Adhyaya 39
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 39

Adhyaya 39

本章以礼仪性的朝圣行程贯穿神学阐释:自在天(Īśvara)向大女神(Mahādevī)宣说普拉婆娑(Prabhāsa)之“计达罗”(Kedāra)林伽的功德。此林伽为自现(svayaṃbhū),为湿婆所爱,近毗摩伊湿伐罗(Bhīmeśvara)而住;在前一劫曾名“鲁陀罗伊湿伐罗”(Rudreśvara)。因惧与弥勒叉(mleccha)接触而受污,故隐没沉藏,后于人间显名为“计达罗”。 经文继而规定修持次第:先浴于咸海,再至钵摩迦圣池/圣井(Padmaka tīrtha/kuṇḍa)沐浴,随后礼拜鲁陀罗主(Rudreśa)与计达罗;尤重十四日(caturdaśī)与湿婆夜(Śivarātri)通宵守夜(ekaprajāgara),称其福德最胜。其间插入长篇传说:舍沙宾度王(Śaśabindu)于明半月十四日抵普拉婆娑,见诸仙修持诵念(japa)与火供(homa),先礼索摩那他(Somnātha),复往计达罗行守夜。被恰瓦那(Cyavana)、耶若婆迦(Yājñavalkya)、那罗陀(Nārada)、阇弥尼(Jaimini)等仙人问及缘由时,王述前生:曾为首陀罗(Śūdra),值饥荒采罗摩湖(Rāma-saras)莲花而不得售,遂遇名为阿难伽伐蒂(Anaṅgavatī)的歌伎主持,在 वृद्ध/鲁陀罗伊湿伐罗林伽前行湿婆夜守夜。因无食而“无心”成斋戒,又沐浴、献莲、通宵不眠,遂得来世王权,并记其因。 章末宣说果报(phala):礼敬此林伽能灭重罪,圆满人间诸愿;阿难伽伐蒂亦以同一守夜功德升为天女(apsaras)。

Shlokas

Verse 1

ईश्वर उवाच । अथ संपूज्य विधिना देवदेवं कपर्द्दिनम् । ततो गच्छेन्महादेवि लिगं केदारसंस्थितम्

自在天(Īśvara)说道:“依仪轨恭敬供奉天中之天迦跋尔丁(湿婆)之后,噢大天女,当往那座安立为‘计陀罗’的林伽而行。”

Verse 2

तस्यैवाग्नेयभागस्थं भीमेश्वरसमीपगम् । स्वयंभूतं महादेवि कल्पलिंगं मम प्रियम्

“就在那处,于东南方位,近毗摩伊湿伐罗处,有一座自显林伽,噢大天女——那是我所钟爱的‘劫林伽’(Kalpa-liṅga)。”

Verse 3

मया संपूजितं देवि वृद्धिलिंग महाप्रभम् । निराहारस्तु यस्तत्र करोत्येकं प्रजागरम्

“女神啊,那威德炽盛的‘增长林伽’(Vṛddhi-liṅga)已由我亲自供奉。凡在彼处持斋不食,并守一夜清醒之瑜伽守夜者……”

Verse 4

चतुर्दश्यां विशेषेण तस्य लोकाः सनातनाः । रुद्रेश्वरेति देवस्य त्वासीन्नाम पुरा युगे

尤其在月相第十四日(Caturdaśī)之时,祂的诸世界恒常不灭。于远古诸劫,此神昔名为“鲁德雷湿伐罗”(Rudreśvara)。

Verse 5

तिष्येस्मिंस्तु पुनः प्राप्ते म्लेच्छस्पर्शभयातुरः । अस्मिंल्लिंगे लयं यातः केदारश्चाब्धिसंनिधौ

然而当“提沙”(Tiṣya)时期再度来临时,凯达拉(Kedāra)因惧与弥勒叉(Mleccha)相触而忧惶,遂于海滨之侧,融入此灵伽之中而归于寂灭。

Verse 6

तेन केदारनामेति तस्य ख्यातं धरातले । माघे मासि यताहारः स्नात्वा तु लवणोदधौ

因此,它在大地上以“凯达拉”(Kedāra)之名而闻名。于摩伽月(Māgha),节制饮食,沐浴于咸海之中……

Verse 7

पद्मके तु महाकुंडे मध्येस्य लवणांभसः । रुद्रेशाद्दक्षिणे भागे धनुषां दशके स्थिते

在宏大的“莲华池”(Padmaka)中,于这咸水之间,自鲁德雷沙(Rudreśa)之南,距十“弓长”(dhanu)之处……

Verse 8

स्नात्वा विधानतो देवि रुद्रेशं चार्चयिष्यति । सम्यक्केदारया त्रायाः फलं तस्य भविष्यति

女神啊,依仪轨沐浴之后,当礼敬供奉鲁德雷沙(Rudreśa);如此,凯达拉(Kedāra)救护之恩(trā)的圆满果报,必归于彼。

Verse 9

ब्रह्महत्यादिपापानां पूजनान्नाशनं महत् । अथ तस्यैव देवस्य इतिहासं पुरातनम्

礼拜供奉能大大消灭诸罪,如梵杀罪(brahmahatyā)。如今将讲述那位神祇本身的古老事迹。

Verse 10

सर्वकामप्रदं नृणां कथ्यते ते सुरप्रिये । आसीद्राजा पुरा देवि शशबिंदुरिति श्रुतः

天众所爱者啊,我将向你宣说那能赐予世人一切所愿之事。往昔,女神啊,曾有一位国王,名闻为舍沙宾度(Śaśabindu)。

Verse 11

सार्वभौमो महीपालो विपक्षगणसूदनः । कलिद्वापरयोः संधौ सभूतः पृथिवीपतिः

曾有一位普世之王,护持大地,摧灭敌对之众;此王出现在二婆罗(Dvāpara)与迦梨(Kali)两劫交接之时。

Verse 12

तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी । न देवी न च गन्धर्वी नासुरी न च पन्नगी

他的王后乃贞淑贤良,较其性命更为珍爱;她既非天女,亦非乾闼婆女,非阿修罗女,也非那伽族的少女。

Verse 13

तादृग्रूपा वरारोहे यथाऽस्य शुभलोचना । तस्य हेममयं पद्मं शतपत्रं मनोरमम्

噢,腰胯娴美的淑女,她的形貌如此——双眸吉祥清净。并且他拥有一朵金制莲华,百瓣庄严,悦意殊妙。

Verse 14

खेचरं वेगि नित्यं च तस्य राज्ञो महात्मनः । स तेन पर्यटंल्लोकान्सर्वान्देवि स्वकामतः

那位伟大的国王拥有一乘行于虚空的天行之乘,迅疾而常备。凭此,噢天女(Devī),他随心所欲周游一切世界。

Verse 15

एकदा फाल्गुने मासि शुक्लपक्षे वरानने । चतुर्द्दश्यां तु संप्राप्तः प्रभासक्षेत्रमुत्तमम्

有一次,在法尔古那月的白半月中——噢,美颜者——于第十四日月相之时,他抵达了最殊胜的普拉婆娑圣域。

Verse 16

अथापश्यदृषीन्सर्वाञ्छ्रीसोमेशपुरःस्थितान् । रात्रौ जागरणार्थाय जपहोमपरायणान्

随后他看见诸位仙圣皆立于圣城娑摩伊湿伐罗(Someśvara)之前,为守夜而警醒,专注于持诵(japa)与火供(homa)。

Verse 17

स दृष्ट्वा सोमनाथं तु प्रणिपत्य विधानतः । पूजयामास सर्वां स्तान्यथार्हं भक्तिसंयुतः

他瞻仰娑摩那他(Somanātha)后,依仪轨恭敬顶礼;满怀虔敬之心,又如法如宜地礼敬供养众人。

Verse 18

ततः केदारमासाद्य संस्नाप्य विधिवत्प्रिये । पूजयित्वा विचित्राभिः पुष्पमालाभिरीश्वरम्

其后他抵达计达罗(Kedāra),噢挚爱者,依仪轨为主沐浴;又以奇妙华鬘供奉自在天(Īśvara)。

Verse 19

नैवेद्यैर्विविधैर्वस्त्रैर्भूषणैश्च मनोहरैः । ततोऽत्र कारयामास जागरं सुसमाहितः

他以种种供食(naivedya)、衣服与悦目的饰物来庄严供奉;随后心神安住,令彼处举行通宵守夜的圣行(jāgara)。

Verse 20

ततस्ते मुनयः सर्वे कुतूहलसमन्विताः । च्यवनो याज्ञवल्क्यश्च शांडिल्यः शाकटायनः

随后,诸位仙贤皆怀好奇而来——赤婆那(Cyavana)、耶若婆罗迦(Yājñavalkya)、商提利耶(Śāṇḍilya)与沙迦多耶那(Śākaṭāyana)——一同聚集于彼处。

Verse 21

रैभ्योऽथ जैमिनिः क्रौंचो नारदः पर्वतः शिलः । मार्कंडं पुरतः कृत्वा जग्मुस्तस्य समीपतः

继而,赖毗耶(Raibhya)、阇弥尼(Jaimini)、鸠阑遮(Krauñca)、那罗陀(Nārada)、帕尔瓦塔(Parvata)与尸罗(Śila)——推举摩尔迦ṇḍa(Mārkaṇḍa)在前——前往并近前拜见他。

Verse 22

चक्रुः कथाः सुविचित्रा इतिहासानि भूरिशः । कीर्त्तयंतः स्थितास्तत्र पप्रच्छू राजसत्तमम्

他们讲述了许多奇妙的故事与众多古昔传记;并且停留其间,一边称颂复述,一边向那位最胜之王发问。

Verse 23

ऋषय ऊचुः । कस्मात्सोमेश्वरं देवं परित्यज्य नराधिप । केदारस्य पुरोऽकार्षीर्जागरं तद्ब्रवीहि नः । नूनं वेत्सि फलं चास्य लिंगस्य त्वं महोदयम्

诸仙人说道:“噢,人中王者!你为何舍离苏摩伊湿伐罗(Someśvara)之神,而在计达罗(Kedāra)之前守夜?请告知我们。想必你这位高贵者,必知礼敬此灵伽(liṅga)所得之果报。”

Verse 24

राजोवाच । शृण्वंतु ब्राह्मणाः सर्वे अन्यदेहोद्भवं मम । पुराऽहं शूद्रजातीय आसं ब्राह्मणपूजकः

国王说道:“愿诸位婆罗门都来聆听我前世之身的往事。往昔我生于首陀罗之族,却虔诚敬奉、礼敬诸婆罗门。”

Verse 25

सौराष्ट्रविषये शुभ्रे धनधान्यसमाकुले । अथ कालांतरे तत्र अनावृष्टिरभूद्द्विजाः

在清净美好的娑罗湿吒国土,财宝与谷粮充盈;然而过了一段时日,噢诸位二次生者,那地方竟起旱灾,久无甘雨。

Verse 26

ततोऽहं क्षुधयाविष्टः प्रभासं क्षेत्रमास्थितः । अथापश्यं सरः शुभ्रं हरिणीमूलसंस्थितम्

随后我为饥饿所逼,来到圣域普罗婆娑而居。其处我见一泓明净闪耀的湖水,近在一只母鹿栖息之根旁。

Verse 27

तच्च रामसरोनाम पद्मिनीषण्डमंडितम् । क्षीरोदांबुधिसंकाशं दृष्ट्वा स्नातः क्लमान्वितः

那湖名为“罗摩萨罗”,以丛丛莲华为饰。见其光洁如乳海,我虽疲惫,仍在彼处沐浴。

Verse 28

संतर्प्य च पितॄन्देवान्पीत्वा स्वच्छमथोदकम् । ततोऽहं भार्यया प्रोक्तो गृहाणेमान्सरोरुहान्

我既以供养令祖灵(Pitṛ)与诸天欢喜,又饮了清澈之水;随后妻子对我说:“把这些莲华取去吧。”

Verse 29

एतत्समीपतो रम्यं दृश्यते स्थानमुत्तमम् । विक्रीणीमोऽत्र गत्वा तु येन स्याद्भोजनं विभो

在此附近可见一处清丽殊胜之地。让我们前往那里售卖这些莲花,好得食物,噢主宰。

Verse 30

अथावतीर्य सलिलं गृहीतानि मया द्विजाः । कमलानि सुभू रीणि प्रस्थितश्च पुरं प्रति

随后我下入水中,噢诸位二生者,我采取了许多美好的莲花,便启程朝城中而去。

Verse 31

तत्र गत्वा च रथ्यासु चत्वरेषु त्रिकेषु च । प्रफुल्लकमलान्येव क्रेतुं वै मुनिसत्तमाः

到了那里,噢最胜的牟尼,我穿行于街巷、广场与三岔路口,只求有人购买那盛开之莲。

Verse 32

न कश्चित्प्रति गृह्णाति अस्तं प्राप्तो दिवाकरः । प्रासादं कंचिदासाद्य सुप्तोहं सह भार्यया

无人肯应允,因为太阳已然西沉。于是我来到一处宅邸,与妻子一同躺下入睡。

Verse 33

तत्र सुप्तस्य मे बुद्धिः श्रुत्वा गीतध्वनिं तदा । समुत्पन्ना सभा र्यस्य क्षुधार्तस्य विशेषतः । नूनं जागरणं ह्येतत्कस्मिंश्चिद्विबुधालये

我在彼处睡着时,忽闻歌咏之声,心神为之震动。我与妻子——尤其因饥饿所迫——心想:“这必是某处神圣殿宇中的夜间守夜法会。”

Verse 34

सरोरुहाणि चादाय व्रजाम्यत्र सुरालये । यदि कश्चित्प्रगृह्णाति प्राणयात्रा ततो भवेत्

“我携此莲花,欲往此处诸天之庙。若彼处有人收受或相助,则我等赖以维生之资,便可得以安稳。”

Verse 35

अथोत्थाय समायातो ह्यत्राहं मुनिपुंगवाः । अपश्यं लिंगमेतत्तु पूजितं कुसुमैः शुभैः

随后我起身来到此处,噫,诸牟尼中最胜者!我亲见此灵伽,已以吉祥之花而奉祀。

Verse 36

रुद्रेश्वराभिधमिदं वृद्धलिंगं स्वयंभुवम् । वेश्यानंगवतीनाम्नी शिवरात्रिपरायणा

此自现之古老灵伽,名为鲁德雷湿伐罗(Rudreśvara)。有一名名叫阿难伽伐蒂(Anaṅgavatī)的歌伎,专心奉持湿婆夜(Śivarātri)之戒行,于此礼拜供养。

Verse 37

जागर्त्ति पुरतस्तस्य गीतनृत्योत्सवादिना । ततः कश्चिन्मया दृष्टः किमेतद्रात्रिजागरम्

在那灵伽之前,她以歌咏、舞蹈与庆典为供,彻夜不眠。随后我见到一人,便问道:“这夜间守醒之行,究竟为何?”

Verse 38

केयं स्त्री दृश्यतेऽत्यर्थं गीतनृत्योत्सवे रता । सोऽब्रवीच्छिवधर्मोक्ता शिवरात्रिः सुधर्मदा

“这女子是谁,竟如此沉心于歌舞庆会?”他答道:“此乃湿婆之法所宣说的湿婆夜(Śivarātri),能赐予真正的正法与功德。”

Verse 39

तां चानंगवतीनाम्नी वेश्येयं धर्मसंयुता । जागर्त्ति परमं श्रेयः शिवरात्रिव्रतं शुभम्

她是一位名为阿难伽伐蒂(Anaṅgavatī)的歌妓,却具足正法。她守夜不眠,奉持吉祥的湿婆夜(Śivarātri)誓戒,以求至上善果。

Verse 40

शिवरात्रिव्रतं ह्येतद्यः सम्यक्कुरुते नरः । न स दुःखमवाप्नोति न दारि द्र्यं न बंधनम्

确实,凡能如法奉行此湿婆夜(Śivarātri)誓戒之人,不堕忧苦;亦不陷贫乏,亦不受系缚。

Verse 41

दुष्टं चारिष्टयोगं वा न रोगं न भयं क्वचित् । सुखसौभाग्यसंपन्नो जायते सत्कुले नरः

邪祟之力与不祥之合不近其身,疾病不侵,恐惧亦不扰。具足安乐与福运之人,得生于高贵善族——此乃普罗婆娑(Prabhāsa)圣地功德所宣示之果。

Verse 42

तेजस्वी च यशस्वी च सर्वकल्याणभाजनम् । भवेदस्य प्रसादेन एवमाहुर्मनीषिणः

承其慈恩加被,众生得以光辉炳然、名闻远播,成为承载一切吉祥之器——智者赞颂此圣大功德时如是宣说。

Verse 43

राजोवाच । अथ मे बुद्धिरुत्पन्ना तद्व्रतं प्रति निश्चला । चिंतितं मनसा ह्येतन्मयाब्राह्मणसत्तमाः

国王说道:“于是我心中生起了对那誓戒的决意,坚定不移。诚然,我已在心内反复思量此事,噢,最殊胜的婆罗门们。”

Verse 44

अन्नाभावान्ममोत्पन्न उपवासो बलाद्यतः । तदहं पद्मके तीर्थेस्नात्वा च लवणांभसि

因缺乏食物,我不得不行斋戒禁食。随后我在莲华圣渡(Padmaka Tīrtha)沐浴,又在大海的咸水中沐浴净身。

Verse 45

एतैः सरोरुहैर्देवं पूजयामि महेश्वरम् । ततो मया सभार्येण रुद्रेशः संप्रपूजितः

我以这些莲花礼敬神圣的摩醯湿伐罗(Maheśvara)。其后,我与妻子一同如法供奉礼拜鲁德雷沙(Rudreśa)。

Verse 46

पद्मैश्च भक्तियुक्तेन सभार्येण विशेषतः । जाग्रत्स्थितस्तु देवाग्रे तां रात्रिं सह भार्यया

又以莲花满怀虔敬,尤其与妻子同心,我在神前守夜不寐,与她共度那一整夜。

Verse 47

ततः प्रभातसमय उदिते सूर्यमण्डले । सा वेश्या मामुवाचेदं कलधौतपलत्रयम्

随后在黎明时分,当太阳圆轮升起,那位歌伎对我说道:“此处有精炼之金三帕拉……”

Verse 48

गृहाणमूल्यं पद्मानां न गृहीतं मया हि तत् । सात्त्विकं भावमास्थाय सभार्येण द्विजोत्तमाः

“请收下莲花的价钱”——但我并未接受。我与妻子同住于萨埵之心,噢,诸二生中最胜者啊,守持那份清净的本意。

Verse 49

ततो भिक्षां समाहृत्य प्राणयात्रा मया कृता । कालेन महता प्राप्तः कालधर्मं मुनीश्वराः

随后我聚集施舍的食物,以此维系生命。经久之后,我抵达了时间之法——死亡,噢诸位圣贤之主。

Verse 50

इयं मे दयिता साध्वी प्राणेभ्योऽपि गरीयसी । मम देहं समादाय प्रविष्टा हव्यवाहनम्

这位我所挚爱的妻子,贤淑贞洁,甚至比生命更珍贵;她抱起我的遗身,投入神圣之火(葬火)之中。

Verse 51

तत्प्रभावादहं जातः सर्वभौमो महीपतिः । जातिस्मरः सभार्यस्तु सत्यमेतद्द्विजोत्तमाः

凭借那神圣修持的威力,我转生为统御四方的转轮圣王、地上的君主;并且与妻子一同,仍保有前生之忆。此言真实无妄,噢最胜的婆罗门们。

Verse 52

एतस्मात्कारणादस्य भक्तिर्लिंगस्य चोपरि । मम नित्यं सभार्यस्य सत्यमेतद्ब्रवीमि वः

正因如此,我的虔敬恒常安住于此灵伽之上;我与妻子每日供奉、护持不辍。我以真实告诸君。

Verse 53

मया क्रियाविहीनेन भक्तिबाह्येन सत्तमाः । व्रतमेतत्समाचीर्णं तस्येदं सुमहत्फ लम्

诸位贤善之人啊,即便我缺乏如法仪轨、亦少真切信爱,仍曾行持此誓愿;而这便是它极其宏大的果报。

Verse 54

अधुना भक्तियुक्तस्य यथोपकरणान्मम । भविष्ये यत्फलं किंचिन्नो वेद्मि च मुनीश्वराः । येन सोमेशमुत्सृज्य अत्राहं भक्ति तत्परः

如今我怀着虔敬之心,且具备相应的供奉之具,却不知未来还会生起何等果报,噢诸位牟尼之尊——因为我甚至离开了娑摩伊湿伐罗(Someśvara),在此处一心归依奉敬。

Verse 55

ईश्वर उवाच । एवं श्रुत्वा तु ते विप्रा विस्मयोत्फुल्ललोचनाः । साधुसाध्विति जल्पंतो राजानं संप्रशंसिरे

自在天(Īśvara)说道:诸婆罗门听罢此言,惊异得双目圆睁,不住称叹“善哉!善哉!”,并极力赞颂国王。

Verse 56

पूजयामासुरनिशं लिंगं तत्र स्वयंभुवम् । ततोऽसौ पार्थिवश्रेष्ठो लिंगस्यास्यप्रसादतः । संसिद्धिं परमां प्राप्तो दुर्ल्लभां त्रिदशैरपि

他们在彼处不间断地礼拜那自现的林伽(Svayambhū)。随后,那位最胜之王蒙此林伽加被,证得至上成就——连诸天也难以获得。

Verse 57

सा च वेश्या भगवती शिवरात्रिप्रभावतः । तस्य लिंगस्य माहात्म्याद्रंभानामाप्सराऽभवत्

而那名妓女因湿婆夜(Śivarātri)的威力而光辉神圣;又因那林伽的伟大功德,她化为如蓝婆(Rambhā)般的天女(阿普萨拉)。

Verse 58

तस्मात्सर्वप्रयत्नेन तल्लिंगं पूजयेद्बुधः । धर्मकामार्थमोक्षं च यो वांछत्यखिलप्रदम्

因此,智者应竭尽一切努力礼敬那林伽——赐予一切者——若欲求得法(dharma)、欲(kāma)、利(artha)以及解脱(mokṣa)。