
ऋतध्वज-नागकुमारमैत्री तथा कुभलयाश्वरत्नोपाख्यान (Ṛtadhvaja–Nāgakumāra-maitrī tathā Kuvalayāśvaratna-upākhyāna)
Duties of Life Stages
本章叙述Ṛtadhvaja因守真与奉持正法,与那伽王子们结为深厚友伴。由此引出宝马“俱瓦拉雅”(Kuvalayā)的起源传说:此马为稀世马宝,具护佑之力,助人远行、成就事业并守护名誉。故事流露敬畏、感恩与善缘所生的福泽。
Verse 1
इति श्रीमार्कण्डेयपुराणे दत्तात्रेयीये ऊनविंशोऽध्यायः । विंशोऽध्यायः । जड उवाच प्राग्बभूव महावीर्यः शत्रुजिन्नाम पार्थिवः । तुतोष यस्य यज्ञेषु सोमावाप्त्या पुरन्दरः ॥
于是,在神圣的《摩尔迦ṇḍeya往世书》中,于达塔特雷耶(Dattātreya)之章,第十九章终了;第二十章开始。惰者(Jaḍa)说道:往昔有一位强盛的国王,名为沙特鲁吉特(Śatrujit);在他的祭祀中,由于获得苏摩(Soma),普兰达拉(因陀罗,Indra)心生欢喜。
Verse 2
तस्यात्मजो महावीर्यो बभूवारिविदारणः । बुद्धिविक्रमलावण्यैर्गुरुशक्राश्विभिः समः ॥
其子亦复雄强,为摧敌之人;在智慧、勇武与容貌上,他与布里哈斯帕提(Bṛhaspati)、因陀罗(Indra)及双阿湿毗(Aśvins)相等。
Verse 3
स समानवयो-बुद्धि-सत्त्व-विक्रम-चेष्टितैः । नृपपुत्रो नृपसुतैर्नित्यमास्ते समावृतः ॥
那位王子常被同龄诸王子环绕——在理解、勇气、英武与行止上与他相称——因此恒常与他们相伴而居。
Verse 4
कदाचिच्छास्त्रसम्भार-विवेककृतनिश्चयः । कदाचित् काव्यसंलाप-गीत-नाटकसम्भवैः ॥
有时他凭借对诸论典汇编的明辨研习而得出坚实的结论;有时又从事诗作、雅谈、歌唱与戏剧。
Verse 5
तथैवाक्षविनोदैश्च शस्त्रास्त्रविनयेषु च । योग्यानि युद्धनागाश्व-स्यान्दनाभ्यासतत्परः ॥
同样,他以掷骰之戏自娱,并训练兵器与投射之术——勤勉修习合乎礼法之事:战象、战马与战车。
Verse 6
रेमे नरेन्द्रपुत्रोऽसौ नरेन्द्रतनयैः सह । यथैव हि दिवा तद्वद्रात्रावपि मुदा युतः ॥
于是,那位国王之子与诸王之子一同嬉游;如同白昼一般,夜间亦常与喜悦相连而不离。
Verse 7
तेषां तु क्रीडतां तत्र द्विज-भूप-विशां सुताः । समानवयसः प्रीत्या रन्तुमायान्त्यनेकशः ॥
当他们在那里嬉戏时,婆罗门、王族与吠舍之子——同龄者——怀着亲爱之情,大批前来,共同参与这场游戏。
Verse 8
कस्यचित्त्वथ कालस्य नागलोकान्महीतलम् । कुमारावागतौ नागौ पुत्रावश्वतरस्य तु ॥
随后,过了一段时日,两位那伽少年自那伽界(Nāgaloka)来到人间地表——确然,他们正是阿湿婆多罗(Aśvatara)的两位儿子。
Verse 9
ब्रह्मरूपप्रतिच्छन्नौ तरुणौ प्रियदर्शनौ । तौ तैर्नृपसुतैः सार्धं तथैवान्यैर्द्विजन्मभिः ॥
那两位俊美的少年,隐于婆罗门的外相之下,与诸王子同住,也与其他“二次生”(再生族)的少年们相处。
Verse 10
विनोदैर्विविधैस्तत्र तस्थतुः प्रीतिसंयुतौ । सर्वे च ते नृपसुतास्ते च ब्रह्मविशां सुताः ॥
在那里,两人以情爱相契,停留于种种游乐之中;诸王子以及婆罗门与吠舍之子,也都同在那一团契之内。
Verse 11
नागराजात्मजौ तौ च स्नानसंवाहनादिकम् । वस्त्रगन्धानुसयुक्तां चक्रुर्भागभुजिक्रियाम् ॥
而那伽王的两位儿子安排沐浴、按摩等事,并行侍奉之务,其中包括衣服与香料芬芳。
Verse 12
अहन्यह्यनुप्राप्ते तौ च नागकुमारकौ । आजग्मतुर्मुदा युक्तौ प्रीत्या सूनोर्महीपतेः ॥
日复一日,待每日来临,那两位那伽少年便前来——满怀欢喜与深情——来到王子面前。
Verse 13
स च ताभ्यां नृपसुतः परं निर्वाणमाप्तवान् । विनोदैर्विविधैर्हास्य-सम्लापादिभिरेव च ॥
那位王子因他们而得至上安宁,宛如解脱;借由种种嬉乐——欢笑、戏谑交谈等诸般娱乐。
Verse 14
विना ताभ्यां न बुभुजे न सस्त्रौ न पपौ मधु । न रराम न जग्राह शास्त्राण्यात्मगुणर्धये ॥
没有那二者,他既不进食,也不更衣披甲,亦不饮酒;他不以为乐,也不取经论以增益自身德行。
Verse 15
रसातले च तौ रात्रिं विना तेन महात्मना । निश्वासपरमौ नीत्वा जग्मतुस्तं दिने दिने ॥
而在罗萨塔拉(Rasātala),他们离了那位大心者度过一夜,唯以叹息消磨;随后日复一日,他们前去见他。
Verse 16
मर्त्यलोके परा प्रीतिर्भवतोः केन पुत्रकौ । सहेति पप्रच्छ पिता तावुभौ नागदारकौ ॥
他们的父亲问那两位年轻的那伽道:“在凡人世间,你们二人——我的儿子们——是因谁而得此非凡的深情?”
Verse 17
दृष्टयोरत्र पाताले बहूनि दिवसानि मे । दिवा रजन्यामेवोभौ पश्यामि प्रियदर्शनौ ॥
“多日以来,在此帕塔拉(Pātāla),我昼夜都见到你们二人——实在悦目可观。”
Verse 18
जड उवाच इति पित्रा स्वयं पृष्टौ प्रणिपत्य कृताञ्जली । प्रत्यூचतुर्महाभागावुरगाधिपतेः सुतौ ॥
阇荼说道:于是,当他们的父亲亲自发问时,那位龙蛇之主的两位杰出之子合掌俯首,恭敬作答。
Verse 19
पुत्रावूचतुः पुत्रः शत्रुजितस्तात नाम्ना ख्यात ऋतध्वजः । रूपवानार्जवोपेतः शूरो मानी प्रियंवदः ॥
诸子说道:“父亲啊,那人乃是沙特鲁吉特之子,名闻为‘利陀陀伐阇’(Ṛtadhvaja)——容貌俊美,秉性端直,英勇无畏,志气高昂,言辞甘美。”
Verse 20
अनापृष्टकथो वाग्मी विद्वान् मैत्रो गुणाकरः । मान्यमानयिता धीमान् ह्रीमान् विनयभूषणः ॥
“未被询问则不妄言;辞令雅善,学识渊博,待人友爱,乃诸德之所藏;敬重可敬之人,聪慧明达,谦逊自持,并以良好行持为庄严。”
Verse 21
तस्योपचारसम्प्रीति-सम्भोगापहृतं मनः । नागलोके भुवर्लोके न रतिं विन्दते पितः ॥
我们的心神被那位王子的礼敬、深情与相伴所夺,既不以那伽之界(Nāga-loka)为乐,也不以地上人间为乐。
Verse 22
तद्वियोगेन नस्तात ! न पातालञ्च शीतलम् । परितापाय तत्सङ्गादाह्लादाय रविर्दिवा ॥
“与他分离时,父亲啊,连帕塔拉(Pātāla)对我们也不再清凉。白昼之日灼烧我们;唯有与他相伴,方得欢悦。”
Verse 23
पितोवाच पुत्रः पुण्यवतो धन्यः स यस्यैवं भविद्विधैः । परोक्षस्यापि गुणिभैः क्रियते गुणकीर्तनम् ॥
父亲说道:那位有德之人确实有福,因为他的儿子如此卓越;即使儿子不在身边,有功德之士仍称颂他的善德。
Verse 24
सन्ति शास्त्रविदोऽशीलाḥ सन्ति मूर्खाः सुशीलिनः । शास्त्रशीले समं मन्ये पुत्रौ धन्यतरन्तु तम् ॥
有人通晓经典却缺少善行;也有人未曾受学却举止端正。我认为学识与品德同等重要;愿你们二人(我的儿子)兼具二者,使那人更增福德。
Verse 25
तस्य मित्रगुणान् मित्राण्यमित्राश्च पराक्रमम् । कथयन्ति सदा सत्सु पुत्रवांस्तेन वै पिता ॥
他的朋友称道他待人友善的德行;甚至他的敌人也称述他的英勇,且常在善人之间如此言说。因此,拥有这样的儿子,父亲确实有福。
Verse 26
तस्योपकारिणः कच्चिद् भवद्भ्यामभिवाञ्छितम् । किञ्चिन्निष्पादितं वत्सौ परितोषाय चेतसः ॥
亲爱的两个儿子,你们可曾为那位恩人完成他所期望之事——能使他心中满足之事吗?
Verse 27
स धन्यो जीवितं तस्य तस्य जन्म सुजन्मनः । यस्यार्थिनो न विमुखा मित्रार्थो न च दुर्बलः ॥
他的生命有福,那位出身良善之人的诞生亦有福——凡求助者不致失望而归;当朋友有难时,他亦不显软弱。
Verse 28
मद्गृहे यद् सुवर्णादि रत्नं वाहनमासनम् । यच्चान्यत् प्रीतये तस्य तद्देयमविशङ्कया ॥
凡我家中所有——黄金等物、珠宝、车乘、座具以及其他一切——都应毫不迟疑地施与,以令其心满意足。
Verse 29
धिक् तस्य जीवितं पुंसो मित्राणामुपकारिणाम् । प्रतीरूपमकुर्वन् यो जीवामीत्यवगच्छति ॥
那人虽受朋友扶助,却不作相称回报,反自念“我生活得很好”;如此人生,实为可耻。
Verse 30
उपकारं सुहृद्वर्गे योऽपकारञ्च शत्रुषु । नृमेघो वर्षति प्राज्ञास्तस्येच्छन्ति सदोन्नतिम् ॥
能善待友朋之圈,并能回击仇敌之害者,如同“人间之云”,降下利益之雨;智者恒愿其兴起与昌盛。
Verse 31
पुत्रावूचतुः किं तस्य कृतकृत्यस्य कर्तुं शक्येत केनचित् । यस्य सर्वार्थिनो गेहे सर्वकामैः सदाऽर्च्चिताः ॥
二子说道:那人已成就一切应作之事——其家常受一切求者敬奉,诸所欲物无不具足;又有谁能为他做什么呢?
Verse 32
यानि रत्नानि तद्गेहे पाताले तानि नः कुतः । वाहनासनयानानि भूषणान्यम्बराणि च ॥
他家中的珠宝宛如藏在地下界一般——我们怎能得到那样的东西?又有车乘、座具、舆辇、饰物与衣服等。
Verse 33
विज्ञानं तत्र यच्चास्ति तदन्यत्र न विद्यते । प्राज्ञानामप्यसौ तात सर्वसन्देहहृत्तमः ॥
彼处所具之明辨,余处不可得。即便对智者而言,亲爱的孩子,那一教诲/洞见亦为消除一切疑惑之最上良方。
Verse 34
एकं तस्यास्ति कर्तव्यमसाध्यं तच्च नौ मतम् । हिरण्यगर्भ-गोविन्द-शर्वादीन् ईश्वरादृते ॥
于彼而言,有一事当行而不可行——依我等之见——唯有如金胎(Hiraṇyagarbha)、Govinda、Śarva等诸主及其同类方能成就。
Verse 35
पितोवाच पथापि श्रोतुमिच्छामि तस्य यत् कार्यमुत्तमम् । असाध्यमथवा साध्यं किं वासाध्यं विपश्चिताम् ॥
父亲说道:我愿即便在途中也听闻,他所从事之最高事业为何——是不可行还是可行;并且,对具明辨者而言,何者才是真正可成就之事。
Verse 36
देवत्वममरेशत्वं तत्पूज्यत्वञ्च मानवाः । प्रयान्ति वाञ्छितं वान्यद् दृढं ये व्यवसाहिनः ॥
凡人若志愿坚固,亦能得至神性,成就不死者中之主宰,并获受供养礼敬之位;或得其所欲之他事。
Verse 37
नाविज्ञातं न चागम्यं नाप्राप्यं दिवि चेह वा । उद्यतानां मनुष्याणां यतचित्तेन्द्रियात्मनाम् ॥
对于勤修精进之人——其心、诸根与自我皆已调御——无有不可知者,无有不可至者,无有不可得者,无论在天界或在此人间。
Verse 38
योजनानां सहस्राणि व्रजन् याति पितीलिकः । अगच्छन् वैनतेयोऽपि पादमेकं न गच्छति ॥
一只蚂蚁只要行动,便能行过千千由旬;然而即使是毗那底耶(迦楼罗),若不行动,也连一步都不能前进。
Verse 39
क्व भूतलं क्व च ध्रौव्यं स्थानं यत् प्राप्तवान् ध्रुवः । उत्तानपादनृपतेः पुत्रः सन् भूमिगोचरः ॥
大地与德鲁瓦所证得的“德鲁瓦之位”(Dhruva-sthāna)何其悬殊!虽为乌塔那帕陀王之子,他仍曾是在地上行走之人。
Verse 40
तत् कथ्यतां महाभाग कार्यवान् येन पुत्रकौ । स भूपालसुतः साधुर्येनानृण्यं भवेत वाम् ॥
噢有福者,请告知那一事——凭借何法使两位儿子在所行之业中得以成就;并请述说那位具德的王子,藉由他使你们二人得以脱离债负(即偿还所负之恩义)。
Verse 41
पुत्रावूचतुः तेनाख्यातमिदं तात पूर्ववृत्तं महात्मना । कौमारके यथा तस्य वृतं सद्वृत्तशालिनः ॥
二子说道:慈父,此前的旧事已由那位大心者讲述——即他在童年时,如何观察那位善行之人的行持(亦即他所奉行的誓戒与修持)。
Verse 42
तन्तु शत्रुजितं तात पूर्वं कश्चिदिद्वजोत्मः । गालवोऽभ्यागमद्धीमान् गृहीत्वा तुरगोत्तमम् ॥
如今,慈父,先前有一位卓越的婆罗门(“二次生”中之最)名为沙特鲁吉塔(Śatrujita)。聪慧的伽罗婆(Gālava)前来,携带一匹上等良马。
Verse 43
प्रत्युवाच च राजानं समुपेत्याश्रमं मम । कोऽपि दैत्याधमो राजन् विध्वंसयति पापकृत् ॥
他走近我的隐修林,对国王答道:“大王啊,在诸代底耶之中有一卑劣罪恶之徒,正在毁坏此处。”
Verse 44
तत्तद्रूपं समास्थाय सिंहैभ-वनचारिणाम् । अन्येषाञ्चाल्पकायानामहर्निशमकारणात् ॥
他化作这样或那样的形体——狮子、大象及其他林中走兽,甚至小形之物——无缘无故地昼夜折磨(众生)。
Verse 45
समाधिध्यानयुक्तस्य मौनव्रतरतस्य च । तथा करोति विघ्राणि यथा चलति मे मनः ॥
对于安住于三摩地与禅观、奉持默誓之人,他制造种种障碍,使我的心意不安而摇摆。
Verse 46
दग्धं कोपाग्निना सद्यः समर्थस्त्वं वयं न तु । दुःखार्जितस्य तपसो व्ययमिच्छामि पार्थिव ॥
大王能以忿怒之火立刻焚灭他;我们却不能。大王啊,我不愿那以苦行艰辛所得的修持功德白白耗散。
Verse 47
एकदा तु मया राजन्नतिनिर्विण्णचेतसा । तत्क्लेशितेन निश्वासो निरीक्ष्यासुरमुज्जहितः ॥
然而有一次,大王啊,当我心神极度疲惫之时,我看见那折磨我的阿修罗所逸出的一缕气息(作为征兆/痕迹)。
Verse 48
ततोऽम्बरतलात् सद्यः पतितोऽयं तुरङ्गमः । वाक् चाशरीरिणी प्राह नरनाथ शृणुष्व ताम् ॥
随即,这匹马从天穹之上坠落下来。继而有一无形之声说道:“噢,人中之主,请听此言。”
Verse 49
अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः । समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः ॥
此良马卓绝无比,永不疲惫,能周行大地之全轮;乃由阿尔迦(太阳神)赐予于你。
Verse 50
पातालाम्बरतॊयेषु न चास्य विहता गतिः । समस्तदिक्षु व्रजतो न भङ्गः पर्वतेष्वपि ॥
在地下界、在虚空、在水域之中,它的行进皆不受阻;纵横诸方而行,连群山亦不能为碍。
Verse 51
यतो भूवलयं सर्वमश्रान्तोऽयं चरिष्यति । अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति ॥
既将不知疲倦地周游大地全轮,因此它将在世间以“库瓦拉雅”(Kuvalaya)之名而闻名。
Verse 52
क्लिश्यत्यहर्निशं पापो यश्च त्वां दानवाधमः । तमप्येनं समारुह्य द्विजश्रेष्ठ हनिष्यति ॥
那罪恶而卑下的达那婆,昼夜折磨于你——乘此(马),噢,二次生者中之最胜者,你也将诛杀他。
Verse 53
शत्रुजिन्नाम भूपालस्तस्य पुत्र ऋतध्वजः । प्राप्यैतदश्वरत्नञ्च ख्यातिमेतेन यास्यति ॥
有一位国王名为沙特鲁吉特(Śatrujit);其子名为利塔德瓦贾(Ṛtadhvaja)。得此如宝珠般的骏马,他将因之而获得声名。
Verse 54
सोऽहं त्वां समनुप्राप्तस्तपसो विघ्रकारिणम् । तं निवारय भूपाल भागभाङ्नृपतिर्यतः ॥
因此我为那阻碍苦行者之事而来见你;大王,请约束他——因为统治者若夺取他人应得之分,便是有过。
Verse 55
तदेतदश्वरत्नं ते मया भूप निवेदितम् । पुत्रमाज्ञापय तथा यथा धर्मो न लुप्यते ॥
因此,大王,这匹如宝珠般的骏马已由我奉献于你。请教诲你的儿子,使正法(dharma)不致被违越。
Verse 56
स तस्य वचनाद्राजा तं वै पुत्रमृतध्वजम् । तमश्वरत्नमारोप्य कृतकौतुकमङ्गलम् ॥
遵从圣者之言,国王在举行吉祥仪式与庆典之后,便令其子利塔德瓦贾(Ṛtadhvaja)乘上那匹如宝珠般的骏马。
Verse 57
अप्रेषयत धर्मात्मा गालवेन समं तदा । स्वमाश्रमपदं सोऽपि तमादाय ययौ मुनिः ॥
随后,那位持守正法的国王遣他与伽拉瓦(Gālava)同行。圣者携他同往,回到自己的林栖道场。
The chapter foregrounds nīti (ethical reasoning) around friendship, gratitude, and reciprocity: benefactors should be honored, virtue should be praised even in absence, and śāstra-learning is presented as incomplete without śīla (good conduct).
This Adhyāya is not structured as a Manvantara transition; instead it functions as a dynastic-ethical episode (vaṃśa/nṛpopākhyāna) that links royal dharma to cosmic order by showing a king and prince mobilized to protect ascetic practice from demonic disruption.
It does not belong to the Devī Māhātmya section (Adhyāyas 81–93). Its distinctive contribution is the vaṃśa-centered framing of exemplary kingship (Śatrujit–Ṛtadhvaja) and the aetiology of the horse Kuvalaya, which becomes an instrument of dharmic intervention.