः । भार्यात्वेपि च सामान्ये कथं सा सुरुचिः प्रिया

“母亲,我问汝——当面明言于我:同为王妃,何以苏露琪独为(王之)所爱?”

Verse 26

कथं न भवती मातः प्रिया क्षितिपतेरसि । कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः

“母亲,汝何以不为大地主宰所爱?又何以苏露琪之子优多摩得居上位、成其卓越?”

Verse 27

कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः । कथं त्वं मंदभाग्यासि सुकुक्षिः सुरुचिः कथम्

“同为王子,何以我不为‘优多摩’——至上者?何以母亲汝福分浅薄,而苏露琪却胎藏吉祥、福泽更盛?”

Verse 28

कथं नृपासनं योग्यमुत्तमस्य कथं न मे । कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम्

“为何王座适合乌塔玛,却不适合我?为何我的功德卑微,而乌塔玛的功德却至为卓绝?”

Verse 29

इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः । किंचिदुच्छ्वस्य शनकैः शिशुकोपोपशांतये

听了他的话,善尼提——通达治世之道者——稍作停顿,轻轻舒了一口气,意在一点点平息孩子渐起的怒火。

Verse 30

स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे । सापत्नं प्रतिघं त्यक्त्वा राजनीतिविदांवरा

那位最通晓王道伦理者,以她天性柔和的声音开口,放下嫉争之刺与反击之念。

Verse 31

सुनीतिरुवाच । अयि तात महाबुद्धे विशुद्धेनांतरात्मना । निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः

善尼提说:“亲爱的孩子,具大智慧者啊,以清净的内心聆听。我将把一切告诉你;莫令心念执著于羞辱。”

Verse 32

तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा । सापत्युर्महिषीराज्ञो राज्ञीनामति वल्लभा

“她所说的一切全然真实,并无他途。她确是国王的正妃,在诸王后之中尤为宠爱。”

Verse 33

तया जन्मांतरे तात यत्पुण्यं समुपार्जितम् । तत्पुण्योपचयाद्राजा सुरुच्यां सुरुचिर्भृशम्

孩子啊,她在前世所积累的一切功德——正因那功德日益增长,国王才深深倾心于苏鲁琪(Surucī)。

Verse 34

मादृश्यो मंदभाग्यायाः प्रमदासु प्रतिष्ठिताः । केवलं राजपत्नीत्ववादस्तासु न तद्रुचिः

像我这般薄命的女子,或可立身于宫中嫔妃之列;然而对她们而言,不过是“王后”之名号——其中并无真正的欢悦与眷顾。

Verse 35

महा सुकृतसंभारैरुत्तमश्चोत्तमोदरे । उवास तस्याः पुण्या या नृपसिंहासनोचितः

凭借无量善业的积聚,最上等的福分安住于她那高贵的命数——她的功德确实堪当王者之座。

Verse 36

आतपत्रं च चंद्राभं शुभे चापि च चामरे । भद्रासनं तथोच्चं च सिंधुराश्च मदोद्धुराः

月光般明亮的王伞,吉祥的牦牛尾拂尘,高大华美的宝座,以及来自信度(Sindhu)的发情骄象——(诸般尊荣皆随侍于她)。

Verse 37

तुरंगमाश्च तुरगास्त्वनाधिव्याधिजीवितम् । निःसपत्नं शुभं राज्यं प्राज्यं हरिहरार्चनम्

骏马与疾驰良驹,远离忧患与疾病的生命,无敌而吉祥的国度,丰饶的昌盛——并且礼敬哈利与哈拉(毗湿奴与湿婆)——(这一切皆归于她)。

Verse 38

विपुलं च कलाज्ञानमधीतमपराजितम् । तथा जयोरिषड्वर्गे स्वभावात्सात्त्विकी मतिः

广博的诸艺之学,不可战胜的修学;战胜内在六敌,并且天性具足萨埵(sāttvika)之清净光明的心性——这些亦为她所具。

Verse 39

दृष्टिः कारुण्यसंपूर्णा वाणी मधुरभाषिणी । अनालस्यं च कार्येषु तथा गुरुजने नतिः

目光充满悲悯,言语柔和甘美;于本分之事不懈怠,并对长者与师长谦恭礼敬——此等被称赞为高贵之人之法相(dharmic marks)。

Verse 40

सर्वत्र शुचिता तात सा परोपकृतिः सदा । और्जस्वला मनोवृत्तिः सदैवादीनवादिता

于一切处皆清净,恒常利益他人;心行充满精进之光,且从不以卑鄙刻薄之语发言——亲爱的,这些被视为长存之德。

Verse 41

सदोजिरे च पांडित्यं प्रागल्भ्यं चरणांगणे । आर्जवं बंधुवर्गेषु काठिन्यं क्रयविक्रये

学识与恒常的精进相应;于自身行事之境具足干练与自信;在亲族之间坦率正直;于买卖交易中坚决稳重——这些被计为随顺正法之世间实用之德。

Verse 42

मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च । ब्राह्मणेभ्यो भयं नित्यं वृद्धवृत्त्युपजीवनम्

与女子交往时温柔和顺,对所抚育之众与人民怀慈爱;常以敬畏之心自持于婆罗门之前,并依循长者所守的清白生计而生活——这些被赞为合乎正法的品德。

Verse 43

वासो भागीरथीतीरे तीर्थे वा मरणं रणे । अपराङ्मुखताऽर्थिभ्यः प्रत्यर्थिभ्यो विशेषतः

居于婆伽罗提河(Bhāgīrathī)之岸,或在圣洁渡口舍身,或战阵中捐躯;并且对求助者永不背转身——尤其在对敌之时——此皆被称颂为勇德与法(dharma)的标志。

Verse 44

भोगः परिजनैः सार्धं दानावंध्यदिनागमः । विद्याव्यसनिता नित्यं नित्यं पित्रोरुपस्थितिः

与家人眷属同享福乐;日子不虚度而必行布施;恒常勤学乐学;并且常常侍奉父母——这些被赞为居家者的法(dharma)之美德。

Verse 45

यशसः संचयो नित्यं नित्यं धर्मस्य संचयः । स्वर्गापवर्गयोः सिद्धिः सदा शीलस्य मंडनम्

善名日益增长,法(dharma)不断积聚;得生天界,乃至证得解脱;高贵品行恒常庄严——此乃正行之果报。

Verse 46

सद्भिश्च संगतिर्नित्यं मैत्री च पितृमित्रकैः । इतिहासपुराणानामुत्कंठा श्रवणे सदा

常与善人相交;亦与父亲之友结为友善;并恒怀渴慕,乐听《伊提哈萨》(史诗传说)与《普拉那》(Purāṇa)——此皆被称颂为护持法(dharma)之依止。

Verse 47

विपद्यपि परं धैर्यं स्थैर्यं संपत्समागमे । गांभीर्यं वाग्विलासेषु औदार्यं पात्रपाणिषु

遭难之时具至上勇毅;得福之际守坚定不移;戏语之间不失庄重深沉;对配受者伸手求助则慷慨施与——此皆被尊为正直之人的中和美德。

Verse 48

देहे परैका कृशता तपोभिर्नियमैर्यमैः । एतैर्मनोरथफलैः फलत्येव तपोद्रुमाः

在身体上,苦行、戒律与自制所显现的或许只是消瘦这一果报;然而,修持之“苦行树”(tapas)必定结果,由此赐予所愿之果与内在成就。

Verse 49

तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते । प्राप्यापि राजसांनिध्यं राजलक्ष्म्या न भाजनम्

因此,贤慧之人啊,由于你我苦行之力尚浅,即便得以亲近王者,也并非堪受王权真正光辉与福运的器皿。

Verse 50

मानापमानयोस्तस्मात्स्वकृतं कारणं परम् । स्रष्टापि नापमार्ष्टुं तत्परीष्टे स्वकृतां कृतिम् । मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत्

因此,荣与辱的至上原因在于自身所作之业。即使是造物主也不将其抹除,只是检验由自业所铸成的作为。故而莫悲伤,我儿——当受命定之事,并能奉献连你所爱之物。

Verse 51

इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत् । सौनीते यो ध्रुवोवाचमाददे वक्तुमुत्तरम्

如此听罢苏尼蒂那宏大而睿智之言,德鲁瓦——苏尼蒂之子——便开口作答。

Verse 52

ध्रुव उवाच । जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम् । मा बाल इति मत्वा मामवमंस्थास्तपस्विनि

德鲁瓦说:母亲苏尼蒂,请安然聆听我所言。莫因想着“他不过是个孩子”而轻视我,苦行的母亲啊。

Verse 53

यद्यहं मानवे वंशे जातोस्म्यत्यंत पावने । उत्तानपादतनयस्त्वदीयोदर संभवः

若我生于至为清净的摩奴族系——为乌塔那帕陀之子,亦由你胎藏而生——

Verse 54

तप एव हि चेन्मातः कारणं सर्वसंपदाम् । तत्तदासादितं विद्विपदमन्यैर्दुरासदम्

若确然,母亲啊,唯有苦行(tapas)是一切圆满与福祉之因,则彼等境地亦将得至——虽为他人难以企及之位。

Verse 55

एकमेव हि साहाय्यं कुरु मातरतंद्रिता । अनुज्ञा दानमात्रं च आशीर्भिरभिनंदय

母亲啊,只求你助我一事,莫再迟疑:赐我允诺,施与些许所能,并以吉祥祝祷为我加持。

Verse 56

सापि ज्ञात्वा महावीर्यं कुमारं कुक्षिसंभवम् । महत्योत्साहसं पत्त्या राजमानमुवाच तम्

她亦知此子由己胎生而具大勇力,又见其以充沛志气而光耀,便对他说道。

Verse 57

अनुज्ञातुं न शक्ताऽहं त्वामुत्तानशयांगज । साष्टैकवर्षदेशीयन्तथापि कथयाम्यहम्

我不能准许你啊,乌塔那舍耶之子;你不过约八岁。然而我仍将告诉你当行之事。

Verse 58

सपत्नीवाक्यभल्लीभिर्भिन्ने महति मे हृदि । तव बाष्पौघवारीणि न तिष्ठंति करोमि किम्

我的心被共妻言语的长矛深深刺伤;而你泪水的洪流仍不止息。我又能如何?

Verse 59

तानि मन्येऽत्र मार्गेण स्रवंत्यविरतं शिशो । स्रवंतीश्च चिकीर्षंति प्रतिकूल जलाः किल

“孩子,我想那些水正沿着这条路不息流淌;而在流动之时,仿佛还想逆流而上。”

Verse 60

त्वदेकतनया तात त्वदाधारैकजीविता । त्वमंगयष्टिरसि मे त्वन्मुखासक्तलोचना

“亲爱的孩子,你是我唯一的儿子;我唯靠你而活。你是支撑我身躯的杖,我的双眼紧系在你的面容上。”

Verse 61

लब्धोसि कतिभिः कष्टैरिष्टाः संप्रार्थ्य देवताः । त्वन्मुखेंदूदये तात मन्मनः क्षीरनीरधिः

“我的孩子,你是历经多少艰辛才得来——礼敬诸神、恳切祈求而得!当你面容之月升起时,我心便化作乳海。”

Verse 62

आनन्दपयसापूर्य कुचावुद्वेलितो भवेत् । त्वदंगसंगसंभूत सुखसन्दोह शीतला

“以喜悦之乳充盈,我的双乳将涌胀;由你肢体的触碰而生,汇聚的安乐化作清凉的洪流。”

Verse 63

सुखंशये सुशयने प्रावृत्य पुलकांबरम् । अपोऽथ समुपस्पृश्य तांबूलं परिगृह्य च

我愉快地躺在精致的床上,全身因激动而起鸡皮疙瘩。喝过水后,我又含起了槟榔。

Verse 64

त्वदास्यस्यौष्ठपुटक दुग्धवार्धि विवर्धिताम् । सुधासुधांशुवदनधयत्यपि धिनोमि न

噢,拥有甘露月容的人啊,即使吸吮着你那如乳海般丰盈的唇匣,我仍感到不知足。

Verse 65

त्वदीयः शीतलालापः प्राप श्रुतिपथं यदा । सपत्नीवाक्यदवथुस्तदैवत्यात्स वेपथुः

当你清凉温柔的话语传入我的耳中,就像平息了情敌言语引起的灼热高烧,我的颤抖立刻停止了。

Verse 66

यदंग निद्रासिचिरं ध्यायंत्यस्मि तदेत्यहम् । कदा निद्रा दरिद्रोसौ भवितार्कोदयेऽब्जवत्

以此,当你沉睡时,我久久地思念着你,心只向往着你。这可恶的睡眠何时才会像日出时的莲花一样离去?

Verse 67

यदोपेया गृहान्वत्स खेलित्वा बालखेलनैः । तदानर्घ्यार्घ्यमुत्स्रष्टुं स्तनौस्यातामिवोन्मुखौ

亲爱的孩子,当你玩完儿时的游戏回家时,我的双乳——仿佛要倾注无价的供品——高耸着,渴望给予。

Verse 68

यदा सौधाद्विनिर्यायाः पद्मरेखांकितं पदम् । प्राणानां ते यियासूनां तदा तदवलंबनम्

当你从宫殿走出,踏下那带有莲华纹理的足迹时,那一步便成了我将要离散之生命气息的依止与支撑。

Verse 69

यदायदा बहिर्यासि पुत्र त्रिचतुरं पदम् । तदातदा मम प्राणः कंठप्राघुणिकी भवेत्

每当你走到外面,我的孩子,哪怕只走三四步,就在那一刻,我的生命之气仿佛寄宿于喉间的客人,随时将离去。

Verse 70

चित्रं पुत्र त्वरयति यातुं मे मानसांडजः । सुधाधाराधर इव बहिश्चिरयति त्वयि

真是奇异啊,孩子:我心所生之鸟急欲飞去;然而它又如承载甘露之流的云,因你而在外徘徊不去。

Verse 71

अथ तिष्ठंतु कठिनाः प्राणाः कंठाटवीतटे । तपस्यंतोतिसंतप्तास्तपसे त्वयि यास्यति

那么,就让这坚硬的生命之息停驻在我喉之森林的岸边;在苦行之热中灼燃,它们将随你同赴你的修持。

Verse 72

इत्यनुज्ञामनुप्राप्य जननी चरणांबुजौ । क्षणं मौलिजजंबाल जडौ कृत्वा ध्रुवो ययौ

如是得母亲允诺后,德鲁瓦俯伏于母亲的莲华双足;以头顶发丝如网,令其双足片刻不动,随后便启程而去。

Verse 73

तयापि धैर्यसूत्रेण सुनीत्या परिगुंफ्य च । नेत्रेंदीवरजामाला ध्रुवस्योपायनीकृता

孙尼蒂亦以坚忍之线串联,将自莲华般双眼所生之泪编成花鬘,作为离别之礼奉献给德鲁瓦。

Verse 74

मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः । परैरवार्यप्रसराः स्वाशीर्वादाः परःशताः

于是为护佑其行途,母亲宣说无量祝福;其福德流布,任谁也无法阻遏。

Verse 75

स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः । अनुकूलेन मरुता दर्शिताध्वाऽविशद्वनम्

他离开自家宫殿;那童子虽幼而勇超童年,在顺风似指引道路之下,步入森林。

Verse 76

समरुत्तरुशाखाग्र प्रसारणमिषेण सः । कृताहूतिरिव प्रेम्णा वनेन वनमाविशत्

风拂树梢,枝条伸展如迎接;他更深入林中,宛如已行召请之祭,被森林自身的慈爱所牵引。

Verse 77

समातृदैवतोभिज्ञः केवलं राजवर्त्मनि । न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः

他只熟悉家中与母亲所奉之神祇,也只识王家大道;王子不知林间小径,便片刻沉思。

Verse 78

यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः । तावद्ददर्श सप्तर्षीनतर्कित गतीन्वने

德鲁瓦一睁开眼向前望去,便在林中见到七圣仙,其行止超越凡情所能想象。

Verse 79

वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत् । अरण्यान्यां रणे गेहे ततो भाग्यं हि कारणम्

当人只剩些微残余而全无援手时,福分(bhāgya)便成其助伴。无论在荒林、在战阵、或在家中——确然是福分为决定之因。

Verse 80

क्व राजतनयो बालो गहनं क्व च तद्वनम् । बलात्स्वसात्प्रत्कुर्वत्यै नमस्ते भवितव्य ते

一位幼小的王子在何处,那幽深可怖的密林又在何处?噫,不可抗拒的命运,以强力驱使万事前行者——向你致敬!

Verse 81

यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च । आकृष्यभाविनी रज्जुस्तत्र तस्य हि दापयेत

凡人所注定之事——吉亦或凶——都将他牵引至彼处,仿佛有一根绳索把他拉去一般。

Verse 82

अन्यथा विदधात्येष मानवो बुद्धिवैभवात् । भगवत्या भवित्र्याऽसौ विदध्याद्विधिरन्यथा

人凭才智之显发,或可如此筹划;然而命运之女神的神力,却使结局另作安排。

Verse 83

नवयो न च वै चित्र्यं न चित्रं विदधेहितम् । न बलं नोद्यमः पुंसां कारणं प्राक्कृतं कृतम्

既非青春,亦非机巧谋略,亦非奇妙器具,真能保全福祉;亦非力气与人之勤作是究竟因。唯有先前所作之业(宿业),方为决定之缘。

Verse 84

अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः । भाग्यसूत्रैरिवाकृष्योपनीतान्प्रमुमोद ह

于是他见到七位圣仙(七仙)——光辉胜过七轮太阳——便心生欢喜,仿佛他们是被福缘之线牵引而来。

Verse 85

तिलकांकित सद्भालान्कुशोपग्रहितांगुलीन् । कृष्णाजिनोपविष्टांश्च यज्ञसूत्रैरलंकृतान्

他见他们额头吉祥,点着提拉卡(tilaka);指间执持库沙草(kuśa);端坐于黑羚羊皮上,并佩戴神圣的祭线(yajñopavīta)。

Verse 86

साक्षसूत्रकरान्किंचिद्विनिमीलितलो चनान् । सुधौतसूक्ष्मकाषायवासः प्रावरणान्वितान

有的手持念珠,双目微阖,内观寂定;身着洗净细柔的赭色袈裟,并具端正的上衣披覆。

Verse 87

अकांडेपि महाभागान्मिलितान्सप्तनीरधीन् । चित्रं विपद्विनिर्मग्नानुद्दिधीर्षूनिव प्रजाः

奇哉!这些大福德者竟在无由之时亦相会聚——如七海汇合——仿佛欲拯拔沉没于灾厄中的众生。

Verse 88

उपगम्य विनम्रः स प्रबद्धकरसंपुटः । ध्रुवो विज्ञापयांचक्रे प्रणम्य ललितं वचः

他谦恭走近,合掌致敬;德鲁瓦俯首礼拜,继而以柔和而恭敬之语陈述。

Verse 89

ध्रुव उवाच । अवैत मां मुनिवराः सुनीत्युदरसंभवम् । उत्तानपादतनयं ध्रुवं निर्विण्णमानसम्

德鲁瓦说道:“诸位最胜牟尼,请知我名德鲁瓦,生于苏尼蒂之胎,为乌塔那帕达王之子;我心已厌离世间。”

Verse 90

इदं वनमनुप्राप्तं सनाथं युष्मदंघ्रिभिः । प्रायोनभिज्ञं सर्वत्र महर्द्ध्युषितमानसम्

“我来到此林,此处因你们圣足而得护佑与加持。我多半于诸事无知;心念仍栖于昔日王家盛富之中。”

Verse 91

ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम् । अनर्घ्यनयनेपथ्यं मृदुगंभीरभाषिणम्

见那孩童光辉灿然,性情甘美、形貌可喜,目所难得,言辞柔和而深沉,诸仙贤皆为之倾慕惊叹。

Verse 92

उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम् । अहोबालविशालाक्ष महाराज कुमारक

他们让小童在近旁坐下,惊叹不已地说道:“啊,广目之童!大王之子、年少的王子啊!”

Verse 93

विचार्यापि न जानीमो वद निर्वेदकारणम् । अद्य ते ह्यर्थचिंता नो क्वापमानः प्रसूर्गृहे

纵然反复思量,我们仍不明白——请告知你生厌之因。你今日为何忧扰?莫非在你母家受了羞辱?

Verse 94

नीरुक्छरीरसंपत्तिर्निवेदे किं नु कारणम् । अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम्

你身无疾患,福具圆满;那么你不满的缘由是什么?因为世人之离欲,多在所求不得时才会生起。

Verse 95

सप्तद्वीपपतेराज्ञः कुमारस्त्वं तथा कथम् । स्वभावभिन्नप्रकृतौ लोकेस्मिन्न मनोगतम्

你乃统御七洲之王的王子;那么,在这本性与出离迥异的世间,你心中怎会生起如此念头?

Verse 96

अवगंतुं हि शक्येत यूनो वृद्धस्य वा शिशोः । इति श्रुत्वा वचस्तेषां सहजप्रेमनिर्भरम्

此事或可在少年、老者或幼童身上理解。听到他们那充满天生慈爱的言语——

Verse 97

वाचं जग्राह स तदा शिशुः प्रांशुमनोरथः । ध्रुव उवाच । प्रेषितो राजसेवार्थं जनन्याऽहं मुनीश्वराः

于是,那志向高远的孩子开口说道。德鲁瓦说:“噢,诸位牟尼之主,我母亲差遣我,为的是侍奉国王,求得王恩。”

Verse 98

राजांकमारुरुक्षुर्हि सुरुच्या परिभर्त्सितः । उत्तमं चोत्तमीकृत्य मां च मन्मातरं तथा

然而当我想爬上国王的膝上时,却被苏鲁琪严厉斥责——她称颂乌塔玛为“贤善可敬者”,并同样贬抑我与我的母亲。

Verse 99

धिक्कृत्य प्रशशंस स्वं निर्वेदे कारणं त्विदम् । निशम्येति शिशोर्वाक्यं परस्परमवेक्ष्य ते

听到孩子的话,他们彼此相望,并自责自省,称许自己的悔悟,说道:“的确,这正是我们生起离欲之心的根由。”

Verse 100

क्षात्रमेव शशंसुस्तदहो बालेपि न क्षमा

他们只称赞那刹帝利的气概,说:“唉!连一个孩子也毫无忍耐之心!”

Verse 110

अत्रिरुवाच । अनास्वादितगोविंदपदांबुजरजोरसः । मनोरथपथातीतं स्फीतं नाकलयेत्पदम्

阿特里说道:“未曾品尝戈文达莲足之尘、如甘露般的妙味者,不能了知那超越世欲途径、广大无边的境地。”

Verse 120

पुत्रान्कलत्रमित्राणि राज्यं स्वर्गापवर्गकम् । वासुदेवं जपन्मर्त्यः सर्वं प्राप्नोत्यसंशयम्

凡人若持诵婆苏提婆之名,必无疑得一切:子嗣、配偶与友伴,王权,天界,乃至解脱(莫克沙)。

Verse 124

इत्युक्त्वांऽतर्हिताः सर्वे महात्मानो मुनीश्वराः । वासुदेवमना भूत्वा ध्रुवोपि तपसे गतः

说罢,诸位大圣仙师皆隐没不见;达鲁瓦亦摄心于婆苏提婆,启程前往修行苦行。