Sukta 2.13
प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते । असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
प्र॒जाभ्य॑: पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते । असि॑न्व॒न्दंष्ट्रै॑: पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑: ॥
prajā́bhyaḥ púṣṭiṃ vi-bhájanta āsate rayím iva pṛṣṭháṃ pra-bhávantam āyáte | asínvan dáṃṣṭraiḥ pitúr atti bhójanam yás tā́kṛṇoḥ prathamáṃ sá āsy ukthyáḥ ||
They sit distributing nourishment to the becomings, as one lays a wealth upon a supporting back that can bear and increase it. The unsated one eats with his teeth the father’s food—he who first shaped those powers; he indeed is the true subject of the hymn.
प्र॒ऽजाभ्यः॑ । पु॒ष्टिम् । वि॒ऽभज॑न्तः । आ॒स॒ते॒ । र॒यिम्ऽइ॑व । पृ॒ष्ठम् । प्र॒ऽभव॑न्तम् । आ॒ऽय॒ते । असि॑न्वन् । दंष्ट्रैः॑ । पि॒तुः । अ॒त्ति॒ । भोज॑नम् । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥प्रजाभ्यः । पुष्टिम् । विभजन्तः । आसते । रयिम्इव । पृष्ठम् । प्रभवन्तम् । आयते । असिन्वन् । दंष्ट्रैः । पितुः । अत्ति । भोजनम् । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥pra-jābhyaḥ | puṣṭim | vi-bhajantaḥ | āsate | rayim-iva | pṛṣṭham | pra-bhavantam | āyate | asinvan | daṃṣṭraiḥ | pituḥ | atti | bhojanam | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ