Adhyaya 23
Purva BhagaAdhyaya 2351 Verses

Adhyaya 23

Adhyaya 23: श्वेत-लोहित-पीत-कृष्ण-विश्व-कल्पेषु रुद्रस्वरूप-गायत्री-तत्त्ववर्णनम्

苏多叙述湿婆含笑教诲梵天:在相续诸劫中,湿婆示现不同色相之身——白(Śveta)、红(Lohita)、黄(Pīta)、黑(Kṛṣṇa)——而萨维特丽/伽雅特丽亦以“梵天名相”(Brahma-saṃjñitā)随之对应显现。凭借梵天的苦行(tapas)与瑜伽觉知,湿婆先被证知为萨迪约迦塔(Sadyōjāta);继而依“左道原则”与色相反转而知为瓦摩提婆(Vāmadeva);后又知为塔特普鲁沙(Tatpuruṣa)。湿婆进一步开示其怖畏相(Ghora),并许诺真知者得阿戈罗寂静(Aghora-śānti),最终归于遍一切相的毗湿瓦鲁帕(Viśvarūpa),伽雅特丽遂成毗湿瓦鲁帕(Viśvarūpā)与萨尔瓦鲁帕(Sarvarūpā)。本章又建立四重宇宙范式——四瑜伽(caturyuga)、法之四足、四住期(āśrama)、吠陀/所知之四分——并自布尔界(Bhūr)以上列举诸界,强调毗湿奴界(Viṣṇuloka)与鲁陀罗界(Rudraloka)为稀有且不复还之归宿,唯有持戒自律、离我慢、欲与嗔的二次生者(dvija)可达。梵天礼拜祈求:愿由伽雅特丽而知大自在天(Maheśvara)者得最高位;湿婆允诺,结示此智终至与梵同一(Brahma-sāyujya)。

Shlokas

Verse 1

सूत उवाच तस्य तद्वचनं श्रुत्वा ब्रह्मणो भगवान् भवः ब्रह्मरूपी प्रबोधार्थं ब्रह्माणं प्राह सस्मितम्

苏多说道:听闻梵天之言后,吉祥的主婆婆(Bhava,湿婆)为令其觉悟,化现为梵天之形,含笑对梵天开示。

Verse 2

श्वेतकल्पो यदा ह्यासीद् अहमेव तदाभवम् श्वेतोष्णीषः श्वेतमाल्यः श्वेतांबरधरः सितः

当白劫(Śveta-kalpa)出现之时,唯我于彼时显现——戴白色头巾,佩白色花鬘,身着白衣,光明皎洁,清净无垢。

Verse 3

श्वेतास्थिः श्वेतरोमा च श्वेतासृक् श्वेतलोहितः तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ

他的骨为白,身毛亦白;其血亦白,乃至肉中之赤分也似白而现。故以此名而著称,那一时代遂被称颂为白劫(Śveta-kalpa)。

Verse 4

मत्प्रसूता च देवेशी श्वेताङ्गा श्वेतलोहिता श्वेतवर्णा तदा ह्यासीद् गायत्री ब्रह्मसंज्ञिता

“那位女神,诸天之主宰,乃由我而生。肢体皎白,白中带柔红之辉,肤色洁白灿然——彼时她即以‘伽耶特丽’之名显现,被称为梵天(Brahmā)之自性圣力(Śakti)。”

Verse 5

तस्मादहं च देवेश त्वया गुह्येन वै पुनः विज्ञातः स्वेन तपसा सद्योजातत्वमागतः

因此,噢诸天之主,我也再次由你以秘密(密义)之法而被显知;并以我自身的苦行(tapas),我证得“萨德约阇多”(Sadyojāta)之境——你当下显现的面相。

Verse 6

सद्योजातेति ब्रह्मैतद् गुह्यं चैतत्प्रकीर्तितम् तस्माद्गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः

此以“萨德约阇多”(Sadyojāta)开首之真言,实即梵(Brahman)本身,并被宣说为秘密法。故其常处隐密之位——唯有真正通达的二生者(dvija)方能知之。

Verse 7

मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् यदा चैव पुनस्त्वासील् लोहितो नाम नामतः

他们将来到我亲自的临在之前——在那里,重返世间轮回之路难以再得。并且当你再度显现之时,你确实以名号“卢希塔(Lohita)”而为人所知。

Verse 8

मत्कृतेन च वर्णेन कल्पो वै लोहितः स्मृतः तदा लोहितमांसास्थिलोहितक्षीरसंभवा

由于由我所生起的色相,那一劫确被忆念为“卢希塔劫”(红劫)。在那时,众生依彼色相而出,呈现与赤血、肉、骨以及微红之乳相连的形态。

Verse 9

लोहिताक्षी स्तनवती गायत्री गौः प्रकीर्तिता ततो ऽस्या लोहितत्वेन वर्णस्य च विपर्ययात्

伽耶特丽(Gāyatrī)被称颂为“圣牛”——赤目而乳房充盈;又因其赤色之故,对其色相的称述亦出现了变异与转折。

Verse 10

वामत्वाच्चैव देवस्य वामदेवत्वमागतः तत्रापि च महासत्त्व त्वयाहं नियतात्मना

又因主宰具“左向”(vāmā)之性,遂证得“婆摩提婆”(Vāmadeva)之位。即便在彼处,噢大心者,我亦以自我摄持之定,与你相应相合。

Verse 11

विज्ञातः स्वेन योगेन तस्मिन्वर्णान्तरे स्थितः ततश् च वामदेवेति ख्यातिं यातो ऽस्मि भूतले

凭我自身的瑜伽威力,我为人所知,并安住于那另一种显现之相;由此,在大地之上,我以名号“婆摩提婆”(Vāmadeva)而闻名。

Verse 12

ये चापि वामदेव त्वां ज्ञास्यन्तीह द्विजातयः रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्

而此间诸二生者,若真实了知汝为“瓦摩提婆”(Vāmadeva),必将往诣鲁陀之界;自彼境再返轮回重生,极难得有。

Verse 13

यदाहं पुनरेवेह पीतवर्णो युगक्रमात् मत्कृतेन च नाम्ना वै पीतकल्पो ऽभवत्तदा

当依诸劫(yuga)次第,我再于此显现为黄色之相时,那一创世之周期(劫,kalpa)便以我所立之名而称为“毗多劫”(Pīta-kalpa)。

Verse 14

मत्प्रसूता च देवेशी पीताङ्गी पीतलोहिता पीतवर्णा तदा ह्यासीद् गायत्री ब्रह्मसंज्ञिता

“彼天女由我而生,为诸神之主宰女王——肢体金黄,黄中带赤,辉耀如金——当时即是伽雅特丽(Gāyatrī),以‘梵’(Brahma)之名著称,乃梵力(Brahman之神能)。”

Verse 15

तत्रापि च महासत्त्व योगयुक्तेन चेतसा यस्मादहं तैर्विज्ञातो योगतत्परमानसैः

而在彼处亦然,噢大心者:由于那些心念全然归向瑜伽者,以与瑜伽相应之觉知洞见了我的真实,我便被确然认知为主宰——帕提(Pati)。

Verse 16

तत्र तत्पुरुषत्वेन विज्ञातो ऽहं त्वया पुनः तस्मात्तत्पुरुषत्वं वै ममैतत्कनकाण्डज

在那里,你又认知我为“怛特普鲁沙”(Tatpuruṣa)。因此,噢金生者,此“怛特普鲁沙”之性,确然属于我。

Verse 17

ये मां रुद्रं च रुद्राणीं गायत्रीं वेदमातरम् वेत्स्यन्ति तपसा युक्ता विमला ब्रह्मसंगताः

凡以苦行(tapas)自律而真实了知我为鲁陀罗(Rudra)、为鲁陀罗妮(Rudrāṇī)、并为伽耶特丽(Gāyatrī)——吠陀之母——者,皆得净化清明,与梵(Brahman)相应,证得与至上主(Pati)相契,超越一切系缚(pāśa)。

Verse 18

रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् यदाहं पुनरेवासं कृष्णवर्णो भयानकः

他们将抵达鲁陀罗之界——再返极难——当我再度示现时,色相幽黑,令诸被缚之魂心生敬惧。

Verse 19

मत्कृतेन च वर्णेन संकल्पः कृष्ण उच्यते तत्राहं कालसंकाशः कालो लोकप्रकालकः

由我所发之音节与声相,决断之意被称为“黑(Kṛṣṇa)”。于彼处,我形如时;我即是时(Kāla),为诸界之裁定者,衡量并驱使万世前行。

Verse 20

विज्ञातो ऽहं त्वया ब्रह्मन् घोरो घोरपराक्रमः मत्प्रसूता च गायत्री कृष्णाङ्गी कृष्णलोहिता

婆罗门(梵天 Brahmā)啊,你已识得我——凶烈可畏,勇威骇人。又由我而生伽耶特丽(Gāyatrī),肢体幽黑,色呈暗赤。

Verse 21

कृष्णरूपा च देवेश तदासीद्ब्रह्मसंज्ञिता तस्माद् घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले

诸天之主啊,当时我现幽黑之形,被称为“梵(Brahman)”。因此我示现凶烈之相——针对那些住于人间而自以为真能“知我”的众生。

Verse 22

तेषामघोरः शान्तश् च भविष्याम्यहमव्ययः पुनश् च विश्वरूपत्वं यदा ब्रह्मन्ममाभवत्

为他们,我将成为阿伽罗(Aghora,不可怖者)与寂静者(Śānta),我是不朽不坏者。又一次,噢梵天,当我之宇宙形相(Viśvarūpa)之境显现之时。

Verse 23

तदाप्यहं त्वया ज्ञातः परमेण समाधिना विश्वरूपा च संवृत्ता गायत्री लोकधारिणी

即便在那时,你也以至上三摩地(parama-samādhi)真实证知了我。伽耶特丽(Gāyatrī)亦化为宇宙之形,显现为承载并护持诸世界者。

Verse 24

तस्मिन् विश्वत्वम् आपन्नं ये मां वेत्स्यन्ति भूतले तेषां शिवश् च सौम्यश् च भविष्यामि सदैव हि

凡在此大地上知我为入于普遍性、化为一切者,对他们我将恒常既为湿婆(Śiva,吉祥的解脱主、Pati),亦为娑牟耶(Saumya,温柔赐恩之主)。

Verse 25

यस्माच्च विश्वरूपो वै कल्पो ऽयं समुदाहृतः विश्वरूपा तथा चेयं सावित्री समुदाहृता

又因这劫(kalpa)被宣说为宇宙形相(Viśvarūpa),故此娑毗特丽(Sāvitrī)亦同样被宣说为宇宙形相。

Verse 26

सर्वरूपा तथा चेमे संवृत्ता मम पुत्रकाः चत्वारस्ते मया ख्याताः पुत्र वै लोकसंमताः

于是,这些众生具足一切形相;他们是我的儿子。那四位由我亲自宣示为真子,亦为诸世界所承认与接纳。

Verse 27

यस्माच्च सर्ववर्णत्वं प्रजानां च भविष्यति सर्वभक्षा च मेध्या च वर्णतश् च भविष्यति

由此缘故,众生将堕入种姓(varṇa)杂糅之境;饮食无所拣择;纵自称清净合礼,然其行持仍不净,且于自身种姓中亦趋于卑下。

Verse 28

मोक्षो धर्मस्तथार्थश् च कामश्चेति चतुष्टयम् यस्माद्वेदाश् च वेद्यं च चतुर्धा वै भविष्यति

解脱、法(dharma)、利(artha)与欲(kāma)——此四重之组由此而生;因此,诸吠陀以及由吠陀所应知之义,亦确然成为四分。

Verse 29

भूतग्रामाश् च चत्वार आश्रमाश् च तथैव च धर्मस्य पादाश्चत्वारश् चत्वारो मम पुत्रकाः

四类众生、四住期(āśrama)亦复如是,以及法(Dharma)之四足——这些四重之组,被宣说为我的诸子。

Verse 30

तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम् चतुर्धावस्थितश्चैव चतुष्पादो भविष्यति

因此,此一切世界——动与不动——安住于四劫(四Yuga)之境。既以四重秩序而立,便将显现为“四足”之体(圆满具四足之法),由统御宇宙法则之主宰(Pati)所护持。

Verse 31

भूर्लोको ऽथ भुवर्लोकः स्वर्लोकश् च महस् तथा जनस्तपश् च सत्यं च विष्णुलोकस्ततः परम्

有地界(Bhūrloka),继而有空界(Bhuvarloka)与天界(Svarga);又有摩诃界(Maharloka)、阇那界(Janaloka)、苦行界(Tapoloka)与真实界(Satyaloka)。超越此诸界者为毗湿奴之界;然即便彼界,亦在至上超越之主(Pati)——超出一切世界的湿婆(Śiva)之下。

Verse 32

अष्टाक्षरस्थितो लोकः स्थाने स्थाने तदक्षरम् भूर्भुवः स्वर्महश्चैव पादाश्चत्वार एव च

诸世界安立于八字真言之中;于各自境界,彼不坏之音节恒常现前。Bhūḥ、Bhuvaḥ、Svaḥ与Mahaḥ——此即其四分(pāda)。

Verse 33

भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम् स्वर्लोको वै तृतीयश् च चतुर्थस्तु महस् तथा

Bhūrloka为第一分;其上为Bhuvarloka。Svarloka(天界)为第三分,Maharloka亦为第四分——诸界如是安置为显化秩序中的宇宙“四分”。

Verse 34

पञ्चमस्तु जनस्तत्र षष्ठश् च तप उच्यते सत्यं तु सप्तमो लोको ह्य् अपुनर्भवगामिनाम्

于彼,第五界名为Jana-loka,第六界称为Tapa-loka。第七界实为Satya-loka——趋向“不再回返”者之境;他们凭Śiva之恩典,作为Pati之主,断除paśu(灵魂)之pāśa(系缚),超越再生。

Verse 35

विष्णुलोकः स्मृतं स्थानं पुनरावृत्तिदुर्लभम् स्कान्दमौमं तथा स्थानं सर्वसिद्धिसमन्वितम्

Viṣṇuloka被忆为一处难以再返(入于反复受身)之居所。同样,Skanda之界与Oṃ之界,皆具足一切成就(siddhi)——然依湿婆派之见,此等成就唯在Pati之主Śiva的恩典中,引导被缚之paśu超越一切lokas时,方成熟为真实解脱。

Verse 36

रुद्रलोकः स्मृतस्तस्मात् पदं तद्योगिनां शुभम् निर्ममा निरहङ्काराः कामक्रोधविवर्जिताः

因此,此界被称忆为Rudraloka——乃诸瑜伽行者之吉祥住处;他们离于占有、无我慢,远离欲与嗔。

Verse 37

द्रक्ष्यन्ति तद्द्विजा युक्ता ध्यानतत्परमानसाः यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती

那些持戒自律、心专于禅观的婆罗门圣见者,也将得见同一异象。因此你见到萨拉斯瓦蒂呈“四足”之相——为观想之心而显现为四重形态。

Verse 38

पादान्तं विष्णुलोकं वै कौमारं शान्तमुत्तमम् औमं माहेश्वरं चैव तस्माद्दृष्टा चतुष्पदा

在此“足分”(Pāda)的终极处,确有毗湿奴之界;其上更有童子神之域(Kaumāra),至寂、至胜、至妙。继而为“奥姆”(Oṃ)之境,并有大自在天(Māheśvara,湿婆)之界。由是“四分之足”如所见而宣说。

Verse 39

तस्मात्तु पशवः सर्वे भविष्यन्ति चतुष्पदाः ततश्चैषां भविष्यन्ति चत्वारस्ते पयोधराः

因此,一切“兽类众生”(paśu)都将成为四足;其后,这些众生将生起四个乳房,承载乳汁,以使有身之命在造化秩序中得以维系。

Verse 40

सोमश् च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः जीवः प्राणभृतां ब्रह्मन् पुनः पीतस्तनाः स्मृताः

并且,索摩(Soma)亦与真言相应,从我口中流出。婆罗门啊,众生之“命精”(jīva)被忆念为那从乳房再度饮取的乳汁之精华,用以滋养具身之灵。

Verse 41

तस्मात्सोममयं चैव अमृतं जीवसंज्ञितम् चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत्

因此,由索摩所成者确为甘露(amṛta),并被称为“命性”(jīva)之理。由此而生四足之类;亦因这索摩之性,其洁白之相随之而起。

Verse 42

यस्माच्चैव क्रिया भूत्वा द्विपदा च महेश्वरी दृष्टा पुनस्तथैवैषा सावित्री लोकभाविनी

由彼而起,化为Kriyā-śakti(圣行之力),大女神以双足人形显现。再度如是被见,她即是萨维特丽(Savitrī)——令诸世界生起并加以护持者。

Verse 43

तस्माच्च द्विपदाः सर्वे द्विस्तनाश् च नराः शुभाः तस्माच्चेयमजा भूत्वा सर्ववर्णा महेश्वरी

因此,一切众生皆成双足;人类亦成吉祥之相,具双乳。又因此,那不生者——摩诃主母(Maheshvarī)——显现为一切varṇa(阶序与色相)之源,使造化中差别诸形得以生起。

Verse 44

या वै दृष्टा महासत्त्वा सर्वभूतधरा त्वया तस्माच्च विश्वरूपत्वं प्रजानां वै भविष्यति

你所见之大威力——本质雄浑,且为一切众生之所依——因此,诸后裔必将确实具足多样万形(viśvarūpatva)。

Verse 45

अजश्चैव महातेजा विश्वरूपो भविष्यति अमोघरेताः सर्वत्र मुखे चास्य हुताशनः

彼实为不生者(Aja),具无量光辉,将成宇宙之形(Viśvarūpa)。其生殖之力无有虚失;且于一切方隅,在其诸口之中,护塔舍那(Hutāśana,火神)安住——表明主宰为Pati,吞摄并转化万有,以圣火护持造化。

Verse 46

तस्मात्सर्वगतो मेध्यः पशुरूपी हुताशनः तपसा भावितात्मानो ये मां द्रक्ष्यन्ति वै द्विजाः

因此,我遍一切处而清净——护塔舍那(Hutāśana),祭祀之火——以已被祝圣之供品之形显现。凡以苦行(tapas)淬炼其内在的二生者(dvija),必将真实得见我。

Verse 47

ईशित्वे च वशित्वे च सर्वगं सर्वतः स्थितम् रजस्तमोभ्यां निर्मुक्तास् त्यक्त्वा मानुष्यकं वपुः

安住于主宰之威德(īśitva)与圆满自在之力(vaśitva),遍一切处、住于一切方;彼等既离欲性与昏暗(rajas、tamas),便舍弃仅属人身之形。

Verse 48

मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम् इत्येवमुक्तो भगवान् ब्रह्मा रुद्रेण वै द्विजाः

“他们将亲近于我——得至那种几乎不再回返(再入轮回)的境地。”如是,诸二生者啊,鲁陀罗如此告谕吉祥的梵天。

Verse 49

प्रणम्य प्रयतो भूत्वा पुनराह पितामहः य एवं भगवान् विद्वान् गायत्र्या वै महेश्वरम्

礼拜而心神端肃后,毗多摩诃(梵天)复又说道:“那位具智的奉爱者,如是以伽耶垂赞颂大自在天(Mahēśvara),确能以正知正见亲近吉祥之主(Pati)。”

Verse 50

विश्वात्मानं हि सर्वं त्वां गायत्र्यास्तव चेश्वर तस्य देहि परं स्थानं तथास्त्विति च सो ऽब्रवीत्

“主啊,汝实为宇宙之我;此一切皆是汝。愿以伽耶垂之赞歌,赐彼至上之位。”如是启请,彼答曰:“如是成就。”

Verse 51

तस्माद्विद्वान् हि विश्वत्वम् अस्याश्चास्य महात्मनः स याति ब्रह्मसायुज्यं वचनाद् ब्रह्मणः प्रभोः

是故,智者若真实了知此显现世界与彼大灵之主(Pati)之遍一切的宇宙实相,便依主梵天具权威之言,得与梵(brahma-sāyujya)合一。

Frequently Asked Questions

The color-kalpa sequence encodes cosmic cycles and doctrinal recognition: Shiva’s self-disclosure adapts across yuga/kalpa conditions, while Gayatri mirrors these states, teaching that the same Supreme manifests diversely yet remains one reality known through yoga and tapas.

The text states that dvijas who realize these aspects through disciplined knowledge and meditation attain Rudraloka and rare non-return states; Brahma’s concluding request and Shiva’s assent extend this to Brahma-sāyujya for the true knower of Maheshvara through Gayatri.

It supplies the metaphysical and yogic foundation behind Linga-upāsanā: the Linga signifies Shiva’s all-form/all-color transcendence and immanence, while Gayatri and the loka-map articulate how contemplative recognition of Shiva’s reality culminates in moksha.