
The Manifestation of Viṣṇu’s Footprints: Vāmana–Trivikrama, Bāṣkali’s Subjugation, and the Rise of Viṣṇupadī (Gaṅgā)
《莲华往世书》1.30 说明为何普什卡拉(Puṣkara)的“足迹之道”备受崇敬:那是毗湿奴以三步遍行(Trivikrama)之大神迹在大地上的印记。于克利多时代(Kṛta Yuga),达那婆首领巴什迦利(Bāṣkali/Bāṣkalin)夺取三界,扰乱吠陀祭仪;因陀罗与诸天遂向梵天求援。 梵天入三摩地(samādhi)而召感毗湿奴显现,宣示善巧之策:化为侏儒梵摩那(Vāmana),请求三步之地。章中叙述巴什迦利之城与其施主王的德行,舒克罗阿阇梨(Śukrācārya)的劝阻,以及巴什迦利守信不移的决断。 毗湿奴随即显大神身为三步遍行者,三步跨越诸宇宙境位;并由拇指尖所伤处涌出圣河毗湿奴足生(Vaiṣṇavī/Viṣṇupadī),即恒河(Gaṅgā)。末以圣地功德(tīrtha-phala)作结:瞻礼并沐浴于足迹处,得大福德,得往毗湿奴之居处。
Verse 1
भीष्म उवाच । यज्ञपवर्तमासाद्य विष्णुना प्रभविष्णुना । पदानि चेह दत्तानि किमर्थं पदपद्धतिः
毗湿摩曰:既至与祭祀(yajña)相连之圣地,而大能的毗湿奴(Viṣṇu)又在此留下圣足印——那么,这“足迹之道”究竟有何旨意?
Verse 2
कृता वै देवदेवेन तन्मे वद महामते । कतमो दानवस्तेन विष्णुना दमितोत्र वै
此事确由诸神之神所行;请告我,伟大智者啊。究竟是哪一位阿修罗在此被那毗湿奴所降伏?
Verse 3
कृत्वा वै पदविन्यासं तन्मे शंस महामुने । स्वर्लोके वसतिर्विष्णोर्वैकुंठेऽस्य महात्मनः
既已安置圣仪之步序,请告我,大圣牟尼:那大魂毗湿奴在天界(Svarga)、在其毗昆塔(Vaikuṇṭha)之居处为何。
Verse 4
स कथं मानुषे लोके पदन्यासं चकार ह । देवलोकेषु वै देव देवाः सेंद्रपुरोगमाः
他究竟如何在世人之界踏下足迹?而在诸天之界,噢天神啊,诸神——以因陀罗为首——也同样依次聚集。
Verse 5
तपसा महता ब्रह्मन्भक्ता ये सततं प्रभुम् । श्रीवराहस्य वसतिर्महर्ल्लोके प्रकीर्तिता
婆罗门啊,那些以大苦行(tapas)恒常礼敬主宰的奉献者,据说其所归依的圣野猪主(圣瓦拉哈)之著名住处在摩诃尔界(Maharloka)。
Verse 6
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः । त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता
同样宣说:大魂的那罗辛哈住于阇那界(Janaloka);而三步主(Trivikrama)之居处则以在苦行界(Tapoloka)而闻名。
Verse 7
लोकानेतान्परित्यज्य कथं भूमौ पदद्वयम् । क्षेत्रे पैतामहे चास्मिन्पुष्करे यज्ञपर्वते
既已舍离这一切世界,又怎能在大地上踏下哪怕两步——就在此祖传圣域、在补湿迦罗(Puṣkara)、在祭祀之山上?
Verse 8
पदानि कृतवान्ब्रह्मन्विस्तरान्मम कीर्तय । श्रुतेन सर्वपापस्य नाशो वै भविता ध्रुवम्
婆罗门啊,你已将这些偈颂详尽铺陈;请为我诵说。只要聆听,必定能灭尽一切罪垢。
Verse 9
पुलस्त्य उवाच । सम्यक्पृच्छसि भोस्त्वं यत्संशृणु त्वं समाहितः । यथापूर्वं पदन्यासः कृतो देवेन विष्णुना
普拉斯提亚说道:“你问得正当;因此请摄心谛听,安住于定。我将叙述如同往昔,神圣的毗湿奴如何建立那神圣的步位安置(padanyāsa)。”
Verse 10
यज्ञपर्वतमासाद्य शिलापर्वतरोधसि । पुरा कृतयुगे भीष्म देवकार्यार्थसिद्धये
噢,毗湿摩,在久远的俱利多纪元,抵达祭山(Yajñaparvata)——在被石山(Śilā)阻塞的山隘之处——此举乃为成就诸天之所愿,使其事业圆满。
Verse 11
विष्णुना च कृतं पूर्वं पृथिव्यर्थे परंतप । त्रिदिवं सर्वमानीतं दानवैर्बलवत्तरैः
而从前,噢,焚敌者,为了大地之故,毗湿奴曾有所作为;然而整个天界却被极其强盛的达那婆(Dānavas)夺走。
Verse 12
त्रैलोक्यं वशमानीय जित्वा देवान्सवासवान् । दानवा यज्ञभोक्तारस्तत्रासन्बलवत्तराः
他们使三界尽归其掌控,战胜诸神并及因陀罗;于是达那婆在彼处成了祭祀供品的享用者,威力尤为强盛。
Verse 13
कृता बाष्कलिना सर्वे दानवेन बलीयसा । एवंभूते तदा लोके त्रैलोक्ये सचराचरे
这一切皆由强大的达那婆巴什卡林(Bāṣkalin)所致。故当时世界如是——三界之中,凡动与不动者,皆在其势之下。
Verse 14
परमार्तिं ययौ शक्रो निराशो जीविते कृतः । स बाष्कलिर्दानवेंद्रोऽवध्योयं मम संयुगे
释迦罗(因陀罗)陷入极度忧苦,甚至对自身性命也绝望了:“这婆湿迦利,诸达那婆之主,实不可战胜——至少在与我交锋之时。”
Verse 15
ब्रह्मणो वरदानेन सर्वेषां तु दिवौकसाम् । तदहं ब्रह्मणो लोके वृतः सर्वैर्दिवौकसैः
由于梵天赐福于一切天界住民,我便在梵天之境中,被诸天众一致推举而出。
Verse 16
व्रजामि शरणं देवं गतिरन्या न विद्यते । एवं विचिंत्य देवेंद्रो वृतः सर्वैर्दिवौकसैः
“我当归依于主神;除此之外别无归途。”如此思惟之际,天神之王被诸天众环绕。
Verse 17
जगाम त्वरितो भीष्म यत्र देवः पितामहः । ब्रह्मणः स पदं प्राप्य वृतस्तैश्च दिवौकसैः
噢,毗湿摩,他迅速前往那位神圣的祖父(梵天)所在之处。抵达梵天之居后,他被诸天众所围绕。
Verse 18
अब्रवीज्जगतः कार्यं प्राप्तामापदमुत्तमाम् । किं न जानासि वै देव यतो नो भयमागतम्
他陈述关乎世界的紧急之事:“一场重大灾厄已临到我们。噢,天神啊,你难道不知这恐惧从何而来吗?”
Verse 19
दैत्यैर्यदाहृतं सर्वं वरदानाच्च ते प्रभो । कथितं वै मया सर्वं बाष्कलेश्च दुरात्मनः
主啊,因你所赐之恩愿,诸达提耶所掠夺的一切,我已尽皆陈述;连那恶徒婆湿迦罗的行径亦一并禀告。
Verse 20
क्रियतां चाविलंबेन पिता त्वं नः पितामहः । तत्त्वं चिंतय देवेश शांत्यर्थं जगतस्त्विह
愿你速速施为——你是我们的父,也是我们的祖。天神之主啊,请思惟真实之理,为此世众生得安宁。
Verse 21
तेषां च पश्यतां किंचिच्छ्रौतस्मार्तादिकाः क्रियाः । न प्रावर्तन्त हानिस्तु तैरस्माकं दिनेदिने
即便他们在旁注视,依《闻传》(Śruti)与《忆传》(Smṛti)所制的诸般仪轨与行持,也丝毫无法施行;反而因他们之故,我们的损失日复一日加深。
Verse 22
यथा हि प्राकृतः कश्चित्स्वार्थमुद्दिश्य भाषते । विज्ञाप्यसे तथास्माभिर्निरस्तोपकृतैः सदा
正如凡夫为自身利益而开口言说,我们也如此向你陈情——我们恒常失却援助与恩惠。
Verse 23
यद्येनोपकृतं यस्य सहस्रगुणितं पुनः । यो न तस्योपकाराय तत्करोति वृथा मतिः
若一人蒙他人相助——其恩重如千倍——却不行报答恩人之事,则其心志终归徒然。
Verse 24
तस्योपकारदग्धस्य निस्त्रपस्यासतः पुनः । नरकेष्वपि संवासस्तस्य दुष्कृतकारिणः
对于那无耻而邪恶的作恶者——因所受之恩反灼其心而自焚——他确实仍将再度住于诸地狱之中,这是其恶业之果。
Verse 25
नैतावतैव साधुत्वं कृते यातु प्रतिक्रिया । स्वार्थैकनिष्ठबुद्धीनामेतन्नापि प्रवर्तते
善德并非仅凭犯错之后的补救便能成立;因为那些心智唯系私利之人,连这种悔改补偿的念头也不会生起。
Verse 26
यद्यस्य नाभवत्स्थानं जगतो ह्यत्र दुःखदं । शतधा हृदयं दीर्णं तन्न तृप्तिमुपागतम्
若此处世间并无一处正当安住、能解除其苦的归依之所,那么纵使心被撕裂成百片,也仍不得满足。
Verse 27
तत्र वा यत्र गंतास्मि निमग्नानुद्धरस्व नः । उपायकथनेनास्य येन तेजः प्रवर्तते
无论我将前往何处——在彼处或在他方——请救拔我们这些沉没于忧苦者。请宣说使他的光辉与威力得以显现的方便法门。
Verse 28
यथाख्यातं मया दृष्टं जगत्तत्स्थमवेक्ष्य ताम् । निःस्वाध्यायवषट्कारं निवृत्तोत्सवमंगलम्
正如我所述,我亲见那世界;观其境况,见其已无诵习吠陀与祭祀呼声,节庆与吉祥仪式亦皆止息。
Verse 29
त्यक्ताध्ययनसंयोगं मुक्तवार्ता परिग्रहम् । दंडनीत्या परित्यक्तं श्वासमात्रावशेषितम्
他已舍离与学业的一切牵连,远离世俗言谈与占有;亦弃绝以强制惩罚为本的治法——所余唯有一息之存。
Verse 30
जगदार्तिमपि प्राप्तं पुनः कष्टतरां दशां । एतावता हि कालेन वयं ग्लानिमुपागताः
纵然此世亦陷于忧患,又再度堕入更为苦痛之境。经此许久,诚然我们已至疲惫与衰颓。
Verse 31
ब्रह्मोवाच । जानामि बाष्कलिं तं तु वरदानाच्च गर्वितम् । अजेयं भवतां मन्ये विष्णुसाध्यो भविष्यति
梵天说道:“我知那婆湿迦利,因得赐福而生骄慢。我以为你们难以战胜他;唯有毗湿奴方能降伏之。”
Verse 32
निरुध्य संस्थितो ब्रह्मा भावं तत्वमयं तदा । समाधिस्थस्य तस्यैव ध्यानमात्राच्चतुर्भुजः
梵天收摄诸根而安住不动,于是入于充满真实本性的觉知之境。正当他住于三摩地时,仅凭那一念禅观,四臂之主便在他前显现。
Verse 33
स्तोकेनैव हि कालेन चिंत्यमानः स्वयंभुवा । आजगाम मुहूर्तेन सर्वेषामेव पश्यताम्
诚然不过片刻,他——为自生者(梵天)所忆念——便于一瞬之间到来,众目共睹。
Verse 34
विष्णुरुवाच । भो भो ब्रह्मन्निवर्त्तस्व ध्यानादस्मान्निवारितः । यदर्थमिष्यते ध्यानं सोहं त्वां समुपागतः
毗湿奴说道:“嗟!嗟!婆罗门(梵天)啊,止息吧。因你之故,我从禅定中被引出。凡为任何目的而修此禅观者——我今已至,亲来见你。”
Verse 35
ब्रह्मोवाच । महाप्रसाद एषोऽत्र स्वामिनो हि प्रदर्शनम् । कस्यान्यस्य भवेच्चैषा चिन्ता या जगतः प्रभो
梵天说道:“此乃大恩德,实为主宰之显现。除世界之主外,谁还能怀有如此忧念与眷顾?”
Verse 36
ममैव तावदुत्पत्तिर्जगदर्थे विनिर्मिता । जगदेतत्त्वदर्थीयं तत्त्वतो नास्ति विस्मयः
我的显现确是为世间之利而造作;此宇宙亦为成就你的旨意而设。于真实义中,并无可惊异之处。
Verse 37
भवता पालनं कार्यं संहरेद्रुद्र एव तु । एवंभूते जगत्यस्मिन्शक्रस्यास्य महात्मनः
护持之责当由你承担;而毁灭之业唯由鲁陀罗施行。在如此安立的世界中,这便是大魂释迦罗(因陀罗)之职分。
Verse 38
हृतं राज्यं बाष्कलिना त्रैलोक्यं सचराचरम् । भृत्यस्य क्रियतां साह्यं मंत्रदानेन केशव
“我的国土——乃至三界一切,含动与不动——已被婆湿迦利夺去。噢,凯沙瓦啊,愿以赐予真言而扶助你的仆从。”
Verse 39
वासुदेव उवाच । भवतो वरदानेन अवध्यः स तु सांप्रतम् । बुद्धिसाध्यः स वै कार्यो बंधनादिह दानवः
婆苏提婆说道:“凭你的赐福,他如今不可被杀、刀兵不入。因此那达那婆当以智谋处置——在此将其缚住等法。”
Verse 40
वामनोहं भविष्यामि दानवानां विनाशकः । मया सह व्रजत्वेष बाष्कलेस्तु निवेशनम्
“我将化为侏儒婆罗门伐摩那,摧灭诸达那婆。你如今与我同往,去到婆湿迦罗的居所。”
Verse 41
तत्र गत्वा वरं त्वेष मदर्थे याचतामिमम् । वामनस्यास्य विप्रस्य भूमे राजन्पदत्रयम्
你到那里去,为我求取此愿:大王啊,向那侏儒婆罗门伐摩那请求赐予三步之地。
Verse 42
प्रयच्छस्व महाभाग याच्ञैषा तु मया कृता । शक्रेणोक्तो दानवेंद्रो दद्यात्स्वमपि जीवितम्
“请赐与吧,尊贵者;此请求确由我所提出。即便达那婆之主,若被释迦(因陀罗)所请,也会舍出自己的性命。”
Verse 43
गृह्य प्रतिग्रहं तस्य दानवस्य पितामह । तं बध्वा च ततो यत्नात्कृत्वा पातालवासिनम्
大祖(Pitāmaha)既受那达那婆的供献,随后竭力将其缚住,使之成为住于波多罗(地下界)之众。
Verse 44
सौकरं रूपमास्थाय वधार्थं च दुरात्मनः । भविष्यामि न संदेहो व्रज शक्र त्वरान्वितः
我将化作野猪之形,必定前来诛灭那恶徒——毫无疑虑。去吧,释迦罗(因陀罗)啊,速速前行,勿再迟延。
Verse 45
विरराम तमुक्त्वैवमंतर्द्धानं गतश्च वै । अथ कालांतरे विष्णावदितेर्गर्भतां गते
他如此告知之后,便沉默下来,确实从眼前隐没。随后,时日流转——当阿底提就毗湿奴而言已入胎孕之时——
Verse 46
निमित्तान्यतिघोराणि प्रादुर्भूतान्यनेकशः । समस्तजगदाधारे विष्णौ गर्भत्वमागते
当毗湿奴——承载整个宇宙者——进入胎藏之态时,许多极其可怖的征兆屡屡显现。
Verse 47
शोभनं हि तदा जातं निमित्तं चैवमूर्जितम् । मालतीकुसुमानां तु सुगंधः सुरभिर्ववौ
那时确有吉祥而强盛的征兆出现:茉莉(mālatī)花的甘美芬芳四散流布,浓郁地薰染了空气。
Verse 48
अथ विहितविधानं कालमासाद्य देवस्त्रिदशगणहितार्थं सर्वभूतानुकंपी । विमल विरल केशश्चंद्रशंखोदयश्रीरदितितनयभावं देवदेवश्चकार
随后,当所规定的仪轨之时如期而至,那位神——怜悯一切众生、为诸天众之利益而行——便取阿底提之子之位;众神之神光辉照耀,发丝洁净而微微飘逸,具如新月升起与白螺初现般的庄严瑞丽。
Verse 49
अवतरति च विष्णौ सिद्धदेवासुराणामनिमिषनयनानां विप्रसेदुर्मुखानि । अतिविरतरजोभिर्वायुभिः संवहद्भिर्दिनमपि च तदासीज्जन्म विष्णोः सुगर्भे
当毗湿奴降临之时,悉达、天神与阿修罗——那目不瞬者——的面容皆安宁而光耀。尘埃尽息,清风轻送;连白昼也仿佛变得吉祥,因为毗湿奴在那圣洁的胎藏中诞生。
Verse 50
अदितिरजनगर्भा सापि देवी प्रयांती नतजघनभरार्त्ता मंदसंचाररम्या । अलसवदनखेदं पांडुभावं वहंती गुरुतरमवगाढं गर्भमेवोद्वहंती
阿底提亦怀着光辉充盈的胎藏而前行——臀胯因重负而下垂,步履虽缓却自有娴雅。她面带倦容,因劳苦而微显苍白,却仍承载着那深深安住、极其沉重的孕育。
Verse 51
ततः प्रविष्टे खलु गर्भवासं नारायणे भूतभविष्ययोगात् । विनापदं प्राप्तमनोरथानि भूतानि सर्वाणि तदा बभूवुः
于是,当那罗延真实进入住胎之境——以其与过去与未来的相应——一切众生当时皆离灾厄,得遂所愿。
Verse 52
समीरणो वाति च मंदमंदं पतत्सु वर्षेषु नगोद्भवेषु । विविक्तमार्गेषु दिगंतरेषु जनेषु वै सत्यमुपागतेषु
微风轻轻吹拂;雨水降落在山岳所生之地。于幽僻之径、遥远之方,在真正归于真实(satya)的人群之中,如此时节便流行。
Verse 53
विमुच्यमाने गगने रजोभिः शनैश्शनैर्नश्यति चांधकारे । उदरांतर्गते विष्णौ द्रोहबुद्धिस्तदाभवत्
当尘埃渐渐散入长空,黑暗也缓缓消退之时,那时竟生起了对在腹中之毗湿奴的敌意之念。
Verse 54
तां निशामय राजेंद्र देवमातुर्यथाक्रमम् । किमनुक्रमणेनैव लंघयामि त्रिविष्टपम्
大王中之王,请依次观照她——天母(Devamātā)。仅凭叙述之力,我又怎能遍历并尽摄三十三天之境?
Verse 55
बाष्कलिं दानवेंद्रं तं कुर्यां पातालवासिनम् । शक्रस्य तु मया दत्तं धनं लावण्यमेव च
我将使巴什迦利(Bāṣkali),诸达那婆之王,居于帕塔拉(Pātāla)。而我已赐予释迦罗(Śakra,因陀罗)财富,并赐其容光之美。
Verse 56
दानवानां विनाशाय एकैव प्रभवाम्यहम् । क्षिपामि शरजालानि चक्रयानान्यनेकशः
为灭尽达那婆,我独自现身;我一次又一次抛射箭雨,并掷出无数如轮之刃器。
Verse 57
गदाव्रातांश्च विविधान्दानवानां विनाशने । विबुधान्देवलोकस्थानधोभूमेस्तु दानवान्
为毁灭达那婆,他化出种种持钺持杵之众;使诸天(Vibudha)安住天界,而将达那婆抛落于大地之下。
Verse 58
करोमि कालयोगेन तत्तु कार्यं व्रतेन मे । निस्सृता सहसा वाणी वक्त्रमेवाभिसंस्थिता
因时运之会合,我以誓愿成就彼事。忽然言语迸发,径直安住于我口中。
Verse 59
येनेदं चिन्त्यते पूर्वं यन्न दृष्टं न च श्रुतम् । बंधं वै दनुमुख्यस्य कृतं कोपेन पश्य मे
此事先由他心中构想,乃前所未见、未所未闻之事。看吧:我因忿怒,确已使檀奴最尊贵之子被缚。
Verse 60
कश्यपाय पुरा दत्तं धनं लावण्यमेव च । किमयं विगतोत्साहो वायवोथ समाकुलाः
往昔,财富与美丽确曾赐予迦叶波。为何如今他却失却精进之力?又为何诸风纷乱骚动?
Verse 61
भ्रमतीव हि मे दृष्टिर्मैतद्रूपं प्रचिंतितम् । आविष्टा किमहं वच्मि केनाप्यसदृशं वचः
我的目光仿佛摇晃眩转;此形相我已深深观想。似被摄持一般,我还能说什么——无可比拟之语,仿佛由他者所启发?
Verse 62
विकल्पवशमापन्नाऽभीक्ष्णं हृदिममर्श सा । दधार दिव्यं वर्षाणां सहस्रं दिव्यमीश्वरम्
她为内心疑虑所制,屡屡在心中反复思量;而她承持那神圣的主,历经一千个天界之年。
Verse 63
ततः समभवत्तस्यां वामनो भूतवामनः । जातेन येन चक्षूंषि दानवानां हृतानि वै
于是,在她之中诞生了侏儒化身——具身之伐摩那;仅凭其降生,檀那婆众的“眼目”便被夺去(其目光与傲慢)。
Verse 64
जातमात्रे ततस्तस्मिन्देवदेवे जनार्दने । नद्यः स्वच्छांबुवाहिन्यो ववौ गंधवहोऽनिलः
就在众神之神阎那尔达那诞生的刹那,诸河流淌清澈之水,携香之风亦随之吹起。
Verse 65
कश्यपोपि सुखं लेभे तेन पुत्रेण भास्वता । सर्वेषां मानसोत्साहस्त्रैलोक्यांतरवासिनाम्
迦叶波亦因那光辉之子而得安乐;三界一切众生的心中,都充满了新的振奋与欢喜。
Verse 66
संजातमात्रे तु ततो जनाधिपजनार्दने । स्वर्गलोके दुंदुभयो विनेदुस्तैश्च ताडिताः
就在主宰众人的阎那尔达那方才显现之时,天界诸鼓被众神击打,轰然回响。
Verse 67
अतिप्रहर्षात्तु जगत्त्रयस्य मोहश्च दुःखानि च नाशमीयुः । जगो च गन्धर्वगणोतिमात्रं भावस्वरैर्भर्तृविमिश्रिताश्च
因无比欢悦,三界之中的迷妄与忧苦皆归于灭;随之而起的是浩大的喧腾——唯有乾闼婆众,以传情之音,与其领袖相和交织。
Verse 68
सुराङ्गनाश्चापि च भावयुक्ता नृत्यंति तत्राप्सरसां समूहाः । तथैव विद्याधरसिद्धसंघा विमानयानैर्मुदिता भ्रमंति
在那里,怀着妙情的天女翩然起舞,众阿普萨拉斯齐聚;同样,毗陀耶陀罗与悉达诸众欢喜乘空中飞车往来游行。
Verse 69
वदंति सत्यानृतकार्यनिर्णयं तथाभिरंगं प्रतिदर्शयंति । गायंति गेयं विनिवृत्तरागा मुहुर्मुहुर्दुःखसुखप्रभूताः
他们开口言说,辨别诸业之果中真与伪,并显露内心所藏。离于贪著,他们歌唱应当歌唱之法音——一遍又一遍——历经无数忧与喜。
Verse 70
नृत्यंति वै स्वर्गगताश्च ते तु धर्मार्जितं स्वर्गमितो व्रजंति । इति विगतविषादे निर्मले जीवलोके तिमिरनिकरमुक्ता निर्वृतिं प्राप्तुकामाः
诚然,已至天界者在彼处欢喜;而从此处,他们前往由正法(dharma)所赢得的天界。于是,在清净无垢的众生世界里,离忧无悲,脱离重重黑暗,他们渴望证得究竟安宁。
Verse 71
तत्रोचुः केचिदुर्व्यां जयजय भगवन्संप्रहृष्टाश्च केचित् । त्वेवं प्रोक्तप्रणादैरविरल मनसश्चानुवादैस्तथान्यैः । ध्यायंतेन्ये निगूढं जननभय जरामृत्युविच्छेदहेतो । रित्येवं कृत्स्नमासीज्जगदिदमखिलं सर्वतः संपृहृष्टम्
在那里,地上有人高呼:“胜利!胜利!噢,薄伽梵!”也有人同样欢欣鼓舞。另一些人心念不断,以洪亮的赞颂之声反复称扬你;还有一些人观想那隐秘的内在真实,作为断除生、老、死恐惧之因。如此,这整个世界在各处都充满了欢喜。
Verse 72
परमासाद्य यं विष्णुं ब्रह्माह जगतः कृते । जातोयं भवतामर्थे वामनो यदपीश्वरः
既已完全亲近那位毗湿奴,梵天为诸世界而宣言:“此瓦摩那为你们的利益而降生,虽祂本身即是主宰。”
Verse 73
एष ब्रह्मा च विष्णुश्च एष एव महेश्वरः । एष वेदाश्च यज्ञाश्च स्वर्गश्चैष न संशयः
祂即是梵天,亦即是毗湿奴;唯祂是大自在天(摩诃伊湿伐罗)。祂即是吠陀与祭祀,祂亦即是天界本身;对此毫无疑惑。
Verse 74
विष्णुव्याप्तमिदं सर्वं जगत्स्थावरजंगमम् । एकः स तु पृथ्क्त्वेन स्वयंभूरिति विश्रुतः
此一切宇宙——不动与动者——皆为毗湿奴所遍满。然而彼唯一者,名闻为“自生者”(Svayaṃbhū),于多种形相中示现为各别。
Verse 75
यथार्थवर्णके स्थाने विचित्रः स्फाटिको मणिः । ततो गुणवशात्तस्य स्वयंभोरनुवर्त्तनम्
譬如奇妙的水晶宝珠,置于真实之色的底面上,便映现其色;同样地,由其诸德性(guṇa)之力,便生起与自生者(Svayaṃbhū,梵天)相应之行。
Verse 76
यथा हि गार्हपत्योग्निरन्यसंज्ञां पुनर्व्रजेत् । लभेत संज्ञां भगवान्ब्राह्मादिषु तथा ह्यसौ
正如家火(Gārhapatya)可再得另一称名;同样地,那位吉祥的主,在梵天等诸神之中,也随缘受持种种名号与称谓。
Verse 77
सर्वथा वामनो देवो देवकार्यं करिष्यति । एवं चिंतयतां तेषां भावितानां दिवौकसाम्
“无论如何,侏儒神(Vāmana)必将成就诸天之事。”天界诸神如是思惟,心志专注,决意已定。
Verse 78
जगाम शक्रसहितो बाष्कलेश्च निवेशनम् । दूरादेव च तां दृष्ट्वा पुरीं तस्य समावृताम्
他与释迦罗(因陀罗)同行,前往婆湿迦罗(Bāṣkala)的居处;远远地便望见他的城邑,四面环护,重重围绕。
Verse 79
पांडुरैः खगमागम्यैः सर्वरत्नोपशोभितैः । शोभितां भवनैर्मुख्यैस्सुविभक्तमहापथैः
城中以淡白高耸、飞鸟可栖之楼阁为饰,遍缀诸宝;又以主殿华宅与宽广大道、分区井然之布局而愈显庄严。
Verse 80
नित्यप्रभिन्नैर्मातंगैरंजनाचलसन्निभैः । देवनागकुलोत्पन्नैः शतसंख्यैर्विराजिताम्
又有数百头常发情势、形如阿阇那遮罗山的巨象,出自天界那伽之族,使其光辉灿然。
Verse 81
निर्मांसगात्रैस्तुरगैरल्पकर्णैर्मनोजवैः । दीर्घग्रीवाक्षिकूटैश्च मनोज्ञैरुपशोभिताम्
又以身躯瘦劲、耳小、疾如心念而可喜之马为饰;其颈长而眼眶高突,愈显俊美。
Verse 82
पद्मगर्भसुवर्णाभाः पूर्णचंद्रनिभाननाः । संल्लापोल्लापकुशलास्तत्र वेश्याः सहस्रशः
彼处有成千上万的伎女,色如莲蕾之金辉,面若满月,善于雅谈妙语与嬉笑调侃。
Verse 83
न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा कला । बाष्कलेर्न पुरेऽस्याथ निवासं प्रतिगच्छति
无论功德、学识、技艺或艺术——这些都不能使人得以在婆湿迦罗之城中获得居住之分。
Verse 84
उद्यानशतसंबाधं समाजोत्सवमालिनि । अन्विते दनुमुख्यैश्च सर्वैरंतकवर्जितैः
城中拥挤着上百座园林,又以集会与庆典为饰;她由最杰出的檀奴后裔(代提耶)侍从,众皆无惧死亡。
Verse 85
वीणावेणुमृदंगानां शब्दैः सर्वत्र नादिते । सदा प्रहृष्टा दनुजा बहुरत्नोपशोभिताः
四方回荡着维那琴、笛与姆利檀伽鼓的声响;檀奴之子(Danuja)恒常欢悦,身披众多宝饰而光彩夺目。
Verse 86
क्रीडमानाः प्रदृश्यंते मेराविव यथामराः । ब्रह्मघोषो महांस्तत्र दनुवृद्धैरुदीरितः
人们见他们在彼处嬉戏,如同诸天在须弥山上;而在那地方,檀奴的年长后裔高声呼喊:“婆罗摩(Brahmā)!”
Verse 87
साज्यधूमेन चाग्नीनां वायुना नष्टकिल्बिषे । सुगंधधूपविक्षेप सुरभीकृतमारुते
又因圣火所升起、饱含酥油的烟缕,清风罪垢尽除而成芬芳;甜香的熏香四散,使空气尽皆馥郁。
Verse 88
सुगंधिदनुजाकीर्णे पुरे तस्मिंस्तु बाष्कलि । त्रैलोक्यं तु वशे कृत्वा सुखेनास्ते स दानवः
在那座城中,婆什迦利啊,满是芬芳的檀奴之子(Danuja)阿修罗;那位达那婆(Dānava)既已使三界归服,便安然自得而居。
Verse 89
तत्रस्थः पालयन्नास्ते त्रैलोक्यं सचराचरं । धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेंद्रियः
安住于彼处,他守护三界——一切动与不动之众生;通达法(dharma),知恩感德,言语真实,且已制伏诸根。
Verse 90
सुदर्शः पूर्वदेवानां नयानयविचक्षणः । ब्रह्मण्यश्च शरण्यश्च दीनानामनुकंपकः
苏达尔沙(Sudarśa)为古诸天之最,明辨当行与不当行;敬奉婆罗门,为求依怙者作归依,怜悯困苦之人。
Verse 91
वेदमंत्रप्रभूत्साह सर्वशक्तिसमन्वितः । षाड्गुण्यविषयोत्साहः स्मितपूर्वाभिभाषितः
他由吠陀真言而生大勇猛,具足一切神力;于六种王者德业尤为奋发,先含笑而后开言。
Verse 92
वेदवेदांगतत्वज्ञो यज्ञयाजी तपोरतः । न च दुःशीलनिरतः स सर्वत्राविहिंसकः
他通晓吠陀及其支分(吠檀伽)的真实义理;常行祭祀(yajña),乐于苦行(tapas)。不染恶行,于一切处对众生皆不害。
Verse 93
मान्यमानयिता शुद्धः सुमुखः पूज्यपूजकः । सर्वार्थविदनाधृष्यः सुभगः प्रियदर्शनः
他敬重应受敬重者;清净无垢,面容和悦,礼敬当受礼敬者;通达诸目标之真义,不可侵犯,福德具足,令人乐见。
Verse 94
बहुधान्यो बहुधनो बहुयानश्च दानवः । त्रिवर्गसाधको नित्यं त्रैलोक्ये वरपूरुषः
那位达那婆粮谷丰盈、财宝充足,并具众多车乘;恒常修持人生三义(法、利、欲),在三界之中被尊为卓越之人。
Verse 95
स्वपुरीनिलयो नित्यं देवदानवदर्पहा । स चैवं पालयामास त्रैलोक्ये सकलाः प्रजाः
他恒住于自城,摧破天神与阿修罗之傲;如是护持三界一切众生。
Verse 96
नाधमः कश्चिदप्यास्ते तस्मिन्राजनि दानवे । दीनो वा व्यधितो वापि अल्पायुर्वाथ दुःखितः
在那位阿底耶王统治下,无一人卑下;亦无人贫困、患病、短寿或忧苦。
Verse 97
मूर्खो वा मंदरूपो वा दुर्भगो वा निराकृतः । एवं युतं तं विमलैर्गुणौघैर्दृष्ट्वा च मत्वा च निविष्टबुद्धिं
无论愚昧、形貌迟钝、不幸,乃至被弃绝者;一旦见其具足清净德流,并加以领悟,心意便安住坚定(于敬重与接纳)。
Verse 98
प्रसादयन्दैत्यवरं महात्मा पुरंदरस्तं तु दनुप्रधानं । तेजोयुक्तं दानवं तं तपंतमिव भास्करं
大心的普兰达罗(因陀罗)欲安抚至上的阿底耶——达奴之首领——遂趋近那光辉的达那婆,炽然如日。
Verse 99
त्रैलोक्यधारणे शक्तं विस्मितः सोऽभवत्तदा । इंद्रं पुरागतं दृष्ट्वा दानवेंद्राय पार्थिव
当时他对因陀罗能支撑三界之力深感惊异。见到先已到来的因陀罗,国王便向达那婆之主开口说道。
Verse 100
इदमूचुस्तदागत्वा दानवा युद्धदुर्मदाः । आश्चर्यमिति वै कृत्वा इंद्रोभ्येति पुरीं तव
随后,达那婆众来到那里,因战斗而骄狂,便如此说道;并将此事视为奇迹,因陀罗遂趋近你的城邑。
Verse 101
एकाकी द्विजमुख्येन वामनेन सह प्रभो । अस्माभिर्यदनुष्ठेयं सांप्रतं नो वदस्व राट्
主啊,你孤身一人,唯与最尊贵的两次生者婆摩那相伴。王啊,请你如今告诉我们,此刻我们当行何事。
Verse 102
दानवानब्रवीत्सर्वान्पुरे तिष्ठत संकुलं । प्रवेश्यतां देवराजः पूज्यः स तु ममाद्य वै
达那婆对众人说道:“都拥聚在城中驻守。让诸天之王入城;今日确当由我加以礼敬。”
Verse 103
एतस्मिन्नेव काले तु वामनः स च वासवः । आगतौ दनुनाथेन प्रेम्णा चैवावलोकितौ
正当此时,婆摩那与婆娑婆(因陀罗)来到;达那婆之主以慈爱之情注视着他们。
Verse 104
कृतार्थं मन्यतात्मानं प्रणिपातपुरःसरम् । उवाच वचनं राजा दानवानां धुरंधरः
见他自心满足,且先行顶礼伏拜,国王——诸达那婆之首的勇将——便说出如下言辞。
Verse 105
अद्य वै त्रिषु लोकेषु नास्ति धन्यतरो मया । योहं श्रियावृतः शक्रं पश्यामि गृहमागतम्
今日诚然,于三界之中无人比我更有福;因为我身拥吉祥富贵,得见释迦罗(因陀罗)亲临我家。
Verse 106
अर्थित्वकाम्यया यस्तु मामयं याचयिष्यति । गृहागतस्य तस्याहं दास्ये प्राणानपि ध्रुवम्
凡怀求乞之愿而来我家向我祈求者,我必定连自己的性命之息也施与他。
Verse 107
दारान्पुत्रांस्तथागारं त्रैलोक्ये का कथा मम । आगत्य संमुखं तस्य अंकमानीय सादरम्
“妻子、儿子,乃至家宅——于我而言,在三界又算得了什么?”于是她走到他面前,恭敬地把(孩子)抱来置于他膝上。
Verse 108
परिष्वज्याभिनन्द्यैनं गृहं प्रावेशयत्स्वकम् । तस्य स्वागतमर्घ्याद्यैः कृत्वा पूजां प्रयत्नतः
他拥抱并欢喜致意,引他进入自家宅邸。继而殷勤设礼而行供奉,以迎宾之仪,献上阿尔伽(arghya)等诸般常法敬礼。
Verse 109
अद्य मे सफलं जन्म पूर्णाः सर्वे मनोरथाः । यस्त्वां पश्यामि शक्राद्य स्वयमेव गृहागतम्
今日我之出生已得其果;诸愿皆圆满,因为我得瞻仰你们——圣因陀罗(释迦)及诸天——亲自来到我家中。
Verse 110
ख्याप्योहं दनुमुख्यानां देवराज त्वया कृतः । आगच्छता मम गृहं पुण्यता तु परा हि मे
天神之王啊,你使我在诸大达那婆中声名显著;因你降临我舍,我的功德确已至于无上。
Verse 111
अग्निष्टोमादिभिर्यज्ञैस्सम्यगिष्टैस्तु यत्फलम् । तत्फलं समवाप्येत त्वयि दृष्टे पुरंदर
凡以如阿耆尼什多摩(Agniṣṭoma)等祭祀依法圆满所获之果报,唯因得见你——破城者普兰达罗——亦可同得其果。
Verse 112
यत्फलं भूमिदानेन गवां दानेन ऋत्विजे । ममाद्य तत्फलं भूतमथवा राजसूयकम्
主祭婆罗门啊,布施土地或布施牛群所生之功德,今日尽归于我,宛如我已举行了王者大祭——罗阇苏耶。
Verse 113
नाल्पेन तपसा लभ्यं दर्शनं तव वासव । एवं गेहे मया यत्ते प्रियं कार्यं तदुच्यताम्
婆娑婆(因陀罗)啊,得见你并非少许苦行所能致。既然你如此降临我家,请明示你所珍爱的目的欲成就何事。
Verse 114
विकल्पोऽन्यो न भवता हृदि कार्यः कथंचन । कृतं च तद्विजानीया यद्यदि स्यात्सुदुष्करं
你心中切莫生起任何别样的疑虑。应当知晓:此事已然成就,即便看似极其艰难。
Verse 115
पुण्योहं पुण्यतां प्राप्तो दर्शनात्तव शत्रुहन् । यत्ते देव वरैर्वंद्यौ वंदितौ चरणौ मया
我真有福——确已得至清净功德——只因得见你,噬敌者啊。因为,主啊,我已礼拜你的双足;那双足连诸天中最尊贵者亦所敬奉。
Verse 116
किमागमनकृत्यं ते वद सर्वं मयि प्रभो । अत्याश्चर्यमिदं मन्ये तवागमन कारणं
主啊,请对我尽说:你来此所为何事?我以为你此番降临之因,实在最为奇异。
Verse 117
इंद्र उवाच । जानेहं दनुमुख्यानां प्रधानं त्वां तु बाष्कले । नात्याश्चर्यमिदं भाति त्वयि दृष्टेऽसुरोत्तम
因陀罗说道:“噢,Bāṣkala,我知你乃诸达那婆之首领。见到你这位阿修罗中的最胜者,此事于我并不算太惊奇。”
Verse 118
विमुखा नार्थिनो यांति भवतो गृहमागताः । अर्थिनां कल्पवृक्षोसि दाता चान्यो न विद्यते
凡来你家求助之人,无一失望而归。对求乞者而言,你如同如意树;再无他人能如你这般施与。
Verse 119
प्रभायां सूर्यतुल्योसि गांभीर्ये सागरोपमः । सहिष्णुत्वे धरा चैव श्रिया नारायणोपमः
在光辉上你如太阳;在深邃上可比大海。于忍耐上你似大地;于福德与昌盛上你宛如那罗延(Nārāyaṇa)。
Verse 120
ब्राह्मणः कश्यपकुले जातोयं वामनः शुभे । प्रार्थितोहमनेनैवं भूमेर्देहि पदत्रयं
吉祥的夫人啊,这位婆摩那(Vāmana)——生于迦叶波(Kaśyapa)族系的婆罗门——如此向我祈求:‘赐我三步之地。’
Verse 121
ममाग्निशरणार्थाय यत्र कुर्यां मखं त्वहं । तदस्य कारणं कृत्वा अर्थितैषा मम प्रभो
我主啊,为使我得归依于圣火,无论我在何处举行祭祀,愿你以此为因而成就;我便如此恳求。
Verse 122
लोकत्रयं मेऽपहृतं त्वया विक्रम्य बाष्कले । निर्वृत्तिको निर्धनोस्मि यद्दित्से न तदस्ति मे
婆利(Bali)啊,你以步伐跨越,夺去了我的三界。如今我已无所依、亦无财物;你欲施与之物,我已不复所有。
Verse 123
भवंतं याचयिष्यामि परार्थेनापि चात्मना । अर्थित्त्वेन ममाप्यस्य यद्योग्यं तत्समाचर
我将向你祈求,为他人之利,亦为我自身之故。即便我在此以求者之身,也恳请你:于此行一切相宜之事。
Verse 124
जातोसि काश्यपे च त्वं वंशे वंशविवर्द्धनः । दित्यास्त्वं गर्भसंभूतः पिता त्रैलोकपूजितः
你生于迦叶波(Kaśyapa)之族,能使这高贵血脉兴盛;你出自底提(Diti)之胎,而你的父亲为三界所敬奉。
Verse 125
एवंभूतमहं ज्ञात्वा तेन त्वां याचयाम्यहम् । अस्याग्निशरणार्थाय दीयतां भू पदत्रयम्
既知他如此,我便向你祈求:为使此人得庇护、免于火难,请赐予三步之地。
Verse 126
अतीव ह्रस्वगात्रस्य वामनस्यास्य दानव । भूमिभागे च पारक्ये दातुं न त्वहमुत्सहे
噢,达那婆(Dānava),此婆摩那(Vāmana)身形极其矮小,而这片土地又属他人,我不敢将其施与。
Verse 127
एतदेव मया दत्तं यद्भवानर्थितोसि मे । गुरवो यदि मन्यंते मंत्रिणो वा पदत्रयम्
我所赐者唯此——即你向我所求之事——但须长老认可,或诸臣亦同意,关于这三步之地的安排。
Verse 128
अर्थित्वेन मदीयेन स्वकुले बांधवेपि च । गृहायाते मयि तथा यद्योग्यं तत्समाचर
依我之请,并在你自家宗族亲眷之间——当我来到你家时,你当行其所宜,作合乎礼法之事。
Verse 129
यदि ते रुचितं वीर दानवेंद्र महाद्युते । तदस्मै दीयतां शीघ्रं वामनाय महात्मने
若此合你心意,勇士啊——光辉赫赫的达那婆之王——便当速速赐与彼,赐与大心者矮仙(Vāmana)。
Verse 130
बाष्कलिरुवाच । देवेंद्र स्वागतं तेऽस्तु स्वस्ति प्राप्नुहि मा चिरम् । त्वं समीक्षस्वधात्मानं सर्वेषां च परायणम्
跋湿迦利说道:“诸天之主啊,欢迎你来。愿你不久即得安泰。你乃一切众生之归依处,请观照自心之本性。”
Verse 131
त्वयि भारं समावेश्य सुखमास्ते पितामहः । ध्यानधारणयायुक्तश्चिंतयानः परं पदम्
既将重任托付于你,祖父梵天便安然端坐,具足禅观与定力,思惟那至上的境界。
Verse 132
संग्रामैर्बहुभिः खिन्नो जगच्चिंतामपास्य तु । क्षीराब्धिद्वीपमाश्रित्य सुखं स्वपिति केशवः
历经多番征战而疲惫的凯沙瓦,暂置世间忧虑,依止乳海之洲,安然入睡。
Verse 133
अन्ये च दानवाः सर्वे बलिनः सायुधास्त्वया । असहायेनैव शक्र सर्वेपि विनिपातिताः
其余一切达那婆亦然——强盛而持兵——都被你击倒,释迦啊,纵使你孤身无援。
Verse 134
आदित्या द्वादशैवेह रुद्रास्त्वेकादशापि वा । अश्विनौ वसवश्चैव धर्मश्चैव सनातनः
此处确有十二位阿底提耶(Āditya),亦有十一位鲁陀罗(Rudra);又有双阿湿毗尼(Aśvin)、诸婆苏(Vasu),以及永恒的法(Dharma),即正义之常道。
Verse 135
त्वद्बाहुबलमाश्रित्य त्रिदिवे मखभागिनः । त्वया क्रतुशतैरिष्टं समाप्तवरदक्षिणैः
依凭你臂力之威,天界分受祭品之诸神得其应得;又由你举行百次祭祀(yajña),皆圆满成就,并具殊胜的供养与酬谢(dakṣiṇā)。
Verse 136
त्वया च घातितो वृत्रो नमुचिः पाकशासन । त्वदाज्ञाकारिणा पूर्वं विष्णुना प्रभविष्णुना
噢帕迦沙娑那(Pākaśāsana,因陀罗),弗栗陀罗(Vṛtra)与那牟支(Namuci)为你所诛;而在更早之时,他们亦为毗湿奴(Viṣṇu)——威德遍满的至主——依你之命而灭。
Verse 137
हिरण्यकशिपोर्भ्राता हिरण्याक्षोपि घातितः । हिरण्यकशिपुर्योत्र जङ्घे चारोप्य घातितः
希兰耶迦湿布(Hiraṇyakaśipu)之弟希兰耶阿叉(Hiraṇyākṣa)亦被诛灭;而此处希兰耶迦湿布本人也被杀——被举起,安置于大腿之上而毙。
Verse 138
वज्रपाणिनमायांतमैरावणशिरोगतम् । संग्रामभूमौ दृष्ट्वा त्वां सर्वे नश्यंति दानवाः
战场之上,见你手执金刚杵(Vajra)而来,端坐于爱罗婆多(Airāvata)之首,诸达那婆(Dānava)尽皆溃灭。
Verse 139
ये त्वया विजिताः पूर्वं दानवा बलवत्तराः । सहस्रांशेन तत्तुल्यो न भवामि कथंचन
你从前所征服的那些强大的达那婆(Dānava),我无论如何都不及他们,连千分之一也比不上。
Verse 140
एवंविधोऽसि देवेंद्र मम का गणना भवेत् । मां समुद्धर्तुकामेन त्वयैवागमनं कृतम्
天神之王因陀罗啊,你本具如此威德;我又算得了什么?唯有你,怀着救度我的愿心,亲自来到此处。
Verse 141
करिष्यामि न संदेहो दास्ये प्राणानपि ध्रुवम् । किमर्थं देवराजोक्ता भूमिरेषा त्वया हि मे
我必当去做,毫无疑虑;即便舍命也在所不惜。但天神之王啊,你为何向我提起这片由你所言及的土地?
Verse 142
इमे दाराः सुता गावो यच्चान्यद्विद्यते वसु । त्रैलोक्यराज्यमखिलं विप्रस्यास्य प्रदीयताम्
“这些妻室、这些子嗣、这些牛群,以及一切其余财宝——乃至三界的全部王权——都应尽数布施给这位婆罗门。”
Verse 143
अपकीर्तिर्भवेन्मह्यं पूर्वेषां च न संशयः । गृहायातस्य शक्रस्य दत्तं बाष्कलिना न तु
若人说“婆湿迦利(Bāṣkali)在释迦(Śakra)来到我家之后才施与供献”,则耻名必临于我,亦必及于我诸先祖,毫无疑问。
Verse 144
अन्योपि योर्थी मे प्राप्तः समे प्रियतरः सदा । भवानत्र विशेषेण विचारं मा कृथाः क्वचित्
即便另有求者来到我前,他也永远与你同样为我所珍爱。因此,对此事你切莫在任何时候生起特别的疑虑。
Verse 145
बृहत्त्रपा मे देवेंद्र यद्भूमेस्तु पदत्रयम् । ब्राह्मणस्य विशेषेण प्रार्थितं तु त्वया विभो
噢,天帝因陀罗,我深感惭愧:你这位大能者竟向我索求三步之地,尤其还是向一位婆罗门求赐。
Verse 146
दास्ये ग्रामवरानस्य भवतस्तु त्रिविष्टपम् । अश्वान्गजान्भूमिधनं स्त्रियश्चोद्भिन्नचूचुकाः
“我将赐你最上等的村邑;并且为你亦有天界——骏马、象群、土地与财宝,以及乳房丰隆的女子。”
Verse 147
यासां दर्शनमात्रेण वृद्धोपि तरुणायते । ताः स्त्रियो वसुधां चैतां वामनस्य प्रतिग्रहम्
仅仅见到她们,连老者也会复归青春——那些女子,以及这片大地本身,皆为侏儒化身的婆摩那所受纳之供施。
Verse 148
प्रतिदास्यामि देवेन्द्र प्रसादः क्रियतां हि मे । एतावदुक्ते वचने तदा बाष्कलिना नृप
“我将归还于你,噢诸天之主;愿你赐我恩泽。”此言既出,当时——噢国王——便是婆湿迦林如此说道。
Verse 149
पुरोधास्तूशना प्राह दानवेंद्रं तदा वचः । भवान्राजा दानवेंद्र ऐश्वर्येष्टविधे स्थितः
于是祭司乌沙那对达那婆之主说道:“噢,达那婆王啊,你是安住于八种所愿自在之相的君主。”
Verse 150
युक्तायुक्तं न जानासि देयं कस्य मया क्वचित् । मंत्रिभिः सुसमालोच्य युक्तायुक्तं परीक्ष्य च
你不知何为合宜、何为不合宜,也不知我究竟应当把施与给谁。待我与诸大臣细细商议,并审察是非曲直之后……
Verse 151
प्राप्तं त्रैलोक्यराज्यत्वं जित्वा देवान्सवासवान् । वाक्यस्यास्यावसानेव भवान्प्राप्स्यति बंधनं
你已战胜诸天并降伏婆娑婆(因陀罗),得到了三界之王权;然而此言一毕,你便将坠入束缚之中。
Verse 152
य एष वामनो राजन्विष्णुरेव सनातनः । नास्य वै भवता देयं पिता ते घातितः स्वयं
大王啊,这位婆摩那并非他人,正是永恒的毗湿奴。你不可施与他任何东西,因为正是他亲手杀了你的父亲。
Verse 153
अयं ते पितृहा प्राप्तो मातृहा बंधुघातकः । वंशोच्छेदकरस्तुभ्यं भूतश्चैव भविष्यति
此人已来到你面前——弑父者、弑母者、戕害亲族者;对你而言,他曾是、也必将是断绝你族系之毁灭者。
Verse 154
न चैष धर्मं जानाति शक्रादीनां हिते रतः । मायाविना दानवा ये मायया येन निर्जिताः
他全然不知正法(dharma),虽致力于因陀罗等诸天的利益;因为那些精于幻力(māyā)的檀那婆(Dānava)阿修罗,竟也被他以幻力所征服。
Verse 155
मायया ब्राह्मणं रूपं वामनं च प्रदर्शितम् । अत्र किं बहुनोक्तेन नास्य देयं तु किंचन
凭借幻力(māyā),显现出婆罗门之相——确是侏儒化身的伐摩那(Vāmana)。此处何必多言?对他一点也不可施与。
Verse 156
मक्षिकापादमात्रं तु भूमिरस्य प्रतिग्रहः । विनाशमेष्यसि क्षिप्रं सत्यंसत्यं मया श्रुतम्
即便从他那里接受一块仅如苍蝇足迹般大小的土地,也是不当的受施。你将迅速走向毁灭——此言真实不虚,真实不虚;我亲闻如此。
Verse 157
गुरुणाप्येवमुक्तस्तु भूयो वाक्यमथाब्रवीत् । धर्मार्थिना मया सर्वं प्रतिज्ञातं गुरो त्विदम्
虽被师尊如此告诫,他仍再次说道:“噢,师尊,我为求正法(dharma),已许诺献出这一切。”
Verse 158
प्रतिज्ञापालनं कार्यं सतां धर्मः सनातनः । यद्येष भगवान्विष्णुर्नास्ति धन्यतरो मया
守持誓言必须践行;这是贤善之人的永恒正法(dharma)。若至尊主毗湿奴(Viṣṇu)确在此现前,则无人比我更为有福。
Verse 159
गृह्य प्रतिग्रहं मत्तो यदि देवान्बुभूषति । भूयोपि धन्यतां नीतो देवेनानेन वै गुरो
若他接受我所献之礼而欲敬奉诸天,则,噢上师,正是此神明再次引他归于福德与吉祥。
Verse 160
यं योगिनो ध्यानयुक्ता ध्यायमाना हि दर्शनम् । न लभंते तथा विप्रास्सोयं दृष्टो मयाद्य वै
瑜伽行者入定观想而欲得见、却终不得的那种圣见——诸婆罗门啊,我今日确已亲见同一神圣显现。
Verse 161
दानानि ये प्रयच्छंति सकुशोदकपाणिना । प्रीयतां भगवान्विष्णुः परमात्मा सनातनः
愿吉祥的毗湿奴世尊——永恒的至上真我——悦纳那些施与布施者;其手执圣水并持俱舍草而行施。
Verse 162
एवमुक्ते तु वचने अपवर्गस्य भागिनः । यदत्र कार्यकरणे विकल्पो मे बभूव ह
当那位分得解脱之人如此发言之后,我便对在此事上应作何行、如何施行而生起犹疑。
Verse 163
उपदिष्टोस्मि भवता बालत्वे चावधारितम् । शत्रावपि गृहायाते मास्त्वदेयं तु किंचन
我曾受你教诲,幼时亦已铭记:纵使仇敌来到家门,也不可吝惜那应当施与宾客之物。
Verse 164
एतदेव विचिंत्याहं प्राणानपि स्वकान्गुरो । वामनस्य प्रदास्यामि शक्रस्यापि त्रिविष्टपम्
唯念及此,噢师尊,我甚至愿舍出自身的生命之息;我将把自己奉献给婆摩那(Vāmana),并把天界本身归还给释迦罗(因陀罗)。
Verse 165
अपीडाकारि यद्दानं तद्दानमिह दीयते । पीडाकारि च यद्दानं तद्दानं समलं स्मृतम्
不致使人受苦的布施,才是此世应当施行的慈施;而使人受苦的布施,被记为染污之施。
Verse 166
एतच्छ्रुत्वा गुरुस्तत्र त्रपयाधोमुखः स्थितः । बाष्कलिरुवाच । अर्थिता भवतो देव देया सर्वा धरा मया
闻此言,师长当场羞惭,低首而立。婆湿迦利(Bāṣkali)说道:“噢神圣者,既然你已请求,我将把整个大地都奉献给你。”
Verse 167
त्रपाकरं भवेन्मह्यं यदस्य भूपदत्रयम् । इंद्र उवाच । सत्यमेतद्दानवेन्द्र यदुक्तं भवता हि मे
“若他得了三‘步’之地,于我便是羞辱。”因陀罗说道:“此言确实,噢檀那婆之主——你对我所说的。”
Verse 168
भूमेः पदत्रयार्थित्वं द्विजेनानेन मे कृतम् । एतावता त्वयं चार्थी मयाप्यस्य कृते भवान्
借由这位婆罗门,我求取三步之地的愿望已得成就。由此,你也成了求者;而我亦为他之故,借由你同样成了求者。
Verse 169
दनुपुत्रो याचितोसि वरमेतत्प्रदीयताम् । बाष्कलिरुवाच । पदत्रयं वामनाय देवराज प्रतीच्छ मे
“你这檀奴之子,已被请求赐予恩愿——愿此恩愿得以成就。”婆湿迦利说道:“诸天之王啊,请从我这里接受为侏儒化身婆摩那所求的三步。”
Verse 170
तत्र त्वं सुचिरं कालं सुखी सुरपते वस । एवमुक्त्वा बाष्कलिना वामनाय पदत्रयम्
“诸天之主啊,你当在彼处久远安住,常得安乐。”婆湿迦利如此说罢,便向婆摩那奉献那三步之许。
Verse 171
तोयपूर्वं तदा दत्तं प्रीयतां मे हरिः स्वयम् । दत्ते तु दानवेंद्रेण त्यक्त्वा रूपं च वामनम्
当时先以净水为前导而施与,他说道:“愿哈利亲自悦纳于我。”待檀那婆之王完成布施后,哈利便舍离了婆摩那之形。
Verse 172
हरिराचक्रमे लोकान्देवानां हितकाम्यया । यज्ञपर्वतमासाद्य गत्वा चैव उदङ्मुखः
哈利为诸天之福祉而行,踏遍诸界;及至祭祀之山(Yajña),便面向北方而前往。
Verse 173
देवस्य वामचरणे निविष्टो दानवालयः । तत्र क्रमं स प्रथमं ददौ सूर्ये जगत्पतिः
檀那婆的居处安住在主的左足之下;在那里,世界之主首先将一步踏在太阳之上。
Verse 174
द्वितीयं च ध्रुवे देवस्तृतीयेन च पार्थिव । ब्रह्मांडस्ताडितस्तेन देवेनाद्भुतकर्मणा
第二击时,神击中了德鲁瓦;第三击时,哦国王,那位行迹奇妙的神又击打了宇宙之卵(梵卵),即整个世界。
Verse 175
अंगुष्ठाग्रेण भिन्नेंडे जलं भूरि विनिःसृतम् । प्लावयित्वा ब्रह्मलोकान्सर्वान्लोकाननुक्रमात्
当宇宙之卵在尖端处仿佛被拇指尖点裂时,浩瀚之水奔涌而出,先淹没梵天界,继而依次漫过诸世界。
Verse 176
ध्रुवस्थानं सूर्यलोकं प्लाव्य तं यज्ञपर्वतम् । प्रविष्टा पुष्करं धारा धौत्वा विष्णुपदानि सा
那道水流漫过德鲁瓦之位与太阳界,又淹没祭祀之山,洗净毗湿奴的足迹之后,便流入普什迦罗。
Verse 177
पदानि यानि जातानि वैष्णवानि धरातले । तत्राश्रमे तु यो गत्वा स्नानं वाप्यां समाचरेत्
凡在大地上出现过毗湿奴信众(毗湿奴派)的足迹之处,若有人前往那座修行林(阿湿罗摩),并在其圣池中如法沐浴,
Verse 178
अश्वमेधफलं तस्य दर्शनादेव जायते । एकविंशगणोपेतो वैकुंठे वासमाप्नुयात्
仅仅瞻仰此处,便得阿湿婆梅陀(马祭)之功德;并有二十一众随从相伴,得以往生并安住于毗昆塔天界。
Verse 179
भुक्त्वा तु विपुलान्भोगान्कल्पानां तु शतत्रयम् । तदंते जायते राजा सार्वभौमः क्षिताविह
他享受了丰盛的福乐三百劫;在那期限终了之时,便在此世间大地上出生为一位至高的转轮圣王、普世君主。
Verse 180
तोयधारा तु सा भीष्म अंगुष्ठाग्राद्विनिःसृता । नदी सा वैष्णवी प्रोक्ता विष्णुपादसमुद्भवा
噢,毗湿摩,那可怖的水流从拇指尖涌出;此河被宣说为“毗湿奴之河”(Vaiṣṇavī),乃由毗湿奴之足所生。
Verse 181
अनेन कारणेनाभूद्गंगा विष्णुपदी नृप । यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
因此,噢,国王,恒河得名“毗湿奴足迹之河”(Viṣṇupadī);凭借她,此三界——动与不动的一切——皆被遍满。
Verse 182
अंगुष्ठाग्रक्षतादंडाद्यत्प्रविष्टं जलं शुभम् । प्राप्तं देवनदीत्वं तु यातु विष्णुपदी नदी
愿那从拇指尖伤痕所标记之杖处进入的吉祥之水,得成天界之河的尊位,并成为“毗湿奴足迹之河”(Viṣṇupadī)。
Verse 183
देवनद्या तया व्याप्तं ब्रह्मांडं सचराचरम् । विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया
噢,有福者,凭借那条天界圣河,整个宇宙——动与不动的一切——都被遍满;以她无量的神力,只因她愿向众生普施恩佑。
Verse 184
स बाष्कलिर्वामनेन उक्तः पूरय मे क्रमान् । अधोमुखस्तदा जात उत्तरं नास्य विंदति
巴什迦利被侏儒化身婆摩那告诫道:“成就我的三步。”他当下垂首沮丧,竟寻不出一句答复。
Verse 185
मौनीभूतं तु तं दृष्ट्वा पुरोधा वाक्यमब्रवीत् । स्वाभाविकी दानशक्तिर्न तु स्रष्टुं वयं क्षमाः
见他默然无言,家族祭司说道:“施与之力本为我等天性,然所施之物并非我等所能创造。”
Verse 186
यावतीयं धरा देव सा दत्तानेन ते प्रभो । उक्तो बाष्कलिना विष्णुर्यावन्मात्रा वसुंधरा
主啊,此大地有多广大,他便已将同等之量奉献于你。巴什迦利如是对毗湿奴陈说,尽述大地的全体尺度。
Verse 187
या सृष्टा भवता पूर्वं सा मया न च गोपिता । अल्पाभूमिर्भवान्दीर्घो न तु सृष्टेरहं क्षमः
你先前所创之造化,我未能守护。你广大无边,而大地狭小;故我无力承担并维系这创造之业。
Verse 188
इच्छाशक्तिः प्रभवति प्रभोस्ते देव सर्वदा । निरुत्तरस्तदा विष्णुर्मत्वा तं सत्यवादिनम्
主啊,神圣者,你的意志之力恒常得胜。于是毗湿奴认定他为诚实之人,也一时无言,默然不答。
Verse 189
ब्रूहि दानवमुख्य त्वं कं ते कामं करोम्यहम् । मम हस्तगतं तोयं त्वया दत्तं तु दानव
“告诉我吧,诸达那婆之首,你愿我成就你何等心愿?此水今在我掌中,乃你所授,达那婆啊。”
Verse 190
तेन त्वं वरयोग्योसि वराणां भाजनं शुभं । दास्येहं भवतः काममर्थीयेन वृणुष्व ह
“因此你堪受赐福,乃诸福之吉祥受器。我将赐你所愿;你且择取所求,因为我已准备施与。”
Verse 191
विज्ञप्तो हि तदा तेन देवदेवो जनार्दनः । भक्तिं वृणोमि देवेश त्वद्धस्तान्मरणं हि मे
“于是他向诸神之神阇那尔达那祈请。(他说:)‘噢,众神之主,我选择虔敬;并且愿我的死亡确由你亲手赐下。’”
Verse 192
व्रजामि श्वेतद्वीपं ते दुर्लभं तु तपस्विनाम् । आहैवमुक्ते विष्णुस्तं तिष्ठस्वैव युगांतरम्
“‘我将前往白洲(Śvetadvīpa),此处实为苦行者亦难得至。’言毕,毗湿奴对他说:‘你且留在此处,直至此劫(此一瑜伽)终了。’”
Verse 193
वाराहरूपी यदाहं प्रवेक्ष्यामि धरातलम् । तदा हनिष्येहं त्वां तु मदग्रे च यदैष्यसि
“当我以野猪(Varāha)之形进入大地之面时,那时我将在此诛灭你——当你来到我面前之际。”
Verse 194
उक्तोथ दानवस्तेन अपासर्प्पत्तदग्रतः । वामनेन समाक्रांताः सर्वे लोकास्तदा नृप
他如此告诫之后,达那婆从他面前退去。于是,王啊,婆摩那遍满并跨越了一切世界。
Verse 195
असुरैस्तैस्तदा त्यक्तं देवानां सत्यभाषणम् । देवो हृत्वा तु त्रैलोक्यं जगामादर्शनं विभुः
那时那些阿修罗弃绝了诸天的真实言语;而大能的主夺取三界之后,便隐没不见。
Verse 196
पातालनिलयश्चापि सुखमास्ते स बाष्कलि । शक्रोपि पालयामास विपश्चिद्भुवनत्रयम्
婆湿迦梨亦居于波多罗,在那里安乐而住;而释迦亦然,善于治理,统御三界。
Verse 197
अयं त्रैविक्रमो नाम प्रादुर्भावो जगद्गुरोः । गंगासंभवसंयुक्तस्सर्वकल्मषनाशनः
此乃世间导师之显现,名为“三步越界者”(Trivikrama);与圣恒河的出现相连,能灭尽一切垢染与罪障。
Verse 198
विष्णोः पदानामेषा ते उत्पत्तिः कथिता नृप । यां श्रुत्वा तु नरो लोके सर्वपापैः प्रमुच्यते
王啊,我已向你讲述了毗湿奴圣足印的起源;世间之人若闻此事,便能解脱一切罪业。
Verse 199
दुःस्वप्नं दुर्विचिंत्यं च दुःष्करं दुःष्कृतानि च । क्षिप्रं हि नाशमायांति दृष्टे विष्णुपदत्रये
恶梦、烦乱之思、艰难障碍,乃至恶业,皆在瞻礼毗湿奴三足印时迅速消灭。
Verse 200
युगानुक्रमशो दृष्ट्वा पापिनो जंतवस्तथा । सूक्ष्मता दर्शिता भीष्म विष्णुना पददर्शने
噢毗湿摩,毗湿奴依诸劫次第观照罪恶众生之真实相,并以示现神圣足印而显露微妙真理。