
Gauramukhāśrame Durjayasya Ātithyaṃ, Cintāmaṇiprabhāvaś ca
Narrative-Ethics (Hospitality, Royal Conduct, and Divine Intervention) / Sacred Geography (Naimiṣāraṇya)
ヴァラーハ(Varāha)はプリティヴィー(Pṛthivī)に、王ドゥルジャヤ(Durjaya)が聖仙ガウラムカ(Gauramukha)の庵(āśrama)を訪れ、儀礼にかなった丁重な歓待を受けたことを語る。賢者は王と軍勢に供する食を案じ、ナーラーヤナ(Nārāyaṇa)を観想して讃歌を捧げ、ヴィシュヌ(Viṣṇu)が水・地・火・風・虚空に遍満することを讃えて、神の秩序が地上の豊穣を支えると示す。ヴィシュヌは顕現し、恩寵として光り輝くチンターマニ(cintāmaṇi)を授け、王の一行すべてに豊かな供物と豪奢な奉仕が整う。夜が明けるとドゥルジャヤは宝珠を欲し、使者と武力で奪おうとするが、宝珠から武将たちが現れて軍勢と戦う。ガウラムカが再びヴィシュヌに祈願すると、主はスダルシャナ(Sudarśana)で敵軍を滅ぼし、この森をナイミシャーラニヤ(Naimiṣāraṇya)と名づけ、永く続く聖なる地と霊的な自然環境を確立する。
Verse 1
श्रीवराह उवाच । ततस्तमीदृशं दृष्ट्वा तदा गौरमुखाश्रमम् । दुर्ज्जयश्चिन्तयामास रम्यमाश्रममण्डलम् ॥ ११.१ ॥
聖なるヴァラーハは言われた。かくしてドゥルッジャヤは、そのようなアーシュラマ――ガウラムカのアーシュラマ――を見て、その麗しく心地よい境内を思いめぐらした。
Verse 2
प्रविशाम्यत्र पश्यामि ऋषीन् परमधार्मिकान् । चिन्तयित्वा तदा राजा प्रविवेश तमाश्रमम् ॥ ११.२ ॥
「ここに入り、最上の法に生きるリシたちを拝見しよう。」そう思い定めて、王はそのアーシュラマへと入った。
Verse 3
तस्य प्रविष्टस्य ततो राज्ञः परमहर्षितः । चकार पूजां धर्मात्मा तदा गौरमुखो मुनिः ॥ ११.३ ॥
王が入るや、正しき行いの聖仙ガウラムカは大いに歓喜し、王に対して礼敬のもてなし(供養・迎礼の儀)を行った。
Verse 4
स्वागतातिक्रियाः कृत्वा कथान्ते तं महामुनिः । स्वशक्त्या अहं नृपश्रेष्ठ सानुगस्य च भोजनम् ॥ ११.४ ॥
慣例の歓迎の作法と諸々の礼遇を尽くしたのち、語らいの終わりに大聖仙は言った。「王の中の最勝よ、我が力の及ぶかぎり、そなたと従者たちのために食事を用意しよう。」
Verse 5
करिष्यामि प्रमुच्यन्तां साधु वाह इति द्विजः । एवमुक्त्वा स्थितस्तूष्णीं स मुनिः संशितव्रतः ॥ ११.५ ॥
その二度生まれの者(バラモン)は言った。「我がなそう。彼らを解き放て—善きかな。」そう語り終えると、誓戒に堅固なその聖仙は沈黙して立ち尽くした。
Verse 6
राजाऽपि तस्थौ तद्भक्त्या स्वसहायैः समन्वितः । अक्षौहिण्यो बलस्यास्य पञ्चमात्रास्तदा स्थिताः । अयं च तापसः किं मे दास्यते भोजनं त्विह ॥ ११.६ ॥
王もまたそこに留まり、彼への信愛を抱き、自らの従者を伴っていた。その時、王軍の五つのアクシャウヒニーが布陣していた。王は心に思った。「この苦行者は、ここで我にどのような食を与えるのだろうか。」
Verse 7
निमन्त्र्य दुर्जयं विप्रस्तदा गौरमुखो नृपम् । चिन्तयामास किं चास्य मया देयं तु भोजनम् ॥ ११.७ ॥
バラモンのガウラムカはドゥルジャヤ王を招いたのち、こう思案した。「我は王にいかなる食を供すべきか。」
Verse 8
एवं चिन्तयतस्तस्य महर्षेर्भावितात्मनः । स्थितो मनसि देवेशो हरिर्नारायणः प्रभुः ॥ ११.८ ॥
かく思惟する、内面を修めた大聖仙の心に、神々の主たるハリ、ナーラーヤナ、至上の主が確立した。
Verse 9
ततः संस्मृत्य मनसा देवं नारायणं तदा । तोषयामास गङ्गायां प्रविश्य मुनिसत्तमः ॥ ११.९ ॥
ついで最勝の牟尼は、心にナーラーヤナ神を念じ、ガンガーに入り、その時、供養と鎮撫の行を修して御心を慰めた。
Verse 10
धरण्युवाच । कथं गौरमुखो विष्णुं तोषयामास भूधर । एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्तते ॥ ११.१० ॥
大地女神ダラニーは言った。「おおブーダラよ、ガウラムカはいかにしてヴィシュヌを歓喜させたのですか。これを正しく聞きたいという強い希求が、わたしのうちに起こりました。」
Verse 11
नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे । नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ॥ ११.११ ॥
常にヴィシュヌに帰依し奉る。黄衣をまとう御方よ、あなたに礼拝する。原初の御姿なる御方よ、あなたに礼拝する。水の御姿なる御方よ、あなたに礼拝する。
Verse 12
नमस्ते सर्वसंस्थाय नमस्ते जलशायिने । नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ॥ ११.१२ ॥
あらゆる定立された秩序の支えなる御方よ、あなたに礼拝する。水の上に横たわる御方よ、あなたに礼拝する。大地の御姿なる御方よ、あなたに礼拝する。光輝(テージャス)を本質とする御方よ、あなたに礼拝する。
Verse 13
नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे । त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृरिच्छयः ॥ ११.१३ ॥
風の御姿なる御方よ、あなたに礼拝する。虚空(そら)の御姿なる御方よ、あなたに礼拝する。あなたは一切衆生の神聖なる臨在、あなたは主宰—心の衝動として内に住まう。
Verse 14
त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः । त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ॥ ११.१४ ॥
あなたは聖音「オーム」であり、また祭儀の呼声「ヴァシャット」である。あなたはあらゆる所に遍く住する。あなたは一切の神々の始まりであるが、あなたには始まりが見いだされない。
Verse 15
त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः । त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ॥ ११.१५ ॥
おおデーヴァよ、汝はBhūであり、またBhuvaḥである。汝はJanaḥであり、Mahaḥとして憶念される。汝はTapasであり、またSatyaでもある。おおデーヴァよ、動くものと動かぬもの、すべては汝のうちにある。
Verse 16
त्वत्तो भूतमिदं विश्वं त्वदुद्भूताऋगादयः । त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ॥ ११.१६ ॥
この全宇宙は汝より生じ、汝よりṚg(および他のヴェーダ)が現れた。汝より権威ある論典(śāstra)が生まれ、汝の上に祭式(yajña)が確立されている。
Verse 17
त्वत्तो वृक्षाः वीरुधश्च त्वत्तः सर्वा वनौषधिः । पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ॥ ११.१७ ॥
樹木と蔓草は汝より生じ、森の薬草のすべても汝より生ずる。獣も鳥も蛇も、ただ汝よりのみ生ずる、ああジャナールダナ(Janārdana)よ。
Verse 18
ममापि देवदेवेश राजाऽदुर्जयसंज्ञितः । आगतोऽभ्यागतस्तस्य आतिथ्यं कर्तुमुत्सहे ॥ ११.१८ ॥
おお神々の主(Devadeveśa)よ、ドゥルジャヤ(Durjaya)という名の王もまた客として我がもとに来た。私は彼にātithya、すなわち客人への礼遇を施したい。
Verse 19
तस्य मे निर्धनस्याद्य देवदेव जगत्पते । भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसंचयम् ॥ ११.१९ ॥
おお神々の神(Devadeva)、世界の主(Jagatpati)よ。今日、貧しく、信愛(bhakti)により身を低くするこの私のために、主よ、食物と必要なものの備えを整えてください。
Verse 20
यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा । वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ॥ ११.२० ॥
我が手に触れるもの、我が眼に映るもの—樹であれ草間の球根・塊茎であれ—それぞれは四種の形として食物となる。
Verse 21
तथा त्वन्यतमं वापि यद्ध्यातं मनसा मया । तत्सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ॥ ११.२१ ॥
また同様に、我が心にて念じ観想したいかなる事柄も—その種別を問わず—すべて我がために成就せよ。至上主よ、汝に敬礼する。
Verse 22
इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः । मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ॥ ११.२२ ॥
かくしてその讃歌によって、神々の主にして諸世界の王は満悦し、ケーシャヴァはその牟尼に自らの本来の姿を示された。
Verse 23
उवाच सुप्रसन्नात्मा ब्रूहि विप्र वरं परम् । एवं श्रुत्वाऽक्षिणी यावदुन्मीलयति वै मुनिः ॥ ११.२३ ॥
深く澄みわたる心にて彼は言った。「おお、最勝のヴィプラよ、至上の恩寵を告げよ。」そう聞くや、牟尼は眼を開き始めた。
Verse 24
तदा शङ्खगदापाणिः पीतवासा जनार्दनः । गरुडस्थोऽपि तेजस्वी द्वादशादित्यसप्रभः ॥ ११.२४ ॥
その時、法螺貝と棍棒を御手に持ち、黄衣をまとわれたジャナールダナは、ガルダに坐してなお赫々と輝き、十二アーディティヤに比すべき光輝を放った。
Verse 25
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११.२५ ॥
もし天において千の太陽の光輝が同時に立ち現れるなら、それはあの大いなる魂の輝きに比せられよう。
Verse 26
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । ददर्श स मुनिर्देवि विस्मयोत्फुल्ललोचनः ॥ ११.२६ ॥
そこでは、一つの場所において全宇宙が、しかも多様に分かれて顕れているのを見た。おお女神よ、その牟尼は驚嘆に目を見開いてそれを観じた。
Verse 27
जगाम शिरसा देवं कृताञ्जलिरथाब्रवीत् । यदि मे वरदो देवो भूयाद् भक्तस्य केशव ॥ ११.२७ ॥
彼は頭を垂れて神に近づき、合掌して敬礼し、そして言った。「もし恵みを授ける神ケーシャヴァが、この帰依者である私に願いを賜るならば……」
Verse 28
इदानीमेष नृपतिर्यथा सबलवाहनः । ममाश्रमे कृताहारः श्वः प्रयाता स्वकं गृहम् ॥ ११.२८ ॥
いまこの王は、軍勢と乗り物を伴い、私の庵で食事を済ませたのち、明日、自らの家へと旅立つであろう。
Verse 29
इत्युक्तस्तस्य देवेशो वरदः सम्बभूव ह । चित्तसिद्धिं ददौ तस्मै मणिं च सुमहाप्रभम् ॥ ११.२९ ॥
このように願われると、神々の主はまことに彼のための授与者となり、心の成就たるチッタ・シッディ(citta-siddhi)と、きわめて大いなる光を放つ宝珠とを授けた。
Verse 30
तं दत्त्वाऽन्तर्दधे देवः स च गौरमुखो मुनिः । जगाम चाश्रमं पुण्यं नाना ऋषिनिषेवितम् ॥ ११.३० ॥
それを授け終えると神は姿を隠した。かくして牟尼ガウラムカは、多くのリシ(ṛṣi)が出入りする清浄なる聖なるアーシュラマへと赴いた。
Verse 31
तत्र गत्वा स विप्रेन्द्रश्चिन्तयामास वै मुनिः । हिमवच्छिखराकारं महाभ्रमिव चोन्नतम् । शशाङ्करश्मिसङ्काशं गृहं वै शतभूमिकम् ॥ ११.३१ ॥
そこに至ると、その牟尼—婆羅門の中の最勝者—は一つの楼閣を思い描いた。大雲のごとくそびえ、ヒマーラヤの峰の形をなし、月光のように輝き、まことに百層にまで高く立ち上がるものであった。
Verse 32
तादृशानां सहस्राणि लक्षकोट्यश्च सर्वशः । गृहानि निर्ममे विप्रो विष्णोर्लब्धवरस्तदा ॥ ११.३२ ॥
そのとき、ヴィシュヌ(Viṣṇu)より恩寵の願い(ヴァラ)を得たその婆羅門は、同様の家々をあらゆる所に建てさせた。千々、十万々、さらにはコーティ(koṭi)に及ぶほどであった。
Verse 33
प्राकाराणि ततोऽपान्ते तल्लग्नोद्यानकानि च । कोकिलाकुलघुष्टानि नानाद्विजवराणि च । चम्पकाशोकपुन्नागनागकेशरवन्ति च ॥ ११.३३ ॥
さらに外縁には城壁がめぐらされ、それに連なる園林があった。コーキラ鳥の群れの声がこだまし、さまざまな優れた鳥たちで満ちていた。またチャンパカ、アショーカ、プンナーガ、ナーガケーシャラの樹林が豊かに茂っていた。
Verse 34
नानाजात्यस्तथा वृक्षाः गृहोद्यानॆषु सर्वशः । हस्तिनां हस्तिशालाश्च तुरगाणां च मन्दुराः ॥ ११.३४ ॥
また家々の庭園には、あらゆる所に多種多様な樹木が植えられていた。象のための象舎があり、馬のための厩舎(マンドゥラ)も備えられていた。
Verse 35
चकार सञ्चयान् विप्रो नानाभक्ष्याणि सर्वशः । भक्ष्यं भोज्यं तथा लेह्यं चोष्यं बहुविधं तथा । चकारान्नाद्यनिचयं हेमपात्र्यश्च सर्वतः ॥ ११.३५ ॥
そのバラモンは、あらゆる所に多種多様な食物を蓄えた――食して口に入れるもの、噛んで食事とするもの、舐めるもの、吸うものなど、さまざまである。さらに、調えられた食糧の山を各所に備え、黄金の器もまた整えた。
Verse 36
एवं कृत्वा स विप्रस्तु राजानं भूरितेजसम् । उवाच सर्वसैन्यानि प्रविशन्तु गृहानिति ॥ ११.३६ ॥
こうして整え終えると、そのバラモンは大いなる輝きを具えた王に告げた。「全軍はそれぞれの宿所へ入るがよい。」
Verse 37
एवमुक्तस्ततो राजा तद्गृहं पर्वतोपमम् । प्रविवेशान्तरेष्वन्ये भृत्या विविशुराशु वै ॥ ११.३७ ॥
そのように告げられると、王は山にも比すべき大邸宅へと入った。ほかの従者たちもまた、内奥の間々から速やかに入り込んだ。
Verse 38
ततस्तेषु प्रविष्टेषु तदा गौरमुखो मुनिः । प्रगृह्य तं मणिं दिव्यं राजानं छेदमब्रवीत् ॥ ११.३८ ॥
やがて彼らが入り終えると、ガウラムカ仙はその天なる宝珠を手に取り、チェーダ王に語りかけた。
Verse 39
मज्जनाभ्यवहारार्थं पथि श्रमकृते तथा । विलासिनीस्तथा दासान् प्रेषयिष्यामि ते नृप ॥ ११.३९ ॥
「沐浴と食事のため、また道中の疲れを癒すために、王よ、汝のもとへ遊楽の女(vilāsinī)と召使いたちを遣わそう。」
Verse 40
एवमुक्त्वा स विप्रेन्द्रस्तं मणिं वैष्णवं शुभम् । एकान्ते स्थापयामास राज्ञस्तस्य प्रपश्चतः ॥ ११.४० ॥
かく語り終えると、婆羅門の長は吉祥なるヴァイシュナヴァの宝珠を人目の少ない場所に安置し、王はそれを見守っていた。
Verse 41
तस्मिन् स्थापितमात्रे तु मणौ शुद्धसमप्रभे । निश्चेरुर्योषितस्तत्र दिव्यरूपाः सहस्रशः ॥ ११.४१ ॥
しかし、その清浄で均しい光を放つ宝珠が据えられるや否や、天上の姿を備えた女たちが幾千幾万とその場に現れ出た。
Verse 42
सुकुमाराङ्गरागाद्याः सुकुमारवराङ्गनाः । सुकपोलाः सुचार्व्यङ्ग्यः सुकेशान्ताः सुलोचनाः । काश्चित्सौवर्णपात्रीश्च गृहीत्वा संप्रatasthire ॥ ११.४२ ॥
香油などで優美に飾られた、肢体しなやかな高貴の美女たち—美しい頬、艶やかな姿、整えられた髪、愛らしい眼を備え—が歩み出し、ある者は黄金の器を携えて去って行った。
Verse 43
एवं योषिद्गणास्तत्र नराः कर्मकरास्तथा । निर्जग्मुस्तस्य नृपतेः सर्वे भृत्या नृपस्य ह । केवलं भोजनं पूर्वं परिधानं च सर्वशः ॥ ११.४३ ॥
かくして、その場の女たちの群れも、労役の男たちも、皆その王のもとを去った。すなわち王の従者はことごとく、食糧の用意と衣服だけを携えて立ち去った。
Verse 44
ताः स्त्रियः सर्वभृत्यानां राजमार्गेण मज्जनं । ददुस्ते च नराश्वानां हस्तिनां च त्वरान्विताः ॥ ११.४४ ॥
その女たちは王道に沿って一切の従者の沐浴を整え、また急ぎつつ、人々と馬と象のための用意も施した。
Verse 45
नानाविधानि तूर्याणि तत्रावाद्यन्त सर्वशः । मज्जने नृपतेस्तत्र ननृतुश्चान्ययोषितः । अपराश्च जगुस्तत्र शक्रस्येव प्रमज्जतः ॥ ११.४५ ॥
そこでは四方からさまざまな楽器が奏でられた。王の儀礼の沐浴のあいだ、ある女たちは舞い、またある者たちは歌い、まるで帝釈天(インドラ)自らが沐浴しているかのようであった。
Verse 46
एवं दिव्योपचारेण स्नात्वा राजा महामनाः । चिन्तयामास राजेन्द्रो विस्मयाविष्टचेतनः । किमिदं मुनिसामर्थ्यं तपसो वाऽथ वा मणेः ॥ ११.४६ ॥
このように神々しいもてなしのうちに沐浴を終えると、心大きき王は驚嘆に心を奪われて思案した。「これは聖仙たちのいかなる力であろうか。苦行(タパス)の果報か、それとも摩尼という宝珠の力であろうか。」
Verse 47
यथा च नृपतेः पूजा कृता तेन महर्षिणा । तद्वद्भृत्यजनस्यापि चकार मुनिसत्तमः ॥ ११.४८ ॥
その大聖仙が王にふさわしい礼敬を尽くしたのと同様に、最勝の牟尼は王の従者・供回りの者たちにもまた、しかるべきもてなしを施した。
Verse 48
यावत् स राजा बुभुजे सभृत्यबलवाहनः । तावदस्तगिरिं भानुर्जगामारुणसप्रभः ॥ ११.४९ ॥
その王が従者・軍勢・乗り物とともに(権勢と歓楽を)享受しているあいだ、同じほどの時をもって、紅の光を伴う輝ける太陽は西の山、すなわち没する山へと赴いた。
Verse 49
ततस्तु रात्रिः समपद्यताधुना शरच्छशाङ्कोज्ज्वलऋक्षमण्डिता । करोति रागं स च रोहिणीधवः सुसङ्गतं सौम्यगुणेषु तापि च ॥ ११.५० ॥
やがて夜が訪れ、秋の月に照らされて星宿がきらめき、天は飾られた。ローヒニーの主たる月は、柔和なる徳に調和しつつも、なお熱をも生じさせて、恋慕の情をかき立てた。
Verse 50
भृगूद्वहः कृष्णतरांशुभानुना सहोद्यातो दैत्यगुरुः सुराधिपः । अथान्तरात्पक्षगतो न राजते स्वभावयोगेन मतिस्तु देहिनाम् ॥ ११.५१ ॥
ブリグ族のうち最勝なる者、すなわちダイティヤの師が、光線の暗くなった太陽とともに昇ると、神々の主は内側へ移って(覆われて)しまい、もはや輝かなかった。かくして身を有する者の心は、生得の自然の力により、自らの本性の傾きに従うのである。
Verse 51
सुरक्ततां भूमिसुतश्च मुञ्चते राहुः सिती चन्द्रमसोऽंशुभिः सितैः । मुक्तः स्वभावो जगतः सुरासुरैरनुस्वभावो बलवान् सुकृन्नृपः ॥ ११.५२ ॥
地の子(ブーミスータ)でさえその濃い紅を放ち、ラーフもまた月の淡い光線によって蒼白となる。世界の本有の自性は、デーヴァとアスラの間においてさえ解き放たれるかのようであるが、功徳を修する強き王は、その自性の秩序に随って行ずる。
Verse 52
सितेश्वराख्यापितरश्मिमण्डले सूर्यत्वसिद्धान्तकषेव निर्मले । करोति केतुर्न परे महत्तमस्तदा कुशीलॆषु गतिश्च निर्मला ॥ ११.५३ ॥
「シテーシュヴァラ」と称される清浄なる光輪において、太陽の本性に関する確立された教説によって磨かれたかのごとく澄みわたるとき、ケートゥは他処に過度の闇を生じさせない。かくしてその時、素行の悪き者の間においてさえ、事の推移は明らかとなる。
Verse 53
बुधोच्चबुद्धिर्जगतो विभावयन् रराज राज्ञो तनयः स्वकर्मभिः । भृरीतेच्छकः कक्षविवाहितश्चिरं भवेदियं साधुषु सम्मितिर्ध्रुवम् ॥ ११.५४ ॥
高く鋭い識別の बुद्धि を具えた王子は、自らの行為によって世を照らしつつ、燦然と輝いた。正しき依りどころを求める者として、またカクシャ(Kakṣa)の系譜に婚姻によって結ばれた者として久しく定まり、善き人々の間におけるこの敬意の度合いは、まことに揺るがぬ。
Verse 54
करोति केतुः कपिलं वियच्छिरं राज्ञः सुराणां पथि संस्थितं भृशम् । न दुर्जनः सज्जनसंसदि क्वचित् करोति शुद्धं निजकर्मकौशलम् ॥ ११.५५ ॥
ケートゥは黄褐色にして広くひろがる徴を現し、王と神々の道において強く立ちはだかる。されど悪人は、たとえ善人の集会にあっても、いずこにおいても自らの行為の巧みさを清浄ならしめることはできない。
Verse 55
शशाङ्करश्मिप्रविभासिता अपि प्रकाशमीयुर्निरताः पदे पदे । कुलम्भवाः सम्भवधर्मपत्तयो महांशुयोगान्महतां समुन्नतिम् ॥ ११.५६ ॥
月の光に照らされていても、なお彼らは自ら輝き出で—一歩ごとに揺るがず堅固である。高貴なる家系に生まれ、身分にふさわしいダルマの務めにかなって、偉大なる光(すなわち高徳の人々)との交わりにより、大いなる者の高みに到る。
Verse 56
त्रिदोषसक्तान्निकृतोऽस्य सर्वशः सुतेन राज्ञो वरुणस्य सूर्यजः । विराजते कौशिकसन्निवेशिता न वेदकर्म क्वचिदन्यथा भवेत् ॥ ११.५७ ॥
三ドーシャ(vāta–pitta–kapha)に執するこの者によってことごとく退けられたとしても、太陽より生まれし者—ヴァルナ王の子—は、カウシカにより安置され、なお燦然と輝く。いかなる所においても、ヴェーダの祭式(業)は正しい作法から逸れてはならない。
Verse 57
द्वन्द्वः समेतान् मम यः शिशुः पुरा हरिर्य आराधितवान् नृपासनम् । लक्ष्म्यापि बुद्ध्या सुचिरं प्रकाशते ध्रुवेण विष्णुस्मरणेन दुर्लभम् ॥ ११.५८ ॥
わが子ハリは、かつて対立の二相(ドヴァンドヴァ)に遭いながらも、なお王座を敬い奉った。繁栄(ラクシュミー)と分別の智を得ても、彼は久しく輝き続ける—しかしドゥルヴァのごとく不動のヴィシュヌ想念は、得難いものである。
Verse 58
इतीदृशी रात्रिरभूदृषेः शुभे वराश्रमे दुर्जयभूपतेः शुभा । सभृत्यसामन्तवराश्वदन्तिनः सुभक्तवस्त्राभरणादिपूजया ॥ ११.५९ ॥
かくしてその夜は過ぎ去った—その勝れたアーシュラマに住む聖仙にとって吉祥であり、またドゥルジャヤ王にとっても吉祥であった。王は従者と封臣の同盟者に侍られ、良馬と象を備え、佳き食、衣、装身具などの供養と諸々の敬礼によってもてなされた。
Verse 59
इतीदृशायां वररत्नचित्रिताः सुपट्टसंवीतवरास्तृतास्तदा । गृहेषु पर्यङ्कवराः समाश्रिताः सुरूपयोषित्कृतभङ्गभासुराः ॥ ११.६० ॥
かくのごとき場において、その時、家々には選りすぐりの宝玉で飾られ、上質の布と優れた敷物で覆われた勝れた寝台が設けられ、人々はそこに身を寄せた。美しき女たちの作る優雅な姿勢によって、それらはひときわ輝いた。
Verse 60
स तत्र राजा विससर्ज भूभृतः स्वयं सभृत्यानपि सर्वतो गृहान् । गतेषु सुष्वाप वरस्त्रिया वृतः सुरेशवत्स्वर्गगतः प्रतापवान् ॥ ११.६१ ॥
その場で、地を護る王は、自ら四方の家々を従者もろとも帰らせた。彼らが去ると、武勇ある者は最上の女に囲まれて眠り、まるで天界に至ったかのように、神々の主に等しい姿となった。
Verse 61
एवं सुमनसस्तस्य सभृत्यस्य महात्मनः । ऋषेस्तस्य प्रभावेण हृष्टास्तु सुषुपुस्तदा ॥ ११.६२ ॥
かくして、心清きその大いなる人の従者たちは喜びに満ち、かのリシ(聖仙)の威力に歓喜して、その時眠りに落ちた。
Verse 62
ततो रात्र्यां व्यतीतायां स राजा ताः स्त्रियः पुनः । अन्तर्द्धानं गतास्तत्र दृष्ट्वा तानि गृहाणि च ॥ ११.६३ ॥
やがて夜が明けると、王は再び見渡し、そこにいた女たちが姿を消しているのを見た。また、あの家々も目にした。
Verse 63
अदृश्यानि महार्हाणि वरासनजलानि च । राजा स विस्मयाविष्टश्चिन्तयामास दुःखितः ॥ ११.६४ ॥
彼は、常の眼には見えぬ貴重な品々と、すぐれた座と水とを見た。王は驚嘆に呑まれ、憂いを抱いて思索し始めた。
Verse 64
कथमेवं मणिर्मह्यं भवतीति पुनः पुनः । चिन्तयन्नधिगम्याथ स राजा दुर्जयस्तदा ॥ ११.६५ ॥
彼は繰り返し、「いかにしてこの宝珠が我に至ったのか」と思い巡らした。やがて悟りを得ると、その時ドゥルジャヤ王はそれにふさわしく行動した。
Verse 65
चिन्तामणिमिमं चास्य हरामीति विचिन्त्य सः । प्रयाणं नोदयामास स राजाश्रमबाह्यतः । आश्रमस्य बहिर्गत्वा नातिदूरे सवाहनः ॥ ११.६६ ॥
「彼からこのチンターマニの宝珠を奪い取ろう」と思い定めて、王は庵(アーシュラマ)の外から出立した。庵を出て間もなく、乗り物(坐騎)とともに、さほど遠くへは行っていなかった。
Verse 66
ततो विरोचनाख्यं वै प्रेषयामास मन्त्रिणम् । ऋषेर्गौरमुखस्यापि मणेर्याचनकर्मणि ॥ ११.६७ ॥
ついで王は、ヴィローチャナという名の大臣を遣わし、聖仙ガウラームカにも(賜物・品を)願い求める役目を負わせた――とりわけその宝珠に関してである。
Verse 67
ऋषिं तं च समागत्य मणिं याचितुमुद्यतः । रत्नानां भाजनं राजा मणिं तस्मै प्रदीयताम् ॥ ११.६८ ॥
そのリシに近づき、宝珠を乞い求めようとして(こう言った)――「諸宝の蔵たる王よ、その宝珠をこの者にお授けください。」
Verse 68
अमात्येनैवमुक्तस्तु क्रुद्धो गौरमुखोऽब्रवीत् । प्रतिगृह्णाति विप्रस्तु राजा चैव ददाति च । त्वं च राजा पुनर्भूत्वा याचसे दीनवत् कथम् ॥ ११.६९ ॥
大臣にこのように言われると、ガウラームカは憤って言った。「ブラーフマナは施しを受け、王はまさしく施す者である。しかるに汝は再び王となりながら、どうして貧者のように乞うのか。」
Verse 69
एवं ब्रूहि दुराचारं राजानं दुर्जयं स्वयम् । गच्छ द्रुतं दुराचार मा त्वां लोकोऽत्यगादिति ॥ ११.७० ॥
「このようにして、悪行の王――自らも打ち難き者――に告げよ。急いで行け、悪しき者よ。人々が汝を見限らぬように。」――彼はこのように言った。
Verse 70
एवमुक्त्वा मुनिः प्रागात् कुशेध्माहरणाय वै । चिन्तयन् मनसा तं च मणिं शत्रुविनाशनम् ॥ ११.७१ ॥
かく語り終えると、牟尼はクシャ草と薪を集めに出て行き、心中にてその宝珠――敵を滅するもの――を観想していた。
Verse 71
एवमुक्तस्तदा दूतो जगाम च नृपान्तिकम् । कथयामास तत्सर्वं यदुक्तं ब्राह्मणेन च ॥ ११.७२ ॥
そのように告げられた使者は王の御前へ赴き、婆羅門が語ったことを余すところなく報告した。
Verse 72
ततः क्रोधपरीतात्मा श्रुत्वा ब्राह्मणभाषितम् । दुर्जयः प्राह नीलाख्यं सामन्तं गच्छ माचिरम् । ब्राह्मणस्य मणिं गृह्य तूर्णमेहि यदृच्छया ॥ ११.७३ ॥
そのとき、婆羅門の言葉を聞いたドゥルジャヤは怒りに心を覆われ、ニーラと名づける臣従の武将に言った。「行け、遅れるな。婆羅門の宝珠を取り、いかなる手段でもよい、急ぎ戻れ。」
Verse 73
एवमुक्तस्तदा नीलो बहुसेनापरिच्छदः । जगाम स च विप्रस्य वन्याश्रममण्डलम् ॥ ११.७४ ॥
かく命じられたニーラは、多くの兵と従者を伴って出立し、婆羅門の森のアーシュラマの囲いへと赴いた。
Verse 74
तत्राग्निहोत्रशालायां दृष्ट्वा तं मणिमाहितम् । उत्तीर्य स्यन्दनान्नीलः सोऽवरोहत भूतले ॥ ११.७५ ॥
そこで、アグニホートラの堂にて宝珠が据えられているのを見たニーラは、戦車から降りて地に立った。
Verse 75
अवतीर्णे ततस्तस्मिन् नीले परमदारुणे । क्रूरबुद्ध्या मनेस्तस्मान्निर्जग्मुः शस्त्रपाणयः ॥ ११.७६ ॥
そののち彼がそこへ—濃い青黒く、きわめて恐るべき場所へ—降り立つと、残忍な意志に駆られた武器を手にする者たちが、心より生まれし者(マニ)から出現した。
Verse 76
सरथाः सध्वजाः साश्वाः सबाणाः सासिचर्मिणः । सधनुष्काः सतूणीराः योधाः परमदुर्जयाः ॥ निश्चेरुस्तं मणिं भित्वा असंख्येया महाबलाः ॥ ११.७७ ॥
旗と馬を備えた戦車に乗り、矢・剣・盾を具し、弓と矢筒を帯びた武人たち—戦においてきわめて攻略し難く、数知れず、偉大な力をもつ者ら—は、その摩尼の宝を打ち破って、どっと現れ出た。
Verse 77
तत्र सज्जा महाशूरा दश पञ्च च संख्यया । नामभिस्तान् महाभागे कथयामि श्रृणुष्व तान् ॥ ११.७८ ॥
そこには、備え整えた大勇士が十五人いた。幸いなる者よ、彼らの名を語ろう、よく聞きなさい。
Verse 78
सुप्रभो दीप्ततेजाश्च सुरश्मिः शुभदर्शनः । सुकान्तिः सुन्दरः सुन्दः प्रद्युम्नः सुमनाः शुभः ॥ ११.७९ ॥
「スプラバー(至上の輝き)、ディープタテージャス(燃え立つ威光)、スラシュミ(神なる光線)、シュバダルシャナ(吉祥なる相貌)、スカーンティ(麗しき光彩)、スンダラ(美しき者)、スンダ(悦ばしき者)、プラデュムナ、スマナー(善き心の者)、シュバ(吉祥なる者)。」
Verse 79
सुशीलः सुखदः शम्भुः सुदान्तः सोम एव च । एते पञ्चदश प्रोक्ता नायका मणितोत्थिताः ॥ ११.८० ॥
「スシーラ、スカダー、シャンブ、スダーンタ、そしてソーマもまた。」これら十五の導き手は、摩尼(宝珠)より生じたと宣言される。
Verse 80
ततो विरोचनं दृष्ट्वा बहुसैन्यपरिष्कृतम् । योधयामासुरव्यग्रा विविधायुधपाणयः ॥ ११.८१ ॥
そのとき、巨大な軍勢を整えて陣を敷くヴィローチャナを見て、彼らは戦いを切望し、さまざまな武器を手にして交戦した。
Verse 81
धनूंषि तेषां कनकप्रभाणि शरान् सुजाम्बूनदपुङ्खनद्धान् । पतन्ति खङ्गानि विभीषणानि भुशुण्डिशूलाः परमप्रधानाः ॥ ११.८२ ॥
彼らの弓は黄金のように輝き、矢は—精妙なジャンブーナダ金の羽を備えて—落ち、また恐るべき剣も落ちた。さらにブシュṇḍīの棍棒や最上の槍も共に落下した。
Verse 82
रथो रथं संपरिवार्य तस्थौ गजो गजस्यापि हयो हरस्य । पदातिरत्युग्रपराक्रमश्च पदातिमेव प्रससार चाग्र्यम् ॥ ११.८३ ॥
戦車は戦車を取り囲んで踏みとどまり、象は象に対し、馬は馬に相まみえた。さらに、きわめて猛き武勇をもつ歩兵が進み出て、まさしく先頭の歩兵に迫った。
Verse 83
द्वन्द्वान्यनेकानि तथैव युद्धे द्रवन्ति शूराः परिभर्त्सयन्तः । विभीषणं निर्गतचापमार्गं बभूव बाहुप्रभवं सुघोरम् ॥ ११.८४ ॥
戦場では多くの一騎打ちが同様に沸き起こり、勇士たちは罵り合い挑みつつ進んだ。すると、弓の射線へと踏み出したヴィビーシャナに向け、腕力より生じた最も恐ろしき飛び道具が現れた。
Verse 84
तथा प्रवृत्ते तुमुलेऽथ युद्धे हतः स राज्ञः सचिवो विसंज्ञः । सहानुगः सर्वबलैरुपेतो जगाम वैवस्वतमन्दिराय ॥ ११.८५ ॥
かくして凄烈なる戦が始まると、王の大臣は討たれて気絶した。従者を伴い、全軍に囲まれて、彼はヴァイヴァスヴァタ(ヤマ)の住処へ赴いた――すなわち死に至った。
Verse 85
तस्मिन् हते दुर्जयराजमन्त्रिणि उपाययौ स्वेन बलेन राजा । स दुर्जयः साश्वरथोऽतितीव्रः प्रतापवांस्तैर्मणिजैर्यuyodha ॥ ११.८६ ॥
ドゥルジャヤの王臣が討たれるや、王は自らの軍勢を率いて進み出た。馬に牽かれた戦車に乗るドゥルジャヤは、きわめて迅速にして武威盛んに、彼らの戦士と戦った。
Verse 86
ततस्तस्मिंस्तदा राज्ञो महत्कदनमाबभौ । ततो हेतुप्रहेत्रीभ्यां श्रुत्वा जामातरं रणे ॥ ११.८७ ॥
その時、そこに王にとって大いなる殺戮が起こった。ついで、事を起こした者と実行した者らから、戦場の婿のことを聞き及ぶと、(それに応じて動いた)。
Verse 87
युध्यमानं महाबाहुं ततस्त्वाययतुश्चमूः । तस्मिन् बले तु दैत्या ये तान् शृणुष्व धरिरितान् ॥ ११.८८ ॥
その大いなる腕を持つ者が戦っている間に、軍勢は進み来た。さて、その軍中にいたダイティヤたちについては、ハリが述べるとおりに聞け。
Verse 88
प्रघसो विघसश्चैव सङ्घसोऽशनिसप्रभः । विद्युत्प्रभः सुघोषश्च उन्मत्ताक्षो भयङ्करः ॥ ११.८९ ॥
「その名はプラグハサ、ヴィグハサ、そしてサンガハサ。さらにアシャニサプラバ(雷霆のごとき光輝)、ヴィデュトプラバ(稲妻のごとき光輝)、スゴーシャ(吉祥にして轟く声)、ウンマッタークシャ(狂気めく眼)、バヤンカラ(恐怖を起こす者)である。」
Verse 89
अग्निदन्तोऽग्नितेजाश्च बाहुशक्रः प्रतर्दनः । विराधो भीमकर्मा च विप्रचित्तिस्तथैव च ॥ ११.९० ॥
アグニダンタとアグニテージャス、バーフシャクラとプラタルダナ、ヴィラーダとビーಮಕルマン、そして同じくヴィプラチッティである。
Verse 90
एते पञ्चदश श्रेष्ठा असुराः परमायुधाः । अक्षौहिणीपरिवार एकैकोऽत्र पृथक्पृथक् ॥ ११.९१ ॥
この十五の卓越せるアスラたちは至上の武器を備え、ここにいる各々が別々に、一アクシャウヒニー(akṣauhiṇī)の軍勢を従えていた。
Verse 91
महामायास्तु समरे दुर्ज्जयस्य महात्मनः । युयुधुर्मणिजैः सार्द्धं महासैन्यपरिच्छदाः ॥ ११.९२ ॥
ついで戦場において、マハーマーヤーたちはマニジャらと共に、大軍の備えを整え、難攻不落の大魂ドゥルッジャヤのために戦った。
Verse 92
सुप्रभः प्रघसं त्वाजौ ताडयामास पञ्चभिः । शरैराशीविषाकारैः प्रतप्तैः पतगैरिव ॥ ११.९३ ॥
戦いにおいてスプラバは、毒蛇の形にして灼熱せる五本の矢でプラガサを打った。まるで燃えさかる飛鳥のごとくであった。
Verse 93
तप्ततेजास्त्रिभिर्बाणैर्विघसं संप्रविध्यत । संघसं दशभिर्बाणैः सुरश्मिः प्रत्यविध्यत ॥ ११.९४ ॥
タプタテージャスは三本の矢でヴィガサを射抜き、スラシュミは返して十本の矢でサンガサを射抜いた。
Verse 94
अशनिप्रभं रणेऽविध्यत् पञ्चभिः शुभदर्शनः । विद्युत्प्रभं सुकान्तिस्तु सुघोषं सुन्दरस्तथा ॥ ११.९५ ॥
戦場にて麗しきシュバダルシャナは五本の矢でアシャニプラバーを射、スカーンティはヴィディユトプラバーを射た。さらにスンダラもまたスゴーシャを射た。
Verse 95
उन्मत्ताक्षं तथाविध्यत् सुन्दः पञ्चभिराशुगैः । चकर्त च धनुस्तस्य शितेन नतपर्वणा ॥ ११.९६ ॥
そのときスンダは、俊速の矢五本でウンマッタाक्षを射抜き、さらに節の曲がった鋭い矢でその弓をも断ち切った。
Verse 96
सुमना अग्निदंष्ट्रं तु सुषुभश्चाग्नितेजसम् । सुशीलो वायुषक्रं तु सुमुखश्च प्रतर्दनम् ॥ ११.९७ ॥
「スーマナーはアグニダンシュトラ、スシュバはアグニテージャサ。スシーラはヴァーユシャクラ、そしてスムカはプラタルダナである。」
Verse 97
विराधेन तथा शम्भुः सुकीर्तिर्भीमकर्म्मणा । विप्रचित्तिस्तथा सोमं एतद्युद्धं महानभूत् ॥
同様に、シャンブはヴィラーダと戦い、スキールティはビーಮಕर्मणと相まみえ、ヴィプラचित्तिはソーマと交戦した――かくしてこの戦は甚大となった。
Verse 98
परस्परं सुयुद्धेन योद्धयित्वाऽस्त्रलाघवात् । यथासंख्येन ते दैत्याḥ पुनर्मणिभवैर्हताः ॥ ११.९९ ॥
彼らは互いに拮抗した戦いを繰り広げ、武器を迅速に繰り出す妙技によって、ダイティヤたちは क्रमに従い再びマニभवたちに討ち倒された。
Verse 99
यावत् संग्रामघोरो वै महांस्तेषां व्यवर्धत । तावत् समित्कुशादीनि कृत्वा गौरमुखो मुनिः ॥ ११.१०० ॥
彼らの間でその恐るべき戦がいよいよ激しさを増している間、聖仙ガウラमुखは薪となる供木、クシャ草などの祭式の具を整え備えた。
Verse 100
आगतॊ महदाश्चर्यं संग्रामं भीमदर्शनम् । बहुसैन्यपरिवारं स्थितं तं चापि दुर्ज्जयम् ॥ ११.१०१ ॥
大いなる奇瑞が現れた。恐るべき相を呈する戦いが、多くの軍勢に取り囲まれてそこに立ち、まことに征服し難かった。
Verse 101
एवं कृत्वा मणिकृतं रौद्रं गाढं च संयुगम् । चिन्तयामास देवेशं हरिं गौरमुखो मुनिः ॥ ११.१०३ ॥
このように宝珠に関わる、猛々しく緊密に組み合う戦いを起こしたのち、牟尼ガウラムカは神々の主ハリを念じた。
Verse 102
स देवः पुरतस्तस्य पीतवासाः खगासनः । किमत्र ते मया कार्यमिति वाणीमुदीरयत् ॥ ११.१०४ ॥
その神は黄衣をまとい、ガルダに坐して彼の前に現れ、こう言葉を発した。「ここで、汝のために我がなすべきことは何か。」
Verse 103
स ऋषिः प्राञ्जलिर्भूत्वा उवाच पुरुषोत्तमम् । जहीमं दुर्ज्जयं पापं ससैन्यं परिवारिणम् ॥ ११.१०५ ॥
その聖仙は合掌して至上者プルショत्तマに申し上げた。「この罪深く、征服し難き者を、その軍勢と周囲の従者もろとも滅ぼしたまえ。」
Verse 104
एवमुक्तस्तदा तेन चक्रं ज्वलनसन्निभम् । मुमोच दुर्जयबले कालचक्रं सुदर्शनम् ॥ ११.१०६ ॥
かく請われたその時、彼は燃え盛る火に似た、無敵の時輪たるスダルシャナの輪を、征服し難き力をもつ敵に向けて放った。
Verse 105
तेन चक्रेण तत्सैन्यमासुरं दुर्जयं क्षणात् । निमेषान्तरमात्रेण भस्मवद् बहुधा कृतम् ॥ ११.१०७ ॥
その円盤によって、たちまちのうちに、討ち難きアスラの軍勢は、ひとたび瞬く間に、灰のごとく多くの断片へと砕かれた。
Verse 106
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलम् ॥ ११.१०८ ॥
かく成し遂げてのち、神はその時、聖仙ガウラムカに告げた。「瞬く間に、このダーナヴァの軍勢は討ち滅ぼされた。」
Verse 107
अरण्येऽस्मिंस्ततस्त्वेवं नैमिषारण्यसंज्ञितम् । भविष्यति यथार्थं वै ब्राह्मणानां विशेषतः ॥ ११.१०९ ॥
そののち、この森はまことに「ナイミシャーラニヤ」と呼ばれるであろう。名の義にかなうその名は、とりわけバラモンたちに関わって顕著となる。
Verse 108
अहं च यज्ञपुरुष एतस्मिन् वनगोचरे । नाम्ना याज्या सदा चेमे दश पञ्च च नायकाः । कृते युगे भविष्यन्ति राजानो मणिजा मुने ॥ ११.११० ॥
「そして我はこの森の領域におけるヤジュニャ・プルシャ(祭祀の霊体)である。名においては『ヤージャー』と呼ばれ、またこの十五人の首長は常に(ここに)在る。クリタ・ユガにおいて、聖仙よ、彼らはマニジャーより生まれ、王となるであろう。」
Verse 109
एवमुक्त्वा ततो देवो गतोऽन्तर्धानमीश्वरः । द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ॥ ११.१११ ॥
かく語り終えると、主なる神、自在者は姿を隠して去った。二度生まれの者(ブラーフマナ)もまた、自らの庵にとどまり、至上の歓喜に満たされた。
Verse 110
पाठभेदः सुमना अग्निदंष्ट्रं तु सुवेदश्चाग्नितेजसम् ॥
異読:(名・異名)スーマナー(Sumanā)、アグニダンシュトラ(Agnidaṃṣṭra)、スヴェーダ(Suveda)、および(火の)輝きを具える者。
Verse 111
सुनलो वायुषक्रौ तु सुवेदस्तु प्रतर्दनम् ॥
スナラ(Sunala)、ヴァーユシャクラ(Vāyuśakra)、スヴェーダ(Suveda)、プラタルダナ(Pratardana)—これらが名・異名として列挙される。
Verse 112
११.१००
この項目は偈番号「11.100」を示す標記のみで、提示された入力には本文が付されていないようである。
Verse 113
एवं स्नात्वा शुभे वस्त्रे परिधायोत्तमे तथा । विविधान्नं तु विधिना बुभुजे स नृपोत्तमः ॥
かくして沐浴し、最上にして吉祥なる衣をまといしのち、その優れた王は、正しき作法に従って種々の食を召し上がった。
The narrative contrasts ātithya-dharma (the obligation to host and sustain guests without coercion) with royal covetousness and extraction. Gauramukha’s reliance on stuti and disciplined intent (bhāva) produces abundance framed as orderly provision, while Durjaya’s attempt to appropriate the jewel converts abundance into conflict and leads to punitive restoration of order.
The chapter marks time through a full day of feasting ending at sunset and an extended night description using lunar/astral imagery (śaśāṅka/candra, Rohiṇī, Rāhu, Budha, Ketu, and other celestial references). No explicit tithi, māsa, or seasonal rite-prescription is stated, but the narrative uses night-sky markers to frame the passage from hospitality to attempted theft.
Through the hymn, Viṣṇu is described as present in water (jala), earth (kṣiti), fire (tejas), wind (vāyu), and space (vyoman), implying that material plenitude is grounded in a cosmic-terrestrial continuum rather than mere human control. The hermitage’s gardens, groves, and provisioning imagery model abundance as cultivated and distributed; the violence triggered by greed functions as a caution against destabilizing that balance through coercive appropriation.
The central figures are King Durjaya and the sage Gauramukha; Viṣṇu/Nārāyaṇa appears and later declares the site Naimiṣāraṇya. Named groups include fifteen leaders emerging from the jewel (e.g., Suprabha, Suraśmi, Sukānti, Sundara, Sunda, Pradyumna, Sumanas, Suśīla, Śambhu, Sudanta, Soma, etc.) and fifteen opposing asura leaders (e.g., Praghasa, Vighasa, Saṅghasa, Aśaniprabha, Vidyutprabha, Unmattākṣa, Vipracitti, etc.), presented as martial-catalogues rather than genealogical dynasties.