Prashna
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि सन्तता शिवां तां कुरु मा उत्क्रमीः ॥१२॥
या । ते । तनूः । वाचि । प्रतिष्ठिता । या । श्रोत्रे । या । च । चक्षुषि । या । च । मनसि । सन्तता । शिवाम् । ताम् । कुरु । मा । उत्क्रमीः ॥१२॥
yā te tanūr vāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi | yā ca manasi santatā śivāṃ tāṃ kuru mā utkramīḥ ||12||
Esa forma tuya establecida en el habla, en el oído y en el ojo, y extendida en la mente: hazla auspiciosa; no te apartes, no te marches.
That form of yours which is established in speech, which (is established) in the ear, and which in the eye, and which is extended in the mind—make that auspicious (form) (remain); do not depart.