नियमः स्वात्मेन्द्रियनिग्रहः। भयमोहशोकक्रोधत्यागस्त्यागः। अनियामकत्वनिर्मलशक्तिः। स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटितप्रपञ्चच्छेदनम्। तथा पात्राक्षाक्षिकमण्डलुः। भवाभावदहनम्। बिभ्रत्याकाशाधारम्। शिवं तुरीयं यज्ञोपवीतम्। तन्मया शिखा। चिन्मयं चोत्सृष्टिदण्डम्। सन्तताक्षिकमण्डलुम्। कर्मनिर्मूलनं कन्था। मायाममताहङ्कारदहनम्। श्मशाने अनाहताङ्गी। निस्त्रैगुण्यस्वरूपानुसन्धानं समयम्। भ्रान्तिहरणम्। कामादिवृत्तिदहनम्। काठिन्यदृढकौपीनम्। चीराजिनवासः। अनाहतमन्त्रः। अक्रिययैव जुष्टम्। स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म। प्लववदाचरणम्। ब्रह्मचर्यशान्तिसंग्रहणम्। ब्रह्मचर्याश्रमेऽधीत्य सर्वसंविन्न्यासं संन्यासम्। अन्ते ब्रह्माखण्डाकारम्। नित्यं सर्वसन्देहनाशनम्॥
नियमः । स्वात्म-इन्द्रिय-निग्रहः । भय-मोह-शोक-क्रोध-त्यागः । त्यागः । अनियामकत्व-निर्मल-शक्तिः । स्व-प्रकाश-ब्रह्म-तत्त्वे । शिव-शक्ति-सम्पुटित-प्रपञ्च-च्छेदनम् । तथा । पात्र-अक्ष-अक्षि-क-मण्डलुः । भव-अभाव-दहनम् । बिभ्रति । आकाश-आधारम् । शिवम् । तुरीयम् । यज्ञोपवीतम् । तत्-मया । शिखा । चिन्मयम् । च । उत्सृष्ट-दण्डम् । सन्तत-अक्षि-क-मण्डलुम् । कर्म-निर्मूलनम् । कन्था । माया-अममता-अहङ्कार-दहनम् । श्मशाने । अनाहत-अङ्गी । निः-त्रैगुण्य-स्वरूप-अनुसन्धानम् । समयम् । भ्रान्ति-हरणम् । काम-आदि-वृत्ति-दहनम् । काठिन्य-दृढ-कौपीनम् । चीर-अजिन-वासः । अनाहत-मन्त्रः । अक्रियया एव । जुष्टम् । स्वेच्छा-आचार-स्व-स्वभावः । मोक्षः । परम् । ब्रह्म । प्लववत् । आचरणम् । ब्रह्मचर्य-शान्ति-संग्रहणम् । ब्रह्मचर्य-आश्रमे । अधीत्य । सर्व-संवित्-न्यासम् । संन्यासम् । अन्ते । ब्रह्म-अखण्ड-आकारम् । नित्यम् । सर्व-सन्देह-नाशनम् ॥
niyamaḥ svātmendriyanigrahaḥ | bhayamohśokakrodhatyāgas tyāgaḥ | aniyāmakatvanirmalaśaktiḥ | svaprakāśabrahmatattve śivaśaktisampuṭitaprapañcacchedanam | tathā pātrākṣākṣikamaṇḍaluḥ | bhavābhāvadahanam | bibhraty ākāśādhāram | śivaṃ turīyaṃ yajñopavītam | tanmayā śikhā | cinmayaṃ cotsṛṣṭidaṇḍam | santatākṣikamaṇḍalum | karmanirmūlanaṃ kanthā | māyāmamatāhaṅkāradahanam | śmaśāne anāhatāṅgī | nistraiguṇyasvarūpānusandhānaṃ samayam | bhrāntiharaṇam | kāmādivṛttidahanam | kāṭhinyadṛḍhakaupīnam | cīrājinavāsaḥ | anāhatamantraḥ | akriyayāiva juṣṭam | svecchācārasvasvabhāvo mokṣaḥ paraṃ brahma | plavavad ācaraṇam | brahmacaryaśāntisaṃgrahaṇam | brahmacaryāśrame 'dhītya sarvasaṃvinnāsaṃ saṃnyāsam | ante brahmākhaṇḍākāram | nityaṃ sarvasandehanāśanam ||
Mantra ini sama dengan Nirvana.58: niyama adalah pengendalian diri dan indria; tyāga adalah meninggalkan takut, delusi, duka, dan amarah; dan tanda-tanda lahir saṃnyāsa ditafsirkan sebagai realisasi batin—kesaksian yang terus-menerus, tanpa-pelaku, pembakaran māyā dan ego—yang berpuncak pada berdiam sebagai Brahman yang tak terbagi, pemusnah segala keraguan.
Same as Nirvana.58 (the provided Nirvana.59 text is identical): it defines niyama as self-and-sense control, tyāga as abandoning fear/delusion/grief/anger, and interprets saṃnyāsa insignia as inner realizations culminating in abiding as indivisible Brahman that destroys all doubts.