Uttara BhagaAdhyaya 5070 Verses

The Greatness of Kāśī (Avimukta): Pilgrimage Calendar, Yātrā-Dharma, and the Network of Śiva-Liṅgas

在婆苏教诲摩希尼的对话中,本章先确立朝圣(tīrtha-yātrā)的“适时”(kāla),将不同月份分配给诸天群体,使其在具名的水池/圣地(kuṇḍa/tīrtha)如迦摩池、鲁陀罗住处、毗利耶女神池、吉祥天女池、摩尔甘底耶湖、俱胝圣地、解颅罪处(Kapāla-mocana)、迦勒湿伐罗等处沐浴礼拜。继而宣说行旅之法(yātrā-dharma):施舍水罐并供食与花,于恰特罗月守以高丽(Gaurī)为中心的第三日(tṛtīyā)功德行,礼敬天门处(Svargadvāra)的迦利迦(Kālikā)及更高形相(Saṃvartā/Lalitā),供养湿婆信众的婆罗门,并召请“五高丽”。又详述以毗那夜迦(Vināyaka)次第观礼除障:Ḍhuṇḍhi、Kila、Devyā、Goprekṣa、Hasti-Hastin、Sindūrya,并以甜团(laddu)供瓦达瓦(Vaḍava)。随后按方位描绘护持圣域(kṣetra)的旃提迦(Caṇḍikā),并转述阿毗穆克多(Avimukta)的河流与汇合处——三流河/曼陀吉尼/摩蹉优陀梨,以及恒河(Gaṅgā)吉祥降临。最后密集铺陈圣地地理:那德湿伐罗、解颅罪处、唵迦雷湿伐罗(A-U-M神学)、五坛(Pañcāyatana)、Goprekṣaka/Goprekṣeśvara、迦毗罗水潭(Vṛṣadhvaja)、吉祥泉(Hiraṇyagarbha)、Svarlokeśvara/Svarlīla、Vyāghreśvara/Śaileśvara、Saṅgameśvara、Śukreśvara及与诛灭Jambuka相关之林伽;皆许能灭罪并令往生湿婆世界而得解脱。

Shlokas

Verse 1

वसुरुवाच । अतः परं प्रवक्ष्यामि यात्राकालं तु मोहिनि । देवाद्यैस्तु कृता या तु यथायोग्यफलाप्तिदा ॥ १ ॥

婆苏说道:“如今,噢迷人的女子,我将宣说启行朝圣(yātrā)的适当时节——此时节为诸天等所制定,能依各人资质与持守而赐予相应功德果报。”

Verse 2

चैत्रमासे तु दिविजैर्यात्रेयं विहिता पुरा । तत्रस्थैः कामकुंडे तु स्नानपूजनतत्परैः ॥ २ ॥

在恰伊特拉月,诸天在古时便制定了此朝圣之行。于彼处的迦摩池(Kāmakuṇḍa),住于圣地者专心沐浴净身并行供奉礼拜。

Verse 3

ज्येष्ठमासे तु वै सिद्धैः कृता यात्रा शुभानने । रुद्रावासस्य कुंडे तु स्नानपूजापरायणैः ॥ ३ ॥

噢吉祥容颜者,在阇耶湿吒月,成就的悉达们确曾行此朝圣,专注于在鲁陀罗住处(Rudrāvāsa)的圣池中沐浴与礼拜供养。

Verse 4

आषाढे चापि गंधर्वैर्यात्रेयं विहिता शुभैः । प्रियादेव्यास्तु कुंडे वै स्नानपूजनकारकैः ॥ ४ ॥

并且在阿沙陀月,此朝圣亦由吉祥的乾闼婆所建立——他们在普利雅天女(Priyādevī)的圣池中行沐浴与供奉礼拜。

Verse 5

विद्याधरैस्तु यात्रेयं श्रावणे मासि मोहिनि । लक्ष्मीकुंडस्थितैश्चीर्णा स्नानार्चनपरायणैः ॥ ५ ॥

噢迷人的女子,在室罗伐那月,此朝圣由持明者(Vidyādhara)奉行;住于吉祥天女池(Lakṣmī-kuṇḍa)者亦如法修持,专注于仪式沐浴与供奉礼拜。

Verse 6

मार्कंडेयह्रदस्थैस्तु स्नानपूजनतत्परैः । कृता यक्षैस्तु यात्रेयमिषमासे वरानने ॥ ६ ॥

噢,容颜姣美者!在伊沙月(Iṣa),住于摩尔坎ḍ耶湖的夜叉众,专心沐浴净身并奉行礼拜,完成了此一朝圣之行。

Verse 7

पन्नगैश्चैव यात्रेयं मार्गमासे तु मोहिनि । कोटितीर्थस्थितैश्चीर्णा स्नानपूजाविधायकैः ॥ ७ ॥

噢,摩希尼!此朝圣当在摩伽希尔沙月(Mārgaśīrṣa)与诸那伽同修;住于拘提提尔塔(Koṭitīrtha)者依法奉行,并制定沐浴与礼拜的正仪。

Verse 8

कपालमोचनस्थैस्तु गुह्यकैः शुभलोचने । पौषे मासि कृता यात्रा स्नानध्यानार्चनान्वितैः ॥ ८ ॥

噢,善目者!在保沙月(Pauṣa),住于“解颅”(Kapāla-mocana)之地的古希耶迦众行此朝圣,伴以沐浴、禅观与供奉礼拜。

Verse 9

कालेश्वराख्यकुंडस्थैः फाल्गुने मासि शोभने । पिशाचैस्तु कृता यात्रा स्नानपूजादितत्परैः ॥ ९ ॥

在吉祥的法尔古那月(Phālguna),噢,端丽者!住于名为迦勒湿伐罗(Kāleśvara)的圣池之毗舍遮众,行此朝圣,专注于沐浴与礼拜等诸行。

Verse 10

फाल्गुने तु शुभे मासे सिते या तु चतुर्दशी । तेन सा प्रोच्यते देवि पिशाची नाम विश्रुता ॥ १० ॥

噢,女神!在吉祥的法尔古那月(Phālguna)明半月中所逢的第十四日(caturdaśī),因此被称说并广为人知,名为“毗舍遮尼”(Piśācī)。

Verse 11

अथ ते संप्रवक्ष्यामि यात्राकृत्यं शुभानने । कृतेन येन मनुजो यात्राफलमवाप्नुयात् ॥ ११ ॥

如今,噢容颜端美者,我将为你宣说旅途中应行之正当仪轨;人若依之奉行,便能圆满获得此行朝圣(yātrā)之全部功德果报。

Verse 12

उदकुंभास्तु दातव्या मिष्टान्नेन समन्विताः । फलपुष्पसमोपेता वस्त्रैः संछादिताः शुभाः ॥ १२ ॥

当施赠盛水之罐,并备以甘美饮食,佐以果品与花供,且以吉祥之布覆之,使之庄严。

Verse 13

चैत्रस्य शुक्लपक्षे तु तृतीया या महाफला । तत्र गौरी तु द्रष्टव्या भक्तिभावेन मानवैः ॥ १३ ॥

在恰伊特拉月(Caitra)的白半月中,第三月日功德甚大。于此日,人们应以虔敬之心瞻礼并礼拜高丽女神(Gaurī),求其达尔善(darśana)。

Verse 14

स्नानं कृत्वा तु गंतव्यं गोप्रेक्षे तु वरानने । स्वर्द्वारि कालिकादेवी अर्चितव्या प्रयत्नतः ॥ १४ ॥

沐浴之后,噢容颜姣好者,当前往戈普雷克沙(Goprekṣā)。在天门(Svargadvāra)之处,应竭诚礼拜迦利迦女神(Kālikā)。

Verse 15

अन्या चापि परा प्रोक्ता संवर्ता ललिता शुभा । द्रष्टव्या चैव सा भक्त्या सर्वकामफलप्रदा ॥ १५ ॥

又复宣说更高之相:善吉的三缚尔塔(Saṃvartā)、拉利塔(Lalitā)。当以虔敬之心瞻礼于她;因她能赐予一切所愿之果。

Verse 16

ततस्तु भोजयेद्विप्राञ्छिवभक्ताञ्छुचिव्रतान् । वासोभिर्द्दक्षिणाभिश्च पुष्कालभिर्यथार्हतः ॥ १६ ॥

随后,应供养婆罗门——奉事湿婆、持守清净誓戒者——并依其应得,以衣服与丰厚的达克希那(供施)恭敬礼敬。

Verse 17

पंचगौरीः समुद्दिश्य रसान् गंधान्द्विजेऽर्पयेत् । उत्तमं श्रेय आप्रोति सौभाग्येन समन्वितः ॥ १७ ॥

既已启请五位高丽(五Gaurī),当向婆罗门奉献甘美饮食与芬芳之物;具足福运者,得至最高安乐与善利。

Verse 18

विनायकान्प्रवक्ष्यामि क्षेत्रावासे तु विघ्नदान् । यान्संपूज्य नरो देवि निर्विघ्नेन फलं लभेत् ॥ १८ ॥

女神啊,我将述说居于圣地、能致障碍的诸位毗那夜迦;若如法敬拜他们,人便无碍得获所求之果。

Verse 19

ढुण्ढिं तु प्रथमं दृष्ट्वा तथा किलविनायकम् । देव्या विनायकं चैव गोप्रेक्षं हस्तिहस्तिनम् ॥ १९ ॥

先观见Ḍhuṇḍhi,其后确当观见Kila‑Vināyaka;亦当观见Devyā‑Vināyaka、Goprekṣa与Hasti‑Hastin。

Verse 20

विनायकं तकथैवान्यं सिंदूर्यं नाम विश्रुतन् । चतुर्थ्यां देवि द्रंष्टव्या एवं चैव विनायकाः ॥ २० ॥

同样,还有另一位毗那夜迦,名闻为Sindūrya;女神啊,于Caturthī之日应前往得其达尔善(瞻礼)。如是,此行持中诸毗那夜迦皆当观见。

Verse 21

लड्डुकाश्च प्रदातव्या एतानुद्दिश्य वाडवे । एतेन चैव कृत्येन सिद्धिमाञ्जायते नरः ॥ २१ ॥

应当供奉拉杜甜团(仪式甜点),并回向于瓦达瓦——海底之火。凭此修持,行者即得悉地(siddhi),成就灵性圆满。

Verse 22

अतः परं प्रवक्ष्यामि चंडिकाः क्षेत्ररक्षिकाः । दक्षिणे रक्षते दुर्गा नैर्ऋते चांतरेश्वरी ॥ २२ ॥

接下来我将宣说守护圣域的诸位旃提迦:南方由杜尔迦护持,西南(奈利哩多方)由安达雷湿瓦丽护持。

Verse 23

अंगारेशी पश्चिमे तु वायव्ये भद्रकालिका । उत्तरे भीमचंडा च महामत्ता तथैशके ॥ २३ ॥

西方为安伽雷湿伊;西北(风方)为跋陀罗迦利迦。北方为毗摩旃提迦,东北(伊舍那方)为摩诃末多。

Verse 24

ऊर्द्ध्वकेशीसमायुक्ताशांकरी पूर्वतः स्मृता । अधः केशी तथाग्नेय्यां चित्रघंटा च मध्यतः ॥ २४ ॥

具“乌尔达瓦凯希”(发上竖)之相的商羯梨,被忆念为在东方;“阿达哈凯希”(发下垂)亦在东南(火方);而“奇特拉甘塔”安住于中央。

Verse 25

एतास्तु चंडिकादेवीर्यो वै पश्यति मानवः । तस्य तुष्टाश्च ताः सर्वाः क्षेत्रं रक्षति तत्पराः ॥ २५ ॥

凡得以瞻礼这些旃提迦女神之人,诸女神皆对其欢喜,悉心守护此刹土(kṣetra)圣境。

Verse 26

विघ्नं कुर्वंति सततं पापिनां देवि सर्वदा । तस्माद्देव्यः सदा पूज्या रक्षार्थे सविनायकाः ॥ २६ ॥

噢女神啊,罪人之身常常、时时都会生起障碍;因此,为求护佑,应当恒常礼敬诸女神,并同礼毗那耶迦(象头神伽内沙)。

Verse 27

यदीच्छेत्परमां सिद्धिं संततिं विभवं सुखम् । ततो भक्त्या गंधपुष्पनैवेद्यादीन्समर्प्पयेत् ॥ २७ ॥

若有人希求至上成就、子嗣、富饶与安乐,就应以虔爱之心奉献香料、花鬘、食供(naivedya)等诸供品于神明。

Verse 28

अन्यच्च ते प्रवक्ष्यामि तस्मिन्स्थाने सुलोचने । तिस्रो नद्यस्तु तत्रस्था वहंति च शुभोदकाः ॥ २८ ॥

此外,噢明眸者,我还要告诉你那处圣地:那里有三条河流安住,流淌着吉祥之水。

Verse 29

तासां दर्शनमात्रेण ब्रह्महत्या निवर्तिते । एका तु तत्र त्रिस्रोता तथा मंदाकिनी परा ॥ २९ ॥

仅仅瞻见那些圣河,连“梵杀罪”(brahma-hatyā,杀害婆罗门之罪)亦得消除。其中一条名为“三流河”Trisrotā,另一条著名者为曼达吉尼 Mandākinī。

Verse 30

मत्स्योदरी तृतीया च एतास्तिस्रतु पुण्यदाः । मंदाकिनी तत्र पुण्या मध्यमेश्वरसंस्थिता ॥ ३० ॥

玛次约达丽(Matsyodarī)以及第三条河流——这三条皆能赐予福德。在那里,曼达吉尼亦为圣河,因为它坐落于中间自在天(Madhyameśvara)的圣所。

Verse 31

संस्थिता त्रिस्रोतिका च अविमुक्तेति पुण्यदा । मत्स्योदरी तु ॐकारे पुण्यदा सर्वदैव हि ॥ ३१ ॥

(此圣地/圣流)名为“桑斯提塔”,亦称“三源流”(Trisrotikā)与“不舍离”(Avimuktā)——各各皆赐功德。于“唵迦罗”(Oṃkāra)处,又名“鱼腹河”(Matsyodarī),恒常赐予净化之功德。

Verse 32

तस्मिन्स्थाने यदा गंगा आगमिष्यति मोहिनी । तदा पुण्यतमः कालो देवानामपि दुर्लभः ॥ ३२ ॥

当迷人圣洁的恒河(Gaṅgā)抵达那处圣地之时,那一刻便成至上吉祥之时——稀有得连诸天也难以得遇。

Verse 33

वरणासिक्तसलिले जाह्नवीजलविप्लुते । तत्र नादेश्वरे पुण्ये स्नातः किमनुशोचति ॥ ३३ ॥

当水流与瓦拉那(Varaṇā)相融,又为阇诃那维(Jāhnavī,即恒河)之水所漫溢之时,在那圣洁的那德湿伐罗(Nādeśvara)沐浴者——又还有什么可哀叹呢?

Verse 34

मत्स्योदरीसमायुक्ता यदा गंगा बभूव ह । तस्मिन्काले शिवः स्नानात्कपालं मुक्तवाञ्छुभे ॥ ३४ ॥

吉祥者啊,当恒河(Gaṅgā)与鱼腹河(Matsyodarī)相合之时,彼时湿婆(Śiva)沐浴之后,弃下了那头骨。

Verse 35

कपालमोचनं नाम तत्रैव सुमहत्सरः । पावनं सर्वसत्त्वानां पुण्यदं परिकीर्तितम् ॥ ३५ ॥

就在彼处,有一座极大的湖,名为“解髑髅池”(Kapālamocana)。经宣说,它能净化一切众生,并赐予功德。

Verse 36

मत्स्योदरीजले गंगा ॐकारेश्वरसन्निधौ । तदा तस्मिञ्जले स्नात्वा दृष्ट्वा चोंकारमीश्वरम् ॥ ३६ ॥

在那里,恒河在摩蹉多梨之水中流淌,正临近唵迦雷湿伐罗。随后在那水中沐浴,并瞻礼唵迦之主者,便得加持。

Verse 37

शोकं जरां मृत्युबंधं ततो न स्पृशते नरः । तस्मिन्स्रातः शिवः साक्षादोंकारेश्वरसंज्ञितः ॥ ३७ ॥

凡在彼处沐浴之人,不再为忧苦、衰老与死亡之系缚所触;因为在那里,湿婆亲自显现,名号即唵迦雷湿伐罗。

Verse 38

एतद्रहस्यमाख्यातं तव स्नेहाद्वरानने । अकारं चाप्युकरं च मकारं च प्रकीर्तितम् ॥ ३८ ॥

噢,容颜姣美者,因怜爱于你,我已宣说此秘密;并且也宣扬了音节“阿(A)”“乌(U)”“牟(M)”。

Verse 39

अकारस्तत्र विज्ञेयो विष्णुलोकगतिप्रदः । तस्य दक्षिणपार्श्वे तु उकारः परिकीर्तितः ॥ ३९ ॥

在那里,应知音节“阿(A)”能赐予通往毗湿奴界之道;在其右侧,则宣说有音节“乌(U)”。

Verse 40

तत्र सिद्धिं परां प्राप्तो देवाचार्यो बृहस्पतिः । ॐकारं तत्र विज्ञेयं ब्रह्मणः पदमव्ययम् ॥ ४० ॥

在那里,布里哈斯帕提——诸天之师——成就了至上悉地。亦当知在那里,音节“唵(Oṃ)”是不坏的梵之住处(至上境界)。

Verse 41

तयोस्तथोत्तरे भागे मकारं विष्णुसंज्ञितम् । तस्मिँल्लिंगे तु संसिद्धः कपिलर्षिर्महामुनिः ॥ ४१ ॥

在那些圣相的北方部分,音节“ma”被称为毗湿奴之名。就在那一灵伽中,大圣者迦毗罗牟尼——已成就的仙人——证得圆满的灵性成就。

Verse 42

वाराणसीमभ्युपेत्य पंचायतनमुत्तमम् । आराध्यमानो देवशं भीष्मस्तत्र स्थितोऽभवत् ॥ ४२ ॥

抵达婆罗那西,并来到最殊胜的五神坛(Pañcāyatana)圣所后,毗湿摩便住于其间,受诸天众神礼敬供奉。

Verse 43

तस्मिन्स्थाने तु सुभगे स्वयमाविरभूच्छिवः । गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदैवतैः ॥ ४३ ॥

在那吉祥之地,湿婆自然而然地亲自显现。祂以“Goprekṣaka”(守望并护持群牛者)之名闻名,并受一切诸神赞颂。

Verse 44

गोप्रेक्षेश्वरमागत्य दृष्ट्वाभ्यर्च्य च मानवः । न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ॥ ४४ ॥

凡来到戈普雷克舍湿伐罗(Goprekṣeśvara),瞻礼后虔诚供奉者,必不堕入恶趣,并得脱离诸罪垢。

Verse 45

वनस्था दह्यमानास्तु सुरभ्यो दाववह्निना । म्रमंत्योऽस्मिन्ह्रदेऽभ्येत्य शांतास्तोयं पपुस्तदा ॥ ४५ ॥

其时,居于林中的芬芳苏罗毗母牛,被林火灼烧而四处奔走;来到此湖后,便得清凉安宁,当即饮其湖水。

Verse 46

कपिला ह्रद इत्येवं ततः प्रभृति कथ्यते । तत्रापि स शिवः साक्षाद्वषध्वज इति स्मृतः ॥ ४६ ॥

自那时起,此处便被称为“迦毗罗湖”(Kapilā-hrada)。在此地,湿婆亲自显在,亦被忆念为“弗利沙陀伐阇”(Vṛṣadhvaja)——旗帜饰有公牛者。

Verse 47

सान्निध्यं कृतवान्देवो दृश्यमानः सदा स्थितः । कपिलाह्रदतीर्थेऽस्मिन्स्नात्वा संयतमानसः ॥ ४७ ॥

天神在此建立了神圣的临在,恒常安住,宛如可见。若于此迦毗罗湖圣地(tīrtha)沐浴,摄心自持、澄定其意,(便得亲近于祂)。

Verse 48

वृषध्वजं शिवं दृष्ट्वा सर्वयज्ञफलं लभेत् । स्वर्लोकतां मृतस्तत्र पूजयित्वा शिवो भवेत् ॥ ४८ ॥

得见湿婆——牛旗之主弗利沙陀伐阇(Vṛṣadhvaja)者,便获一切祭祀之果。若在彼处礼敬而终,得生天界;诚然,得与湿婆相应之境。

Verse 49

लभते देहभेदेन गणत्वं चातिदुर्लभम् । अस्मिन्नेव प्रदेशे तु गावो वै ब्रह्मणा स्वयम् ॥ ४९ ॥

舍离此身之后,便得极其难得之位——隶属于神众(gaṇa)。确实,就在此地,群牛乃由梵天(Brahmā)亲自安立。

Verse 50

शांत्यर्थं सर्वलोकानां सर्वान्पावयितुं ध्रुवम् । भद्रदोहं सरस्तत्र पुण्यं पापहरं शुभम् ॥ ५० ॥

为令诸世界得安宁,并确然净化一切众生,彼处有一湖名“跋陀罗多诃”(Bhadradoha)——圣洁吉祥,能除罪垢。

Verse 51

तस्मिन्स्थाने नरः स्नातः साक्षाद्वागीश्वरो भवेत् । शिवस्तत्र समानीय स्थापितः परमेष्ठिना ॥ ५१ ॥

在那神圣之处,凡人若于彼处沐浴,便宛如成为“言语之主”,得灵感而善辩。就在那儿,帕拉梅什提因(梵天 Brahmā)亲自迎请并安立了湿婆(Śiva)。

Verse 52

ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः । हिरण्यगर्भ इत्येवं नाम्ना तत्र स्थितः शिवः ॥ ५२ ॥

又将与梵天(Brahmā)相连的精髓/威力摄取汇聚之后,毗湿奴(Viṣṇu)再次在彼处安立(祂)。因此,湿婆(Śiva)以“金胎”(Hiraṇyagarbha)之名住于其地。

Verse 53

पुनश्चापि ततो ब्रह्मा स्वर्लोकेश्वरसंज्ञकम् । स्थापयामास वै लिंगं स्वर्लीलं कारणे क्वचित् ॥ ५३ ॥

随后,梵天(Brahmā)又安立了一尊名为“天界主”(Svarlokeśvara)的林伽。并且在某处,为了特定的神圣旨意,他也建立了“天界戏乐”(Svarlīla)之林伽。

Verse 54

दृष्ट्वा वै तं तु देवेशं शिवलोके महीयते । प्राणानिह पुनस्त्यक्त्वा न पुनर्जायते क्वचित् ॥ ५४ ॥

确然,凡得见那位天神之主者,将在湿婆之界受尊崇;而当其后来在此处再度舍离生命之息时,便不再于任何处所复生。

Verse 55

अनंता सा गतिस्तस्य योगिनामेव या स्मृता । अस्मिन्नेव महीदेशे दैत्यो दैवतकंटकः ॥ ५५ ॥

此即被称为他的无尽究竟归宿——唯有瑜伽行者方能了知。在这片大地的此一地区,另有一位阿修罗族(Daitya),乃诸天之刺、诸神之患。

Verse 56

व्याघ्ररूपं समास्थाय निहतो दर्पितो बली । व्याघ्रेश्वर इति ख्यातो नित्यं तत्र समास्थितः ॥ ५६ ॥

化现为虎之形,那傲慢而强盛者被诛灭。其名遂著为“毗耶伽罗伊湿伐罗”(Vyāghreśvara,意为“虎形之主”),恒常安住于彼处。

Verse 57

न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम् । हिमवत्स्थापितं लिंगं शैलेश्वरमिति स्थितम् ॥ ५७ ॥

凡得瞻礼此“天众之主”者,不复再堕恶趣。此灵伽安立于喜马伐特(Himavat)之上,世称“舍伊勒伊湿伐罗”(Śaileśvara)。

Verse 58

दृष्ट्वैतन्मनुजो भद्रे न दुर्गतिमवाप्नुयात् । उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणो वरात् ॥ ५८ ॥

吉祥的女士啊,凡人若得见此,便不至再堕恶趣。乌特帕拉与毗达拉——那两位阿修罗(Daitya)——因梵天(Brahmā)所赐之恩愿而得势。

Verse 59

स्त्रीलौल्याद्दर्पितौ दृष्ट्वा पार्वत्या निहतावुभौ । सांरंगं कंतुकेनात्र तस्येदं चिह्नमास्थितम् ॥ ५९ ॥

见二者因迷恋女色而骄矜自满,帕尔瓦蒂(Pārvatī)遂将其双双击杀。此处以鹿(sāraṅga)之嬉戏徽记,并兼有弓之印记,作为识别之标。

Verse 60

दृष्ट्वैतन्मनुजो लिंगं ज्येष्ठस्थानं समाश्रितम् । न शोचति पुनर्भद्रे सिद्धो जन्मनि जन्मनि ॥ ६० ॥

吉祥的女士啊,凡人若得见此灵伽,安立于最尊胜之处,便不再忧悲;其人将得成就——生生世世。

Verse 61

समंतात्तस्य देवैस्तु लिंगानि स्थापितानि च । दृष्ट्वा च तानि वै मर्त्यो देहभेदे गणो भवेत् ॥ ६१ ॥

在那圣地四周,诸天确已安立诸多林伽。凡人若得瞻礼这些林伽,舍身之时便得入湿婆之众(伽那)。

Verse 62

नदी वारायणसी चेयं पुण्या पापप्रणाशिनी । क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता ॥ ६२ ॥

此河名为瓦拉亚那西,至为神圣,能灭诸罪。她装点此圣域,并与阇诃那毗(恒河)汇合相连。

Verse 63

स्थापितं संगमे चास्मिन्ब्रह्मणा लिंगमुत्तमम् । संगमेश्वरमित्येव ख्यातं जगति दृश्यताम् ॥ ६३ ॥

在此神圣汇流处,梵天安立了一尊至上的湿婆林伽。愿世间以“桑伽梅湿伐罗”(Saṅgameśvara)之名而识之。

Verse 64

संगमे देवनद्योश्च यः स्नात्वा मनुजः शुभे । अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः ॥ ६४ ॥

吉祥的女士啊,若有人在诸天圣河的汇流处沐浴,并礼拜汇流之主桑伽梅沙那(湿婆),他又怎会畏惧来世再生?

Verse 65

स्थापितं लिंगमेतच्च शुक्रेण भृगुसूनुना । नाम्ना शुक्रेश्वरं भद्रे सर्वसिद्धामरार्चितम् ॥ ६५ ॥

吉祥的女士啊,此林伽正是由婆利古之子、舒克罗(Śukra)所安立。其名为“舒克雷湿伐罗”(Śukreśvara),为一切悉达与诸天所礼敬供奉。

Verse 66

दृष्ट्वैतन्मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः । मृतश्च न पुनर्जन्म संसारे लभते नरः ॥ ६६ ॥

凡人一见此圣相,便立刻解脱一切罪垢;死后亦不再于轮回(saṃsāra)中受生。

Verse 67

जंबुकोऽत्र हतो दैत्यो महादेवेन मोहिनि । तलिंगं तु नरो दृष्ट्वा सर्वान्कामानवाप्नुयात् ॥ ६७ ॥

噢,摩希尼,在此处魔族阇布迦被大自在天(Mahādeva)所诛。凡人瞻礼此灵伽,便能成就一切所愿。

Verse 68

देवैः शक्रपुरोगैश्च एतानि स्थापितानि हि । जानीहि पुण्यलिंगानि सर्वकामप्रदानि च ॥ ६८ ॥

这些灵伽确由诸天所建立,以释迦罗(因陀罗)为首。应知它们是圣灵伽,能赐予一切愿望的圆满。

Verse 69

एवमेतानि सर्वाणि शिवलिंगानि मोहिनि । कथितानि मया तुभ्यं क्षेत्रेऽस्मिन्नविमुक्तके ॥ ६९ ॥

因此,迷人之摩希尼啊,在这名为阿毗穆克塔(Avimukta)的圣域中,我已向你叙述了这一切湿婆灵伽。

Verse 70

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्यं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥

至此,《圣大那罗陀往世书》后分中,摩希尼与婆苏对话里的第五十章——《迦尸的伟大》——圆满结束。

Frequently Asked Questions

It sacralizes time as part of tīrtha efficacy: specific months are validated by divine communities (devas, siddhas, gandharvas, vidyādharas, yakṣas, nāgas, guhyakas, piśācas), turning yātrā into a vrata-kalpa-like discipline where correct timing, snāna, and pūjā determine the promised fruit (phala).

Vināyakas are framed as vighna-kartṛs (obstacle-causers) at sacred places; propitiation converts obstruction into siddhi. The Caṇḍikās are kṣetra-rakṣikās mapped to directions, expressing a protective mandala around the pilgrimage zone; worship aligns the pilgrim with the kṣetra’s guardianship to secure uninterrupted merit and safety.

Kapālamocana is presented as a supreme purifier linked to Śiva’s skull-casting episode (a paradigmatic release from impurity/bondage). Oṃkāreśvara anchors the metaphysical reading of the site via A-U-M theology, connecting local darśana and bathing to Brahman-realization and mokṣa-dharma outcomes.