Adhyaya 35
Vayaviya SamhitaUttara BhagaAdhyaya 3585 Verses

प्रणवविभागः—वेदस्वरूपत्वं लिङ्गे च प्रतिष्ठा (The Division of Oṃ, Its Vedic Forms, and Its Placement in the Liṅga)

第35章以带有技术性的神话—教义叙述,阐明“普罗那瓦”(Oṃ)乃梵/湿婆的原初音声标记,也是吠陀启示之种。优波摩纽讲述:带着“Oṃ”印记的回响之声显现,但因罗阇斯与怛摩斯的遮蔽力,梵天与毗湿奴起初不能领会。随后,此一音节被分为四:A、U、M(三个mātrā)以及额外的半拍(ardhamātrā),认作nāda(音流/音振)。本章又将这些音位对应于林伽的空间象征:A在南方,U在北方,M居中;nāda在顶端被听闻。同时对应四部吠陀:A=《梨俱》、U=《夜柔》、M=《娑摩》、nāda=《阿闼婆》。并进一步联系诸宇宙与仪轨范畴(guṇa、创造职能、tattva、诸界loka、kalā/adhvan及类似悉地的能力),展示在湿婆形上学视域下,真言、吠陀与宇宙结构彼此诠释的层层符号体系。

Shlokas

Verse 1

उपमन्युरुवाच । अथाविरभवत्तत्र सनादं शब्दलक्षणम् । ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम्

优波摩纽说道:随后,在那处显现出一阵洪亮回响之声,其性即为神圣的振动。那便是一音之梵——“唵(Om)”,宣示并开启至上实相(梵,Brahman)。

Verse 2

तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा । रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम्

那真实即使对梵天与毗湿奴也仍不可知,因为二者之心被遮蔽,被“罗阇斯”(rajas)与“昏暗”(tamas)所笼罩。

Verse 3

तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् । अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया

其时,那唯一不坏之音节分为四分:以三量(mātrā)成“阿、乌、牟”(A、U、M),而在其上更有半量(ardhamātrā),超越音声。此指向至上之主(Pati)湿婆——于“唵”(Oṁ)之后的寂静中得以证悟。

Verse 4

तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे । उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः

在那里,音节“A”安住于炽燃林伽之南侧;同样,音节“U”在其北侧,而音节“M”住于其中部。

Verse 5

अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि । विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे

在林伽之顶,能听到一种共鸣(nāda),其本性为半音量(半 mātrā)。即使将至上音节——圣音 Praṇava(Oṁ)——分解为诸部分,那微妙的共鸣仍作为其超越本质而常住。

Verse 6

विभावार्थं च तौ देवौ न किंचिदवजग्मतुः । वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः

即便那两位神祇,为了洞察并确证那真实,也丝毫不能把握。于是,那未显的 Praṇava——其本质即为吠陀——进入显现的变相之中,为使他们理解而自我显露。

Verse 7

तत्राकारो ऋगभवदुकारो यजुरव्ययः । मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः

在那里,音节“A”化为《梨俱吠陀》;音节“U”化为不坏的《夜柔吠陀》。音节“M”生起为《娑摩吠陀》,而 nāda——内在的回响——则成为《阿闼婆》之圣闻(śruti)。由此教示:Oṁ乃吠陀启示之种子,指向湿婆为音声(Śabda)之主,亦为解脱智之施与者。

Verse 8

ऋगयं स्थापयामास समासात्त्वर्थमात्मनः । रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि

祂安立《梨俱吠陀》(Ṛg-veda),作为祂自身本义的简要总摄;又在罗阇德性(rajas-guṇa)的诸态之中,祂安置梵天(Brahmā)为最初者——在诸形相(mūrti)中为首,亦在诸造作之业中为首。

Verse 9

सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् । कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु

在诸世界中,祂是创造的显现;在诸元素中,祂为大地;在诸真理位(tattva)中,祂是不坏的自我。于kalā与adhvan(层级宇宙之道)之途,祂即nivṛtti——回归;诚然,在五重梵(五相Brahman)之中,祂当下现前。

Verse 10

लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये । चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु

在林伽(Liṅga)的诸分位中,下部称为“种子”,隶属于三重因(原因三类)。此原理应被领会为内在觉悟之力,具足六十四种主宰圆满——如aṇimā等诸成就。

Verse 11

तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् । अथोपस्थापयामास स्वार्थं दशविधं यजुः

如是,以十重义理,Ṛk(《梨俱》之启示)遍满整个宇宙与动转之世。继而,Yajus(《夜柔》之启示)以自身十重旨趣,宣示其别具之目的——建立圣行与祭祀礼拜之道。

Verse 12

सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि । स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु

在诸guṇa之中,祂为Sattva;在护持之神中,祂为毗湿奴(Viṣṇu);在诸形体中,祂为本初者;乃至在诸行中,祂即行动之力本身。在诸世界中,祂为sthiti——维持;在诸方域中,祂为antarīkṣa——中空;在三种根本原理(tattva)中,祂为vidyā——照明之智,引导灵魂趋向湿婆(Śiva)。

Verse 13

कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु । मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु

于诸分力(kalā)之行程(adhvans)中,当观想“安立之力”——Pratiṣṭhā;于五种梵(Brahman)中,当观想左相“瓦摩”(Vāma);于林伽(Liṅga)诸分中,当观想中位“Madhya”;于三种因性原则中,当观想“优尼”(Yoni),即生发之源。

Verse 14

प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् । ततोपस्थापयामास सामार्थं दशधात्मनः

依其至上主宰之威德,祂亦宣示原初的物质秩序。由此,祂显现遍满“夜柔斯”(Yajus)祭祀原则的宇宙;继而安立十重灵魂之宇宙秩序的运作能力。

Verse 15

तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च । संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम्

在昏暗之性(tamas)的原理中,祂名为鲁陀罗(Rudra);在一切有形之相中,祂为本初者;在诸行之中,祂为毁摄之力。在三界之中,祂即宇宙回收本身;于一切真理位(tattva)之中,祂为至上湿婆——最高实相与主宰。

Verse 16

विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु । लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये

在诸神圣知识与技艺(vidyā-kalā)中,祂为阿伽罗(Aghora);同样,在五梵(五重梵圣原则)之中亦然。在林伽的诸分位中,于座基(pīṭha)之上,当观想祂为“持种者”毗金(Bījin);并且祂统摄三重因位(kāraṇa-traya)。

Verse 17

पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् । अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः

如是,凭借神圣的娑曼(Sāman)圣歌,此整个宇宙被遍满——既由主的亲临之身(pauruṣa),亦由其主宰威权(aiśvarya)。随后,阿闼婆梵(Atharvan)首先宣说自我在离相无德(nirguṇa)之真理中的旨趣。

Verse 18

ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् । क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः

于是(行者)亲证大自在天(Maheśvara)——即便在诸有形之相中亦常住的常住湿婆(Sadāśiva)——那至上自性、湿婆;虽现于诸行,而恒常无为、超越诸业。

Verse 19

भूतानुग्रहणं चैव मुच्यंते येन जंतवः । लोकेष्वपि यतो वाचो निवृत्ता मनसा सह

正是凭借祂对一切众生的慈悲恩泽,诸有情得以解脱;而祂亦是那位——即使在一切世界中——言语与心意也都退转,不能触及祂。

Verse 20

तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् । सोमस्सहोमया यत्र नित्यं निवसतीश्वरः

在乌摩那界(Unmanā-loka)之上,是超世的苏摩界(Soma-loka)。在那里,苏摩与霍摩(Homā)恒常安住——亦即主宰伊湿伐罗(Īśvara)永恒居处之地。

Verse 21

तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते । शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि

再向上超越之时,安住于无心(unmanā)之心识抵达本初之境,不再回返。于彼处,它证得寂静——乃至超越寂静之寂静——遍满一切,并且亦存在于每一kalā(显现的层级/阶段)之中。

Verse 22

तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु । मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम्

在五种梵(五重神圣原理)之中,怛特补鲁沙(Tatpuruṣa)与伊舍那(Īśāna)确为梵。二者被宣说为林伽(Liṅga)至上的“头顶”——在那达(Nāda,内在圣音)的境域中最为殊胜。

Verse 23

यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः । तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात्

在那召请并如法礼敬独一、无分(niṣkala)的至上主湿婆之处——即便在诸原理之中,也应证悟祂超越宾度(Bindu),越过那陀(Nāda),并且更高于圣力(Śakti)。

Verse 24

तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः । कारणेषु त्रयातीतान्मायाविक्षोभकारणात्

就最高真谛而言,祂是超越一切实相范畴(tattva)的真实——超类之“非范畴”(atattva)。祂超出三种因性原则;正是祂使幻力摩耶(Māyā)起动摇(vikṣobha),从而开启显现。

Verse 25

अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् । सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात्

超越阿难多(Ananta),超越清净明知(纯净Vidyā),乃至超越大自在天(Maheśvara)——再无高于常住湿婆(Sadāśiva)者;祂是至上主,是一切明知之主的主宰。

Verse 26

सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् । पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात्

出自那位主宰本身——祂是诸咒之精髓所成之身,具足三重圣力——显现为五面十臂的真实;祂亲证地既是有相(Sakala),亦是无相(Niṣkala)。

Verse 27

तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् । ततः परान्निशाधीशान्नादाख्याच्च ततः परात्

在其上者为宾度(Bindu);而超越半量(Ardha‑mātrā)者,又有更高之“彼”。高于夜之主(明月)的是那陀原理(Nāda);而再超越那陀者,即至上者——湿婆,超越的主宰(Pati),凌驾一切音声与符号的层阶。

Verse 28

ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि । ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः

超越苏苏姆那(Suṣumnā)之主,乃至超越主宰梵门(Brahma-randhra)之主,尚有更高者;甚至超越圣力(Śakti)的,是至上实相——湿婆本体(Śiva-tattva)。

Verse 29

परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् । कारणानां च धातारं ध्यातारां ध्येयमव्ययम्

湿婆即是至上的根本因,亲证分明;而祂自身无因无缘。祂维系一切诸因;对修观者而言,祂是不坏不变、永恒的禅观所缘。

Verse 30

परमाकाशमध्यस्थं परमात्मोपरि स्थितं । सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम्

祂安住于至上虚空之中枢,立于至上我之上而更超越。具足一切主宰威德,祂为万有之主;然祂自身不受任何者所制。

Verse 31

ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् । अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात्

亦当舍离由摩耶所生、隶属主宰力(aiśvarya)领域的诸不净境界,从人身等状态起皆应弃舍。并且连较下与较上的诸宇宙原理亦当放下;因为至上唯由超越极净之道(adhiśuddha-adhvan)、并超出其所及者方可证达。

Verse 32

तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् । परमं परमैश्वर्यमुन्मनाद्यमनादि च

更在其上者,为纯净之智本身;而又超越此智者,为乌那玛那(Unmanā)——超越心识之境——至上之上更至上。此即最高的绝对主权(paramaiśvarya):以Unmanā为始相,而其体本无始。

Verse 33

अपारमपराधीनं निरस्तातिशयं स्थिरम् । इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः

如是,此阿闼婆那之圣启以十种教义旨趣宣示:湿婆无量无边,不依他物,超越无比,恒常安住——为“主宰”(Pati)、不变之大自在者,能解脱被缚之灵魂脱离系缚。

Verse 34

यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् । ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते

由于它最为厚重而崇高,因此《阿闼婆吠陀》遍满整个宇宙。复次,《梨俱吠陀》宣说:此即我所言之“觉醒态”(jāgrat)之形相。

Verse 35

येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः । यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते

凭借那内在的本原,我恒常为自我真理(我性、Ātman)的揭示者。同样,我宣说《夜柔吠陀》具有梦境之态(svapna)的性质。

Verse 36

भोग्यात्मना परिणता विद्यावेद्या यतो मयि । साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते

知之力在我之中安住,转化为可受用之境(bhogya),因此成为可知者(vedya)。而此一境界亦名为“深睡”(suṣupti)。如是,一切皆由我宣说。

Verse 37

ममार्थेन शिवेनेदं तामसेनाभिधीयते । अथर्वाह तुरायाख्यं तुरीयातीतमेव च

依我所欲阐明之旨,此教法由昏暗相(Tamasa)——即湿婆自身——而宣说。它亦名“阿闼婆阿哈”(Atharvāha),又称“图拉”(Turā),确是超越第四态(turīya)之“超第四”(turīyātīta)。

Verse 38

मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् । अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम्

因此,我被宣说为安住于超越诸adhvan(宇宙显化之道途)的境地;而那具有adhvan之性相的三重体系,被称为“湿婆明”(Śiva-vidyā)——湿婆解脱之智——的精髓。

Verse 39

तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा । अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम्

求至上圣住处者,应彻底净化那由三种古那所成、可由三部吠陀而知之境。超越诸道(世间进程)之后,便证入名为“图利耶”(Turīya)之境——涅槃,至高无上的归处。

Verse 40

तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् । द्वयोः प्रमापको नादो नदांतश्च मदात्मकः

超越那整条道路之后,彼境具无相无德之性(nirguṇa),并净化此显化之流。Nāda 为二者(显与不显)的度量与统摄者;而“声之终极”(nadānta) 则具“我”之性,即内在自觉。

Verse 41

तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः । यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः

因此,凭我自身就目的(artha)之主宰自在,我——至上主宰帕拉梅湿伐罗(Parameśvara)——为根本之因。凡一切存在之物,皆随诸古那之偏胜与其和合而显现。

Verse 42

समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते । सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम्

他们宣说:圣音“普拉纳瓦”(Oṁ)之义,既可于合一之相中领会,亦可于分解分析中通达。故此不坏之音节即是一味梵(Brahman),因为它昭示一切义。

Verse 43

तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः । शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः

于是,湿婆先以“唵(Om)”之音,初始化生整个宇宙。因为湿婆确是此“圣音”(Praṇava),而此圣音亦被忆念为湿婆自身。

Verse 44

वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः । चिंतया रहितो रुद्रो वाचोयन्मनसा सह

由于所指与能指之间的差别并非绝对,故离于分别思惟的鲁陀罗,连同心识一起,超越言语。

Verse 45

अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः । एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते

言语不能抵达彼至上实相,遂皆退返;然而祂仍以一音节而被指示。由那一音节——名为“A”——自性(我)被称为梵(Brahman)。

Verse 46

एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते । एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः

由名为“U”的一音节,毗湿奴以二重方式被宣说;由名为“M”的一音节,湿婆被宣称为鲁陀罗。

Verse 47

दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः । वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः

从大自在天(摩醯首罗)的右侧诞生梵天,被称为“梵之本原”;从其左侧显现毗湿奴,因此名为“明知(Vidyā)”(维系与秩序之力)。如是,普罗那宣示主为至上的主宰(Pati),诸宇宙功用皆由祂流出。

Verse 48

हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः । सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः

从湿婆的心中生起尼罗鲁陀罗,亦以“湿婆”之名而著称。梵天为创生之推动者;毗湿奴主宰护持,却令迷妄生起,以遮蔽至上真理。

Verse 49

संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः । तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च

鲁陀罗确为毁灭(收摄)之行者,亦恒常调御彼二力(创生与护持)。因此,这三者被称为宇宙之因。

Verse 50

कारणत्रयहेतुश्च शिवः परमकारणम् । अर्थमेतमविज्ञाय रजसा बद्धवैरयोः

湿婆乃三因之因,且自身即至上之因。不悟此义,众生为“罗阇斯”(rajas)所缚,遂堕入彼此仇怨。

Verse 51

युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम् । एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा

为令你们二者觉悟明了,灵伽在你们中间显现。于是他们以音节“唵”(Om)称呼我,正如阿闼婆梵(Atharvan)在此所宣说。

Verse 52

ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः । वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि

“《梨俱》之颂、《夜柔》之仪文、《娑摩》之歌,以及千百无量的其他吠陀支派——皆如同自有其口而宣说一般,在诸吠陀中清晰显现。”

Verse 53

स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते । तयोस्तत्र प्रबोधाय तमोपनयनाय च

那真实并不为他们所坚确把握,仿佛只是梦中所历。故在此境,为令其觉醒,并引其出离黑暗(无明),而施设此教诲。

Verse 54

लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम् । तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा

即使在林伽之中,一切也都如《吠陀》所宣说般被印现其上。见到万象皆铭印于林伽,彼时林伽的奉持者(礼敬湿婆者)便得蒙恩赐(prasāda)。

Verse 55

प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः । उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम्

二神心意寂静,遂得圆满觉醒;并清明了知六道程(ṣaḍ-adhvā)之生起与归灭,以及其真实体性,六道程由此统摄显现之秩序。

Verse 56

ततः परतरं धाम धामवंतं च पूरुषम् । निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम्

超越一切更高者之上,乃是至上圣住与具彼光辉之神圣人格——主宰湿婆:无上梵,离分无相、无有分割(niṣkala)。

Verse 57

पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् । अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम्

我恒常礼敬此显现世界之主(Pati);此世界由受缚之灵(paśu)与其系缚(pāśa)所成。彼即湿婆:究竟无畏,超越增减,不坏不灭、常住不变。

Verse 58

वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम् । निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम्

祂遍满外与内,却超越一切“外”“内”的观念。恒常超出诸般限制与比较,祂永远卓然不同于诸世界及其存在的层次与秩序。

Verse 59

अलक्षणमनिर्देश्यमवाङ्मनसगोचरम् । प्रकाशैकरसं शांतं प्रसन्नं सततोदितम्

祂无可标识之相,超越言诠,不为言语与心念所及。祂是一味纯净之光(觉知),恒常寂静而明耀,恒常安然慈和,永恒自显。

Verse 60

सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम् । ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा

于是,梵天与那罗延认知了毗卢帕克沙神——一切吉祥之所依,且与如是神圣的室底(Śakti)合一——从而明了祂真实的神性。

Verse 61

रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः । ब्रह्मोवाच । अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः

二者惊惧,合掌置于顶上而启言。梵天说道:“无论我愚昧或明知,噢天神啊,在最初之时,我皆由你所造。”

Verse 62

ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति । आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो

既已陷入如此迷妄,此处又有谁真可归咎?愿将我这无明暂且放下——噢主宰啊,因为你正亲临在我面前。

Verse 63

निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा । आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः

谁能无所畏惧地谈论当行之事——为己或为人?然而,即便我们之间就诸天之主、天中之天的事而起辩论,也确实相称而庄严,因为这是为辨明何者才是真正应当。

Verse 64

पादप्रणामफलदो नाथस्य भवतो यतः । विष्णुरुवाच । स्तोतुं देव न वागस्ति महिम्नः सदृशी तव

因为你,噢主宰,赐予在你足下恭敬顶礼之果报。毗湿奴说道:“噢天神啊,没有任何言辞足以赞颂你;没有什么能与您的威德荣耀相等。”

Verse 65

प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः । किमत्र संघटेत्कृत्यमित्येवावसरोचितम्

在主宰面前,对那些应当恭顺奉命者而言,连沉默本身也成了过失。此刻唯有这一句才合时宜:“在此应当奉行何种侍奉?”

Verse 66

अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम् । कारणत्वं त्वया दत्तं विस्मृतं तव मायया

纵然我并未真正明了,凡我所曾妄言之语,如今我皆向你顶礼。你亲自赐予我的“为因之位”,我却被你的摩耶所迷惑而遗忘了。

Verse 67

मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः । विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर

我被迷惑,又为我执所驱使,如今再一次受你训诫。多言申辩又有何益?噢自在主,我实在惶恐至极。

Verse 68

यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः । त्वामुशंति महादेवं भीतानामार्तिनाशनम्

既然我竟起意要界定并衡量你——而你实不可量、不可尽——因此众人称颂你为摩诃提婆(Mahādeva),伟大的主宰,能摧灭惧者忧苦之神。

Verse 69

अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर । इति विज्ञापितस्ताभ्यामीश्वराभ्यां महेश्वरः

“因此,噢 商羯罗(Śaṅkara),愿你今日宽恕我的逾越之罪。”那两位神圣主宰如此启请,摩诃提婆(摩醯湿伐罗,Mahēśvara)便已明了其意,遂动而应答。

Verse 70

प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत । ईश्वर उवाच । वत्सवत्स विधे विष्णो मायया मम मोहितौ

主心生欢喜,慈悲垂护那两位天神,含笑而语。至尊主说道:“亲爱的孩子们——噢 毗提(Vidhe,梵天)与噢 毗湿奴——你们二人已被我的摩耶(Māyā)所迷惑。”

Verse 71

युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम् । विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल

你们二人因对主宰之位生起我慢,心中彼此为敌;将争执推至战争边缘,却仍不肯止息,确实如此。

Verse 72

ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः । अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि

其后,你们二人——作为世界之因的原理——在造生众类之事上亦遭扰乱;由于无明与自负而起,彼此不和等诸过失也在你们二人之中显现。

Verse 73

तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु । एवं निवारितावद्यलिंगाविर्भावलीलया

为止息你们的傲慢与迷妄,唯有我亲自出手;因此今日,你们已被我以戏乐之力所显现的林伽所制止与约束。

Verse 74

तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः । यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ

因此,当彻底舍弃一切后续争辩与所有羞惭;离于嫉妒,你们二位当各行其职,依正法而作。

Verse 75

पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः । युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये

往昔依我敕命,我确已赐予你们二位一切知识之总集,使你们作为器因(于此开示与教化之业)的地位得以确立而昭著。

Verse 76

मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम् । मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम्

“那至上的咒中宝珠——名为‘经(Sūtra)’,由五字所成——我亲自圆满教授的一切,如今你们二位竟都忘却了。”

Verse 77

ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया । यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे

“依我敕命,我再度赐还一切如前;因为若无你们二位,他便无力支撑并护持这创造之界。”

Verse 78

एवमुक्त्वा महादेवो नारायणपितामहौ । मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह

如是言毕,摩诃提婆将“真言王”(Mantra-rāja)赐予那罗延与毗多摩诃(梵天),并同赐解脱之智的集成(saṃhitā);使他们得知主宰(Pati),并引导为缚索(pāśa)所系的众生趋向解脱(mokṣa)。

Verse 79

तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम् । महार्थं मंत्ररत्नं च तथैव सकलाः कलाः

他们既得大自在天(Maheśvara)那伟大、神圣、至上的敕命,又领受了义理深远、如宝珠般的真言,并且圆满获得一切神圣的诸艺(kalā)。

Verse 80

दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः । अतिष्ठतां वीतभयावानंदास्तिमितौ तदा

他们在诸天之天、主宰湿婆(Śiva)足下行全身投地礼(daṇḍavat),随后二人立于其前——无所畏惧,心念寂止,沉浸于喜乐(ānanda)之中。

Verse 81

एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम् । लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते

就在此时,主宰那奇妙而至上的自在神力,如同因陀罗网般的幻化,使林伽(Liṅga)在某处隐没不见;二者再也无法觉察到它。

Verse 82

ततो विलप्य हाहेति सद्यःप्रणयभंगतः । किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम्

随后,由于情爱之系骤然断裂,他们哀号哭泣,呼喊“唉呀!唉呀!”并彼此说道:“此事怎会不真?这究竟发生了什么?”

Verse 83

अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ । अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम्

观念商婆(主湿婆)不可思议的威德之后,二人皆离忧苦;入于至高的友爱,彼此以深情相拥。

Verse 84

जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ । ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः

为着世界的安宁与治理,两位天神中最尊胜者遂启程离去。自此以后,从因陀罗起,一切众生——无论天众(deva)或阿修罗(asura)——也都随之而动,依其所当而行。

Verse 85

ऋषयश्च नरा नागा नार्यश्चापि विधानतः । लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च

诸仙圣(ṛṣi)、世人、那伽(Nāga)以及妇女等,皆依所规定的仪轨安立(pratiṣṭhā)湿婆圣林伽(Śiva-liṅga),并在此林伽中礼拜供奉主湿婆。

Frequently Asked Questions

A revelatory emergence of the resonant Pranava (Oṃ) occurs, which Brahmā and Viṣṇu initially fail to comprehend because their cognition is veiled by rajas and tamas; the sound is then explicated as a structured, fourfold phonemic reality.

Oṃ is analyzed as A-U-M plus an ardhamātrā identified with nāda, presenting a graded ontology of sound: from articulated phonemes to a subtler resonance that anchors Vedic revelation and Śaiva realization.

The chapter correlates A-U-M-nāda with Ṛg-Yajus-Sāman-Atharvan and places A (south), U (north), M (middle), and nāda (crown) within the liṅga, further extending the mapping into guṇas and cosmological categories.