Adhyaya 11
Uttara BhagaAdhyaya 11146 Verses

Adhyaya 11

Īśvara-Gītā (continued): Twofold Yoga, Aṣṭāṅga Discipline, Pāśupata Meditation, and the Unity of Nārāyaṇa–Maheśvara

承接《伊湿伐罗歌》之流,伊湿伐罗开示一种极其稀有的瑜伽,能焚尽罪业,令行者亲证自性而得涅槃。瑜伽被判为二:阿婆婆瑜伽(止息诸投射、安住空寂)与更高的摩诃瑜伽/梵瑜伽,终至见遍满一切的主宰。本章系统阐明八支瑜伽:制戒与持戒(详释不害、真实、不盗、梵行、不贪取;苦行、诵习、知足、清净、敬礼主宰),继而调息(以“摩怛罗”计量;“有种/无种”;与伽耶特丽相应之法)、摄心、执持、禅那与三摩地(含时长比例)。又说诸坐法、修习处所,并立两大观想(顶轮莲与心轮莲),以“唵”与不坏光明为中心,进而明示帕修帕塔行法(阿耆尼霍特罗之灰、真言、以伊沙那为至上光)。教诲复扩至奉爱与业瑜伽:舍弃果报、归命于主、处处礼拜林伽、持诵“唵/百鲁陀利耶”至命终;并赞瓦拉纳西为解脱胜地。随后作强力教义融摄:湿婆宣称那罗延那为其至上显现,强调见二者无差别则断轮回,执宗派差别则致堕落。章末叙师承传递(古鲁传承)、秘授与资格之戒,并以诸仙请求再说业瑜伽作转折,为下一章铺陈。

All Adhyayas

Shlokas

Verse 1

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमो ऽध्यायः ईश्वर उवाच अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् / येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम्

自在天(Īśvara)说道:“从今以后,我将宣说至为难得的无上瑜伽;由此,人们得以亲见真我,如日轮般光辉灿然,即是主宰。”

Verse 2

योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् / प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम्

瑜伽之火迅速焚尽罪业之牢笼。随后,清明安寂的智慧生起——此智慧能直接赐予涅槃成就(解脱圆满)。

Verse 3

योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्तते / योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः

由瑜伽生起真知;由真知,瑜伽得以运转推进。对恒常奉行瑜伽与智慧二者的人,大自在天(摩醯首罗、Mahādeva)便垂慈加被。

Verse 4

एककालं द्विकालं वा त्रिकालं नित्यमेव वा / ये युञ्जन्तीह मद्योगं ते विज्ञेया महेश्वराः

或每日一次,或两次,或三次,乃至恒常不辍——凡在此修行我之瑜伽者,当知皆为“摩醯首罗”(Maheshvara),即与大主相应、被认作同一的奉主者。

Verse 5

योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः / अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः

当知瑜伽有二种:其一名为“无有(abhāva)”,即令心念波动与世间执著止息、归于寂灭;其二为“大瑜伽(mahāyoga)”,为诸瑜伽之最上,至上中的至上。

Verse 6

शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते / अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति

此修持名为“无有瑜伽(Abhāva-yoga)”:于其中观想自性为“空”,离一切相、离一切对境之投射;由此得以亲见我(Ātman)之真体。

Verse 7

यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् / मयैक्यं स महायोगो भाषितः परमेश्वरः

于彼境界,行者得见我(Ātman)恒常安乐、清净无垢,并证知与我合一;此即名为“大瑜伽(Mahāyoga)”,为至上之瑜伽,由至上主(Parameśvara)所宣说。

Verse 8

ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे / सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम्

诸经广说的种种瑜伽之法,皆不足与“梵瑜伽(Brahma-yoga)”相比,连十六分之一也不及。

Verse 9

यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् / सर्वेषामेव योगानां स योगः परमो मतः

于彼境界,解脱者得以亲见主宰(Īśvara)——遍满宇宙之大自在天;此瑜伽被认为是一切瑜伽中最上者。

Verse 10

सहस्रशो ऽथ शतशो ये चेश्वरबहिष्कृताः / न ते पश्यन्ति मामेकं योगिनो यतमानसाः

纵使有千百之众,凡被自在天(Īśvara)所摒弃或背离主宰者,亦不得见我——唯一之主。唯有心意调伏、精进用功之瑜伽行者,方能真实观见(我)。

Verse 11

प्राणायामस्तथा ध्यानं प्रत्याहारो ऽथ धारणा / समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम्

调息(prāṇāyāma)、禅观(dhyāna)、摄诸根(pratyāhāra),继而专注(dhāraṇā);以及三摩地(samādhi)——噢,诸牟尼中最胜者——并有持戒(yama)、行持(niyama)与坐法(āsana)。

Verse 12

मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः / तत्साधनान्यष्टधा तु युष्माकं कथितानि तु

一心归于我之瑜伽,因止息一切他种心行而生。其修持法门为八支,我已确实为汝等宣说。

Verse 13

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ / यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम्

不害(ahiṃsā)、真实(satya)、不盗(asteya)、梵行清净(brahmacarya)与不取不贪(aparigraha)——此五者略说名为“持戒(yama)”,能赐人心意清净。

Verse 14

कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा / अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः

以身、以意、以语——于一切众生、于一切时——不害(ahiṃsā)被至上圣仙宣说为:不令任何人受苦之行。

Verse 15

अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् / विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता

没有比不害(阿希姆萨,ahiṃsā)更高的法(dharma),也没有比不害更高的安乐。即便看似暴力之举,若依经典之法度与正当仪轨而行,也被宣说为不害本身。

Verse 16

सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् / यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः

以真实(satya)能成就一切;一切皆安立于真实之中。以戒行守护,如实而说、如实而行的言语之道,正是二次生者(dvija)所宣称的“真实”。

Verse 17

परद्रव्यापहरणं चौर्याद् वाथ बलेन वा / स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम्

夺取他人财物,无论暗中偷盗或以强力夺取,皆名为盗(steya)。不行此事即为不盗(asteya),是成就法(dharma)之方便,也是修行生活的根本戒行。

Verse 18

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा / सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते

他们宣说:梵行(brahmacarya)即以身、意、语,于一切处、一切时、一切境,皆舍离淫欲与交合。

Verse 19

द्रव्याणामप्यनादानमापद्यपि यथेच्छया / अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत्

不受取诸物,乃至物质财货亦不取;随己愿而行,即使在困厄之时亦然:此名为不取(aparigraha,不执受)。当以勤勉之力守持之。

Verse 20

तपः स्वाध्यायसंतोषाः शौचमीश्वरपूजनम् / समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः

苦行、圣典自修(svādhyāya)、知足、清净与礼敬主宰伊湿伐罗——总而言之,这些被宣说为“制戒”(niyama),能赐予瑜伽成就。

Verse 21

उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः / शरीरशोषणं प्राहुस्तापसास्तप उत्तमम्

以斋戒、帕拉卡行、克里恰罗苦行、月行誓(Cāndrāyaṇa)等种种法门,诸苦行者宣说:使身体枯瘦的克制,是最上等的苦行。

Verse 22

वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः / सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते

智者称为“自修诵习”(svādhyāya)的,是恭敬诵读《吠檀多》、〈百鲁陀罗〉(Śatarudrīya),以及持诵圣音“唵”(Praṇava)等诸圣句;因为它能净化众人的萨埵(内在清明)。

Verse 23

स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः / उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः

自修诵习(svādhyāya)被说有三种:出声诵、低声/耳语诵,以及纯以心念诵。通达吠陀义者宣说:后后之法,胜于前前。

Verse 24

यः शब्दबोधजननः परेषां शृण्वतां स्फुटम् / स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम्

凡以声音令旁人聆听而清楚生起领悟的自修诵习,被称为“出声诵”(vācika)。随后再与之对照,说明“低声诵”(upāṁśu)的特征。

Verse 25

ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकः / उपांशुरेष निर्दिष्टः साहस्रो वाचिकाज्जपः

当真言不以可闻之声宣出,仅以唇微动而令其义相应时,此被教为“优般输”(upāṃśu,低语/无声诵念)。此优般输持诵被宣说为较口诵(vācika)持诵胜妙千倍。

Verse 26

यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् / चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः

那种观想:由内在与真言诸字音节相合,而外无动摇振荡,并于心中省察一切真言词句之义;智者知此即为意持诵——mānasa-japa(心诵)。

Verse 27

यदृच्छालाभतो नित्यमलं पुंसो भवेदिति / या धीस्तामृषयः प्राहुः संतोषं सुखलक्षणम्

那恒常的觉知,使人常怀此念:“凡自然而来者,恒为我所足。”——诸仙(ṛṣi)宣说,此心即名知足(santoṣa),乃真乐之相。

Verse 28

बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः / मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिरथान्तरम्

噢,诸二生中最胜者,清净(śauca)被说为二种:外净与内净。外净以土(泥)与水洗涤而成;内净则是心意之净化。

Verse 29

स्तुतिस्मरणपूजाभिर्वाङ्मनःकायकर्मभिः / सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम्

以赞颂、忆念与供奉——由语、意、身之行持而作——当对湿婆(Śiva)的奉爱坚固不动时,此即是真正对自在主(Īśvara)的礼敬与供养。

Verse 30

यमाः सनियमाः प्रोक्ताः प्राणायामं निबोधत / प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम्

诸般持戒(yama)与净行(niyama)已宣说;今当了知调息(prāṇāyāma)。所谓 prāṇa,是生于自身之躯的生命之风;“āyāma”即其摄持与约束——故调息者,乃制御此生命之息也。

Verse 31

उत्तमाधममध्यत्वात् त्रिधायं प्रतिपादितः / स एव द्विविधः प्रोक्तः सगर्भो ऽगर्भ एव च

由于有上、中、下之别,故被教示为三种。同一分类亦复宣说为二:有种(sagarbha)与无种(agarbha)。

Verse 32

मात्राद्वादशको मन्दश्चतुर्विंशतिमात्रिकः / मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोत्तमः

制息(prāṇa-saṃrodha)分三品:柔和者为十二“摩怛罗”(mātrā);中等者为二十四;最胜者为三十六。

Verse 33

प्रस्वेदकम्पनोत्थानजनकत्वं यथाक्रमम् / मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः

依其次第,喜乐(ānanda)分别引生出汗、战栗与起身跃起。在柔、中、胜三品之中,至上之喜乐最为殊胜。

Verse 34

सगर्भमाहुः सजपमगर्भं विजपं बुधाः / एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम्

智者宣说:调息若伴随持诵真言(japa),名为“有种”(sagarbha);若无持诵,则名为“无种”(agarbha)。此实为诸瑜伽行者所说调息之相。

Verse 35

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह / त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते

连同诸“vyāhṛti”与“praṇava”(唵 Oṁ),并加上“śiras”之句,应在延长并调摄呼吸时,将伽雅特丽(Gāyatrī)诵念三遍;此即名为调息(prāṇāyāma)。

Verse 36

रेचकः पूरकश्चैव प्राणायामो ऽथ कुम्भकः / प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः

呼气为 recaka,吸气为 pūraka,继而屏息为 kumbhaka——诸经皆称此为调息(prāṇāyāma),乃心志严整、勤修之瑜伽行者所宣说。

Verse 37

रेचको ऽजस्त्रनिश्वासात् पूरकस्तन्निरोधतः / साम्येन संस्थितिर्या सा कुम्भकः परिगीयते

由不断外泄之气而成者,名为呼气 recaka;制止彼外流而生者,名为吸气 pūraka。于均衡中安住的稳固定势,被称颂为屏息 kumbhaka。

Verse 38

इन्द्रियाणां विचरतां विषयेषु स्वभावतः / निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः

善中之最者啊,智者宣说:所谓制感(pratyāhāra),即摄伏诸根;诸根依其本性,常游走于各自境界之中。

Verse 39

हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके / एवमादिषु देशेषु धारणा चित्तबन्धनम्

令心安住于心莲之中,或在脐轮,或在顶门,或在山巅——如是等处系念不散,即为持念(dhāraṇā),乃束缚并安定其心于所择之处。

Verse 40

देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः / वृत्त्यन्तरैरसंसृष्टा तद्ध्यानं सूरयो विदुः

当智性(buddhi)的诸般变动之流持续不断,却安住于一处一境,不与其他心行杂染相混——智者称此为禅那(dhyāna),即静观。

Verse 41

एकाकारः समाधिः स्याद् देशालम्बनवर्जितः / प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम्

三摩地被说为一相之定,离于处所与外缘所依。诚然,瑜伽最上之方便,是那唯依所缘之认知——除所欲之义外,更无余物。

Verse 42

धारणा द्वादशायामा ध्यानं द्वादशधारणाः / ध्यानं द्वादशकं यावत् समाधिरभिधीयते

所谓持(dhāraṇā)可延续十二夜分(yāma);十二次持合成禅那(dhyāna)。而当禅那亦满十二聚时,便称为三摩地(samādhi)。

Verse 43

आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा / साधनानां च सर्वेषामेतत्साधनमुत्तमम्

所谓坐法,宣说有吉祥坐(svastika),亦有莲华坐(padma)与半莲坐。于一切修持(sādhana)之中,此被称为最胜之行门。

Verse 44

ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे / समासीतात्मनः पद्ममेतदासनमुत्तमम्

噫,最胜婆罗门仙者!将双足足心置于两股之上,安坐不动,摄持其心——此名莲华坐(padmāsana),为禅修之最上座。

Verse 45

एकं पादमथैकस्मिन् विन्यस्योरुणि सत्तमाः / आसीतार्धासनमिदं योगसाधनमुत्तमम्

噢,至善之人,将一足安置于对侧大腿之上而端坐;此名“半坐式”(Ardhāsana),为修习瑜伽之上妙助缘。

Verse 46

उभे कृत्वा पादतले जानूर्वोरन्तरेण हि / समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम्

将双足足底置于膝与大腿之间,安住端坐、摄心自持;此姿势被教为至上的“吉祥坐”(Svastika-āsana)。

Verse 47

अदेशकाले योगस्य दर्शनं हि न विद्यते / अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा

确然,处所与时机不相应,则无真正的瑜伽成就(或证见)。这如同在水中练习点火,或在一堆枯叶中妄求燃起火焰。

Verse 48

जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे / सशब्दे सभये वापि चैत्यवल्मीकसंचये

在众生拥挤之处、火葬场、破败牛舍、十字路口、喧闹或令人恐惧之地,以及神祠堆聚与蚁丘丛集之处——不应于彼修持恒定禅观。

Verse 49

अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते / नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे

不应在不祥之处行持所定仪轨——为恶人所据、蚊虫等滋生之地;亦不应在身受病苦之时,或忧郁及诸般扰动生起之际修行。

Verse 50

सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु / नद्यास्तीरे पुण्यदेशे देवतायतने तथा

应住于守护周密、吉祥清净之处——如山中洞窟、河岸之滨、圣地福域,或同样在神祇的圣殿与庙宇之内——于彼安住而修行。

Verse 51

गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते / युञ्जीत योगी सततमात्मानं मत्परायणः

或居于整洁安好的家中,或在幽美寂静、远离众生扰动之处;瑜伽行者以我为至上归依与究竟,应恒常精勤修持,使自我(ātman)于瑜伽中契合。

Verse 52

नमस्कृत्य तु योगीन्द्रान् सशिष्यांश्च विनायकम् / गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः

瑜伽行者当先礼敬诸大瑜伽师及其弟子,礼敬毗那夜迦(象头神伽内沙),亦礼敬自身上师;随后心神摄持,修习瑜伽,观想安住于我——主宰。

Verse 53

आसनं स्वस्तिकं बद्ध्वा पद्ममर्धमथापि वा / नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः

结跏作“吉祥坐”(Svastika),或作半莲华坐;目光平稳专一,凝于鼻尖,双眼微微开启。

Verse 54

कृत्वाथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् / स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम्

继而无惧而寂静,舍离由幻力(Māyā)所成之世间;当观修至上主帕拉梅湿伐罗(Parameśvara)——安住于自我(ātman)之内的神圣实相。

Verse 55

शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् / धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम्

随后,于头顶之冠——上方十二指量处——当观想一朵莲华,自法(Dharma)之根茎而生,以智慧为光耀之莲茎,庄严殊胜,令人敬观。

Verse 56

ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् / चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम्

当观想至上莲华:八瓣皆白,具天授自在(aiśvarya);其中央莲房为最高离欲(vairāgya);于彼金色核心之中,当禅观至上“鞘”(kośa)——意识最内的圣殿。

Verse 57

सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् / ओङ्कारवाच्यमव्यक्तं रश्मिजालसमाकुलम्

彼至上实相,亲证即是一切神力(śakti)之圆满;诸圣宣说其为神圣不坏——以“唵”(Oṃ)为名可诠,而本体不显;又遍满意识与光明之光网。

Verse 58

चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् / तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः

于彼处,当观无垢、至上、不可坏之光;并将自身之我安置于此光中,住于与其不二无别。

Verse 59

ध्यायीताकाशमध्यस्थमीशं परमकारणम् / तदात्मा सर्वगो भूत्वा न किञ्चिदपि चिन्तयेत्

当禅观住于虚空中央之伊沙(Īśa),为至上因。与彼自性同一,遍满一切之后,便于心中不复思量任何事物。

Verse 60

एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते / चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम्

此乃最为隐秘的禅观;今复宣说另一种禅观法。先如前所述,于心中观想至上莲华,

Verse 61

आत्मानमथ कर्तारं तत्रानलसमत्विषम् / मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम्

继而当观自我为内在之作者,光耀如火;并于正中央观想第二十五原理——普鲁沙——形如火焰之尖顶。

Verse 62

चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् / ओङ्करबोधितं तत्त्वं शाश्वतं शिवमच्युतम्

当观至上我(Paramātman);于其中复观如虚空般的至上广大——纯净觉知之天。由圣音“Oṃ”所启示之真实,恒常不变,吉祥为湿婆,亦不堕为阿周陀(毗湿奴)。

Verse 63

अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् / तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम्

不显(Avyakta)融入自性(Prakṛti)之中,即为无上至光。其内有最高原理——清净无染,乃我(Ātman)之所依。

Verse 64

ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् / विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः

当全然融入于彼,应恒常观想大自在天(Maheśvara),一相不变之唯一者;并在净化一切诸原理(tattva)之后,再以圣音普罗那瓦(Oṃ)复令身心澄净安住。

Verse 65

संस्थाप्य मयि चात्मानं निर्मले परमे पदे / प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा

当将自我安住于我——于无垢的至上境地——应以那同一“智慧之水”遍洒自身的有身之态,使之净化。

Verse 66

मदात्मा मन्मयो भस्म गृहीत्वा ह्यग्निहोत्रजम् / तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः / चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम्

怀念“我即其自我,我为彼所遍满”,取自阿耆尼火供(Agnihotra)所生之灰,举而涂抹遍身,并诵以“阿耆尼……”开头的诸咒。继而于自我之中观想伊舍那(Īśāna)为至上之光,其本性唯是清净光辉。

Verse 67

एष पाशुपतो योगः पशुपाशविमुक्तये / सर्ववेदान्तसारो ऽयमत्याश्रममिति श्रुतिः

此即“帕舒帕塔瑜伽”(Pāśupata Yoga),为使被缚之灵(paśu)脱离束缚(pāśa)而宣说。此法实为一切吠檀多之精髓;《圣闻》(Śruti)亦宣示其超越诸一切住期(āśrama)。

Verse 68

एतत् परतरं गुह्यं मत्सायुज्योपपादकम् / द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम्

此乃至高而至密之教,能成就与我“同一相应”(sāyujya)之道。此法宣说于二次生者(dvija)——具信敬之奉献者,安住于梵行(brahmacarya)之戒律者。

Verse 69

ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः / संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः

梵行(brahmacarya)、不害(ahiṃsā)、忍辱(kṣamā)、清净(śauca)、苦行(tapas)、自制(dama),并具足知足(santoṣa)、真实(satya)与敬信(āstikya)——这些尤其被宣说为圣誓(vrata)的根本支分。

Verse 70

एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते / तस्मादात्मगुणोपेतो मद्व्रतं वोढुमर्हति

纵使仅缺一条戒行,此誓愿亦即败坏。故唯有具自制与内在德性者,方堪受持并守护我之誓愿。

Verse 71

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः / बहवो ऽनेन योगेन पूता मद्भावमागताः

离于贪著、恐惧与嗔怒——心融于我、归依于我——许多人由此瑜伽而得净化,证得我之境界。

Verse 72

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् / ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम्

众生以何种方式归投于我,我亦以同样方式摄受他们。故当以智瑜伽礼敬我——至上主宰(帕拉梅湿伐罗)。

Verse 73

अथवा भक्तियोगेन वैराग्येण परेण तु / चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः

又或以奉爱瑜伽(bhakti),以至上离欲为依止;恒常清净者,当以觉醒之辨慧之心,常常供奉于我。

Verse 74

सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः / प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम्

舍弃一切行作,以乞食为生,离于占有之心者,得至与我同一之境(sāyujya)。此乃我所宣说之密教。

Verse 75

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च / निर्ममो निरहङ्कारो यो मद्भक्तः स मे प्रियः

凡对一切众生无怨无憎,常怀友爱与悲悯;不执为我所有,不起我慢——如此归依于我的奉爱者,为我所亲爱。

Verse 76

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः / मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः

恒常知足、恒常安住于瑜伽,克己而志愿坚固;将心与慧都奉献于我——如此归依于我的奉爱者,为我所亲爱。

Verse 77

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः / हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः

世间不因他而不安,他亦不为世间所扰;并且解脱于狂喜、怨恨、恐惧与躁动——此人确为我所亲爱。

Verse 78

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः / सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः

不怀期待,清净纯洁,善巧能办,安然中立,超越忧苦;舍弃一切为己而起的作为,并具奉爱——此人是我所亲爱。

Verse 79

तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् / अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति

于毁誉皆等,寡言自持;随缘而足,无定居处,慧解坚定——如此归依于我的奉爱者,必得至于我。

Verse 80

सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः / मत्प्रसादादवाप्नोति शाश्वतं परमं पदम्

即使恒常行一切业,若全心归依于我,亦将凭我的恩典,证得永恒至上的境界。

Verse 81

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः / निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत्

以心将一切行为托付于我,以我为至上归趣;无所希求,不执“我与我所”,当唯独归依于我。

Verse 82

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः / कर्मण्यभिप्रवृत्तो ऽपि नैव तेन निबध्यते

舍离对业果的执著,恒常知足而无所依;纵然全力行事,亦不为其所缚。

Verse 83

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः / शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम्

不求果报,调伏其心与身,舍离一切占有与执取;唯行维持身躯所必需之事者,得至彼至上境界。

Verse 84

यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि / कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम्

若人知足于自然而得,超越诸对待之相,并唯为求我恩典而行事——此等行持便成为摧破轮回(saṃsāra)之力。

Verse 85

मन्मना मन्नमस्कारो मद्याजी मत्परायणः / मामुपैष्यति योगीशं ज्ञात्वा मां परमेश्वरम्

心念专注于我,向我顶礼,以祭祀供奉我,并唯独归依于我者,将来到我这里——瑜伽之主——因为他已了知我乃至上主宰、帕拉梅湿伐罗。

Verse 86

मद्बुद्धयो मां सततं बोधयन्तः परस्परम् / कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः

那些智慧安住于我者,恒常彼此唤醒、互相启迪我之真理,并常常称说我者,将得“萨尤吉亚”——与我合一,进入我自身的境界。

Verse 87

एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् / नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता

因此,对于恒常专一奉持者,我以光辉的智慧之灯,摧破由幻力(Māyā)所生的一切黑暗,并连同其业力之系一并消除。

Verse 88

मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः / तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्

世间那些智慧安住于我、恒常供奉礼拜我者——对这等常住奉持之人,我亲自承担其“瑜伽与吉祥”(yoga-kṣema):所当得者与所当守者。

Verse 89

ये ऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः / तेषां तदन्तं विज्ञेयं देवतानुगतं फलम्

至于那些为求欲乐与享受而祭拜他神者,当知其所得之果唯止于彼端:那果报随所礼敬之神而来,并随之而尽。

Verse 90

ये चान्यदेवताभक्ताः पूजयन्तीह देवताः / मद्भावनासमायुक्ता मुच्यन्ते ते ऽपि भावतः

即使那些信奉其他神祇、在此世礼敬诸神的人——若能与对我(至上主宰)的观念相应——他们也将依其内在的信心与倾向而得解脱。

Verse 91

तस्मादनीश्वरानन्यांस्त्यक्त्वा देवानशेषतः / मामेव संश्रयेदीशं स याति परमं पदम्

因此,应当彻底舍离一切非至上主的诸神,只归依于我这位自在主(Īśvara);如此之人将抵达至高境界。

Verse 92

त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः / यजेच्चामरणाल्लिङ्गे विरक्तः परमेश्वरम्

舍离对儿子等一切的爱著,无忧无悲,不执为己有;以离欲之心,于不死的林伽中礼敬帕拉梅湿伐罗,超越死亡。

Verse 93

ये ऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः / एकेन जन्मना तेषां ददामि परमैश्वरम्

凡恒常礼拜林伽、彻底舍弃一切世间享乐者——于一生之内——我赐予他们至上的主宰之位,即自在主的最高境界。

Verse 94

परानन्दात्मकं लिङ्गं केवलं सन्निरञ्जनम् / ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम्

彼林伽具足至上安乐之体——独一、纯然的真有、无垢无染;其性为觉知之智,遍一切处,安住于诸瑜伽行者之心。

Verse 95

ये चान्ये नियता भक्ता भावयित्वा विधानतः / यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम्

其他守戒有定的奉献者亦复如是——依所规定的仪轨端正自心——无论身在何处,皆以礼敬彼一灵伽而奉祀大自在天(摩醯湿伐罗)。

Verse 96

जले वा वह्निमध्ये वाव्योम्नि सूर्ये ऽथवान्यतः / रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम्

或在水中,或在火焰之中,或在虚空,或在太阳,或在他处——观想主宰伊沙(Īśa)于彼处现前——当礼拜伊湿伐罗之至尊灵伽。

Verse 97

सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् / तस्माल्लिङ्गे ऽर्चयेदीशं यत्र क्वचन शाश्वतम्

诚然,此一切皆为灵伽所遍;万有皆安立于灵伽之中。是故,当于灵伽中礼拜永恒之主——无论何处、何时——以其为常住真实。

Verse 98

अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् / काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गन्तुयोगिनाम्

行仪轨者于火中求(神);他者于水中求;善思的智者于虚空与太阳中观之。愚者但于木石等物中觅;而瑜伽行者之真灵伽,则在心中。

Verse 99

यद्यनुत्पन्नविज्ञानो विरक्तः प्रीतिसंयुतः / यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः

纵使真知尚未生起,若能离染而怀爱敬之心者,当以调御专注,尽其一生持诵“普罗那瓦”(Oṁ)——此即梵(Brahman)之具身。

Verse 100

अथवा शतरुद्रीयं जपेदामरणाद् द्विजः / एकाकी यतचित्तात्मा स याति परमं पदम्

或者,让再生者直至临终诵念《娑多卢陀利耶》(Śatarudrīya);独处而摄心制意,身心自持,便得证至上境界。

Verse 101

वसेद् वामरणाद् विप्रो वाराणस्यां समाहितः / सो ऽपीश्वरप्रसादेन याति तत् परमं पदम्

婆罗门当住于瓦罗那西(Vārāṇasī),以摄念安住直至命终;蒙伊湿伐罗(Īśvara)之恩,他亦得至彼至上境界。

Verse 102

तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् / ददाति तत् परं ज्ञानं येन मुच्येत बन्धनात्

正当离身之际,祂确实赐予一切具身众生那至上之智;凭此智,得解脱诸缚。

Verse 103

वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः / तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम्

凡圆满奉行一切种姓与住期(varṇa-āśrama)之法,以我为至上归依者,即于此生得真知;得此真知,便至吉祥的湿婆之境(解脱)。

Verse 104

ये ऽपि तत्र वसन्तीह नीचा वा पापयोनयः / सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः

即便住在彼处者——纵使卑微或出自罪业之族——也都能渡越轮回(saṃsāra);凭伊湿伐罗(Īśvara)的加被,噢再生者们,他们皆得解脱。

Verse 105

किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् / धर्मं समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः

然而,罪业所伤之心者,必定会遭遇诸多障碍。故诸二生者,当恒常归依正法(Dharma),以求解脱。

Verse 106

एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् / धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे

此乃吠陀之秘义,不可随意授与他人;唯当传予持法之人——具虔敬之心,安住于梵行(brahmacarya)者。

Verse 107

व्यास उवाच इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् / व्याजहार समासीनं नारायणमनामयम्

毗耶娑曰:如是宣说无上之自性瑜伽后,世尊遂对那罗延那开示;彼安然端坐,离诸苦恼。

Verse 108

मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् / दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम्

此智我为弘扬梵(Brahman)之诸论者的利益而宣说。愿汝,吉祥者(湿婆),将之赐予心地寂静的弟子。

Verse 109

उक्त्वैवमथ योगीन्द्रानब्रवीद् भगवानजः / हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः

如是说已,无生之主遂告诸瑜伽王者,为利益一切信众——尤为二生者之福祉,噫,二生中最胜者。

Verse 110

भवन्तो ऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् / उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम

你们亦当依正法与仪轨,将我的智慧传授给你们的弟子——确实,亦当依我之命令,施与一切虔敬者。

Verse 111

अयं नारायणो यो ऽहमीश्वरो नात्र संशयः / नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम्

此至上者即是那罗延(Nārāyaṇa)——确然,我即是彼自在主(Īśvara),毫无疑惑。凡见二者无差别者,当赐予此无上之赠。

Verse 112

ममैषा परमा मूर्तिर्नारायणसमाह्वया / सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता

“此乃我至上的显现,名为‘那罗延’(Nārāyaṇa)——安住为一切众生之自我,遍在于诸有之中;寂静安然,亦称为‘不坏者’(Akṣara)。”

Verse 113

ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः / न ते मां संप्रपश्यन्ति जायन्ते च पुनः पुनः

然而世间那些见解相异、执著差别之见的人,并不能真实见我;他们便一次又一次地受生轮回。

Verse 114

ये त्विमं विष्णुमव्यक्तं मां वा देवं महेश्वरम् / एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः

但凡以本质一体之见,观此无相之毗湿奴——或观我这位神圣的大自在天(Mahēśvara)者,于彼等再无复生。

Verse 115

तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् / मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि

因此,当唯独观见我——毗湿奴,不坏之真我、无始无终、恒常不变;并当如是敬拜我,确然如此。

Verse 116

ये ऽन्यथा मां प्रपश्यन्ति मत्वेमं देवतान्तरम् / ते यान्ति नरकान् घोरान् नाहं तेषुव्यवस्थितः

若有人以别样方式看我,认定我不过是另一位分离的神祇,他们将堕入可怖的地狱;我不安住于他们之中。

Verse 117

मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् / मोचयामि श्वपाकं वा न नारायणनिन्दकम्

无论愚者或智者,乃至归依于我的婆罗门,我皆赐予解脱;即便是煮狗者(贱民)我亦能救度,但诋毁那罗延者则不然。

Verse 118

तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः / अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि

因此,噢至上之人(普鲁沙乌塔玛),此大瑜伽行者当为我之奉献者所供奉、所顶礼;确为引生我之欢悦(神恩)之故。

Verse 119

एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् / अन्तर्हितो ऽभवत् तेषां सर्वेषामेव पश्यताम्

如是说罢,执持毗那迦者(湿婆)拥抱了婆苏提婆;当众人皆在注视之时,他便隐没而去,消失于他们眼前。

Verse 120

नारायणो ऽपि भगवांस्तापसं वेषमुत्तमम् / जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः

即使是世尊那罗延也披上最殊胜的苦行者衣;舍离其至上形相,为了利益一切瑜伽行者而示现此等行仪。

Verse 121

ज्ञातं भवद्भिरमलं प्रसादात् परमेष्ठिनः / साक्षादेव महेशस्य ज्ञानं संसारनाशनम्

凭借至上主帕拉梅什提因的恩赐,你们已得知无垢的真理——这正是对大自在天(摩诃伊湿伐罗)的直接智见,能摧毁轮回(saṃsāra)的系缚。

Verse 122

गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः / प्रवर्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः

“你们众人当出行,远离诸苦。应令至上主帕拉梅什提因的无上证悟之智流转弘行;诸位牟尼之王啊,当将此传授给持守正法的弟子。”

Verse 123

इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये / विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः

此一以自在主(Īśvara)为本的王者之智,当授予虔敬而寂静之人——安住于法并守护圣火者;尤当特别传与婆罗门。

Verse 124

एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः / नारायणो महायोगी जगामादर्शनं स्वयम्

言毕,那位宇宙之我——那罗延大瑜伽师,诸瑜伽行者中最胜的瑜伽知者——便自隐其形,退离视界而不复可见。

Verse 125

ते ऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् / नारायणं च भूतादिं स्वानि स्थानानि भेजिरे

他们也向摩诃提婆——诸天之主大自在天——顶礼,又向那罗延那、万有众生之本源致敬,随后各自返回本住之处。

Verse 126

सनत्कुमारो भगवान् संवर्ताय महामुनिः / दत्तवानैश्वरं ज्ञानं सो ऽपि सत्यव्रताय तु

圣者善那特库玛罗将“自在主之智”(aiśvara-jñāna),即关于至上主的神圣觉知,传授给大圣仙三婆尔多;而三婆尔多又转授于萨提亚弗拉塔。

Verse 127

सनन्दनो ऽपि योगीन्द्रः पुलहाय महर्षये / प्रददौ गौतमायाथ पुलहो ऽपि प्रजापतिः

善难陀那亦为瑜伽行者之最胜,将此智传与大圣仙普罗诃;其后,普罗诃作为生主(Prajāpati),又授予乔达摩。

Verse 128

अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् / जैगीषव्याय कपिलस्तथा पञ्चशिखाय च

安吉罗萨将此传与通达吠陀的婆罗陀婆阇;迦毗罗亦复如是,授予阇伊吉沙维耶,并亦授予般遮尸佉。

Verse 129

पराशरो ऽपि सनकात् पिता मे सर्वतत्त्वदृक् / लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान्

我父亲波罗舍罗,洞见一切诸真理(tattva)者,也从萨那迦处得此至上之智;而瓦尔弥基又从他那里获得。

Verse 130

ममोवाच पुरा देवः सतीदेहभवाङ्गजः / वामदेवो महायोगी रुद्रः किल पिनाकधृक्

久远以前,主亲自对我宣说——鲁陀罗,伟大的瑜伽行者瓦摩提婆,著名为执持毗那迦神弓者,出自萨蒂之身。

Verse 131

नारायणो ऽपि भगवान् देवकीतनयो हरिः / अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम्

即便是那罗延自身——至福的主哈利、提婆姬之子——也亲自现前,将这无上教法赐予阿周那。

Verse 132

यदहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् / विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मे ऽभवत्

当我从鲁陀罗——瓦摩提婆——领受那无上教诲之时,自那一刻起,我对吉利沙(湿婆,山之主)的虔敬便格外炽盛地生起。

Verse 133

शरण्यं शरणं रुद्रं प्रपन्नो ऽहं विशेषतः / भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम्

我已归依——尤为恳切地——于鲁陀罗,诸求庇护者之所依;于布提沙,众生之主;于吉利沙,群山之主;于斯塔努,不动者;于天中天(Devadeva),诸神之神;于执三叉戟之主。

Verse 134

भवन्तो ऽपि हि तं देवं शंभुं गोवृषवाहनम् / प्रपद्यध्वं सपत्नीकाः सपुत्राः शरणं शिवम्

因此,你们也当归依那位神圣的主——商布、以公牛为乘的湿婆——携妻与子前来求护,并唯以湿婆为唯一归宿。

Verse 135

वर्तध्वं तत्प्रसादेन कर्मयोगेन शङ्करम् / पूजयध्वं महादेवं गोपतिं भूतिभूषणम्

承其恩典,当以业瑜伽之律而住而行;当礼敬商羯罗——大天,众生之主与护持者,身饰圣灰。

Verse 136

एवमुक्ते ऽथ मुनयः शौनकाद्या महेश्वरम् / प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम्

言毕,绍那迦等诸牟尼便恭敬顶礼——礼敬永恒坚住之大自在天,并礼敬萨蒂雅瓦蒂之子毗耶娑。

Verse 137

अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् / साक्षादेव हृषीकेशं सर्वलोकमहेश्वरम्

他们心怀欢喜,启请尊贵的黑天·岛生(毗耶娑),视其即是主宰本身——亲自显现的赫利希凯沙,统御诸世界的大自在者。

Verse 138

भवत्प्रसादादचला शरण्ये गोवृषध्वजे / इदानीं जायते भक्तिर्या देवैरपि दुर्लभा

蒙汝恩德,噫,一切之归依者,噫,旗帜绘牛之主;今我心中生起不动之奉爱,此等奉爱,纵诸天亦难得。

Verse 139

कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् / येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः

噫,诸牟尼之最胜者,请宣说无上业瑜伽;由此,求解脱者得以圆满供养并悦意那位吉祥的主宰——伊沙。

Verse 140

त्वत्संनिधावेष सूतः शृणोतु भगवद्वचः / तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम्

在你亲临之前,噢苏多啊,让他聆听世尊的圣言;由此同样能护持一切世界——此即法(Dharma)的总摄与守护。

Verse 141

यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा / पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने

此乃昔日诸神之神——化作龟形(库尔摩)的毗湿奴——在搅拌甘露之时,受诸牟尼与释迦罗(因陀罗)请问而宣说之言。

Verse 142

श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् / मुनीनां भाषितं कृष्णः प्रोवाच सुसमाहितः

从诸牟尼处听闻永恒的业瑜伽之道后,奎师那——萨蒂亚瓦蒂之子——以心神圆满摄持而宣说。

Verse 143

य इमं पठते नित्यं संवादं कृत्तिवाससः / सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते

凡恒常诵读此《克里提瓦萨》(湿婆)之对话——由善达库玛罗等诸大牟尼为首所宣说者——皆能尽脱一切罪垢。

Verse 144

श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् / यो वा विचारयेदर्थं स याति परमां गतिम्

又若有人令清净的再生者(婆罗门等)——专志梵行者——聆听此教;或能思惟其义者,彼即趋至至上归趣。

Verse 145

यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः / सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते

凡能恒常聆听此教者,具足奉爱(bhakti),誓愿坚固,便能脱离一切罪垢,并在梵天界(Brahmaloka)受尊崇。

Verse 146

तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः / श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा

因此,智者当竭尽努力诵读研习;亦当聆听而后思惟观照——尤其应由婆罗门恒常奉行。

← Adhyaya 10Adhyaya 12

Frequently Asked Questions

Abhāva-yoga is the discipline of contemplating one’s essential nature as “empty” of appearances and projections—cessation of mental modifications—leading to direct Ātman-vision. Mahāyoga/Brahma-yoga is the supreme state where the yogin beholds the Lord pervading the universe and realizes unity with Him.

It teaches yama, niyama, āsana, prāṇāyāma, pratyāhāra, dhāraṇā, dhyāna, and samādhi, but frames their culmination as one-pointed absorption in Īśvara—supported by Oṃ (Praṇava), devotion, and the vision of the Supreme as the inner Self.

Prāṇāyāma is called sagarbha (“with seed”) when accompanied by mantra-japa, and agarbha (“seedless”) when performed without japa; this distinction is presented as a defining mark recognized by yogins.

Śiva explicitly identifies Nārāyaṇa as his supreme manifestation and states “I am that Īśvara,” declaring that those who perceive essential oneness (no bheda) are freed from rebirth, while those fixed in difference fail to perceive the Supreme.

Continuous Praṇava (Oṃ) japa, Śatarudrīya recitation until death, and steadfast collected contemplation—especially in Vārāṇasī—are presented as powerful supports, with Īśvara granting liberating knowledge at the time of leaving the body.