Adhyaya 3
Purva BhagaFirst QuarterAdhyaya 384 Verses

Sṛṣṭi-varṇana, Bhārata-khaṇḍa-mahātmya, and Jagad-bhūgola (Creation, Glory of Bhārata, and World Geography)

那罗陀请问萨那迦:遍满一切的本初主宰如何生出梵天与诸天。萨那迦以毗湿奴为中心的“不二”教义作答:那罗延那遍在万有;为创生、毁灭与护持而显现为三相——生主/梵天、鲁陀罗与毗湿奴。摩耶/神力既是明知亦是无明:执为分离则系缚,了知不异则解脱。继而概述近似数论派的宇宙生成(自性–神我–时;大、觉、我执;细元素与大元素)及梵天后续诸造化。又描绘垂直宇宙:七上界与下界、须弥山、洛迦洛迦、七洲与环海,并界定婆罗多洲为业地。末后劝修奉爱与无欲之业:一切行持奉献于哈利/婆苏提婆,敬重奉爱者,观那罗延那与湿婆不二,并宣示除婆苏提婆外别无他物存在。

Shlokas

Verse 1

नारद उवाच । कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः । तन्ममाख्याहि सनक सर्वज्ञोऽस्ति यतो भवान् ॥ १ ॥

那罗陀说道:“在远古之时,那遍一切处的本初主宰,如何创造了梵天以及诸天众神?噢,萨那迦,请为我宣说此事——因为你确是全知者。”

Verse 2

श्रीसनक उवाचा । नारायणोऽक्षरोऽनन्तः सर्वव्यापी निरञ्जनः । तेनेदमखिलं व्याप्तं जगत्स्थावरजङ्गमम् ॥ २ ॥

圣者萨那迦说道:“那罗延是不可坏者、无尽者——遍一切处而无垢。由祂遍满此整个宇宙,既遍及不动者,也遍及有情之动者。”

Verse 3

आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः । गुणभेदमधिष्ठाय मूर्त्तित्रिकमवासृजत् ॥ ३ ॥

在创世之初,摩诃毗湿奴自光明而遍满宇宙,统摄三德(guṇa)的差别,化现出三重神圣形相。

Verse 4

सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् । मध्येरुद्राख्यमीथानं जगदन्तकरं मुने ॥ ४ ॥

在远古,为了成就创造之业,主从右侧化生出生主(Prajāpati);又从身之中部显现名为鲁陀罗(Rudra)者——威烈而为世界毁灭之因,噢牟尼。

Verse 5

पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् । तमादिदेवमजरं केचिदाहुः शिवाभिधम् । केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे ॥ ५ ॥

为护持此宇宙,主从左侧显现出不坏的毗湿奴。那位原初、不老的天主——有人称之为“湿婆”;有人宣说他是永恒真实的毗湿奴;也有人称他为梵天(Brahmā)。

Verse 6

तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी । भावाभावस्वरुपा सा विद्याविद्येति गीयते ॥ ६ ॥

毗湿奴的至上神力推动宇宙诸业运转。此力具“有”与“无”之性,故被称颂为明知(vidyā)与无明(avidyā)。

Verse 7

यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते । तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम् ॥ ७ ॥

当众生把宇宙看作与摩诃毗湿奴相分离之时,无明便确立无疑,并成为生起忧苦的根具。

Verse 8

ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद । सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते ॥ ८ ॥

噢,纳罗陀,当“知者”与“所知”等种种限制性的依附(upādhi)消亡之时,那观一切为一的智慧(buddhi)——即被宣说为真实的知识(vidyā)。

Verse 9

एषं माया महाविष्णोर्भिन्ना संसारदायिनी । अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी ॥ ९ ॥

大毗湿奴的此一幻力(Māyā),若被视为与祂分离,便成为赐予轮回系缚者;若以不二之智(无差别)观之,则成为摧灭轮回者。

Verse 10

विष्णुशक्तिसमुद्भूतमेतत्सर्वं चराचरम् । यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति ॥ १० ॥

此一宇宙万有——动与不动——皆由毗湿奴之神力(Śakti)所生。此世间无一离于祂,无论其动或不动。

Verse 11

उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते । अविद्योपाधियोगेनतथेदमखिलं जगत् ॥ ११ ॥

正如虚空因诸限制性依附而似乎被分割,同样,此一全宇宙也因与无明(avidyā)之依附相应而显现为差别。

Verse 12

यथा हरिर्जगद्यापी तस्य शक्तिस्तथा मुने । दाहशक्तिर्यथांगारे स्वाश्रयं व्याप्य तिष्टति ॥ १२ ॥

正如哈利(毗湿奴)遍满整个宇宙,圣者啊,祂的神力(Śakti)亦遍满一切。譬如炽炭之中具燃烧之力,遍充其所依之体;如是此Śakti安住不移,充满其自身之所依。

Verse 13

उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे । भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ॥ १३ ॥

有人称她为乌玛(Umā);有人称她为圣力(Śakti);也有人称她为吉祥天女拉克什米(Lakṣmī)。有人名之为婆罗底(Bhāratī);亦有人称她为吉丽迦(Girijā)与安毗迦(Ambikā)。

Verse 14

दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि । कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी ॥ १४ ॥

她被赞颂为杜尔迦(Durgā)、吉祥黑天女(Bhadrakālī)、旃荼女神(Caṇḍī),亦为大自在天后(Māheśvarī);又为童子母(Kaumārī)与毗湿奴圣母(Vaiṣṇavī);同样也为野猪圣母(Vārāhī)、因陀罗圣母(Indrī)与商婆毗(Śāmbhavī)。

Verse 15

ब्राह्मीति विद्याविद्येति मायेति च तथा परे । प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः ॥ १५ ॥

有人称她为梵母(Brāhmī);有人称她为“明与无明”;也有人称她为“幻力”(Māyā)。至上的圣贤亦说她是“自性”(Prakṛti),并是“更高的至上之力”(Parā)。

Verse 16

शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी । व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता ॥ १६ ॥

那是毗湿奴(Viṣṇu)至上的余力——司掌宇宙的创造等诸般运作——以显与不显之相,遍住于世间一切处。

Verse 17

प्रकृतिश्चपुमांश्चैव कालश्चेति विधिस्थितिः । सृष्टिस्थितिविनाशानामेकः कारणतां गतः ॥ १७ ॥

自性(Prakṛti,原初之性)、神我(Puruṣa,觉知之理)与时间——此为既定之法。唯一的真实成为创造、维持与毁灭的唯一因地。

Verse 18

येनेदमखिलं जातं ब्रह्मरुपधरेण वै । तस्मात्परतरो देवो नित्यइत्यभिधीयते ॥ १८ ॥

由祂使此一切宇宙得以出生——并示现为梵天(Brahmā)之形——因此那位神被称为“Nitya”(常住、永恒);无有高于祂者。

Verse 19

रक्षां करोति यो देवो नित्य इत्यभिधीयते । रक्षां करोति यो देवो जगतां परतः पुमान् ॥ १९ ॥

赐予护佑的那位神,被称为“Nitya”(永恒者)。护持诸世界的那位神,即至上之人(至上人格),超越一切。

Verse 20

तस्मात्परतरं यत्तदव्ययं परमं पदम् ॥ २० ॥

因此,在那之上还有“彼”—不坏的至上境界(最高住处)。

Verse 21

अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः । यः परः कालपुपाख्यो योगिध्येयः परात्परः ॥ २१ ॥

祂是不坏者(Akṣara)——无相无德(nirguṇa)、清净、圆满、常住。祂为至上者,亦名“Kālapu”;为瑜伽行者所当禅观;超越一切超越者。

Verse 22

परमात्मा परानन्दः सर्वोपाधिविवर्जितः । ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः ॥ २२ ॥

至上我(Paramātmā)是至乐(parānanda),远离一切附加限制(upādhi)。祂为至上者,唯以真知方可证知;其圣体即“Sat–Cit–Ānanda”(有、觉、乐)。

Verse 23

योऽसौ शुद्धोऽपि परमो ह्यहंकारेण संयुतः । देहीति प्रोच्यते मूढैरहोऽज्ञानविडम्बनम् ॥ २३ ॥

至上之我本常清净、超越一切;然与我慢(ahaṃkāra)相应时,愚人竟称之为“具身者”(dehī)。呜呼——无明所作,何其讥诮!

Verse 24

स देवः परमः शुद्धः सत्त्वदिगुणभेदतः । मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम् ॥ २४ ॥

彼至上神祇至为清净;又因诸性(guṇa)之差别,以萨埵(sattva)等为始,示现三重形相,成为创造、维持与毁灭之因。

Verse 25

योऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः । स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने ॥ २५ ॥

彼梵天——宇宙之创造者,由其脐中所生莲华而诞生——实为以安乐(ānanda)为自性之真我;故而,圣者啊,除彼之外更无更高者。

Verse 26

अन्तर्यामी जगद्यापी सर्वसाक्षी निरञ्जनः । भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः ॥ २६ ॥

至上主为内在主宰(Antaryāmī),遍满宇宙,为一切之见证,清净无垢。诚然,祂以既有差别又无差别之体性而住——超越而又内在于万有。

Verse 27

यस्य शक्तिर्महामाया जगद्विश्त्रम्भधारिणी । विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः ॥ २७ ॥

祂的大能——大幻力(Mahāmāyā),承持宇宙广大之境——因其为世界生起之因,故智者称之为“自性”(Prakṛti)。

Verse 28

आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः । प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत् ॥ २८ ॥

在创世之初,当大毗湿奴准备显现诸世界时,此过程被理解为三重:原质(Prakṛti)、灵觉之原理(Puruṣa)与时间(Kāla)。

Verse 29

पश्यन्ति भावितात्मानो यं ब्रह्मत्यभिसंज्ञितम् । शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम् ॥ २९ ॥

心灵净化、修持成熟者,得见被称为梵(Brahman)的彼者。那清净无垢的至上住处,正是毗湿奴的最高境地。

Verse 30

एवं शुद्धोऽक्षरोऽनन्तः कालरुपी महेश्वरः । गुणरुपीगुणाधारोजगतामादिकृद्विभुः ॥ ३० ॥

因此,祂清净、不坏、无量无边——化现为时间之相的大自在主;祂既是诸德性(guṇa)之形相,亦为其所依,遍一切处,为诸世界之本初造作者。

Verse 31

प्रकृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ । महान्प्रादुरभूद्धुद्धिस्ततोऽहं समवर्त्तत ॥ ३१ ॥

当原质(Prakṛti)在被称为普鲁沙(Puruṣa)的世间导师面前受激而动时,大原理(Mahat)显现;由此生起觉慧(Buddhi),而由觉慧又生出“我”——我执(ahaṃkāra)。

Verse 32

अहंकाराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च । तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते ॥ ३२ ॥

由我执(ahaṃkāra)生起微细原理——诸细境(tanmātra)与诸根(indriya);而由这些细境,确实出生五大(大元素),以成就世界之构成。

Verse 33

आकाशवाय्वग्रिजलभूमयोऽब्जभवात्मज । यथाक्रमं कारणतामेकैकस्योपयान्ति च ॥ ३३ ॥

噢,莲华所生者(梵天)之子:虚空、风、火、水与地,依次而起,各各成为其后者之因。

Verse 34

ततो ब्रह्या जगद्धाता तामसानसृजत्प्रभुः । तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान् ॥ ३४ ॥

随后,梵天——护持宇宙之主——造作昏暗性(tāmasika)之众生:入畜生胎者,如牛、鸟、鹿等类。

Verse 35

तमप्यसाधकं मत्वा देवसर्गं सनातनात् । ततोवैमानुषं सर्गं कल्पयामास पव्मजः ॥ ३५ ॥

他认为连那自古的诸天之造化亦不足以成其所愿,于是莲华生者(梵天)继而筹建人类之创造。

Verse 36

ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् । एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम् ॥ ३६ ॥

随后他生出达叉等诸子,专志于成办创造之业。由这些儿子,此世界遍满开展——并及诸天、阿修罗与人类。

Verse 37

भुर्भुवश्च तथा स्वश्च महश्वैव जनस्तथा । तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः ॥ ३७ ॥

如是诸界为:Bhūḥ、Bhuvaḥ、Svaḥ、Mahas、Jana、Tapas与Satya;依此次第,诸罗迦层层相叠,上至最上的真谛界——萨提亚罗迦。

Verse 38

अतलं वितलं चैव सुतलं च तलातलम् । महातलं च विप्रेन्द्र ततोऽधच्च रसातलम् ॥ ३८ ॥

阿塔拉与维塔拉,苏塔拉与塔拉塔拉,以及摩诃塔拉——噢,最胜婆罗门——在这些之下还有罗萨塔拉。

Verse 39

पातालं चेति सप्तैव पातालानि क्रमादधः । एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान् ॥ ३९ ॥

而在更下方,依次排列着以帕塔拉为首的七重地下界。在这一切世界中,祂也造就了各界相应的主宰与统领。

Verse 40

कुलाचलान्नदीश्चासौ तत्तल्लोकनिवासिनाम् । वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत् ॥ ४० ॥

祂又安置诸山脉与诸河流;并为各界众生,依其所宜,制定一切行持之法与生活之道。

Verse 41

भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः । लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः ॥ ४१ ॥

在大地中央矗立着须弥山(Meru),为诸天共同依止之所。于大地外缘有洛迦洛迦山(Lokāloka);而其内域之中有七大海。

Verse 42

द्वीपाश्च सप्त विप्रेन्द्र द्वीपे कुलाचलाः । बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः ॥ ४२ ॥

噢,最胜婆罗门啊,有七大洲(dvīpa);每一洲各有其主要山脉。又有著名的外缘诸河;彼处之人被说为如不死者(阿摩罗)般光辉卓绝。

Verse 43

जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा । क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः ॥ ४३ ॥

瞻部洲与名为普拉克沙洲,及娑罗摩罗洲与库沙洲,又有鸠槃遮洲、沙迦洲与补湿迦罗洲——此等皆为诸天之地,天界圣土。

Verse 44

एते द्वीपाः समुद्रैस्तु सत्पसत्पभिरावृताः । लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम् ॥ ४४ ॥

诸洲皆为大海所环绕,而诸海依次各具不同之味:咸水之海、甘蔗汁之海、苏罗酒之海、酥油之海、凝乳之海与乳之海,按其次第围护诸地。

Verse 45

एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तशेत्तराः । ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वतात् ॥ ४५ ॥

此诸洲与诸海,后者皆次第大于前者;当知其广度层层倍增,延展直至洛迦阿洛迦山(Lokāloka)。

Verse 46

क्षारोदधेरुपत्तरं यद्धि माद्रेश्चैव दक्षिणाम् । ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम् ॥ ४६ ॥

在刹罗海(咸海)之北、摩陀罗山之南的那片地域,当知名为婆罗多界(Bhārata-varṣa);此乃能赐一切业行之果报的国土。

Verse 47

अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद । तत्फलं भुज्यते चैव भोगभूमिष्वनुक्रमात् ॥ ४७ ॥

在此处,噢那罗陀,众生造作三类业行;其业果亦必依次在诸享受之地(bhoga-bhūmi)中受用与经历。

Verse 48

भारते तु कृतं कर्म शुभं वाशुभमेव च । तत्फलं क्षयि विप्रेन्द्र भुज्यतेऽन्यत्रजन्तुभिः ॥ ४८ ॥

噢,最胜婆罗门啊,在婆罗多(Bhārata)所作之业,无论吉祥或不吉祥,皆结可坏之果;其果报,众生于身后在他界受用。

Verse 49

अद्यापि देवा इच्छन्ति जन्म भारतभूतले । संचितं सुमहत्पुण्यमक्षय्यममलं शुभम् ॥ ४९ ॥

即便如今,诸天仍渴望生于婆罗多之地;因为在那里能积聚极大功德——不坏、无垢、吉祥。

Verse 50

कदा लभामहे जन्म वर्षभारतभूमिषु । कदा पुण्येन महता यास्याम परमं पदम् ॥ ५० ॥

我们何时才能得生于婆罗多伐尔沙之诸国土?又何时凭借广大功德,得至无上之境、至高之住处?

Verse 51

दानैर्वाविविधैर्यज्ञैस्तपोभिर्वाथवा हरिम् । जगदीशंसमेष्यामो नित्यानन्दमनामयम् ॥ ५१ ॥

或以种种布施,或以祭祀(yajña),或以苦行(tapas)——如是我们将得亲近诃利(Hari),宇宙之主;祂是永恒的喜乐,远离一切苦恼。

Verse 52

यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् । न तस्य सदृशोऽन्योऽस्ति त्रिषु लोकेषु नारद ॥ ५२ ॥

噢,那罗陀(Nārada),凡得生于婆罗多之地而专心礼敬毗湿奴(Viṣṇu)者,于三界之中无有与之等同者。

Verse 53

हरिकीर्तनशीलो वा तद्भक्तानां प्रियोऽपि वा । शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि ॥ ५३ ॥

无论有人恒常唱诵哈利(Hari)的圣名与荣耀,或为祂的奉献者所爱戴——纵使外相憔悴消瘦——此人实为大灵(mahātmā),当为人所识、所敬,乃至诸天亦应礼敬。

Verse 54

हरिपूजारतो नित्यं भक्तः पूजास्तोऽषि वा । भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम् ॥ ५४ ॥

恒常礼拜哈利(Hari)的奉献者——或仅以虔心在礼拜中侍立者——以及食用奉献者所遗之圣食(prasāda)者,皆得至毗湿奴(Viṣṇu)的至上住处。

Verse 55

नारायणेति कृष्णेति वासुदेवेति यो वदेत् । अहिंसादिपरः शन्तः सोऽपि वन्द्यः सुरोत्तमैः ॥ ५५ ॥

凡称念“那罗延(Nārāyaṇa)”“克里希纳(Kṛṣṇa)”“婆苏提婆(Vāsudeva)”之圣名,奉行不害(ahiṃsā)等德行,心地安宁者,此人亦当受礼敬,纵为诸天之最胜者亦应敬拜。

Verse 56

शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत् । सर्वभूतहितो नित्यं सोऽभ्यर्च्यो दिविजैः स्मृतः ॥ ५६ ॥

凡忆念(主)为“湿婆(Śiva)”“青喉者(Nīlakaṇṭha)”“善作吉祥者(Śaṅkara)”者,恒常致力于一切众生之福祉;此人被认为连诸天亦当供敬礼拜。

Verse 57

गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः । अनसूयुःशुचिर्दक्षो यः सोऽप्यर्च्यःसुरेश्वरैः ॥ ५७ ॥

敬爱上师(guru)、禅观湿婆(Śiva)、专注于自身阿湿罗摩(āśrama)之正行,不嫉不怨,清净而能办事者,此人亦当受供养礼拜,纵为诸天之主亦应敬之。

Verse 58

ब्राह्यणानां हितकरः श्रध्दावान्वर्णधर्मयोः । वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः ॥ ५८ ॥

凡为婆罗门之福祉而行,具足对种姓义务与法(varṇa-dharma)的信心,恒常乐于宣说并研习吠陀者——当知此人名为净化同席食列者(paṅkti-pāvana)。

Verse 59

अभेददर्शी देवेशे नारायणशिवात्मके । सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा ॥ ५९ ॥

若有人恒常于诸天之主——其体性为那罗延与湿婆——不见差别,并常观一切皆为梵(Brahman);那么对于如我等众生之分别,又何须多言?

Verse 60

गोषु क्षान्तो ब्रह्मचारी परनिंदाविवर्जितः । अपरिग्रहशी लश्च देवपूज्यः स नारद ॥ ६० ॥

噢,纳罗陀:若有人于诸事能忍,尤于护牛之事更能宽容;守持梵行(brahmacarya),不毁谤他人,无占有之执著,并勤修对诸天的礼敬供养——此人实为可敬之士。

Verse 61

स्तेयादिदोषविमुखः कृतज्ञः सत्यवाक् शुचिः । परोपकारनिरतः पूजनीयः सुरासुरैः ॥ ६१ ॥

远离偷盗等诸过失,知恩报德,言语真实,身心清净,并恒常致力于利益他人者——此人乃为诸天与阿修罗同所敬礼。

Verse 62

वेदार्थश्रवणे बुद्धिः पुराणश्रवणे तथा । सत्संगेऽपि च यस्यास्ति सोऽपि वन्द्यः सुरोत्तमैः ॥ ६२ ॥

凡具慧心能听闻吠陀义理,亦能听闻诸《往世书》(Purāṇa),并且在善士圣众之会(sat-saṅga)中保持坚定者——此人亦为诸天中最尊胜者所应礼敬。

Verse 63

एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः । करोति भारते वर्षे संबन्धोऽस्माभिरेव च ॥ ६३ ॥

如是,具足信心(śraddhā)之人,于婆罗多界(Bhārata-varṣa)行诸多仪轨与本分;而其真实的归依与相应,唯与我等——神圣传承与师长——得以建立。

Verse 64

एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः । स एव दुष्कृतिर्मूढो नास्त्यन्योऽस्मादचेतनः ॥ ६४ ॥

婆罗门啊,在这些教诲/道路之中,若有人连一门都不肯发心修行——此人实为作恶者、迷妄者;再无比他更愚昧无觉之人。

Verse 65

संप्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः । पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः ॥ ६५ ॥

既得生于婆罗多,却背离善业(satkarma)者,犹如弃置甘露之壶,反而依附毒器。

Verse 66

श्रुतिस्मृत्युदितैर्द्धर्मैर्नात्मानं पावयेत्तु यः । स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने ॥ ६६ ॥

然而,若有人不以《闻》(Śruti)与《忆》(Smṛti)所宣示之诸法来自净其身——此人便成自毁其我者,噢牟尼,并为罪人之首。

Verse 67

कर्मभूमिं समासाद्य यो न धर्मं समाचरेत् । स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर ॥ ६७ ॥

噢仙圣之主,得至业地(karmabhūmi,人间行作之境)而不修持正法(dharma)者,被通达吠陀的圣贤宣说为众中最下。

Verse 68

शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः । कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति ॥ ६८ ॥

舍弃吉祥善业而造作恶业者,犹如抛下满愿之牛迦摩德奴,却去寻觅阿尔迦草那乳白之汁。

Verse 69

एवं भारतभूभागं प्रशंसन्ति दिवौकसः । ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः ॥ ६९ ॥

因此,天界诸神赞叹圣洁的婆罗多之地。噢,婆罗门中的最胜者,连梵天等诸天也称颂它,唯恐自身天福享乐终有耗尽之时。

Verse 70

तस्मात्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् । देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् ॥ ७० ॥

因此,当知婆罗多洲最为神圣、最为殊胜——连诸天亦难得此处——因为它赐予一切行为(业,karma)之果报。

Verse 71

अस्मिन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः । न तस्य सदृशं कश्चित्रिषु लोकेषु विद्यते ॥ ७१ ॥

在此福德圣地,凡诚心勤修正行善业者,于三界之中无有与之等同者。

Verse 72

अस्मिञ्जातो नरो यस्तु स्वंकर्मक्षपणोद्यतः । नररुपपरिच्छन्नः स हरिर्नात्र संशयः ॥ ७२ ॥

凡在此世生为人身,而立志消尽自业之果者——虽披人形为衣——实即是诃利(Hari),对此无有疑惑。

Verse 73

परं लोकफलं प्रेप्सुः किर्यात्कर्माण्यतन्द्रितः । निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम् ॥ ७३ ॥

欲求来世至上果报者,当不懈怠而行本分之业;若以奉爱(bhakti)将其果报奉献于哈利(Hari),则此功德被称为不坏、永恒。

Verse 74

विरागी चेत्कर्मफलेष्वपि किंचित्र कारयेत् । अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः ॥ ७४ ॥

即便是离欲之人,若仍因果报之念而促成某种行为,也当将此善业奉献于主,口诵:“愿哈利(Hari)悦纳于我。”

Verse 75

आब्रह्यभुवनाल्लोकाः पुनरुत्पत्तिदायकाः । फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम् ॥ ७५ ॥

一切世界乃至梵天界(Brahmā-loka),皆为反复再生之因;唯有行事不贪其果者,得至最高境地。

Verse 76

वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये । यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम् ॥ ७६ ॥

当行吠陀所宣示之业,以令主宰欢喜;并依自身的住期(āśrama),当生起出离之愿时,便得不坏之境。

Verse 77

निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि । स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः ॥ ७७ ॥

无欲而行也好,有欲而行也好,都应依仪轨如法履行本分;但若缺失自身住期(āśrama)之行持者,智者称之为堕落之人。

Verse 78

सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा । तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद ॥ ७८ ॥

奉持正行的婆罗门,凭梵之光辉而兴盛;对具足奉爱(bhakti)者,毗湿奴必生欢喜,噢,纳罗陀。

Verse 79

भारते जन्म संप्राप्य नात्मानं तारयेतु यः । पच्यते निरये धोरे स त्वाचन्द्रार्कतारकम् ॥ ७९ ॥

既得生于婆罗多,若不努力自度、渡越轮回者,便在可怖地狱中受煎熬,长如月、日与群星尚存之时。

Verse 80

वासदेवपरो धर्मो वासुदेवपरं तपः । वासुदेवपरं ज्ञानं वासुदेवपरा गतिः ॥ ८० ॥

达摩以婆苏提婆为归向;苦行亦以婆苏提婆为归向。智慧亦以婆苏提婆为归向;至上的归宿唯是婆苏提婆。

Verse 81

वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम् । आब्रह्मस्तम्बपर्यन्तं तस्मादन्यन्न विद्यते ॥ ८१ ॥

此一切宇宙——动者与不动者——皆是婆苏提婆之自性。从梵天乃至一叶草芒,除他之外别无所有。

Verse 82

स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरुपः । स एवब्रह्माण्डमिदं ततोऽन्यन्न किंचिदस्ति व्यतिरिक्तरुपम् ॥ ८२ ॥

唯他是造物主;唯他是摧灭三城(Tripura)者;唯他是天神与阿修罗诸祭祀(yajña)之本体。唯他即此整个梵卵宇宙;离他之外,绝无任何别相可得。

Verse 83

यस्मात्परं नापरमस्ति किंचिद्यस्मादणीयान्नतथा महीयान् । व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम् ॥ ८३ ॥

在祂之上再无更高者,离开祂亦无别物;比至微更微妙,却并非仅以体量为“大”。正是由祂遍满渗透,这奇妙的宇宙无不被涵摄。应当顶礼那“天中之天”(Deva-deva)、诸天之主——值得寻求并亲近的至圣者。

Verse 84

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥

至此,《圣大那罗陀往世书》(Śrī Bṛhan-Nāradīya Purāṇa)前分(Pūrva-bhāga)第一品(Pāda)中,名为《造化之述、婆罗多分土(Bharata-khaṇḍa)之荣耀与世界地理之描绘》的第三章圆满结束。

Frequently Asked Questions

Because the text treats māyā/śakti as the Lord’s power: when apprehended as separate from Mahāviṣṇu it functions as avidyā producing duality and sorrow; when apprehended through non-difference (abheda-buddhi) it is reinterpreted as vidyā that dissolves the knower-known split and thus ends saṃsāra.

Bhārata is presented as karmabhūmi—the arena where actions, śruti–smṛti duties, charity, austerity, and Viṣṇu-bhakti can be intentionally performed and dedicated to Hari, yielding imperishable spiritual gain; hence even devas desire birth there to accumulate merit and attain the supreme abode.

No. While framed as Viṣṇu-centric, it explicitly praises non-difference in the Lord of gods—recognizing Nārāyaṇa and Śiva as one reality—so that devotion and right conduct culminate in Brahman-vision beyond factional distinction.