Sukta 9.21
प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । स्वयं स्तोत्रे वयस्कृतः ॥
प्र॒वृ॒ण्वन्तो॑ अभि॒युज॒: सुष्व॑ये वरिवो॒विद॑: । स्व॒यं स्तो॒त्रे व॑य॒स्कृत॑: ॥
pravṛṇvánto abhiyújaḥ súṣvaye varivo-vídaḥ | svayáṃ stotré vayaḥ-kṛ́taḥ ||
They press forward, harnessed for the onset, for the good pressing; finders of the wide room, they themselves fashion in the hymn the increase of life—building a greater vitality in the being by the right chant.
प्र॒ऽवृ॒ण्वन्तः॑ । अ॒भि॒ऽयुजः॑ । सुस्व॑ये । व॒रि॒वः॒ऽविदः॑ । स्व॒यम् । स्तो॒त्रे । व॒यः॒ऽकृतः॑ ॥प्रवृण्वन्तः । अभियुजः । सुस्वये । वरिवःविदः । स्वयम् । स्तोत्रे । वयःकृतः ॥pra-vṛṇvantaḥ | abhi-yujaḥ | susvaye | varivaḥ-vidaḥ | svayam | stotre | vayaḥ-kṛtaḥ