
Avimukta-Māhātmya — Vyāsa in Vārāṇasī and Śiva’s Secret Teaching of Liberation
毗耶娑抵达瓦拉纳西(迦尸)后,在恒河岸边礼拜毗湿维湿瓦罗(Viśveśvara),并受当地住持圣贤礼敬;诸贤请求他宣说以大自在天(Mahādeva)为根本、能灭罪的解脱之法(mokṣa-dharma)。阇弥尼继而请毗耶娑裁定诸修行侧重之争——禅观(dhyāna)、法(dharma)、数论-瑜伽(Sāṅkhya-Yoga)、苦行(tapas)、不害(ahiṃsā)、真实(satya)、出离(saṃnyāsa)、布施(dāna)、圣地朝礼(tīrtha)与制御诸根(indriya-nigraha)——并揭示更深的秘要。毗耶娑遂转述古老启示:在须弥山上,天后(Devī)问自在主(Īśvara)如何迅速得见主宰;湿婆答曰,至上秘密即“不离”(Avimukta,迦尸),为最胜刹土与最高“知与住处”,在此业行成不坏,罪垢尽除,乃至被社会排斥者亦得解脱。湿婆宣告:死于迦尸可免地狱,得至高境界;虽列举他处诸圣地,仍以迦尸为最上,强调恒河在此具独特威德,且在迦尸圆满成就宗教行持极为稀有。教诲最终归于大自在天临终所授“度脱梵”(Tāraka Brahman),并以瑜伽内摄之法,将阿毗穆克塔之真实安置于身中诸处(眉间、脐、心、顶)。末了,毗耶娑与弟子遍行迦尸,为后续以解脱为旨的教导作铺垫。
Verse 1
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टाविंशो ऽध्यायः ऋषय ऊचुः प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः / किमकार्षोन्महाबुद्धिः श्रोतुं कौतूहलं हि नः
如是,在《圣龟往世书》六千颂本集、前分之中,第二十八章开启。诸仙人曰:“圣贤黑天·岛生(毗耶娑)抵达神圣的瓦拉纳西后,那位大智者作了何事?我等诚欲聆听。”
Verse 2
सूत उवाच प्राप्य वाराणसी दिव्यामुपस्पृश्य महामुनिः / पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम्
苏多说道:抵达光辉的瓦罗那西后,大圣者以触及圣水行净礼,遂在阇诃那维(恒河)岸边礼拜湿婆——维湿维湿瓦罗(万主自在者)。
Verse 3
तमागतं पुनिं दृष्ट्वा तत्र ये निवसन्ति वै / पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुङ्गवम्
见那位圣贤到来,住在那里的众人便以礼敬供养,崇奉毗耶娑——诸牟尼中的雄牛。
Verse 4
पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीः / महादेवाश्रयाः पुण्या मोक्षधर्मान् सनातनान्
众人皆俯首顶礼,祈问能灭罪的圣传妙语——依止大天(摩诃提婆)的清净教法,即永恒的解脱之法(mokṣa-dharma)。
Verse 5
स चापि कथयामास सर्वज्ञो भगवानृषिः / माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान्
于是那位全知可敬的圣仙亦开口宣说:称扬天中之天的伟大,并阐明由吠陀所昭示的诸法(dharma)。
Verse 6
तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः / पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम्
在诸位上首牟尼之中,毗耶娑的弟子大圣者阇弥尼向毗耶娑请问那幽隐而永恒的深义。
Verse 7
जैमिनिरुवाच भगवन् संशयं त्वेकं छेत्तुमर्हसि तत्त्वतः / न विद्यते ह्यविदितं भवता परमर्षिणा
阇弥尼说道:“噢,世尊,请如实为我断除这一疑惑。因为对你这位至上圣仙而言,没有任何事是未知的。”
Verse 8
केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः / अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः
有人赞颂禅观;世间亦有人唯独称扬法(dharma)。还有人推崇数论(Sāṅkhya)与瑜伽(Yoga),而另一些大圣仙则奉持苦行(tapas)。
Verse 9
ब्रह्मचर्यमथो मौनमन्ये प्राहर्महर्षयः / अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः
有些大圣仙宣说:法(dharma)即梵行(brahmacarya)与守默(mauna)。另一些教导不害(ahiṃsā)与真实(satya);还有人认为出离(saṃnyāsa)本身就是法。
Verse 10
केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा / तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम्
有人称赞慈悲;有人赞颂布施与研习圣教。有人推崇朝礼圣地(tīrtha)之行,而另一些则赞美制御诸根(indriya-nigraha)。
Verse 11
किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुङ्गव / यदि वा विद्यते ऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि
噢,诸牟尼中最胜者,请告诉我:在这些之中,哪一种是更高的善。若此外尚有别的秘密教法,也请你慈悲宣说。
Verse 12
श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः / प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम्
听罢耆弥尼之言,圣者黑岛生(毗耶娑)先礼敬牛幢者弗利沙计多那(即湿婆,牛为其徽),遂以深沉庄严之声开口说道。
Verse 13
साधु साधु महाभाग यत्पृष्टं भवता मुने / वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः
“善哉,善哉!福德具足的牟尼啊,你所问甚为相应。我将宣说至秘之教,隐于诸秘之上;愿其余大圣仙亦同来聆听。”
Verse 14
ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् / गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः
此永恒之智,昔日由主宰伊湿伐罗亲自宣说。其义深邃而隐秘——为愚昧者所厌——然能观微妙真理者珍重奉行。
Verse 15
नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः / न वेदविद्विषु शुभं ज्ञाननानां ज्ञानमुत्तमम्
此法不应授与无信之人,亦不应授与不敬奉至上主宰帕拉梅什提因者。憎恶吠陀者中无有吉祥;诸般知识之中,至上者乃导向至高者之智。
Verse 16
मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषम् / देवासनगता देवी महादेवमपृच्छत
久远以前,在须弥山之巅,女神端坐天座,向大天摩诃提婆——伊湿那主、摧灭三城者——恭敬发问。
Verse 17
देव्युवाच देवदेव महादेव भक्तानामार्तिनाशन / कथं त्वां पुरुषो देवमचिरादेव पश्यति
天女说道:“噢,诸神之神,噢,大自在天摩诃提婆——能灭除信众苦厄者——世人如何能在短时之内得见您,这位神圣的主宰?”
Verse 18
सांख्ययोगस्तथा ध्यानं कर्मयोगो ऽथ वैदिकः / आयासबहुला लोके यानि चान्यानि शङ्कर
“数论瑜伽、禅观(dhyāna)、业瑜伽,以及吠陀的祭仪之道——乃至世间种种修持,噢,商羯罗——对众人而言多是劳苦艰辛之行。”
Verse 19
येन विब्रान्तचित्तानां योगिनां कर्मिणामपि / दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम्
“凭借那法门,即便是心仍迷乱的瑜伽行者与行祭者,亦能使那至福的主——极其微妙者——对一切具身众生直接可见。”
Verse 20
एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम / हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन
“此乃最隐秘之智——深邃而潜藏——连梵天等诸神亦敬奉侍从。为一切信众之利益,噢,摧灭爱神迦摩及其眷属者,请为我宣说。”
Verse 21
ईश्वर उवाच अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् / वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः
自在天说道:“此证悟之智,非寻常言语所能尽述;乃愚者所弃之慧。我将如实为你宣说真理,正如至高圣仙所传授。”
Verse 22
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी / सर्वेषामेव भूतानां संसारार्णवतारिणी
瓦拉纳西——我的圣城——是至秘至深的神圣圣域(kṣetra)。对一切众生而言,它是渡越轮回大海(saṃsāra)的救度之舟。
Verse 23
तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः / निवसन्ति महात्मानः परं नियममास्थिताः
在那里,噢摩诃提毗(Mahādevī),奉行我之圣誓(vrata)的奉献者安住其间——皆为大心之士,坚住于最高的自制戒律。
Verse 24
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् / ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम
阿毗穆克塔(Avimukta)为一切朝圣圣地(tīrtha)之最胜,亦为诸圣住处之最上。于一切知识之中,它是最高之知——阿毗穆克塔,即我至上的超越境界。
Verse 25
स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च / श्मशानसंस्थितान्येव दिव्यभूमिगतानि च
亦有其他清净圣地——诸 tīrtha 与神圣道场;有的在火葬场(尸林)之中,有的在神圣而已受祝圣的灵域之上。
Verse 26
भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् / अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा
我的住处不系于地界;它在中空之域(antarikṣa)。未调伏者不能见之;而安住于瑜伽者,以清净之心识得见之。
Verse 27
श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् / कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि
此处以火葬场而闻名,亦传闻名为“阿毗穆克塔(Avimukta)”。在这里,汝美丽者,我化为迦罗——时间本身——将此整个宇宙摄入我自身之中。
Verse 28
देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम / मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते
女神啊,此处乃诸秘中最秘之地,是我最挚爱的居所。我的奉献者前往那里;进入此处之时,他们唯独进入我。
Verse 29
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् / ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत्
凡所布施、所持诵之阇波(japa)、所行火供之供献、所作正业之勤修、所修苦行(tapas),以及一切所为——并禅观、经教研习与真实智慧——在彼处皆成不坏,果报无失。
Verse 30
जन्मान्तरसहस्त्रेषु यत्पापं पूर्वसंचितम् / अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्
无论在前世千生万世中所积聚的罪业,凡入“阿毗穆克塔(Avimukta)”者,皆令其尽耗而灭。
Verse 31
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः / स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः
婆罗门、刹帝利、吠舍与首陀罗——以及成为种姓杂混(varṇa-saṅkara)者;妇女、弥勒叉(mleccha)及其他诸类——皆被称为杂糅之众,出自罪业之生。
Verse 32
कोटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः / कालेन निधनं प्राप्ता अविमुक्ते वरानने
噢,容颜姣美者啊,即便是昆虫与蚂蚁,以及其他如走兽与飞鸟的众生,也在阿毗穆克多(Avimukta)被时轮迦罗(Kāla)所摄而至终尽。
Verse 33
चन्द्रार्धमौलयस्त्र्यक्षा महावृषभवाहनाः / शिवे मम पुरे देवि जायन्ते तत्र मानवाः
噢,女神湿婆(Śivā)啊,在我之城中,噢,天女(Devī),人们出生便具鲁陀罗(Rudra)之相:额戴半月为冠,具三目,并乘大公牛。
Verse 34
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी / ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम्
凡在阿毗穆克多(Avimukta)命终之罪人,亦不堕地狱;因蒙主宰伊湿伐罗(Īśvara)垂恩,众皆得至无上归趣。
Verse 35
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् / अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः
当知解脱(mokṣa)极难得,而轮回(saṃsāra)至为可怖;故人当居住于婆罗那西(Vārāṇasī),纵使须以石击己足,强自勉励,也要安住于彼。
Verse 36
दुर्लभा तपसा चापि पूतस्य परमेश्वरि / यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी
噢,至上女主(Parameśvarī)啊,即便以苦行净化之人,也难以亲证于你;然而对困厄之众,无论身在何处,你皆为能解脱轮回(saṃsāra)之归依。
Verse 37
प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि / अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः
唯由我的恩典,此真实觉悟方得生起,噢,山王之女。未觉醒者不能见我与真理,因为被我的幻力(Māyā)所迷惑。
Verse 38
अविमुक्तं न सेवन्ति मूढा ये तमसावृताः / विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः
被黑暗遮蔽的愚人不依止阿毗穆克多(Avimukta)。他们一次又一次住在污秽之中——粪、尿与精液之间——反复回到有身之生。
Verse 39
हन्यमानो ऽपि यो विद्वान् वसेद् विघ्नशतैरपि / स याति परमं स्थानं यत्र गत्वा न शोचति
纵使遭受侵害,智者仍能安住不动;即便障碍百重,也能抵达至上的境地。到达彼处后,便不再忧悲。
Verse 40
जन्ममृत्युजरामुक्तं परं याति शिवालयम् / अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् / यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डताः
解脱于生、死与老,便能到达至上的湿婆圣居(Śivālaya)。这确是求解脱者的归宿——不再回到死亡之境。得此境界者,诸事已毕、所作皆成;学者如是宣说。
Verse 41
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया / प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते
至高归宿并非由布施得来,也非由苦行、祭祀,甚至非由学识而得;唯有凭借解脱(vimukti)方能获得。
Verse 42
नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः / किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा / भेषजं परमं तेषामविमुक्तं विदुर्बुधाः
无论出身多种种姓,或堕落卑贱如旃陀罗等、为人所厌弃者;其身仿佛充满罪垢与重罪:智者知阿毗穆克多(迦尸)为彼等之无上良药、最高救治。
Verse 43
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् / अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम्
阿毗穆克多是无上智慧;阿毗穆克多是至高住处。阿毗穆克多是无上真实;阿毗穆克多即是至上之湿婆本身。
Verse 44
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये / तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम्
凡受持坚固之灌顶(naiṣṭhikī 迪克沙)而住于阿毗穆克多者,我赐予其无上智慧;并于生命终末,授与其至高境地。
Verse 45
प्रायागं नैमिषं पुण्यं श्रीशैलो ऽथ महालयः / केदारं भद्रकर्णं च गया पुष्करमेव च
普罗耶伽、神圣的奈弥沙、室利塞罗与摩诃罗耶;又有计达罗、跋陀罗迦耳那、伽耶以及补湿迦罗——这些亦皆为清净的朝圣圣地(tīrtha)。
Verse 46
कुरुक्षेत्रं रुद्रकोटिर्नर्मदाम्रातकेश्वरम् / शालिग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् / प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम्
俱卢之地(Kurukṣetra)、鲁陀罗科底、那尔玛达河畔的阿摩罗多迦伊湿伐罗、娑利伽罗摩、库卜迦阿摩罗、无上之科迦穆迦、普罗婆娑、毗阇耶伊湿那、瞿迦耳那,以及跋陀罗迦耳那迦——皆被宣说为卓越的圣地渡口(tīrtha)。
Verse 47
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह / न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः
这些圣地确实名闻三界;然而死于彼处者,并不能如同死于瓦拉纳西者那样证得至上的解脱(摩克沙)。
Verse 48
वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी / प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम्
尤其在瓦拉纳西,恒河——贯通三界而流的圣流——入水沐浴之时,能摧灭百生百世所积之罪。
Verse 49
अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः / व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम्
在别处,恒河易得;祭祖的施罗陀、布施、苦行、持咒与诸誓戒亦皆易行;但在瓦拉纳西,这一切要圆满成就却极其难得。
Verse 50
यजेत जुहुयान्नित्यं ददात्यर्चयते ऽमरान् / वायुभक्षश्च सततं वाराणस्यां स्तितो नरः
居于瓦拉纳西之人,当恒常礼拜行祭:日日献供火供之供物,施与布施,敬奉不死诸天;并以坚固的自制而住,仿佛以风为食,常行清苦。
Verse 51
यदि पापो यदि शठो यदि वाधार्मिको नरः / वाराणसीं समासाद्य पुनाति सकलं नरः
纵使一人有罪,纵使狡诈,纵使违背正法;一旦抵达瓦拉纳西,亦能净化其全身全心。
Verse 52
वाराणस्यां महादेवं येर्ऽचयन्ति स्तुवन्ति वै / सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः
凡在瓦拉纳西(迦尸)礼敬大天(摩诃提婆)并真诚赞颂者,皆脱离一切罪垢,应当被称为湿婆诸伽那(眷属)中的主宰。
Verse 53
अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः / प्राप्यते तत् परं स्थानं सहस्त्रेणैव जन्मना
除瑜伽与解脱之智外——或除出离(僧尼式的弃世,saṃnyāsa)及其他殊胜方便外——至上的境地唯有历经一千次生死方能证得。
Verse 54
ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै / ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना
凡真诚住于瓦拉纳西、归依万神之主者,必得至上解脱;确然,只需一生便可成就。
Verse 55
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना / अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम्
凡有瑜伽与解脱之智之处,即能一生得解脱。既已抵达阿毗穆克多(迦尸),便不应再趋向他处苦行之林。
Verse 56
यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् / तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते
因为我从未舍弃此处,故它被称为“阿毗穆克多”(永不被遗弃之地)。此乃诸秘密中最上之密;真正了悟此义者,即得解脱。
Verse 57
ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् / या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु
美丽者啊,凡安住于智慧之道或戒行修持、渴求至上大乐者——所被规定的道路与境界如何,死时成就解脱者(穆克塔)的归趣便如是。
Verse 58
यानि चैवाविमुक्तस्य देहे तूक्तानि कृत्स्नशः / पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा
凡被详尽宣说为存在于阿毗穆克塔之身的诸圣处,尽皆如是;然而瓦拉纳西这座圣城,比那些处所更为吉祥殊胜。
Verse 59
यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः / व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम्
在那处,摩诃提婆亲自以自在主之相,于身终之际直接开示“度脱梵”(Tāraka Brahman,救度之智/真言);此处即名阿毗穆克塔迦——永不舍离的圣地。
Verse 60
यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् / एकेन जन्मना देवि वाराणस्यां तदाप्नुयात्
那被闻名为“阿毗穆克塔”的至上实相——噢女神——只要居住于瓦拉纳西,便能于一生之中证得那至高本原。
Verse 61
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि / यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम्
在眉间、在脐轮之中、在心中、并在头顶梵穴——正如在阿毗穆克塔中安立一般,在瓦拉纳西亦如是安住着解脱的圣临。
Verse 62
वरणायास्तथा चास्या मध्ये वाराणसी पुरी / तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम्
在瓦拉那河与阿西河之间的地域,有圣城婆罗那西。就在此处,至上真实恒常安住——此即“阿毗穆克塔”(永不舍离)的圣地。
Verse 63
वाराणस्याः परं स्थानं न भूतं न भविष्यति / यत्र नारायणो देवो महादेवो दिवेश्वरः
从未有过,也永不会有,比婆罗那西更高的圣住处——那里有那罗延那亲自临在,亦有摩诃提婆、诸天之主,作为神圣的主宰同在。
Verse 64
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः / उपासते मां सततं देवदेवं पितामहम्
在那里,诸天与乾闼婆、夜叉、那伽(乌罗伽)及罗刹一同,恒常礼敬我——我乃诸神之神,太初的祖父(Pitāmaha)。
Verse 65
महापातकिनो ये च ये तेभ्यः पापकृत्तमाः / वाराणसीं समासाद्य ते यान्ति परमां गतिम्
即便是犯下大罪者,乃至比他们更甚的罪人,一旦抵达婆罗那西(迦尸),也能获得至上的归趣。
Verse 66
तस्मान्मुमुक्षुर्नियतो वसेद् वै मरणान्तिकम् / वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते
因此,求解脱者应以戒律与坚定之志住于彼处,直至生命终尽;因为在婆罗那西,得摩诃提婆所赐的解脱之智,便能获得自由。
Verse 67
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः / ततो नैव चरेत् पापं कायेन मनसा गिरा
然而,罪业所伤之心者,必定遭遇诸多障碍;因此切莫造恶——以身、以意、以言皆不可。
Verse 68
एतद् रहस्यं वेदानां पुराणानां च सुव्रताः / अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः
噢,持清净誓愿者:此乃《吠陀》与《往世书》之秘义;依止阿毗穆克塔(Avimukta)之智慧,并非人人都能如实了知。
Verse 69
देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् / देव्यै देवेन कथितं सर्वपापविनाशनम्
当诸天与诸仙圣,以及至高天界众生悉皆聆听之时,天神对女神宣说此能灭尽一切罪业之教法。
Verse 70
यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः / यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम्
正如那罗延那(Nārāyaṇa)为诸天之最胜、至上之人(Puruṣottama);同样,在诸主宰之中,吉利沙(Girīśa,湿婆)最为尊上;而在一切圣地之中,此处即为至高。
Verse 71
यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि / ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम्
凡于前生如法奉事鲁陀罗(Rudra)者,彼等即得至上圣域:阿毗穆克塔(Avimukta),即湿婆之居所。
Verse 72
कलिकल्मषसंभूता येषामुपहता मतिः / न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः
那些因迦梨时代的垢染而生、心智被击倒的人,不能了知至高主宰帕拉梅什提因(至上之主)的无上圣住处。
Verse 73
ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् / तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्
凡恒常忆念(此圣地/此神祇)者,必得至此圣城普里;其罪业于此世与彼世皆迅速消灭。
Verse 74
यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः / नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः
凡居于此处者在此所造诸罪,皆为湿婆神所灭;湿婆之身即是时间。
Verse 75
आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् / मृतानां च पुनर्जनम् न भूयो भवसागरे
愿求解脱者前来此圣地礼敬奉事;凡在此处命终者,不再于轮回之海(saṃsāra)中复生。
Verse 76
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः / योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः
因此,人应竭尽一切努力住于婆罗那西——无论是瑜伽行者或非瑜伽行者,无论有罪或最善修福者。
Verse 77
न वेदवचनात् पित्रोर्न चैव गुरुवादतः / मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति
不可让自己的誓愿退转——无论凭借吠陀的训令,或因父母的催逼,乃至依师长(古鲁)的劝告——都不应离开通往阿毗穆克塔(不被舍弃的解脱圣道/圣地)的道路。
Verse 78
सूत उवाच इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः / सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह
苏多说道:如是言毕,吉祥的毗耶娑——诸吠陀智者之最胜——便与其卓越弟子们一同在婆罗痆斯(瓦拉纳西)往来行化。
It acknowledges multiple disciplines but elevates a ‘most secret’ mokṣa-dharma centered on Avimukta: in Kāśī, worship, japa, dāna, tapas, study, and jñāna become imperishable and culminate in liberation—especially through Śiva’s final transmission of Tāraka Brahman.
Rituals, gifts, austerities, and learning are praised yet declared insufficient for the highest destiny by themselves; the chapter insists the supreme state is obtained through vimukti—realized liberation—granted decisively in Avimukta by Śiva’s grace and saving instruction.
No. It explicitly includes mixed castes, women, mlecchas, and even beings like insects as falling under Kāśī’s Time-power and salvific scope, portraying Avimukta as the ‘supreme medicine’ even for those marked by grave sins.
Other tīrthas are revered, but the chapter claims that dying in them does not yield liberation ‘in the same way’ as dying in Vārāṇasī, where Śiva directly gives Tāraka Brahman and where sin-destruction and perfected religious fruit are said to be uniquely concentrated.