Sukta 9.21
वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् । सिन्धोरूर्मा व्यक्षरन् ॥
वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् । सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥
vṛ́thā krī́ḷanta índavaḥ sadhástham abhyékam ít | síndhor ūrmā́ vyàkṣaran ||
In free play the Soma-drops sport; they stream together to one common seat, and like the wave of the river they pour out and spread—so the many movements of delight converge into a single foundation of consciousness.
वृथा॑ । क्रीळ॑न्तः । इन्द॑वः । स॒धऽस्थ॑म् । अ॒भि । एक॑म् । इत् । सिन्धोः॑ । ऊ॒र्मा । वि । अ॒क्ष॒र॒न् ॥वृथा । क्रीळन्तः । इन्दवः । सधस्थम् । अभि । एकम् । इत् । सिन्धोः । ऊर्मा । वि । अक्षरन् ॥vṛthā | krīḷantaḥ | indavaḥ | sadha-stham | abhi | ekam | it | sindhoḥ | ūrmā | vi | akṣaran