Sukta 2.13
अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते । विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते । विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑: ॥
anvéko vadati yád dadā́ti tád rūpā́ minán tád-apā́ eka īyate | viśvā́ ékasya vi-núdas titikṣate yás tā́kṛṇoḥ prathamáṃ sá āsy ukthyáḥ ||
One follows and declares what he gives; yet he alters the forms of that gift. One alone moves as the waters themselves. All the repulsions and thrusts against the One are borne and endured by him—he who first shaped those powers; he indeed is the true subject of the hymn.
अनु॑ । एकः॑ । व॒द॒ति॒ । यत् । ददा॑ति । तत् । रू॒पा । मि॒नन् । तत्ऽअ॑पाः । एकः॑ । ई॒य॒ते॒ । विश्वाः॑ । एक॑स्य । वि॒ऽनुदः॑ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥अनु । एकः । वदति । यत् । ददाति । तत् । रूपा । मिनन् । तत्अपाः । एकः । ईयते । विश्वाः । एकस्य । विनुदः । तितिक्षते । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥anu | ekaḥ | vadati | yat | dadāti | tat | rūpā | minan | tat-apāḥ | ekaḥ | īyate | viśvāḥ | ekasya | vi-nudaḥ | titikṣate | yaḥ | tā | akṛṇoḥ | prathamam | saḥ | asi | ukthyaḥ