Adhyaya 26
Purva BhagaAdhyaya 2622 Verses

Adhyaya 26

Kṛṣṇa’s Departure, Kali-yuga Dharma, and the Prohibition of Śiva-Nindā (Hari–Hara Samanvaya)

本章续述王族与化身之记:略提圣克里希纳之子孙(萨姆巴与阿尼鲁陀),追忆其诛灭阿修罗、重整宇宙秩序之功,终以至上智慧决意离世,归于最高住处。婆利古等圣仙至都瓦拉卡,克里希纳在罗摩面前恭敬迎奉,并宣告将启程离去,指出迦梨时代已起,世道将趋衰败。祂嘱诸仙传播能救度的灵性正知,以利婆罗门;并言但一念忆主,便能灭除迦梨所生之罪,日日依吠陀仪轨礼拜可达至上境界。继而明示“哈利—哈罗调和”(Hari–Hara samanvaya):肯定对那罗延那之奉爱,然严禁憎恨或诽谤大自在天(湿婆),并警告诋毁湿婆者,其祭仪、苦行与知识皆成无果。章末告诫当远离受诅咒且敌视湿婆之族系;诸仙辞去,克里希纳收摄其族众,并以果报偈许诺诵读与聆听者得福德——由此结束此段谱系叙事,并引向后问:“还欲闻何事?”

All Adhyayas

Shlokas

Verse 1

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशो ऽध्यायः सूत उवाच ततो लब्धवरः कृष्णो जाम्बवत्यां महेश्वरात् / अजीजनन्महात्मानं साम्बमात्मजमुत्तमम्

如是,《圣龟摩往世书》六千颂本集、前分第二十五章终。苏多曰:其后,克里希纳蒙大自在天(摩诃湿伐罗)赐福,于阇姆婆伐蒂生下大心而殊胜之子——三婆(Sāmba)。

Verse 2

प्रद्युम्नस्याप्यभूत् पुत्रो ह्यनिरुद्धो महाबलः / तावुभौ गुणसंपन्नौ कृष्णस्यैवापरे तनू

普罗陀优摩那亦有一子,名阿尼卢陀(Aniruddha),力大无比。二人皆具诸善德,宛如克里希纳自身的再现之身。

Verse 3

हत्वा च कंसं नरकमन्यांश्च शतशो ऽसुरान् / विजित्य लीलया शक्रं जित्वा बाणं महासुरम्

他诛灭迦ṃ萨与那罗迦,又降伏数百阿修罗;并以神圣戏乐之力戏伏释迦(因陀罗),亦征服了大阿修罗婆那。

Verse 4

स्थापयित्वा जगत् कृत्स्नं लोके धर्मांश्च शाश्वतान् / चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम्

当他安顿了整个世界,并在世间确立永恒的达摩法则之后,纳罗延那以至上智慧决意启程,归往自己的本住之境。

Verse 5

एतस्मिन्नन्तरे विप्रा भृग्वाद्याः कृष्णमीश्वरम् / आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम्

其间,婆罗门圣贤们——以婆利古为首——来到堕罗迦,为瞻礼主克里希纳:至上自在天(Īśvara)、永恒者,已圆满其所当作。

Verse 6

स तानुवाच विश्वात्मा प्रणिपत्याभिपूज्य च / आसनेषूपविष्टान् वै सह रामेण धीमता

随后,宇宙之我(毗湿瓦阿特曼)向他们开示:先俯首礼敬并如法供养;当诸贤安坐其座时,智者罗摩亦在旁。

Verse 7

गमिष्ये तत् परं स्थानं स्वकीयं विष्णुसंज्ञितम् / कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः

“我将前往我那至上的境界,名为毗湿奴之自住处。诸事所当成者皆已成就;愿诸位牟尼之王蒙恩而安宁。”

Verse 8

इदं कलियुगं घोरं संप्राप्तमधुनाशुभम् / भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्तिनः

如今这可怖而不祥的迦梨时代已然到来;在此世中,众人确会随逐罪业,以非义为其行路。

Verse 9

प्रवर्तयध्वं मज्ज्ञानं ब्राह्मणानां हितावहम् / येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः

“当兴起并弘传我的灵性正知,此知有益于婆罗门之福祉;凭此,最胜的二次生者确能解脱迦梨世所生诸罪。”

Verse 10

ये मां जनाः संस्मरन्ति कलौ सकृदपि प्रभुम् / तेषां नश्यतु तत् पापं भक्तानां पुरुषोत्तमे

在迦梨世中,纵使有人仅一次忆念我——主宰——愿诸奉者之罪即刻消灭;因为我乃补卢沙奥多摩,众生之上至上者。

Verse 11

येर्ऽचयिष्यन्तिमां भक्त्या नित्यं कलियुगे द्विजाः / विधाना वेददृष्टेन ते गमिष्यन्ति तत् पदम्

在迦梨世中,诸二次生者若恒常以信爱日日礼敬我,并依吠陀所示之仪轨行事,必将抵达彼至上境地——我的圣住。

Verse 12

ये ब्राह्मणा वंशजाता युष्माकं वै सहस्त्रशः / तेषां नारायणे भक्तिर्भविष्यति कलौ युगे

凡生于汝等族系之婆罗门——实有千千——在迦梨时代中,将兴起对那罗延的信爱。

Verse 13

परात् परतरं यान्ति नारायणपरायणाः / न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम्

唯以那罗延那(Nārāyaṇa)为究竟归依者,得至超越复超越之境(至上超然)。然憎恨大自在天摩诃湿伐罗(Śiva)者,终不得往彼处。

Verse 14

ध्यानं होमं तपस्तप्तं ज्ञानं यज्ञादिको विधिः / तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम्

禅观、火供(homa)、善修苦行、灵性之智,以及祭祀等所规定的仪轨——凡此功德,对诋毁持槃那迦弓者毗那迦因(Pinākin,即湿婆)的人,都会迅速败坏消散。

Verse 15

यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः / विनिन्द्य देवमीशानं स याति नरकायुतम्

纵有人恒常以一心专注归依于我,若却诽谤主宰——伊沙那(Īśāna,湿婆)——此人必堕入无量群狱。

Verse 16

तस्मात् सा परिहर्तव्या निन्दा पशुपतौ द्विजाः / कर्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः

是故,诸二生者,当彻底远离对牧主帕舒帕提(Paśupati,湿婆)的毁谤——以身、以意、以语谨慎自持——并当竭力不轻慢、不中伤其信众弟子。

Verse 17

ये तु दक्षाध्वरे शप्ता दधीयेन द्विजोत्तमाः / भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः

至于在达克沙祭祀中被达地迦(Dadhīca)所诅咒的诸位二生上首——当迦梨时代来临之时——虔信之人当以刻意之勤,谨慎回避他们。

Verse 18

द्विषन्तो देवमीशानं युष्माकं वंशसंभवाः / शप्ताश्च गौतमेनोर्व्यां न संभाष्या द्विजोत्तमैः

凡出自你们族系者,因憎敌主宰——伊沙那(至上统御者),为圣者乔多摩所诅;故在此世间,最胜的二次生者不应与之交谈。

Verse 19

इत्येवमुक्ताः कृष्णेन सर्व एव महर्षयः / ओमित्युक्त्वा ययुस्तूर्णंस्वानि स्थानानि सत्तमाः

诸大圣仙既被克里希纳如是告诫,皆为德行之最胜者,同声诵曰“唵”,旋即疾往各自住处。

Verse 20

ततो नारायणः कृष्णो लीलयैव जगन्मयः / संहृत्य स्वकुलं सर्वं ययौ तत् परमं पदम्

其后,遍满宇宙的那罗延——克里希纳,仅以神圣之戏(līlā)收摄自家全族,遂往彼至上之境、最高住处而去。

Verse 21

इत्येष वः समासेन राज्ञां वंशो ऽनुकीर्तितः / न शक्यो विस्तराद् वक्तुं किं भूयः श्रोतुमिच्छथ

如是,我已略述诸王之世系于汝等。若要详尽铺陈,实难为之——你们还想再听什么?

Verse 22

यः पठेच्छृणुयाद् वापि वंशानां कथनं शुभम् / सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते

凡诵读——乃至仅仅聆听——此吉祥的诸族系叙述者,皆得脱离一切罪垢,并在天界受尊崇。

← Adhyaya 25Adhyaya 27

Frequently Asked Questions

It prioritizes smaraṇa (remembering the Lord) as immediately purifying, and also prescribes daily devotion performed in accordance with Vedic rites as a direct means to attain the supreme abode.

It presents a synthesis: refuge in Nārāyaṇa leads to the supreme transcendence, but hatred or blasphemy of Maheśvara is disqualifying and spiritually ruinous—making respect for Śiva integral to authentic Vaiṣṇava devotion.