Atma
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः । घटे नष्टे यथा व्योम व्योमैव भवति स्वयम् ॥२२॥
तथा । एव । ब्रह्म-वित्-श्रेष्ठः । सदा । ब्रह्म । एव । न । अपरः । घटे । नष्टे । यथा । व्योम । व्योम । एव । भवति । स्वयम् ॥२२॥
tathaiva brahmavicchreṣṭhaḥ sadā brahmaiva nāparaḥ | ghaṭe naṣṭe yathā vyoma vyomaiva bhavati svayam ||22||
তদ্ৰূপে ব্ৰহ্মবিদসকলৰ শ্ৰেষ্ঠজন সদা ব্ৰহ্মেই, আন নহয়; ঘট নষ্ট হ’লে ভিতৰৰ আকাশ স্বয়ং মহাকাশেই হৈ থাকে।
So too, the best of knowers of Brahman is always Brahman alone, not other; as when a pot is destroyed, the space (within) becomes space alone by itself.