Adhyaya 7
Anushanga PadaAdhyaya 7479 Verses

Adhyaya 7

Mauneya Devagandharva–Apsaras Vamsha-Kirtana (Catalogue of Mauneya Gandharvas and Apsarases)

अस्मिन्नध्याये सूतः कथकः स्वर्गीयवंशानुक्रमणिकां निवेदयति। मौनेयदेवगन्धर्वाः—गन्धर्वाप्सरसां सम्बन्धिनः सन्तानरूपेण—क्रमेण नामभिः कीर्त्यन्ते, यथा भीमसेनः, अग्रसेनः, सुपर्णः, वरुणः, धृतराष्ट्रः, चित्ररथः, पर्जन्यः, कलिः, नारदश्च। अनन्तरं अप्सरसां गणाः पदसंख्याभेदेन निर्दिश्यन्ते—‘चतुर्विंशाश्चावरजाः’ इत्यादि—तथा रम्भा, तिलोत्तमा, मेनका, पूर्वचित्ती, विश्वाची, प्रम्लोचा इत्यादीनि प्रमुखनामानि प्रदर्श्यन्ते। हाहा, हुहू, तुम्बुरुरित्यादयः प्रसिद्धा गन्धर्वाश्चोक्ताः। एवं न केवलं आख्यानप्रसङ्गाः, किन्तु पुराणविश्वे नाम-सम्बन्ध-परम्पराणां प्रामाण्ययुक्ता कोश्मिकी निबन्धसूचीवदयं अध्यायः भवति।

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे दनुवंशकीर्त्तनं नाम षष्ठो ऽध्याय सूत उवाच गन्धर्वाप्सरसः पुत्रा मौनेयास्तान्निबोधत / भीमसेनेग्रसेनौ च सुपर्णो वरुणस्तथा

इति श्रीब्रह्माण्डमहापुराणे वायुप्रोक्ते मध्यमभागे तृतीयोपोद्धातपादे दनुवंशकीर्तनं नाम षष्ठोऽध्यायः। सूत उवाच—गन्धर्वाप्सरसः पुत्रा मौनेयास्तान्निबोधत। भीमसेनः ग्रसेनश्च सुपर्णो वरुणस्तथा॥

Verse 2

धृतराष्ट्रश्च गोमांश्च सूर्यवर्चास्तथैव च// पत्रवानर्कपर्णश्च प्रयुतश्च तथैव हि

धृतराष्ट्रश्च गोमांश्च सूर्यवर्चास्तथैव च। पत्रवान् अर्कपर्णश्च प्रयुतश्च तथैव हि॥

Verse 3

भीमश्चित्ररथश्चैव विख्यातः सर्वजीद्वशी / त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः

भीमश्च चित्ररथश्चैव विख्यातः सर्वजीद्वशी। त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः॥

Verse 4

कलिः पञ्च दशस्तेषां नारदश्चैव षोडशः / इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः

कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः। इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः॥

Verse 5

चतुर्विंशाश्चावरजास्तेषामप्सरसः शुभाः / अरुणा चानपाया च विमनुष्या वरांबरा

चतुर्विंशाश्चावरजास्तेषामप्सरसः शुभाः। अरुणा चानपाया च विमनुष्या वराम्बरा॥

Verse 6

मिश्रकेशी तथाचासिपर्णिनी चाप्यलुंबुषा / मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा

मिश्रकेशी तथाचासिपर्णिनी चाप्यलुम्बुषा। मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा॥

Verse 7

अद्रिका लक्ष्मणा क्षेमा दिव्या रंभा मनोभवा / असिता च सुबाहूश्च सुप्रिया सुभुजा तथा

अद्रिका लक्ष्मणा क्षेमा दिव्या रम्भा मनोभवा। असिता च सुबाहूश्च सुप्रिया सुभुजा तथा॥

Verse 8

पुण्डरीकाजगन्धा च सुदती सुरसा तथा / तथैवास्याः सुबाहूश्च विख्यातौ च हहाहुहू

पुण्डरीकाजगन्धा च सुदती सुरसा तथा । तथैवास्याः सुबाहूश्च विख्यातौ च हहाहुहू ॥

Verse 9

तुंबुरुश्चेति चत्वारः स्मृतागन्धर्वसत्तमाः / गन्धर्वाप्सरसो ह्येते मौनेयाः परिकीर्त्तिताः

तुंबुरुश्चेति चत्वारः स्मृतागन्धर्वसत्तमाः । गन्धर्वाप्सरसो ह्येते मौनेयाः परिकीर्त्तिताः ॥

Verse 10

हंसा सरस्वती चैव सूता च कमलाभया / सुमुखी हंसपादी च लौकिक्यो ऽप्सरसः स्मृताः

हंसा सरस्वती चैव सूता च कमलाभया । सुमुखी हंसपादी च लौकिक्यो ऽप्सरसः स्मृताः ॥

Verse 11

हंसो ज्योतिष्टमो मध्य आचारस्त्विह दारुणः / वरूथो ऽथ वरेण्यश्य ततो वसुरुचिः स्मृतः

हंसो ज्योतिष्टमो मध्य आचारस्त्विह दारुणः । वरूथो ऽथ वरेण्यश्य ततो वसुरुचिः स्मृतः ॥

Verse 12

अष्टमः सुरुचिस्तेषां ततो विश्वा वसुः स्मृतः / सुषुवे सा महाभागा रिष्टा देवर्षिपूजिता

अष्टमः सुरुचिस्तेषां ततो विश्वा वसुः स्मृतः । सुषुवे सा महाभागा रिष्टा देवर्षिपूजिता ॥

Verse 13

अरूपां सुभगां भासीमिति त्रेधा व्यजायत / मनुवन्ती सुकेशी च तुंबरोस्तु सुते शुभे

अरूपा सुभगा भासी—इति त्रिधा व्यजायत; तुंबरस्य शुभे सुते मनुवन्ती सुकेशी च।

Verse 14

पञ्चचूडास्त्विमा विद्यादेवमप्सरसो दश / मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला

पञ्चचूडाः—इमाः विद्याद्; एवं दशाप्सरसः स्मृताः—मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला।

Verse 15

कृतस्थला द्यृताची च विश्वाची पूर्वचित्त्यपि / प्रम्लोचेत्यभिविख्यातानुम्लोचैव तु ता दश

कृतस्थला द्यृताची च विश्वाची पूर्वचित्त्यपि; प्रम्लोचेति विख्याता, अनुम्लोचा च ता दश।

Verse 16

अनादिनिधनस्याथ जज्ञे नारायणस्य या / कुलोचितानवद्याङ्गी उर्वश्चेकादशी स्मृता

अनादिनिधनस्याथ नारायणस्य या जज्ञे; कुलोचिता अनवद्याङ्गी—उर्वशी एकादशी स्मृता।

Verse 17

मेनस्य मेनका कन्या जज्ञे सर्वाङ्गसुंदरी / सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च ताः स्मृताः

मेनस्य मेनका कन्या जज्ञे सर्वाङ्गसुन्दरी; सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च ताः स्मृताः।

Verse 18

गणास्त्वप्सरसां ख्याताः पुण्यास्ते वै चतुर्दश / आहृत्यः शोभवत्यश्च वेगवत्यस्तथैव च

गणाः अप्सरसां ख्याताः पुण्याः ते वै चतुर्दश । आहृत्याः शोभवत्यश्च वेगवत्यस्तथैव च ॥

Verse 19

ऊर्ज्जाश्चैव युवत्यश्च स्रुचस्तु कुरवस्तथाश्च / वर्हयश्चामृताश्चैव मुदाश्च मृगवो रुचः

ऊर्ज्जाश्चैव युवत्यश्च स्रुचस्तु कुरवस्तथाश्च । वर्हयश्चामृताश्चैव मुदाश्च मृगवो रुचः ॥

Verse 20

भीरवः शोभयन्त्यश्च गाणा ह्येते चतुर्दश / ब्रह्मणो मानसाहृत्यः शोभवत्यो मरुत्सुताः

भीरवः शोभयन्त्यश्च गाणा ह्येते चतुर्दश । ब्रह्मणो मानसाहृत्यः शोभवत्यो मरुत्सुताः ॥

Verse 21

वेगवत्यश्च रिष्टाया ऊर्ज्जाश्चैवाग्निसंभवाः / युवत्यश्च तथा सूर्यरश्मिजाताः सुशोभनाः

वेगवत्यश्च रिष्टाया ऊर्ज्जाश्चैवाग्निसंभवाः । युवत्यश्च तथा सूर्यरश्मिजाताः सुशोभनाः ॥

Verse 22

गभस्तिभिश्च सोमस्य जज्ञिरे कुरवः शुभाः / यज्ञोत्पन्ना स्रुचो नाम कुशवत्यां च बर्हयः

गभस्तिभिश्च सोमस्य जज्ञिरे कुरवः शुभाः । यज्ञोत्पन्ना स्रुचो नाम कुशवत्यां च बर्हयः ॥

Verse 23

वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः / वायूत्पनाना मुदा नाम भूमिजा मृगवस्तथा

वारिजाः ह्यमृतोत्पन्नाः ‘अमृता’ इति नामतः स्मृताः। वायूत्पन्नाः ‘मुदा’ नाम, भूमिजाः ‘मृगवः’ तथा॥

Verse 24

विद्युतो ऽत्र रुचो नाम मृत्योः कन्याश्च भीरवः / शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश

विद्युतः अत्र ‘रुचः’ नाम, मृत्योः कन्याश्च ‘भीरवः’। शोभयन्त्यश्च कामस्य गणाः प्रोक्ताः चतुर्दश॥

Verse 25

इत्येते बहुसाहस्रा भास्वरा अप्सरोगणाः / देवतानामृषीणां च पत्न्यश्च मातरश्च ह

इत्येते बहुसाहस्रा भास्वराः अप्सरोगणाः। देवतानामृषीणां च पत्न्यश्च मातरश्च ह॥

Verse 26

सुगन्धाश्चाथ निष्पन्दा सर्वाश्चाप्सरसः समाः / संप्रयोगस्तु कामेन माद्यं दिवि हरं विना

सुगन्धाश्चाथ निष्पन्दाः सर्वाश्चाप्सरसः समाः। संप्रयोगस्तु कामेन माद्यं दिवि हरं विना॥

Verse 27

तासां देवर्षि संस्पर्शा जाताः साधारणा यतः / पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ

तासां देवर্ষि-संस्पर्शाः जाताः साधारणाः यतः। पर्वतः तत्र संभूतो नारदश्चैव तावुभौ॥

Verse 28

ततो यवीयसी चैव तृतीयारुन्धती स्मृता / देवर्षिभ्यस्तयोर्जन्म यस्मान्नारदपर्वतौ

ततः तृतीया यवीयसी च अरुन्धती इति स्मृता। देवर्षिभ्यः तयोर्जन्म, यस्मात् तौ नारदपर्वतौ॥

Verse 29

तस्मात्तौ तत्सनामानौ स्मृतौ नारदपर्वतौ / विनतायाश्च पुत्रौ द्वौ अरुणौ गरुडश्च ह

तस्मात् तौ तद्सनामानौ स्मृतौ नारदपर्वतौ। विनतायाश्च पुत्रौ द्वौ—अरुणो गरुडश्च ह॥

Verse 30

गायत्र्यादीनि छन्दांसि सौपर्णेयानि पक्षिणाः / व्यवहार्याणि सर्वाणि ऋजुसन्निहितानि च

गायत्र्यादीनि छन्दांसि सौपर्णेयानि पक्षिणः। व्यवहार्याणि सर्वाणि ऋजुसन्निहितानि च॥

Verse 31

क्रद्रूर्नागसहस्रं वै विजज्ञे धरणीधरम् / अनेकशिरसां तेषां खेचराणां महात्मनाम्

कद्रूर्नागसहस्रं वै विजज्ञे धरणीधरम्। अनेकशिरसां तेषां खेचराणां महात्मनाम्॥

Verse 32

बहुत्वान्नामधेयानां प्रधानांश्च निबोधत / तेषां प्रधाना नागानां शेषवासुकितक्षकाः

बहुत्वान्नामधेयानां प्रधानांश्च निबोधत। तेषां प्रधाना नागानां शेषवासुकितक्षकाः॥

Verse 33

अकर्णो हस्तिकर्णश्च पिजरश्चार्यकस्तथा / ऐरावतो महापद्मः कंबलाश्वतरावुभौ

अकर्णो हस्तिकर्णश्च पिजरश्चार्यकस्तथा । ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥

Verse 34

एलापत्रश्च शङ्खश्च कर्केटकधनञ्जयौ / महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ

एलापत्रश्च शङ्खश्च कर्केटकधनञ्जयौ । महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ ॥

Verse 35

करवीरः पुष्पदंष्ट्रः सुमुखो दुर्मुखस्तथा / सूनामुखो दधिमुखः कालियश्चालिपिण्डकः

करवीरः पुष्पदंष्ट्रः सुमुखो दुर्मुखस्तथा । सूनामुखो दधिमुखः कालियश्चालिपिण्डकः ॥

Verse 36

कपिलश्चांबरीषश्च अक्रूरश्च कपित्थकः / प्रह्रादस्तु ब्रह्मणाश्च गन्धर्वो ऽथ मणिस्थकः

कपिलश्चांबरीषश्च अक्रूरश्च कपित्थकः । प्रह्रादस्तु ब्रह्मणाश्च गन्धर्वो ऽथ मणिस्थकः ॥

Verse 37

नहुषः कररोमा च मणिरित्येवमादयः / काद्रवेयाः समाख्याताः खशायास्तु निबोधत

नहुषः कररोमा च मणिरित्येवमादयः । काद्रवेयाः समाख्याताः खशायास्तु निबोधत ॥

Verse 38

खशा विजज्ञे द्वौ पुत्रौ विकृतौ परुषव्रतौ / श्रेष्ठं पश्चिमसंध्यायां पूर्वस्यां च कनीयसम्

खशा द्वौ पुत्रौ विजज्ञे—विकृतौ परुषव्रतौ। पश्चिमसन्ध्यायां श्रेष्ठं, पूर्वसन्ध्यायां कनीयसम्॥

Verse 39

विलोहितैककर्णं च पूर्वं साजनयत्सुतम् / चतुर्भुजं चतुष्पादं किञ्चित्स्पन्दं द्विधागतिम्

पूर्वं साजनयत् सुतं विलोहितैककर्णम्। चतुर्भुजं चतुष्पादं किञ्चित्स्पन्दं द्विधागतिम्॥

Verse 40

सर्वङ्गकेशं स्थूलाङ्गं शुभनासं महोदरम् / स्वच्छशीर्षं महाकर्णं मुञ्जकेशं महाबलम्

सर्वाङ्गकेशं स्थूलाङ्गं शुभनासं महोदरम्। स्वच्छशीर्षं महाकर्णं मुञ्जकेशं महाबलम्॥

Verse 41

ह्रस्वास्यं दीर्घजिह्वं च बहुदंष्ट्रं महाहनुम् / रक्तपिङ्गाक्षपादं च स्थूलभ्रूदीर्घनासिकम्

ह्रस्वास्यं दीर्घजिह्वं च बहुदंष्ट्रं महाहनुम्। रक्तपिङ्गाक्षपादं च स्थूलभ्रूदीर्घनासिकम्॥

Verse 42

गुह्यकं शितिकण्ठं च महापादं महामुखम् / एवंविधं खशापुत्रं जज्ञे ऽसावतिभीषणम्

गुह्यकं शितिकण्ठं च महापादं महामुखम्। एवंविधं खशापुत्रं जज्ञेऽसावतिभीषणम्॥

Verse 43

तस्यानुजं द्वितीयं सा ह्युषस्यन्ते व्यजायत / त्रिशीर्षं च त्रिपादं च त्रिहस्तं कृष्णलोचनम्

तस्याः अनुजं द्वितीयं सा ह्युषस्यन्ते व्यजायत—त्रिशीर्षं त्रिपादं त्रिहस्तं च कृष्णलोचनम्।

Verse 44

ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् / ह्रस्वकायं प्रबाहुं च महाकाय महारवम्

ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम्। ह्रस्वकायं प्रबाहुं च महाकायं महोरवम्॥

Verse 45

आकर्णदारितास्यं च बलवत्सथूलनासिकम् / स्थूलौष्ठमष्टदंष्ट्र च जिह्मास्यं शङ्कुकर्णकम्

आकर्णदारितास्यं च बलवत्सथूलनासिकम्। स्थूलौष्ठमष्टदंष्ट्रं च जिह्मास्यं शङ्कुकर्णकम्॥

Verse 46

पिङ्गलोद्वत्तनयनं जटिलं द्वन्द्वपिण्डकम् / महास्कन्धं महोरस्कं पृथुघोणं कृशोदरम्

पिङ्गलोद्वत्तनयनं जटिलं द्वन्द्वपिण्डकम्। महास्कन्धं महोरस्कं पृथुघोणं कृशोदरम्॥

Verse 47

अस्थूलं लोहितं ग्रीवलंबमेढ्राण्डपिडकम् / एवंविधं कुमारं सा कनिष्ठं समसूयत

अस्थूलं लोहितं ग्रीवलंबमेढ्राण्डपिडकम्। एवंविधं कुमारं सा कनिष्ठं समसूयत॥

Verse 48

सद्यः प्रसूतमात्रौ तौ विवृद्धौ च प्रमादतः / उपयौगसमर्थाभ्यां शरीराभ्यां व्यवस्थितौ

सद्यः प्रसूतमात्रौ तौ प्रमादतः सहसा विवृद्धौ, उपयोजनसमर्थाभ्यां शरीराभ्यां व्यवस्थितौ।

Verse 49

सद्योजातौ विवृद्धाङ्गौ मातरं पर्यकर्षताम् / तयोः पूर्वस्तु यः क्रूरो मातरं सो ऽभ्य कर्षत

सद्योजातौ विवृद्धाङ्गौ मातरं परितः अकर्षताम्; तयोः पूर्वः क्रूरः सन् मातरं अभ्यकर्षत।

Verse 50

ब्रुवंश्च मातर्भक्षाव रक्षार्थं क्षुधयार्दितः / न्यषेधयत्पुनर्ह्येनं स्वयं स तु कनिष्ठकः

‘मातरं भक्षाव’ इति ब्रुवन्, क्षुधयार्दितः रक्षार्थं; पुनः ह्येनं कनिष्ठकः स्वयं न्यषेधयत्।

Verse 51

पूर्वेषां क्षेमकृत्त्वं वै रक्षैतां मातरं स्वकाम् / बाहुभ्यां परिगृह्यैनं मातरं सो ऽभ्यभाषयत्

पूर्वेषां क्षेमकृत्त्वं वै—रक्षैतां मातरं स्वकाम्; बाहुभ्यां परिगृह्यैनं मातरं सोऽभ्यभाषयत्।

Verse 52

एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता / तौ दृष्ट्वा विकृता कारौ खशां तामभ्यभाषत

एतस्मिन्नेव काले तु तयोः पिता प्रादुर्भूतः; तौ दृष्ट्वा विकृताकारौ खशां ताम् अभ्यभाषत।

Verse 53

तौ सुतौ पितरं दृष्ट्वा ह्येकभूतौ भयान्वितौ / मातुरेव पुनश्चाङ्गे प्रलीयेतां स्वमायया

तौ सुतौ पितरं दृष्ट्वा भयसमाविष्टौ एकीभूतौ; स्वमायया पुनर्मातुरेवाङ्गे प्रलीयेताम्।

Verse 54

अथाब्रवीदृषिर्भार्यां किमाभ्यामुक्तवत्यसि / सर्वमाचक्ष्व तत्त्वेन तवैवायं व्यतिक्रमः

अथ ऋषिर्भार्यामब्रवीत्—किमाभ्यामुक्तवत्यसि? सर्वं तत्त्वेनाचक्ष्व; तवैवायं व्यतिक्रमः।

Verse 55

मातृतुल्यश्च जनने पुत्रो भवति कन्यका / यथाशीला भवेन्माता तथाशीलो भवेत्सुतः

मातृतुल्यश्च जनने पुत्रो भवति कन्यका; यथाशीला भवेन्माता तथाशीलो भवेत्सुतः।

Verse 56

यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् / मातॄणां शीलदोषेण तथा रूपगुणैः पुनः

यद्वर्णा भवति भूमिस्तद्वर्णं सलिलं ध्रुवम्; मातॄणां शीलदोषेण तथा रूपगुणैः पुनः।

Verse 57

विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च / इत्येवमुक्त्वा भगवान्खशामप्रतिमस्तदा

विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च; इत्येवमुक्त्वा भगवान् खशामप्रतिमस्तदा।

Verse 58

पुत्रावाहूय साम्ना वै चक्रे ताभ्यां तु नामनी / पुत्राभ्यां यत्कृतं तस्यास्तदाचष्ट खशा तदा

पुत्रौ समाहूय साम्ना वै ताभ्यां नामनी चकार। पुत्राभ्यां यत्कृतं तस्याः तदा खशा न्यवेदयत्॥

Verse 59

माता यथा समाख्याता तर्माभ्यां च पृथक्पृथक् / तेन धात्वर्थयोगेन तत्तदर्थे चकार ह

यथा माता समाख्याता ताभ्यां च पृथक् पृथक्। धात्वर्थयोगतो ह्येतत् तत्तदर्थे चकार ह॥

Verse 60

मातर्भक्षेत्यथोक्तो वै खादने भक्षणे च सः / भक्षावेत्युक्तवानेष तस्माद्यक्षो ऽभवत्त्वयम्

‘मातर् भक्ष’ इत्युक्तो वै खादने भक्षणे च सः। ‘भक्षावे’ इत्युवाचैष तस्माद् यक्षोऽभवत्त्वयम्॥

Verse 61

रक्ष इत्येष धातुर्यः पालने स विभाव्यते / उक्तवांश्चैष यस्मात्तु रक्षेमां मातरं स्वकाम्

‘रक्ष’ इत्येष धातुर्यः पालने स विभाव्यते। उक्तवांश्चैष यस्मात्तु ‘रक्षेमां मातरं स्वकाम्’॥

Verse 62

नाम्ना रक्षो ऽपरस्तस्माद्भविष्यति तवात्मजः / स तदा तद्विधां दृष्ट्वा विक्रियां च तयोः पिता

नाम्ना रक्षोऽपरस्तस्माद् भविष्यति तवात्मजः। स तदा तद्विधां दृष्ट्वा विक्रियां च तयोः पिता॥

Verse 63

तदा भाविनमर्थं च बुद्ध्वा मात्रा कृतं तयोः / तावृभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृष्टधीः

तदा तयोर्मात्रा कृतं भाविनमर्थं च बुद्ध्वा, तौ उभौ क्षुधितौ दृष्ट्वा स विस्मितः परिमृष्टधीः।

Verse 64

तयोः प्रादिशदाहारं खशापतिरसृग्वसे / पिता तौ क्षुधितौ दृष्ट्वा वर मेतं तयोर्ददौ

तयोः खशापतिरसृग्वसे आहारं प्रादिशत्; पिता तौ क्षुधितौ दृष्ट्वा तयोर्वरमेतं ददौ।

Verse 65

युवयोर्हस्तसंस्पर्शाद्रक्तधाराश्च सर्वशः / सृङ्मांसवसाभूता भविष्यन्तीह कामतः

युवयोर्हस्तसंस्पर्शात् सर्वशो रक्तधाराः सृङ्मांसवसाभूताः कामतोऽत्र भविष्यन्ति।

Verse 66

नक्ताहारविहारौ च द्विजदेवादिभोजनौ / नक्तं चैव बलीयांसौ दिवा वै निर्बलौ युवाम्

नक्ताहारविहारौ च द्विजदेवादिभोजनौ; नक्तं चैव बलीयांसौ दिवा वै निर्बलौ युवाम्।

Verse 67

मातरं रक्षत इमां धर्मश्चैवानुशिष्यते / इत्युक्त्वा काश्यपः पुत्रौ तत्रैवान्तरधीयत

इमां मातरं रक्षत, धर्मश्चैव अनुशिष्यते—इत्युक्त्वा काश्यपः पुत्रौ तत्रैवान्तरधीयत।

Verse 68

गते पितरि तौ क्रूरौ निसर्गादेव दारुणौ / विपर्ययेषु वर्त्तेते ऽकृतज्ञौ प्राणिहिंसकौ

गते पितरि तौ क्रूरौ स्वभावादेव दारुणौ। विपर्ययेषु वर्तेतेऽकृतज्ञौ प्राणिहिंसकौ॥

Verse 69

महाबलौ महासत्त्वौ महाकायौ दुरासदौ / मायाविदावदृश्यौ तावन्तर्धानगतावुभौ

महाबलौ महाशक्ती महाकायौ दुरासदौ। मायाविदावदृश्यौ तावन्तर्धानगतावुभौ॥

Verse 70

तौ कामरूपिणौ घोरौ नीरुजौ च स्वभावतः / रूपा नुरूपैराचारैः प्रचरन्तौ प्रबाधकौ

तौ कामरूपिणौ घोरौ नीरुजौ च स्वभावतः। रूपानुरूपैराचारैः प्रचरन्तौ प्रबाधकौ॥

Verse 71

देवानृषीन्पितॄंश्चैव गन्धर्वान्किन्नरानपि / पिशाचांश्चमनुष्यांश्चपन्नगान्पक्षिणः पशून्

देवानृषीन्पितॄंश्चैव गन्धर्वान्किन्नरानपि। पिशाचांश्च मनुष्यांश्च पन्नगान्पक्षिणः पशून्॥

Verse 72

भक्षार्थमिह लिप्संतौ चेरतुस्तौ निशाचरौ / इन्द्रस्यानुचरौ चैव क्षुब्धौ दृष्ट्वा ह्यतिष्ठताम्

भक्षार्थमिह लिप्सन्तौ चेरतुस्तौ निशाचरौ। इन्द्रस्यानुचरौ चैव क्षुब्धौ दृष्ट्वा ह्यतिष्ठताम्॥

Verse 73

राक्षसं तं कदाचिद्वै निशीथे ह्येक मीश्वरम् / आहारं स परीप्सन्वै शब्देनानुससार ह

राक्षसं तं कदाचिन्निशीथे एकाकिनं ईश्वरं, आहारं परिप्सन् स शब्देनानुससार ह।

Verse 74

आससाद पिशाचौ वै त्वजः शण्ढश्च ताबुभौ / कपिपुत्रौ महावीर्यौं कूष्माडौ पूर्वजावुभौ

स तौ पिशाचौ आससाद—त्वजः शण्ढश्च तावुभौ; कपिपुत्रौ महावीर्यौ कूष्माण्डौ पूर्वजावुभौ।

Verse 75

पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ च सुदारुणौ / कन्याभ्यां सहितौ तौ तु ताभ्यां भर्तुश्चिकीर्षया

पिङ्गाक्षौ ऊर्ध्वरोमाणौ वृत्ताक्षौ च सुदारुणौ; कन्याभ्यां सहितौ तौ तु ताभ्यां भर्तुश्चिकीर्षया।

Verse 76

ते कन्ये कामरूपिण्यौ तदाचारमुभे च तम् / आहारार्थे समीहन्तौ सकन्यौ तु बुभुक्षितौ

ते कन्ये कामरूपिण्यौ तदाचारमुभे च तम्; आहारार्थे समीहन्तौ सकन्यौ तु बुभुक्षितौ।

Verse 77

अपश्यतां रक्षसं तौ कामरूपिणमग्रतः / सहसा सन्निपातेन दृष्ट्वा चैव परस्परम्

अपश्यतां रक्षसं तौ कामरूपिणमग्रतः; सहसा सन्निपातेन दृष्ट्वा चैव परस्परम्।

Verse 78

ईक्षमाणाः स्थितान्योन्यं परस्परजिघृक्षवः / पितरावूचतुः कन्ये युवा मानयत द्रुतम्

ईक्षमाणौ स्थितावन्योन्यं परस्परजिघृक्षवौ । पितरावूचतुः—कन्ये, युवां मानयत द्रुतम् ॥

Verse 79

जीवग्राहं निगृह्यैनं विस्फुरन्तं पदेपदे / ततस्तमभिसृत्यैनं कन्ये जगृहतुस्तदा

जीवग्राहं निगृह्यैनं विस्फुरन्तं पदे पदे । ततस्तमभिसृत्यैनं कन्ये जगृहतुस्तदा ॥

Verse 80

संगृहीत्वा तु हस्ताभ्यामानीतः पितृसंसदि / ताभ्यां कन्यागृहीतं तं पिशाचौ वीक्ष्य रक्षसम्

संगृहीत्वा तु हस्ताभ्यामानीतः पितृसंसदि । ताभ्यां कन्यागृहीतं तं पिशाचौ वीक्ष्य रक्षसम् ॥

Verse 81

अपृच्छतां च कस्य त्वं स च सर्वमभाषत / तस्य कर्माभिजाती च श्रुत्वा तौ रक्षसस्तदा

अपृच्छतां च—कस्य त्वं? स च सर्वमभाषत । तस्य कर्माभिजाती च श्रुत्वा तौ रक्षसस्तदा ॥

Verse 82

अजः शण्डश्च तस्मै ते कन्यके प्रत्यपादयत् / तौ तुष्टौ कर्मणा तस्य कन्ये ते ददतुस्तु वै

अजः शण्डश्च तस्मै ते कन्यके प्रत्यपादयत् । तौ तुष्टौ कर्मणा तस्य कन्ये ते ददतुस्तु वै ॥

Verse 83

पैशाचैन विवाहेन रुदन्त्यावुद्ववाह सः / अजः शण्डः सुताभ्यां तु तदा श्रावयतां धनम्

पैशाचविवाहेन स रुदन्तीम् उद्ववाह; अजः शण्डश्च सुताभ्यां तदा धनं श्रावयताम्।

Verse 84

इयं ब्रह्मधना नाम कन्या या सहिता शुभा / ब्रह्म तस्यापराहार इति शण्डो ऽभ्यभाषत

इयं शुभा सहिता कन्या ‘ब्रह्मधना’ नाम; ‘ब्रह्मैव तस्याः परोऽहारः’ इति शण्डोऽभ्यभाषत।

Verse 85

इयं जन्तुधना नाम कन्या सर्वाङ्गजन्तिला / जन्तुभाव धनादाना इत्यजौऽश्रावयद्धनम्

इयं सर्वाङ्गजन्तिला कन्या ‘जन्तुधना’ नाम; ‘जन्तुभावो धनादानम्’ इत्यजः श्रावयद्धनम्।

Verse 86

सर्वाङ्गकेशापाशा च कन्या जन्तुधना तु या / यातुधानप्रसूता सा कन्या चैव महारवा

या कन्या जन्तुधना सर्वाङ्गकेशापाशा; सा यातुधानप्रसूता, कन्या चैव महारवा।

Verse 87

अरुणा चाप्यलोमा च कन्या ब्रह्मधना तु या / ब्रह्मधानप्रसूता सा कन्या चैव महारवा

या कन्या ब्रह्मधना अरुणा चाप्यलोमा च; सा ब्रह्मधानप्रसूता, कन्या चैव महारवा।

Verse 88

एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् / तयोः प्रजानिसर्गं च कथयिष्ये निबोधत

एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् । तयोः प्रजानिसर्गं च कथयिष्ये निबोधत ॥

Verse 89

हेतिः प्रहेतिरुग्रश्च पौरुषेयौ वधस्तथा / विद्युत्स्फूर्जश्च वातश्च आयो प्याघ्रस्तथैव च

हेतिः प्रहेतिरुग्रश्च पौरुषेयौ वधस्तथा । विद्युत्स्फूर्जश्च वातश्च आयोऽप्याघ्रस्तथैव च ॥

Verse 90

सूर्यश्च राक्षसा ह्येते यातुधानात्मजा दश / माल्यवांश्च सुमाली च प्रहेतितनयौ शृणु

सूर्यश्च राक्षसा ह्येते यातुधानात्मजा दश । माल्यवांश्च सुमाली च प्रहेतितनयौ शृणु ॥

Verse 91

प्रहेतितनयः श्रीमानपुलोमा नाम विश्रुतः / मधुः परो महोग्रस्तु लवणस्तस्य चात्मजः

प्रहेतितनयः श्रीमानपुलोमा नाम विश्रुतः । मधुः परो महोग्रस्तु लवणस्तस्य चात्मजः ॥

Verse 92

महायोगबलोपेतो महा देवमुपस्थितः / उग्रस्य पुत्रौ विक्रान्तो वज्रहा नाम विश्रुतः

महायोगबलोपेतो महा देवमुपस्थितः । उग्रस्य पुत्रौ विक्रान्तो वज्रहा नाम विश्रुतः ॥

Verse 93

पौरुषेयसुताः पञ्च पुरुषादा महाबलाः / कूरश्च विकृतश्चैव रुधिरादस्तथैव च

पौरुषेयस्य पञ्च पुत्राः पुरुषादाः महाबलाः; कूरः विकृतश्च तथा रुधिरादश्चेति।

Verse 94

मेदाशश्चवपाशश्च नामभिः परिकीर्त्तिताः / वधपुत्रौ दुराचारौ विघ्नश्च शामनश्च ह

मेदाशः च वपाशश्च इति नामभिः परिकीर्तितौ; वधस्य पुत्रौ दुराचारौ—विघ्नः शामनश्च।

Verse 95

विद्युत्पुत्रो दुराचारो रसनो नाम राक्षसः / स्फूर्जक्षेत्रे निकुंभस्तु जातो वै ब्रह्मराक्षसः

विद्युतः पुत्रो दुराचारः रसन इति नाम राक्षसः; स्फूर्जक्षेत्रे निकुम्भः तु जातो वै ब्रह्मराक्षसः।

Verse 96

वातपुत्रो विरोधस्तु तथा यस्य जनातकः / व्याघ्र पुत्रो निरानन्दः क्रतूनां विघ्नकारकः

वातपुत्रः विरोधः तथा यस्य जनातकः; व्याघ्रपुत्रो निरानन्दः क्रतूनां विघ्नकारकः।

Verse 97

सर्वस्य चान्वये जाता पूराः सर्पाश्च राक्षसाः / यातुधानाः परिक्रान्ता ब्रह्म धानान्निबोधत

सर्वस्य चान्वये जाता पूराः सर्पाश्च राक्षसाः; यातुधानाः परिक्रान्ताः—ब्रह्मन्, तान् निबोधत।

Verse 98

यज्ञापेतो धृतिः क्षेमो ब्रह्मपेतश्च यज्ञहा / श्वातोंऽबुकः केलिसर्पौं ब्रह्मधानात्मजा नव

यज्ञापेतो धृतिः क्षेमो ब्रह्मपेतश्च यज्ञहा । श्वातोऽम्बुकः केलिसर्पौ ब्रह्मधानात्मजा नव ॥

Verse 99

स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः / रक्तकर्णी महाजिह्वा क्षमा चेष्टापहारिणी

स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः । रक्तकर्णी महाजिह्वा क्षमा चेष्टापहारिणी ॥

Verse 100

एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः / इत्येते राक्षसाः क्रान्ता यक्षस्यविनिबोधत

एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः । इत्येते राक्षसाः क्रान्ता यक्षस्य विनिबोधत ॥

Verse 101

चकमे सरसं यक्षः पञ्चचूडां क्रतुस्थलाम् / तल्लिप्सुश्चिन्तयानः स देवोद्यानानि मार्गते

चकमे सरसं यक्षः पञ्चचूडां क्रतुस्थलाम् । तल्लिप्सुश्चिन्तयानः स देवोद्यानानि मार्गते ॥

Verse 102

वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् / विशोकं सुमनं चैव नन्दनं च वनोत्तमम्

वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् । विशोकं सुमनं चैव नन्दनं च वनोत्तमम् ॥

Verse 103

बहूनि रमणीयानि मार्गते जातलालसः / दृष्ट्वा तां नन्दने सो ऽथ अप्सरोभिः सहासिनीम्

बहूनि रमणीयानि मार्गते जातलालसः। दृष्ट्वा तां नन्दने सोऽथ अप्सरोभिः सहासिनीम्॥

Verse 104

नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् / दूषितः स्वेन रूपेण कर्मणा चैव दूषितः

नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन्। दूषितः स्वेन रूपेण कर्मणा चैव दूषितः॥

Verse 105

ममोद्विजन्ति हिंस्रस्य तथाभूतानि सर्वशः / तत्कथं नाम चार्वगीं प्राप्नुयामहमङ्गनाम्

ममोद्विजन्ति हिंस्रस्य तथाभूतानि सर्वशः। तत्कथं नाम चार्वगीं प्राप्नुयामहमङ्गनाम्॥

Verse 106

दृष्ट्वोपायं ततः सो ऽथ शीघ्रकारी व्यवर्त्तयत् / कृत्वा रूपं वसुरुचेर्गन्धर्वस्य च गुह्यकः

दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तयत्। कृत्वा रूपं वसुरुचेर्गन्धर्वस्य च गुह्यकः॥

Verse 107

ततः सो ऽप्सरसां मध्ये ता जचग्राह क्रतुस्थलाम् / बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यावर्त्तत

ततः सोऽप्सरसां मध्ये तां जग्राह क्रतुस्थलाम्। बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यावर्त्तत॥

Verse 108

संभूतः स तया सार्द्धं दृश्यमानो ऽप्सरोगणैः / जगाम मैथुनं यक्षः पुत्रार्थं स तया सह

स तया सह संभूतः, अप्सरोगणैर्दृश्यमानः; पुत्रार्थं यक्षः तया सह मैथुनं जगाम।

Verse 109

दृश्यमानो ऽप्सरो लिप्सुः शङ्कां नैव चकार सः / ततः संसिद्धकारणः सद्यो जातः सुतस्तु वै

अप्सरः लिप्सुः सः, अप्सरोगणैर्दृश्यमानोऽपि, शङ्कां नैव चकार। ततः कारणे संसिद्धे सद्य एव सुतो जातः।

Verse 110

उछ्रयात्परिणाहेन सद्यो वृद्धः श्रिया ज्वलन् / राजाहमिति नाभिर्हि पितरं सो ऽभ्यवादयत्

उच्छ्रयात्परिणाहेन सद्यो वृद्धः, श्रिया ज्वलन्; “राजाहम्” इति नाभिर्हि स पितरं अभ्यवादयत्।

Verse 111

भवान् रजतनाभेति पिता तं प्रत्युवाच ह / मात्रानुरूपो रूपेम पितुर्वीर्येणजायते

पिता तं प्रत्युवाच— “भवान् रजतनाभः” इति। मातृानुरूपं रूपं, पितुर्वीर्येण जायते।

Verse 112

जाते तस्मिन्कुमारे तु स्वरुपं प्रयपद्यत / स्वरूपं प्रतिपद्यन्ते गूहन्तो यक्षराक्षसाः

जाते तस्मिन् कुमारे तु सः स्वरूपं प्रत्यपद्यत। गूहन्तो यक्षराक्षसाः स्वरूपं प्रतिपद्यन्ते।

Verse 113

सुप्ता म्रियन्तः क्रुद्धाश्च भीतास्ते हर्षितास्तथा / ततो ऽब्रवीत्सो ऽप्सरसं स्मयमानस्तु गुह्यकः

सुप्ताः केचिन्म्रियन्तः केचिद् क्रुद्धाश्च भीतास्तथा हर्षिताश्चाभवन्। ततः स गुह्यकः स्मयमानोऽप्सरसं प्रति अब्रवीत्॥

Verse 114

गृहं मे गच्छ भद्रं ते सपुत्रा त्वं वरानने / इत्युक्त्वा सहसा तत्र दृष्ट्वा स्वं रूपमास्थितम्

“मम गृहं गच्छ, भद्रं ते; वरानने, त्वं सपुत्रा भव।” इत्युक्त्वा स सहसा तत्र स्वं रूपं स्थितं ददर्श॥

Verse 115

विभ्रान्ताः प्रद्रुताः सर्वाः समेत्याप्सरसस्तदा / गच्छन्तीमन्वगच्छत्तां पुत्रस्तप्तां त्वयन्शिरा

तदा सर्वा अप्सरसः विभ्रान्ताः प्रद्रुताः समेता अभवन्। गच्छन्तीं तां तप्तां तु पुत्रः शिरसा अन्वगच्छत्॥

Verse 116

गन्धर्वाप्सरसां मध्ये नयित्वा स न्यवर्त्तत / तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः

स तां गन्धर्वाप्सरसां मध्ये नीत्वा पुनर्न्यवर्तत। तस्य यक्षस्य समुत्पत्तिं दृष्ट्वा अप्सरसां गणाः॥

Verse 117

यक्षाणां तु जनित्री त्वं इत्यूचुस्तां क्रतुस्थलाम् / जगाम सह पुत्रेण ततो यक्षः स्वमालयम्

“यक्षाणां जनित्री त्वम्” इत्यूचुस्तां क्रतुस्थलाम्। ततः स यक्षः पुत्रेण सह स्वमालयं जगाम॥

Verse 118

न्यग्रोधो रोहिणो नाम्ना शेरते तत्र गुह्यकाः / तस्मिन्निवासो यक्षाणां न्यग्रोधे रोहिणे स्मृतः

न्यग्रोधो रोहिणो नाम्ना तत्र गुह्यकाः शेरते। तस्मिन्न्यग्रोधे रोहिणे यक्षाणां निवासः स्मृतः॥

Verse 119

यक्षो रजतनाभश्च गुह्यकानां पितामहः / अनुह्रादस्य दैत्यस्य भद्रां मणिवरां सुताम्

रजतनाभो नाम यक्षः गुह्यकानां पितामहः। स अनुह्राददैत्यस्य भद्रां मणिवरां सुताम्…॥

Verse 120

उपयेमे ऽनवद्याङ्गीं तस्यां मणिवरो वशी / जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रममम्

उपयेमेऽनवद्याङ्गीं तस्यां मणिवरो वशी। जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रमम्॥

Verse 121

तयोः पत्न्यौ भगिन्यौ च क्रतुस्थस्यात्मजे शुभे / नाम्ना पुण्यजनी चैव तथा देवजनी च या

तयोः पत्न्यौ भगिन्यौ च क्रतुस्थस्यात्मजे शुभे। नाम्ना पुण्यजनी चैव तथा देवजनी च या॥

Verse 122

विजज्ञे पणिभद्रातु पुत्रान्पुण्यजनी शुभा / सिद्धार्थं सूर्यतेजश्च सुमनं नन्दनं तथा

विजज्ञे मणिभद्रात् पुत्रान् पुण्यजनी शुभा। सिद्धार्थं सूर्यतेजश्च सुमनं नन्दनं तथा॥

Verse 123

मण्डूकं रुचकं चैव मणिमन्तं वसुं तथा / सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च

मण्डूकं रुचकं चैव मणिमन्तं वसुं तथा । सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च ॥

Verse 124

असोमं दूरसोमं च पद्मं चन्द्रप्रभं तथा / मेघवर्णं सुभद्रं च प्रद्योतं च महाद्युतिम्

असोमं दूरसोमं च पद्मं चन्द्रप्रभं तथा । मेघवर्णं सुभद्रं च प्रद्योतं च महाद्युतिम् ॥

Verse 125

द्युति मन्तं केतुमन्तं दर्शनीयं सुदर्शनम् / चत्वारो विंशतिश्चैव पुत्राः पुण्यजनीभवाः

द्युतिमन्तं केतुमन्तं दर्शनीयं सुदर्शनम् । चत्वारो विंशतिश्चैव पुत्राः पुण्यजनीभवाः ॥

Verse 126

जज्ञिरे मणिभद्रस्य सर्वे ते पुण्यलक्षणाः / तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः

जज्ञिरे मणिभद्रस्य सर्वे ते पुण्यलक्षणाः । तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः ॥

Verse 127

विजज्ञे वै देवजनी पुत्रान्मणिवराञ्छुभा / पूर्णभद्रं हैमवन्तं मणिमन्त्रविवर्द्धनौ

विजज्ञे वै देवजनी पुत्रान्मणिवराञ्छुभान् । पूर्णभद्रं हैमवन्तं मणिमन्त्रविवर्द्धनौ ॥

Verse 128

कुसुं चरं पिशङ्गं च स्थूलकर्णं महामुदम् / स्वेतं च विमलं चैव पुष्पदन्तं चयावहम्

कुसुंचरं पिशङ्गं च स्थूलकर्णं महामुदम् । श्वेतं विमलं चैव पुष्पदन्तं चयावहम् ॥

Verse 129

पद्मवर्णं सुचन्द्रं च पक्षञ्च बलकं तथा / कुमुदाक्षं सुकमलं वर्द्धमानं तथा हितम्

पद्मवर्णं सुचन्द्रं च पक्षञ्च बलकं तथा । कुमुदाक्षं सुकमलं वर्द्धमानं तथा हितम् ॥

Verse 130

पद्मनाभं सुगन्धं च सुवीरं विजयं कृतम् / पूर्ममासं हिरण्याक्षं सारणं चैव मानसम्

पद्मनाभं सुगन्धं च सुवीरं विजयं कृतम् । पूर्ममासं हिरण्याक्षं सारणं चैव मानसम् ॥

Verse 131

पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः / सुरुपाश्च सुवेषाश्च स्रग्विणः प्रियदर्शनाः

पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः । सुरूपाश्च सुवेषाश्च स्रग्विणः प्रियदर्शनाः ॥

Verse 132

तेषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः / खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः ॥

Verse 133

तेषां यथा प्रधानान्वै वर्ण्यमा नान्निबोधत / लालाविः क्रथनो भीमः सुमाली मधुरेव च

तेषां यथा प्रधानान् वै वर्ण्यमानान् निबोधत । लालाविः क्रथनो भीमः सुमाली मधुर एव च ॥

Verse 134

विस्फूर्जनो बृहज्जिह्वो मातङ्गो धूम्रितस्तथा / चन्द्रार्कभीकरो बुध्नः कपिलोमा प्रहासकः

विस्फूर्जनो बृहज्जिह्वो मातङ्गो धूम्रितस्तथा । चन्द्रार्कभीकरो बुध्नः कपिलोमा प्रहासकः ॥

Verse 135

पीडापरस्त्रिनाभश्च वक्राक्षश्च निशाचरः / त्रिशिराः शतदंष्ट्रश्च तुण्डकोशश्च राक्षसः

पीडापरस्त्रिनाभश्च वक्राक्षश्च निशाचरः । त्रिशिराः शतदंष्ट्रश्च तुण्डकोशश्च राक्षसः ॥

Verse 136

अश्वश्चाकंपनश्चैव दुर्मुखश्च निशाचरः / इत्येते राक्षसवारा विक्रान्ता गणरूपिमः

अश्वश्चाकंपनश्चैव दुर्मुखश्च निशाचरः । इत्येते राक्षसवारा विक्रान्ता गणरूपिमः ॥

Verse 137

सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः / सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम्

सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः । सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम् ॥

Verse 138

यासां च यः प्रजासर्गो येन चोत्पादिता गणाः / आलंबा उत्कचोत्कृष्टा निरृता कपिला शिवा

यासां च यः प्रजासर्गो येन चोत्पादिता गणाः—आलम्बा, उत्कचा, उत्कृष्टा, निरृता, कपिला, शिवा इति।

Verse 139

केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः / ताभ्यो लोकनिकायस्य हन्तारो युद्धदुर्मदाः

केशिनी च महाभागा—भगिन्यः सप्त याः स्मृताः; ताभ्यो लोकनिकायस्य हन्तारो युद्धदुर्मदाः।

Verse 140

उदीर्णा राक्षसगणा इमे चोत्पादिताः शुभाः / आलंबेयो गणः क्रूर औत्कचेयो गणस्तथा

उदीर्णा राक्षसगणा इमे चोत्पादिताः शुभाः; आलम्बेयो गणः क्रूरः, औत्कचेयो गणस्तथा।

Verse 141

तथौ त्कार्ष्टेयशैवेयौ रक्षसां ह्युत्तमा गणाः / तथैव नैरृतो नाम त्र्यंबकानुचरेण ह

तथौ त्कार्ष्टेयशैवेयौ रक्षसां ह्युत्तमा गणाः; तथैव नैरृतो नाम त्र्यंबकानुचरेण ह।

Verse 142

उत्पादितः प्रजाकर्गे गणेश्वरवरेण तु / विक्रान्ताः शौर्यसंपन्ना नैरृता देवराक्षसाः

उत्पादितः प्रजाकर्गे गणेश्वरवरेण तु; विक्रान्ताः शौर्यसंपन्ना नैरृता देवराक्षसाः।

Verse 143

येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः / तेषां गणशतानीका उद्धतानां महात्मनाम्

येषां नाम्ना विरूपक इति ख्यातोऽधिपतिर्युक्तः, तेषां महात्मनाम् उद्धतानां गणशतानि (सैन्यशतानि) आसन्।

Verse 144

प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् / दैत्यराजेन कुम्भेन महाकाया महात्मना

प्रायेण एते जगतः प्रभुं शङ्करम् अनुचरन्ति; महाकायेन महात्मना दैत्यराजेन कुम्भेन सह।

Verse 145

उत्पादिता महावीर्या महाबलपराक्रमाः / कापिलेया महावीर्या उदीर्णा दैत्यराक्षसाः

उत्पादिताः महावीर्याः महाबलपराक्रमाः; कापिलेयाः महावीर्याः उदीर्णाः दैत्यराक्षसाः।

Verse 146

कपिलेन च यक्षेण केशिन्यां ह्यपरे जनाः / उत्पादिता बलावता उदीर्णा यक्षराक्षसाः

कपिलेन च यक्षेण केशिन्यां ह्यपरे जनाः; बलावता उत्पादिताः उदीर्णाः यक्षराक्षसाः।

Verse 147

केशिनी दुहिता चैव नीला या श्रुद्रराक्षसी / आलंबेयेन जनिता नैकाः सुरसिकेन हि

केशिनी दुहिता चैव नीला या श्रुद्रराक्षसी; आलंबेयेन जनिता नैकाः सुरसिकेन हि।

Verse 148

नैला इति समाख्याता दुर्जया घोरविक्रमाः / चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलौकिकाः

नैला इति समाख्याता दुर्जया घोरविक्रमाः। चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलौकिकाः॥

Verse 149

बहुत्वाच्चैवसर्गस्य तेषां वक्तुं न शक्यते / तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी

बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते। तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी॥

Verse 150

दुहिता सुताश्च विकया महा सत्त्वपराक्रमाः / विरूपकेन तस्यां वै नैरृतेन इह प्रजाः

दुहिता सुताश्च विकया महा सत्त्वपराक्रमाः। विरूपकेन तस्यां वै नैरृतेन इह प्रजाः॥

Verse 151

उत्पादिताः सुघोराश्च शृणु तास्त्वनुपूर्वशः / दंष्ट्राकराला विकृता महाकर्णा महोदराः

उत्पादिताः सुघोराश्च शृणु तास्त्वनुपूर्वशः। दंष्ट्राकराला विकृता महाकर्णा महोदराः॥

Verse 152

हारका भीषकाश्चैव तथैव क्लामकाः परे / रेरवाकाः पिशाचाश्च वाहकास्त्रासकाः परे

हारका भीषकाश्चैव तथैव क्लामकाः परे। रेरवाकाः पिशाचाश्च वाहकास्त्रासकाः परे॥

Verse 153

भूमिराक्षसका ह्येते मन्दाः परुपविक्रमाः / चरन्त्यदृष्टपूर्वास्तु नानाकारा ह्यनेकशः

भूमिराक्षसका ह्येते मन्दाः परुपविक्रमाः। चरन्त्यदृष्टपूर्वास्तु नानाकारा ह्यनेकशः॥

Verse 154

उत्कृष्टबलसत्त्वा ये तेषां वैखेचराः स्मृताः / लक्षमात्रेण चाकाशं स्वल्पात्स्वल्पं चरन्ति वै

उत्कृष्टबलसत्त्वा ये तेषां वैखेचराः स्मृताः। लक्षमात्रेण चाकाशं स्वल्पात्स्वल्पं चरन्ति वै॥

Verse 155

एतैर्व्याप्तमिदं विश्वं शतशो ऽथ सहस्रशः / भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः

एतैर्व्याप्तमिदं विश्वं शतशोऽथ सहस्रशः। भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः॥

Verse 156

नानाप्रकारैराक्रान्ता नाना देशाः समन्ततः / समासाभिहिताश्चैवह्यष्टौ राक्षसमातरः

नानाप्रकारैराक्रान्ता नाना देशाः समन्ततः। समासाभिहिताश्चैव ह्यष्टौ राक्षसमातरः॥

Verse 157

अष्टौ विभागा ह्येषां हि व्याख्याता अनुपूर्वशः / भद्रका निकराः केचिदज्ञनिष्पत्तिहेतुकाः

अष्टौ विभागा ह्येषां हि व्याख्याता अनुपूर्वशः। भद्रका निकराः केचिदज्ञनिष्पत्तिहेतुकाः॥

Verse 158

सहस्रशतसंख्याता मर्त्य लोकविचारिणः / पूतरा मातृसामान्यास्तथा भूतभयङ्कराः

सहस्रशतसंख्याता मर्त्यलोकविचारिणः। पूतनामातृसामान्यास्तथा भूतभयङ्कराः॥

Verse 159

बालानां मानुषे लोके ग्रहा मरणहेतुकाः / स्कन्दग्रहादयो हास्या आपकास्त्रासकादयः

बालानां मानुषे लोके ग्रहा मरणहेतुकाः। स्कन्दग्रहादयो हास्या आपकास्त्रासकादयः॥

Verse 160

कौमारास्ते तु विज्ञेया बालानां गृहवृत्तयः / स्कन्दग्रहविशेषाणां मायिकानां तथैव च

कौमारास्ते तु विज्ञेया बालानां गृहवृत्तयः। स्कन्दग्रहविशेषाणां मायिकानां तथैव च॥

Verse 161

पूतना नाम भूतानां ये च लोकविनायकाः / एवं गणसहस्राणि चरन्ति पृथिवीमिमाम्

पूतना नाम भूतानां ये च लोकविनायकाः। एवं गणसहस्राणि चरन्ति पृथिवीमिमाम्॥

Verse 162

यक्षाः पुण्यजना नामपूर्णभद्राश्च ये स्मृताः / यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये

यक्षाः पुण्यजना नाम पूर्णभद्राश्च ये स्मृताः। यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये॥

Verse 163

नैरृतानां च सर्वेषां राजभूदलकाधिपः / यक्षादृष्ट्या पिबन्तीह नॄणां मांसमसृग्वसे

नैरृतानां च सर्वेषां राजभूदलकाधिपः / यक्षादृष्ट्या पिबन्तीह नॄणां मांसमसृग्वसे

Verse 164

रक्षांस्यनुप्रवेशेन पिशाचैः परिपीडनैः / सर्वलक्षणसंपन्नाः समामैश्चापि दैवतैः

रक्षांस्यनुप्रवेशेन पिशाचैः परिपीडनैः / सर्वलक्षणसंपन्नाः समामैश्चापि दैवतैः

Verse 165

भास्वरा बलवन्तश्च ईश्वराः कामरूपिणः / अनाभिभाव्या विक्रान्ताः सर्वलोकनमस्कृताः

भास्वरा बलवन्तश्च ईश्वराः कामरूपिणः / अनाभिभाव्या विक्रान्ताः सर्वलोकनमस्कृताः

Verse 166

सूक्ष्माश्चौजस्विनोमेध्या वरदा याज्ञिकाश्च वै / देवानां लक्षणं ह्येतदसुराणां तथैव च

सूक्ष्माश्चौजस्विनोमेध्या वरदा याज्ञिकाश्च वै / देवानां लक्षणं ह्येतदसुराणां तथैव च

Verse 167

हीना देवैस्त्रिभिः पादैर्गन्धर्वाप्सरसः स्मृताः / गन्धर्वेभ्यस्त्रिभिः पादैर्हीना गुह्यकराक्षसाः

हीना देवैस्त्रिभिः पादैर्गन्धर्वाप्सरसः स्मृताः / गन्धर्वेभ्यस्त्रिभिः पादैर्हीना गुह्यकराक्षसाः

Verse 168

ऐश्वर्यहीना रक्षोभ्यः पिशाचास्त्रिगुणां पुनः / एवन्धनेन रूपेण आयुषा च बलेन च

ऐश्वर्यहीनाः पिशाचाः रक्षोभ्यः पुनस्त्रिगुणाः; एवं धनेन रूपेण आयुषा च बलेन च।

Verse 169

धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः / देवासुरेभ्यो हीयन्ते त्रींस्त्रीन्पादान्परस्परम्

धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः; देवासुरेभ्यो हीयन्ते त्रींस्त्रीन्पादान् परस्परम्।

Verse 170

गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः / अतः शृणुत भद्रं वः प्रजाः क्रोधवशान्वयाः

गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः; अतः शृणुत भद्रं वः प्रजाः क्रोधवशान्वयाः।

Verse 171

क्रोधायाः कन्यका जज्ञे द्वादशैवात्मसंभवाः / ता भार्या पुलहस्यासन्नामतो मे निबोधत

क्रोधायाः कन्यकाः जज्ञिरे द्वादशैवात्मसंभवाः; ता भार्याः पुलहस्यासन्, नामतो मे निबोधत।

Verse 172

मृगी च मृगमन्दा च हरिभद्रा त्विरावती / भूता च कपिशा दंष्ट्रा ऋषा तिर्या तथैव च

मृगी च मृगमन्दा च हरिभद्रा त्विरावती; भूता च कपिशा दंष्ट्रा ऋषा तिर्या तथैव च।

Verse 173

श्वेता च सरमा चैव सुरसा चेति विश्रुता / मृग्यास्तु हरिगाः पुत्रा मृगश्चान्ये शशास्तथा

श्वेता सरमा च सुरसा इति प्रसिद्धाः; मृग्यायाः हरिगाः पुत्राः, अन्ये मृगाः शशाश्च तथा।

Verse 174

न्यङ्कवःशरभा ये च रुरवः पृषताश्च ये / ऋक्षाश्च मृगमन्दाया गवयाश्चापरे तथा

न्यङ्कवाः शरभाश्चैव रुरवः पृषताश्च ये; ऋक्षाश्च मृगमन्दाश्च गवयाश्चापरे तथा।

Verse 175

महिषोष्ट्रवराहश्च खड्गा गौरमुखास्तथा / हर्य्या स्तु हरयः पुत्रा गोलाङ्गूलास्तरक्षवः

महिषोष्ट्रवराहाश्च खड्गा गौरमुखास्तथा; हर्य्यास्तु हरयः पुत्रा गोलाङ्गूलास्तरक्षवः।

Verse 176

वानराः किन्नराश्चैव मायुः किंपुरुषास्तथा / सिंहाव्याघ्राश्च नीलाश्चद्वीपिनः क्रोधिताधराः

वानराः किन्नराश्चैव मायुः किंपुरुषास्तथा; सिंहाव्याघ्राश्च नीलाश्च द्वीपिनः क्रोधिताधराः।

Verse 177

सर्पाश्चाजगरा ग्राहा मार्जारा मूषिकाः परे / मण्डूका नकुलाश्चैव वल्कका वनगोचराः

सर्पाश्चाजगराः ग्राहाः मार्जाराः मूषिकाः परे; मण्डूकाः नकुलाश्चैव वल्ककाः वनगोचराः।

Verse 178

हंसं तु प्रथमं जज्ञे पुलहस्य वरं शुभा / रणचन्द्रं शतमुखं दरीमुखमथापि च

हंसो नाम प्रथमं जज्ञे पुलहस्य शुभो वरः । रणचन्द्रः शतमुखो दरीमुखश्चापि जज्ञिरे ॥

Verse 179

हरितं हरिवर्माणं भीषणं शुभलक्षणम् / प्रथितं मथितं चैव हरिणं लाङ्गलिं तथा

हरितो हरिवर्मा च भीषणः शुभलक्षणः । प्रथितो मथितश्चैव हरिणो लाङ्गली तथा ॥

Verse 180

श्वेताया जज्ञिरे वीरा दश वानरपुङ्गवाः / ऊर्द्ध्वदृष्टिः कृताहारः सुव्रतो विनतो बुधः

श्वेतायां जज्ञिरे वीरा दश वानरपुङ्गवाः । ऊर्ध्वदृष्टिः कृताहारः सुव्रतो विनतो बुधः ॥

Verse 181

पारिजातः सुजातश्च हरिदासो गुणाकरः / क्षेममूर्तिश्च बलवान् राजानः सर्व एव ते

पारिजातः सुजातश्च हरिदासो गुणाकरः । क्षेममूर्तिश्च बलवान् राजानः सर्व एव ते ॥

Verse 182

तेषां पुत्राश्च पौत्राश्च बलवन्तः सुदुःसहाः / अशक्याः समरेजेतुं देवदानवमानवैः

तेषां पुत्राश्च पौत्राश्च बलवन्तः सुदुःसहाः । अशक्याः समरे जेतुं देवदानवमानवैः ॥

Verse 183

यक्षभूतपिशाचैश्च राक्षसैः सुभुजङ्गमैः / नाग्निशस्त्रविषैरन्यैर्मृत्युरेषां विधीयते

यक्षभूतपिशाचैश्च राक्षसैः सुभुजङ्गमैः । नाग्निशस्त्रविषैरन्यैर्मृत्युरेषां विधीयते ॥

Verse 184

असंगगतयः सर्वे पृथिव्यां व्योम्नि चैव हि / पाताले च जले वायौ ह्यविनाशिन एव ते

असङ्गगतयः सर्वे पृथिव्यां व्योम्नि चैव हि । पाताले च जले वायौ ह्यविनाशिन एव ते ॥

Verse 185

दशकोटिसहस्राणि दशार्बुदशतानि च / महापद्मसहस्राणि महापद्मशतानि च

दशकोटिसहस्राणि दशार्बुदशतानि च । महापद्मसहस्राणि महापद्मशतानि च ॥

Verse 186

दशार्बुदानि कोटीनां सहस्राणां शतं शतम् / नियुतानां सहस्राणि निखर्वाणां तथै व च

दशार्बुदानि कोटीनां सहस्राणां शतं शतम् । नियुतानां सहस्राणि निखर्वाणां तथैव च ॥

Verse 187

दशार्बुदानि कोटीनां षष्टिकोटिस्तथैव च / अर्बुदानां च लक्षं तु कोटीशतमथापरम्

दशार्बुदानि कोटीनां षष्टिकोटिस्तथैव च । अर्बुदानां च लक्षं तु कोटीशतमथापरम् ॥

Verse 188

दश पद्मानि चान्यानि महापद्मानि वै नव / संख्यातानि कुलीनानां वानराणां तरस्विनाम्

दश पद्मानि चान्यानि महापद्मानि वै नव। कुलीनानां तरस्विनां वानराणां संख्याः कीर्तिताः॥

Verse 189

सर्वे तेजस्विनः शूराः कामरूपा महा बलाः / दिव्याभरणवेषाश्च ब्रह्मण्याश्चाहितग्नयः

सर्वे तेजस्विनः शूराः कामरूपा महाबलाः। दिव्याभरणवेषाश्च ब्रह्मण्याश्चाहिताग्नयः॥

Verse 190

यष्टारः सर्वयज्ञानां सहस्रशतदक्षिणाः / मुकुटैः कुण्डलैर्हारैः केयूरैः समलङ्कृताः

यष्टारः सर्वयज्ञानां सहस्रशतदक्षिणाः। मुकुटैः कुण्डलैर्हारैः केयूरैः समलङ्कृताः॥

Verse 191

वेदवेदाङ्गविद्वांसो नीतिशास्त्रविचक्षणाः / अस्त्राणां मोचने चापि तथा संहारकर्मणि

वेदवेदाङ्गविद्वांसो नीतिशास्त्रविचक्षणाः। अस्त्राणां मोचने चापि तथा संहारकर्मणि॥

Verse 192

दिव्यमं त्रपुरस्कारा दिव्यमन्त्रपुरस्कृताः / समर्था बलिनः शूराः सर्वशस्त्रप्रहारिणः

दिव्यं मन्त्रपुरस्कारा दिव्यमन्त्रपुरस्कृताः। समर्था बलिनः शूराः सर्वशस्त्रप्रहारिणः॥

Verse 193

दिव्यरूपधराः सौम्या जरामरणवर्जिताः / कुलानां च सहस्राणि दश तेषां महात्मनाम्

दिव्यरूपधराः सौम्याः जरामरणवर्जिताः। तेषां महात्मनां कुलानां दश सहस्राणि सन्ति॥

Verse 194

चतुर्षु मेरुपार्श्वेषु हेमकूटे हिमाह्वये / नीले श्वेतनगे चैव निषधे गन्धमादने

चतुर्षु मेरुपार्श्वेषु हेमकूटे हिमाह्वये। नीले श्वेतनगे चैव निषधे गन्धमादने॥

Verse 195

द्वीपेषु सप्तसु तथा या गुहा ते च पर्वताः / निलयास्तेषु ते प्रोक्ता विश्वकर्मकृता स्वयम्

सप्तसु द्वीपेषु तथा या गुहाः ते च पर्वताः। निलयास्तेषु ते प्रोक्ता विश्वकर्मकृता स्वयम्॥

Verse 196

पुरैश्च विविधाकारैः प्रकारैश्च विभूषिताः / सर्वर्तुरमणीयास्ते ह्युद्यानानि च सर्वशः

पुरैश्च विविधाकारैः प्रकारैश्च विभूषिताः। सर्वर्तुरमणीयास्ते ह्युद्यानानि च सर्वशः॥

Verse 197

गृहभूमिषु शय्यासु पुष्पगन्धसुखोदिताः / आलेपनैश्च विविधैर्दिव्यभक्तिकृतैस्तथा

गृहभूमिषु शय्यासु पुष्पगन्धसुखोदिताः। आलेपनैश्च विविधैर्दिव्यभक्तिकृतैस्तथा॥

Verse 198

सर्वरत्नसमाकीर्णा मानसीं सिद्धिमास्थिताः / वानरा वानरीभिस्ते दिव्याभरणभूषिताः

सर्वरत्नसमाकीर्णाः मानसीं सिद्धिमास्थिताः। ते वानराः वानरीभिश्च दिव्याभरणैर्भूषिताः॥

Verse 199

पिबन्तो मधु माध्वीकं सुधाभक्षानुमिश्रितम् / क्रियामयाः समुदिता दिवि देवगणा इव

मधु माध्वीकं पिबन्तः सुधाभक्षानुमिश्रितम्। क्रियामयाः समुदिता दिवि देवगणा इव॥

Verse 200

देवगन्धर्वमुख्यानां पुत्रास्ते वै सुखे रताः / धार्मिकाश्च वरोत्सिक्ता युद्धशैण्डा महाबलाः

देवगन्धर्वमुख्यानां पुत्रास्ते वै सुखे रताः। धार्मिकाश्च वरोत्सिक्ता युद्धशैण्डा महाबलाः॥

Frequently Asked Questions

A Mauneya-associated catalogue of Devagandharvas and Apsarases is presented, functioning as a celestial genealogy/registry that groups renowned Gandharvas and Apsaras figures into a named lineage framework.

Gandharvas include Citraratha, Hahā, Huhū, and Tumburu; Apsarases include Rambhā, Tilottamā, Menakā, Pūrvacittī, Viśvācī, and Pramlocā, among many others listed sequentially.

Not in the provided sample. The visible content is genealogical and taxonomic (name-lists of Gandharvas/Apsarases), rather than Śākta-ritual (Vidya/Yantra) material characteristic of the Lalitopākhyāna found in the concluding division.