Sukta 2.13
अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः । तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्त्सास्युक्थ्यः ॥
अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः । तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्त्सास्यु॒क्थ्य॑: ॥
ádhākṛṇoḥ pṛthivī́ṃ saṃ-dṛ́śe divé yó dhautī́nām ahi-hán ā́riṇak páthaḥ | táṃ tvā stómebhir udábhir ná vājínaṃ deváṃ devā́ ajanann sá āsy ukthyáḥ ||
Then you made the Earth a counterpart in vision to Heaven; you, slayer of the serpent for the shining ones, opened the paths. You—like a steed of plenitude—by hymns and uplifted waters the gods brought forth as a god; he indeed is the true subject of the hymn.
अध॑ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्ऽदृशे॑ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒ऽह॒न् । अरि॑णक् । प॒थः । तम् । त्वा॒ । स्तोमे॑भिः । उ॒दऽभिः॑ । न । वा॒जिन॑म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥अध । अकृणोः । पृथिवीम् । सम्दृशे । दिवे । यः । धौतीनाम् । अहिहन् । अरिणक् । पथः । तम् । त्वा । स्तोमेभिः । उदभिः । न । वाजिनम् । देवम् । देवाः । अजनन् । सः । असि । उक्थ्यः ॥adha | akṛṇoḥ | pṛthivīm | sam-dṛśe | dive | yaḥ | dhautīnām | ahi-han | ariṇak | pathaḥ | tam | tvā | stomebhiḥ | uda-bhiḥ | na | vājinam | devam | devāḥ | ajanan | saḥ | asi | ukthyaḥ