
Amṛta-Manthana and Lalitā’s Mohinī Intervention (Amṛtamanthana-Prasaṅga)
अस्याध्याये ललितोपाख्याने हयग्रीव–अगस्त्यसंवादे धन्वन्तरिणा सह अमृतकलशस्य प्रादुर्भावे दैत्यैः सुवर्णकलशो हृतः, ततः सुरासुरयुद्धं प्रवृत्तम्। सर्वलोकपालकः विष्णुः स्वैक्यरूपिणीं ललितां प्रार्थयते; शाक्तपरिवर्ते समाधानं केवलं शस्त्रबलात् न, अपि तु मायासंमोहनात्। ललिता सर्वसंमोहिनी रूपेण प्रादुर्भूय युद्धं निरोद्धि, दैत्यान् अमृतं स्वहस्ते निक्षेपयितुं वाक्यैः प्रेरयति। ततः सुराणां दैत्यानां च पृथक् पङ्क्तीः स्थापयित्वा, शान्त्या वाचा च मोहनेन च अमृतवितरणं विधत्ते; अमृतं सार्वभौमत्वचिह्नं, शक्तिः निर्णायकमध्यस्थेति प्रतिपाद्यते।
Verse 1
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अमृतमन्थनं नाम नवमो ऽध्यायः हयग्रीव उवाच अथ देवा महेन्द्राद्या विष्णुना प्रभविष्मुना / अङ्गीकृता महाधीराः प्रमोदं परमं ययुः
इति श्रीब्रह्माण्डमहापुराणे… ‘अमृतमन्थनं’ नाम नवमोऽध्यायः। हयग्रीव उवाच—अथ महेन्द्राद्या देवा विष्णुना प्रभविष्णुना अङ्गीकृता महाधीराः परमं प्रमोदं ययुः।
Verse 2
मलकाद्यास्तु ते सर्वे दैत्या विष्णुपराङ्मुखाः / संत्यक्ताश्च श्रिया देव्या भृशमुद्वेगमागताः
मलकादयस्ते सर्वे दैत्या विष्णुपराङ्मुखाः; देव्या श्रिया संत्यक्ताः भृशमुद्वेगमागताः।
Verse 3
ततो जगृहिरे दैत्या धन्वन्तरिकरस्थितम् / परमामृतसाराढ्यं कलशं कनकोद्भवम् / अथासुराणां देवानामन्योन्यं कलहो ऽभवत्
ततः दैत्या धन्वन्तरिहस्तस्थितं परमामृतसारसम्पूर्णं कनकोद्भवं कलशं जगृहिरे। अथ देवानामसुराणां च परस्परं कलहोऽभवत्।
Verse 4
एतस्मिन्नन्तरे विष्णुः सर्वलोकैकरक्षकः / सम्यगाराधयामासललितां स्वैक्यरूपिणीम्
एतस्मिन्नन्तरे विष्णुः सर्वलोकैकरक्षकः सम्यक् ललितां स्वैक्यरूपिणीं आराधयामास।
Verse 5
सुराणामसुराणां च रणं वीक्ष्य सुदारुणम् / ब्रह्मा निजपदं प्राप शंभुः कैलासमास्थितः
सुराणामसुराणां च सुदारुणं रणं वीक्ष्य ब्रह्मा निजपदं प्राप; शम्भुः कैलासमास्थितः।
Verse 6
मलकं योधयामास दैत्यानामधिपं वृषा / असुरैश्च सुराः सर्वे सांपरायमकुर्वत
वृषा दैत्यानामधिपं मलकं योधयामास; असुरैश्च सुराः सर्वे सांपरायमकुर्वत।
Verse 7
भगवानपि योगीन्द्रः समाराध्य महेश्वरीम् / तदेकध्यानयोगेन तद्रूपः समजायत
भगवानपि योगीन्द्रः महेश्वरीं समाराध्य तदेकध्यानयोगेन तद्रूपः समजायत।
Verse 8
सर्वसंमोहिनी सा तु साक्षाच्छृङ्गारनायिका / सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता
सा तु सर्वसंमोहिनी साक्षाच्छृङ्गारनायिका। सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता॥
Verse 9
सुराणामसुराणां च निवार्य रणमुल्वणम् / मन्दस्मितेन दैतेयान्मोहयन्ती जगद ह
सुरासुरयोः रणमुल्वणं निवार्य, मन्दस्मितेन दैतेयान् मोहयन्ती जगाद ह॥
Verse 10
अलं युद्धेन किं शस्त्रेर्मर्मस्थानविभेदिभिः / निष्ठुरैः किं वृथालापैः कण्ठशोषणहेतुभिः
अलं युद्धेन; किं शस्त्रैर्मर्मस्थानविभेदिभिः? निष्ठुरैः किं वृथालापैः कण्ठशोषणहेतुभिः?
Verse 11
अहमेवात्र मध्यस्था युष्माकं च दिवौकसाम् / यूयं तथामी नितरामत्र हि क्लेशभागिनः
अहमेवात्र मध्यस्था युष्माकं च दिवौकसाम्। यूयं तथामी नितरामत्र हि क्लेशभागिनः॥
Verse 12
सर्वेषां सममेवाद्य दास्याम्यमृतमद्भुतम् / मम हस्ते प्रदातव्यं सुधापात्रमनुत्तमम्
सर्वेषां सममेवाद्य दास्याम्यमृतमद्भुतम्। मम हस्ते प्रदातव्यं सुधापात्रमनुत्तमम्॥
Verse 13
इति तस्या वचः श्रुत्वा दैत्यास्तद्वाक्यमोहिताः / पीयूषकलशं तस्यै ददुस्ते मुग्धचेतसः
इति तस्या वचः श्रुत्वा दैत्यास्तद्वाक्यमोहिताः । पीयूषकलशं तस्यै ददुस्ते मुग्धचेतसः ॥
Verse 14
सा तत्पात्रं समादाय जगन्मोहनरूपिणी / सुराणामसुराणां च वृथक्पङ्क्तिं चकार ह
सा तत्पात्रं समादाय जगन्मोहनरूपिणी । सुराणामसुराणां च वृथक्पङ्क्तिं चकार ह ॥
Verse 15
द्वयोः पङ्क्त्योश्च मध्यस्थास्तानुवाच सुरासुरान् / तूष्णीं भवन्तु सर्वे ऽपि क्रमशो दीयते मया
द्वयोः पङ्क्त्योश्च मध्यस्थास्तानुवाच सुरासुरान् । तूष्णीं भवन्तु सर्वेऽपि क्रमशो दीयते मया ॥
Verse 16
तद्वाक्यमुररीचक्रुस्ते सर्वे समवायिनः / सा तु संमोहिताश्लेषलोका दातुं प्रचक्रमे
तद्वाक्यमुररीचक्रुस्ते सर्वे समवायिनः । सा तु संमोहिताश्लेषलोका दातुं प्रचक्रमे ॥
Verse 17
क्वणत्कनकदर्वीका क्वणन्मङ्गलकङ्कणा / कमनीयविभूषाढ्या कला सा परमा बभौ
क्वणत्कनकदर्वीका क्वणन्मङ्गलकङ्कणा । कमनीयविभूषाढ्या कला सा परमा बभौ ॥
Verse 18
वामे वामे करांभोजे सुधाकलशमुज्ज्वलम् / सुधां तां देवतापङ्क्तौ पूर्वं दर्व्या तदादिशत्
वामे वामे कराम्भोजे स उज्ज्वलः सुधाकलशः स्थितः। सा तां सुधां देवतापङ्क्तौ पूर्वं दर्व्या वितरितुमादिशत्॥
Verse 19
दिशन्ती क्रमशास्तत्र चन्द्रभास्करसूचितम् / दर्वीकरेण चिच्छेद सैंहिकेयं तु मध्यगम् / पीतामृतशिरोमात्रं तस्य व्योम जगाम च
क्रमशः सा दिशन्ती चन्द्रभास्करसूचितम्। दर्वीकरेण चिच्छेद सैंहिकेयं तु मध्यगम्॥ पीतामृतशिरोमात्रं तस्य व्योम जगाम च॥
Verse 20
तं दृष्ट्वाप्यसुरास्तत्र तूष्णीमासन्विमोहिताः / एवं क्रमेण तत्सर्वं विबुधेभ्यो वितीर्य सा / असुराणां पुरः पात्रं सानिनाय तिरोदधे
तं दृष्ट्वाप्यसुरास्तत्र तूष्णीमासन्विमोहिताः। एवं क्रमेण तत्सर्वं विबुधेभ्यो वितीर्य सा॥ असुराणां पुरः पात्रं सानिनाय तिरोदधे॥
Verse 21
रिक्तपात्रं तु तं दृष्ट्वा सर्वे दैतेयदानवाः / उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया
रिक्तपात्रं तु तं दृष्ट्वा सर्वे दैतेयदानवाः। उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया॥
Verse 22
इन्द्रादयः सुराः सर्वे सुधापानाद्बलोत्तराः / दुर्वलैरसुरैः सार्धं समयुद्ध्यन्त सायुधाः
इन्द्रादयः सुराः सर्वे सुधापानाद्बलोत्तराः। दुर्वलैरसुरैः सार्धं समयुद्ध्यन्त सायुधाः॥
Verse 23
ते विध्यमानाः शतशो दानवेन्द्राः सुरोत्तमैः / दिगन्तान्कतिचिज्जग्मुः पातालं कतिचिद्ययुः
ते विध्यमानाः शतशो दानवेन्द्राः सुरोत्तमैः । दिगन्तान् कतिचिज्जग्मुः पातालं कतिचिद्ययुः ॥
Verse 24
दैत्यं मलकनामानं विजित्य विबुधेश्वरः / आत्मीयां श्रियमाजह्रे श्रीकटाक्ष समीक्षितः
दैत्यं मलकनामानं विजित्य विबुधेश्वरः । आत्मीयां श्रियमाजह्रे श्रीकटाक्षसमीक्षितः ॥
Verse 25
पुनः सिंहासनं प्राप्य महेन्द्रः सुरसेवितः / त्रैलोक्यं पालयामास पूर्ववत्पूर्वदेवजित्
पुनः सिंहासनं प्राप्य महेन्द्रः सुरसेवितः । त्रैलोक्यं पालयामास पूर्ववत् पूर्वदेवजित् ॥
Verse 26
निर्भया निखिला देवास्त्रैलोक्ये सचराचरे / यथाकामं चरन्ति स्म सर्वदा हृष्टचेतसः
निर्भया निखिला देवास्त्रैलोक्ये सचराचरे । यथाकामं चरन्ति स्म सर्वदा हृष्टचेतसः ॥
Verse 27
तदा तदखिलं दृष्ट्वा मोहिनीचरितं मुनिः / विस्मितः कामचारी तु कैलासं नारदो गतः
तदा तदखिलं दृष्ट्वा मोहिनीचरितं मुनिः । विस्मितः कामचारी तु कैलासं नारदो गतः ॥
Verse 28
नन्दिना च कृतानुज्ञः प्रणम्य परमेश्वरम् / तेन संभाव्यमानो ऽसौ तुष्टो विष्टरमास्त सः
नन्दिना कृतानुज्ञः स परमेश्वरं प्रणम्य; तेन सादरं संभाव्यमानः तुष्टः सन् विस्तरेण उपाविशत्।
Verse 29
आसनस्थं महादेवो मुनिं स्वेच्छाविहारिणम् / पप्रच्छ पार्वतीजानिः स्वच्छस्फटिकसन्निभः
आसनस्थं स्वेच्छाविहारिणं मुनिं महादेवः; पार्वतीजानिः स्वच्छस्फटिकसन्निभः पप्रच्छ।
Verse 30
भगवन्सर्ववृत्तज्ञ पवित्रीकृतविष्टर / कलहप्रिय देवर्षे किं वृत्तं तत्र नाकिनाम्
भगवन् सर्ववृत्तज्ञ, पवित्रीकृतविष्टर; कलहप्रिय देवर्षे, किं वृत्तं तत्र नाकिनाम्?
Verse 31
सुराणामसुराणां वा विजयः समजायत / किं वाप्यमृतवृत्तान्तं विष्णुना वापि किं कृतम्
सुराणाम् असुराणां वा विजयः समजायत? किं वापि अमृतवृत्तान्तः? विष्णुना वापि किं कृतम्?
Verse 32
इति पृष्टो महेशेन नारदो मुनिसत्तमः / उवाच विस्मयाविष्टः प्रसन्नवदनेक्षणः
इति महेशेन पृष्टो नारदो मुनिसत्तमः; विस्मयाविष्टः प्रसन्नवदनेक्षणः उवाच।
Verse 33
सर्वं जानासि भगवन्सर्वज्ञो ऽसि यतस्ततः / तथापि परिपृष्टेन मया तद्वक्ष्यते ऽधुना
सर्वं जानासि भगवन्, सर्वज्ञोऽसि यतस्ततः। तथापि मया परिपृष्टेन तदधुना वक्ष्यते॥
Verse 34
तादृशे समरे घोरे सति दैत्यदिवौकसाम् / आदिनारायमः श्रीमान्मोहिनीरूपमादधे
तादृशे घोरसमरे दैत्यदिवौकसां सति। आदिनारायणः श्रीमान् मोहिनीरूपमादधे॥
Verse 35
तामुदारविभूषाढ्यां मूर्तां शृङ्गारदेवताम् / सुरासुराः समालोक्य विरताः समरोध्यमात्
तामुदारविभूषाढ्यां मूर्तां शृङ्गारदेवताम्। समालोक्य सुरासुराः समरोध्यमात् विरताः॥
Verse 36
तन्मायामोहिता दैत्याः सुधापात्रं च याचिताः / कृत्वा तामेव मध्यस्थामर्पयामासुरञ्जसा
तन्मायामोहिता दैत्याः सुधापात्रं च याचिताः। कृत्वा तामेव मध्यस्थामर्पयामासुरञ्जसा॥
Verse 37
तदा देवी तदादाय मन्दस्मितमनोहरा / देवेभ्य एव पीयूषमशेषं विततार सा
तदा देवी तदादाय मन्दस्मितमनोहरा। देवेभ्य एव पीयूषम् अशेषं विततार सा॥
Verse 38
तिरोहितामदृष्ट्वा तां दृष्ट्वा शून्यं च पात्रकम् / ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुत्थिताः
तां तिरोहितामदृष्ट्वा शून्यं च पात्रकं दृष्ट्वा, ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुत्थिताः।
Verse 39
अमरैरमृतास्वादादत्युल्वणपराक्रमैः / पराजिता महादैत्या नष्टाः पातालमभ्ययुः
अमरैः अमृतास्वादात् अत्युल्वणपराक्रमैः पराजिता महादैत्या नष्टाः पातालमभ्ययुः।
Verse 40
इमं वृत्तान्तमाकर्ण्य भवानीपतिख्ययः / नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन्
इमं वृत्तान्तमाकर्ण्य भवानीपतिख्ययः नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन्।
Verse 41
अज्ञातः प्रमथैः सर्वैः स्कन्दनन्दिविनायकैः / पार्वतीसहितो विष्णुमाजगाम सविस्मयः
अज्ञातः प्रमथैः सर्वैः स्कन्दनन्दिविनायकैः पार्वतीसहितो विष्णुमाजगाम सविस्मयः।
Verse 42
क्षीरोदतीरगं दृष्ट्वा सस्त्रीकं वृषवाहनम् / भोगिभोगासनाद्विष्णुः समुत्थाय समागतः
क्षीरोदतीरगं सस्त्रीकं वृषवाहनं दृष्ट्वा, भोगिभोगासनाद्विष्णुः समुत्थाय समागतः।
Verse 43
वाहनादवरुह्येशः पार्वत्या सहितः स्थितम् / तं दृष्ट्वा शीघ्रमागत्य संपूज्यार्घ्यादितो मुदा
वाहनादवरुह्येशः पार्वत्या सहितः स्थितम् । तं दृष्ट्वा शीघ्रमागत्य संपूज्यार्घ्यादितो मुदा ॥
Verse 44
सस्नेहं गाढमालिङ्ग्य भवानीपतिमच्युतः / तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः
सस्नेहं गाढमालिङ्ग्य भवानीपतिमच्युतः । तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः ॥
Verse 45
तमुवाच महादेवो भगवन्पुरुषोत्तम / महायोगेश्वर श्रीमन्सर्वसौभाग्यसुन्दरम्
तमुवाच महादेवो भगवन्पुरुषोत्तम । महायोगेश्वर श्रीमन्सर्वसौभाग्यसुन्दरम् ॥
Verse 46
सर्वसंमोहजनकमवाङ्मनसगोचरम् / यद्रूपं भवतोपात्तं तन्मह्यं संप्रदर्शय
सर्वसंमोहजनकमवाङ्मनसगोचरम् । यद्रूपं भवतोपात्तं तन्मह्यं संप्रदर्शय ॥
Verse 47
द्रष्टुमिच्छामि ते रूपं शृङ्गारस्याधिदैवतम् / अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक्
द्रष्टुमिच्छामि ते रूपं शृङ्गारस्याधिदैवतम् । अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक् ॥
Verse 48
इति संप्रार्थितः शश्वन्महादेवेन तेन सः / यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम्
इति तेन महादेवेन शश्वत् संप्रार्थितः सः; यद्ध्यानवैभवात् लब्धं अद्वैतम् अद्भुतं रूपं (ददर्श/प्राप)।
Verse 49
तदेवानन्यमनसा ध्यात्वा किञ्चिद्विहस्य सः / तथास्त्विति तिरो ऽधत्त महायोगेश्वरो हरिः
तदेव अनन्यमनसा ध्यात्वा सः किञ्चिद् विहस्य; ‘तथास्तु’ इति महायोगेश्वरो हरिः तिरोऽधत्त।
Verse 50
शर्वो ऽपि सर्वतश्चक्षुर्मुहुर्व्यापारयन्क्वचित् / अदृष्टपूर्वमाराममभिरामं व्यलोकयत्
शर्वोऽपि सर्वतश्चक्षुः मुहुः क्वचित् व्यपारयन्; अदृष्टपूर्वम् अभिरामम् आरामं व्यलोकयत्।
Verse 51
विकसत्कुसुमश्रेणीविनोदिमधुपालिकम् / चंपकस्तबकामोदसुरभीकृतदिक्तटम्
विकसत्कुसुमश्रेणी-विनोदिमधुपालिकं; चम्पकस्तबकामोद-सुरभीकृत-दिक्तटम्।
Verse 52
माकन्दवृन्दमाध्वीकमाद्यदुल्लोलकोकिलम् / अशोकमण्डलीकाण्डसताण्डवशिखण्डिकम्
माकन्दवृन्द-माध्वीकम् आद्यदुल्लोल-कोकिलम्; अशोकमण्डली-काण्ड-सताण्डव-शिखण्डिकम्।
Verse 53
भृङ्गालिनवझङ्कारजितवल्लकिनिस्वनम् / पाटलोदारसौरभ्यपाटलीकुसुमोज्ज्वलम्
भृङ्गाणां नूतनझङ्कारैर्जितो वल्लकीनिस्वनः; पाटलपुष्पैः उज्ज्वलं तदुदारसौरभ्येण सर्वतो दीप्तम्।
Verse 54
तमालतालहिन्तालकृतमालाविलासितम् / पर्यन्तदीर्घिकादीर्घपङ्कजश्रीपरिष्कृतम्
तमालताला-हिन्तालैः कृतमालाविलासितं, पर्यन्तदीर्घिकासु दीर्घपङ्कजश्रीभिः परिष्कृतम्।
Verse 55
वातपातचलच्चारुपल्लवोत्फुल्लपुष्पकम् / सन्तानप्रसवामोदसन्तानाधिकवासितम्
वातपातचलेन चारुपल्लवैः स्फुटितपुष्पकं, सन्तानप्रसवामोदेन सन्तानाधिकं वासितम्।
Verse 56
तत्र सर्वत्र पुष्पाढ्ये सर्वलोकमनोहरे / पारिजाततरोर्मूले कान्ता काचिददृश्यत
तत्र सर्वत्र पुष्पाढ्ये सर्वलोकमनोहरे, पारिजाततरोर्मूले कान्ता काचिददृश्यत।
Verse 57
बालार्कपाटलाकारा नवयौवनदर्पिता / आकृष्टपद्मरागाभा चरणाब्जनखच्छदा
बालार्कपाटलाकारा नवयौवनदर्पिता; आकृष्टपद्मरागाभा चरणाब्जनखच्छदा।
Verse 58
यावकश्रीविनिक्षेपपादलौहित्यवाहिनी / कलनिःस्वनमञ्जीरपदपद्ममनोहरा
यावकश्रीविनिक्षेपात् पादयोर्लोहितप्रभा वहति; कलनिःस्वनमञ्जीरैः पदपद्मं मनोहरं शोभते।
Verse 59
अनङ्गवीरतूणीरदर्पोन्मदनजङ्घिका / करिशुण्डाकदलिकाकान्तितुल्योरुशोभिनी
अनङ्गवीरतूणीरदर्पोन्मदनजङ्घिका; करिशुण्डाकदलिकाकान्तितुल्योरुशोभिनी।
Verse 60
अरुणेन दुकूलेन सुस्पर्शेन तनीयसा / अलङ्कृतनितंबाढ्या जघनाभोगभासुरा
अरुणेन दुकूलेन सुस्पर्शेन तनीयसा; अलङ्कृतनितंबाढ्या जघनाभोगभासुरा।
Verse 61
नवमाणिक्यसन्नद्धहेमकाञ्जीविराजिता / नतनाभिमहावर्त्तत्रिवल्यूर्मिप्रभाझरा
नवमाणिक्यसन्नद्धहेमकाञ्जीविराजिता; नतनाभिमहावर्त्तत्रिवल्यूर्मिप्रभाझरा।
Verse 62
स्तनकुड्मलहिन्दोलमुक्तादामशतावृता / अतिपीवरवक्षोजभारभङ्गुरमध्यभूः
स्तनकुड्मलहिन्दोलमुक्तादामशतावृता; अतिपीवरवक्षोजभारभङ्गुरमध्यभूः।
Verse 63
शिरीषकोमलभुजा कङ्कणाङ्गदशालिनी / सोर्मिकां गुलिमन्मृष्टशङ्खसुन्दरकन्धरा
शिरीषपुष्पसदृशकोमलभुजा कङ्कणाङ्गदभूषिता। सोर्मिकया गुलिमन्मृष्टशङ्खसदृशसुन्दरकन्धरा॥
Verse 64
मुखदर्पणवृत्ताभचुबुकापाटलाघरा / शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः
मुखदर्पणवृत्ताभं चिबुकं पाटलाधरम्। शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः॥
Verse 65
कुन्दकुड्मलसच्छायैर्दन्तैर्दर्शितचन्द्रिका / स्थूलमौक्तिकसन्नद्धनासाभरणभासुरा
कुन्दकुड्मलसच्छायैर्दन्तैर्दर्शितचन्द्रिका। स्थूलमौक्तिकसन्नद्धनासाभरणभासुरा॥
Verse 66
केतकान्तर्द्दलद्रोणिदीर्घदीर्घविलोचना / अर्धेन्दुतुलिताफाले सम्यक्कॢप्तालकच्छटा
केतकान्तर्दलद्रोणिदीर्घदीर्घविलोचना। अर्धेन्दुतुलिताफाले सम्यक्कॢप्तालकच्छटा॥
Verse 67
पालीवतंसमाणिक्यकुण्डलामण्डितश्रुतिः / नवकर्पूरकस्तूरीरसामोदितवीटिका
पालीवतंसमाणिक्यकुण्डलामण्डितश्रुतिः। नवकर्पूरकस्तूरीरसामोदितवीटिका॥
Verse 68
शरच्चरुनिशानाथमण्डलीमधुरानना / स्फुरत्कस्तूरितिलका नीलकुन्तलसंहतिः
शरदृतौ चन्द्रमण्डलसदृशमधुरमुखी, स्फुरत्कस्तूरीतिलका, नीलकुन्तलसंहतियुक्ता।
Verse 69
सीमन्तरेखाविन्यस्तसिंदूरश्रेणिभासुरा
सीमन्तरेखायां विन्यस्तसिन्दूरश्रेण्या भासुरा।
Verse 70
स्फरच्चन्द्रकलोत्तंसमदलोलविलोचना / सर्वशृङ्गारवेषाढ्या सर्वाभरणमण्डिता
स्फुरच्चन्द्रकलोत्तंसमदालोलविलोचना, सर्वशृङ्गारवेषाढ्या, सर्वाभरणमण्डिता।
Verse 71
तामिमां कन्दुकक्रीडालोलामालोलभूषणाम् / दृष्ट्वा क्षिप्रमुमां त्यक्त्वा सो ऽन्वधावदथेश्वरः
तामिमां कन्दुकक्रीडालोलामालोलभूषणाम् दृष्ट्वा, क्षिप्रमुमां त्यक्त्वा, सोऽन्वधावदथेश्वरः।
Verse 72
उमापि तं समोवेक्ष्य धावन्तं चात्मनः प्रियम् / स्वात्मानं स्वात्मर्सोन्दर्यं निन्दन्ती चातिविस्मिता / तस्थाववाङ्मुखी तूष्णीं लज्जासूयासमन्विता
उमापि तं समोवेक्ष्य धावन्तं चात्मनः प्रियम्। स्वात्मानं स्वात्मसौन्दर्यं निन्दन्ती चातिविस्मिता। तस्थाववाङ्मुखी तूष्णीं लज्जासूयासमन्विता।
Verse 73
गृहीत्वा कथमप्येनामालिलिग मुहुर्मुहुः / उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः
गृहीत्वा कथमप्येनामालिलिग मुहुर्मुहुः । उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः ॥
Verse 74
पुनर्गृहीत्वा तामीशः कामं कामवशीसृतः / आश्र्लिष्टं चातिवेगेन तद्वीर्यं प्रच्युतं तदा
पुनर्गृहीत्वा तामीशः कामं कामवशीसृतः । आश्लिष्टं चातिवेगेन तद्वीर्यं प्रच्युतं तदा ॥
Verse 75
ततः समुत्थितो देवो महाशास्ता महाबलः / अनेककोटिदैत्येन्द्रगर्वनिर्वापणक्षमः
ततः समुत्थितो देवो महाशास्ता महाबलः । अनेककोटिदैत्येन्द्रगर्वनिर्वापणक्षमः ॥
Verse 76
तद्वीर्यबिन्दुसंस्पर्शात्सा भूमिस्तत्रतत्र च / रजतस्वर्मवर्णाभूल्लक्षणाद्विन्ध्यमर्दन
तद्वीर्यबिन्दुसंस्पर्शात्सा भूमिस्तत्रतत्र च । रजतस्वर्णवर्णाभूल्लक्षणाद्विन्ध्यमर्दन ॥
Verse 77
तथैवान्तर्दधे सापि देवता विश्वमोहिनी / निवृत्तः स गिरीशो ऽपि गिरिं गौरीसखो ययौ
तथैवान्तर्दधे सापि देवता विश्वमोहिनी । निवृत्तः स गिरीशोऽपि गिरिं गौरीसखो ययौ ॥
Verse 78
अथाद्भुतमिदं वक्ष्ये लोपामुद्रापते शृणु / यन्न कस्यचिदाख्यातं ममैव त्दृदयेस्थितम्
अथाद्भुतमिदं वक्ष्ये, लोपामुद्रापते, शृणु। यन्न कस्यचिदाख्यातं ममैव हृदयेस्थितम्॥
Verse 79
पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः / पूर्वं देवान्बहुविधान्यः शास्ता स्वेच्छया पटुः
पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः। पूर्वं देवान् बहुविधान् यः शास्ता स्वेच्छया पटुः॥
Verse 80
विशुक्रं नाम दैतेयं वर्गसंरक्षणक्षमम् / शुक्रतुल्यं विचारज्ञं दक्षांसेन ससर्ज सः
विशुक्रं नाम दैतेयं वर्गसंरक्षणक्षमम्। शुक्रतुल्यं विचारज्ञं दक्षांशेन ससर्ज सः॥
Verse 81
वामांसेन विषाङ्गं च सृष्टवान्दुष्टशेखरम् / धूमिनीनामधेयां च भगिनीं भण्डदानवः
वामांशेन विषाङ्गं च सृष्टवान् दुष्टशेखरम्। धूमिनीनामधेयां च भगिनीं भण्डदानवः॥
Verse 82
भ्रातृभ्यामुग्रवीर्याभ्यां सहितो निहताहितः / ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः
भ्रातृभ्यामुग्रवीर्याभ्यां सहितो निहताहितः। ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः॥
Verse 83
ब्रह्मविष्णुमहेशाश्च तं दृष्ट्वा दीप्ततेजसम् / पलायनपराः सद्यः स्वे स्वे धाम्नि सदावसन्
ब्रह्मा विष्णुर्महेशश्च तं दीप्ततेजसं दृष्ट्वा सद्य एव पलायनपराः सन्तः स्वेषु स्वेषु धामसु नित्यं न्यवसन्।
Verse 84
तदानीमेव तद्बाहुमंमर्द्दन विमूर्च्छिताः / श्वसितुं चापि पटवो नाभवन्नाकिनां गणाः
तदानीमेव तस्य बाहुमर्दनेन विमूर्च्छिताः; नाकिनां गणाः श्वसितुमपि न पटवोऽभवन्।
Verse 85
केचित्पातालगर्भेषु केचिदंबुधिवारिषु / केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम्
केचित् पातालगर्भेषु, केचिद् अम्बुधिवारिषु, केचिद् दिगन्तकोणेषु, केचित् भूभृतां कुञ्जेषु (लिलीयिरे)।
Verse 86
विलीना भृशवित्रस्तास्त्यक्तदारसुतस्त्रियः / भ्रष्टाधिकारा ऋभवो विचेरुश्छन्नवेषकाः
भृशवित्रस्ताः विलीनाḥ; त्यक्तदारसुतस्त्रियः; भ्रष्टाधिकारा ऋभवः छन्नवेषकाः विचेरुः।
Verse 87
यक्षान्महोरगान्सिद्धान्साध्यान्समरदुर्मदान् / ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमेव च / मत्वा तृणायितान्सर्वांल्लोकान्भण्डः शशासह
यक्षान् महोरगान् सिद्धान् साध्यान् समरदुर्मदान्, ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमेव च, सर्वाँल्लोकान् तृणायितान् मत्वा भण्डः सशास ह।
Verse 88
अथ भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् / तृतीयमुदभूद्रूपं महायागानलान्मुने
अथ भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् । तृतीयमुदभूद्रूपं महायागानलान्मुने ॥
Verse 89
यद्रूपशालिनीमाहुर्ललिता परदेवताम् / पाशाङ्कुशधनुर्वाणपरिष्कृतचतुर्भुजाम्
यद्रूपशालिनीमाहुर्ललिता परदेवताम् । पाशाङ्कुशधनुर्वाणपरिष्कृतचतुर्भुजाम् ॥
Verse 90
सा देवी परम शक्तिः परब्रह्मस्वरूपिणी / जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा
सा देवी परम शक्तिः परब्रह्मस्वरूपिणी । जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा ॥
The daityas seize Dhanvantari’s amṛta-kalaśa, provoking a deva–asura clash; Viṣṇu invokes Lalitā, who appears as sarva-saṃmohinī, stops the war, receives the nectar, and organizes its controlled distribution by separating the parties into two rows.
This chapter is primarily episodic (Lalitopākhyāna theophany and conflict mediation) rather than a king-list; genealogical utility is indirect—identifying divine agents (devas/daityas) and their factional roles within cosmic time rather than enumerating a royal vamśa.
Lalitā embodies governance through Śakti: her saṃmohana and authoritative speech convert chaotic battle into ordered allocation, presenting cosmic order as maintained by divine power/knowledge (māyā) rather than by violence alone—an interpretive hallmark of the Lalitopākhyāna.