Adhyaya 37
Prabhasa KhandaDvaraka MahatmyaAdhyaya 37

Adhyaya 37

本章围绕德瓦拉卡(Dvārakā)的圣地地理,连贯阐述一组紧密相扣的仪轨与神学主张。首先,普罗诃罗陀(Prahlāda)强调:在迦梨时代,行持名号念诵(nāma-japa)——恒常不断地称念「克里希那」(Kṛṣṇa)之名——是持续的修持,能转化身心,并成就非凡功德。 继而细说与十一斋日/十二斋日(Ekādaśī/Dvādaśī)相关的历法精微,点出如 Unmīlinī 等特殊月日条件,并称夜间守醒(jāgaraṇa)之功德倍增;又提及迦梨时代罕见的 Vañjulī 组合。 随后转入“轮圣渡口”Cakra-tīrtha:在此沐浴被说能洗除道德污垢,引导行者趋向不受扰动的“至上境地”。此处之所以为圣,源于传统所说:克里希那曾在此洗涤神轮(cakra)。 接着列举带有轮印的石(从一印至十二印),分别对应诸神圣形相,并按层次说明果报——从世间安稳、富足,到王权主宰,乃至最终的涅槃/解脱(nirvāṇa/mokṣa)。章末以强烈的果报(phala)框架收束:仅触摸或礼拜轮印石即可消融重罪,临终忆念亦被视为救度;并断言在 Gomati-saṅgama 与 Bhṛgu-tīrtha 沐浴能中和深重不净。即便带有杂染的心行,其奉爱(bhakti)亦被提升,趋向萨特维克(sāttvika)的清净。

Shlokas

Verse 1

श्रीप्रह्लाद उवाच । कृष्णकृष्णेति कृष्णेति श्वपचो जागरन्निशि । जपेदपि कलौ नित्यं कृष्णरूपी भवेद्धि सः

圣普罗诃罗陀曰:即便是出身卑微的旃陀罗,夜间不眠;若在迦梨时代恒常持诵“克里希纳、克里希纳、克里希纳”,确能得克里希纳之相,由不断的念诵而与主相似。

Verse 2

कृष्णकृष्णेति कृष्णेति कलौ वदत्यहर्निशम् । नित्यं यज्ञायुतं पुण्यं तीर्थकोटिसमुद्भवम्

在迦梨时代,若有人昼夜反复称念“克里希纳、克里希纳——克里希纳”,便恒常获得等同万次祭祀的功德,其圣净如由无数亿计的圣地(tīrtha)汇聚而生。

Verse 3

संपूर्णैकादशी भूत्वा द्वादश्यां वर्द्धते यदि । उन्मीलिनीति विख्याता तिथीनामुत्तमा तिथिः

当十一日(Ekādaśī)圆满成就而又延入十二日(Dvādaśī)时,此殊胜月日称为“优弥利尼(Unmīlinī)”,为诸 tithi 之最上。

Verse 4

वंजुलीवासरे ये वै रात्रौ कुर्वंति जागरम् । यज्ञायुतायुतं पुण्यं मुहूर्तार्द्धेन जायते

在“梵珠利日”(Vaṃjulī)守夜通宵者,仅以半个牟呼尔多(muhūrta)之时,便生起相当于一万乘一万次祭祀的功德。

Verse 5

संपूर्णा द्वादशी भूत्वा वर्द्धते चापरे दिने । त्रयोदश्यां मुनिश्रेष्ठा वंजुली दुर्ल्लभा कलौ

噢,诸牟尼中最胜者:当十二日(Dvādaśī)已圆满却延至次日,直达十三日(Trayodaśī)时,如此“梵珠利”(Vaṃjulī)之现象在迦梨时代极为稀有。

Verse 6

उन्मीलिनीमनुप्राप्य ये प्रकुर्वंति जागरम् । निमिषार्द्धेन तत्पुण्यं गवां कोटिफलप्रदम्

凡得逢“乌弥利尼”(Unmīlinī)日而行守夜(jāgara)者,纵仅半刹那,亦得功德,其果报等同布施一亿(crore)头牛。

Verse 7

संपूर्णैकादशी भूत्वा प्रत्यऽहं वर्द्धते यदि । दर्शश्च पौर्णमासी च पक्षवृद्धिस्तथोच्यते

若圣十一日(Ekādaśī)圆满之后又日复一日延长,则新月日(darśa)与满月日(paurṇamāsī)皆称为“pakṣavṛddhi”,即半月期的延展。

Verse 8

पक्षवृद्धिकरीं प्राप्य ये प्रकुर्वंति जागरम् । निमिषार्द्धार्द्धमात्रेण गवां कोटिफलप्रदम्

凡遇能生“pakṣavṛddhi”的日分而行守夜(jāgara)者,纵仅四分之一刹那,亦得功德,其果报等同布施一亿(crore)头牛。

Verse 9

श्रीप्रह्लाद उवाच । चक्रतीर्थे नरः स्नात्वा मुच्यते सर्व किल्बिषैः । स याति परमं स्थानं दाहप्रलयवर्जितम्

圣者普罗诃罗陀(Śrī Prahlāda)曰:凡于轮坛圣渡(Cakratīrtha)沐浴者,悉得解脱诸罪;并得至无上住处,不为焚烧与劫坏(pralaya)所及。

Verse 10

चक्रं प्रक्षालितं यत्र कृष्णेन स्वयमेव हि । तेन वै चक्रतीर्थं हि पुण्यं च परमं हरेः । भवंति तत्र पाषाणाश्चक्रांका मुक्तिदायकाः

克里希纳(Kṛṣṇa)亲自洗净神轮(cakra)之处,因此此地确名“轮坛圣渡”(Cakratīrtha),乃哈利(Hari)至极清净之圣地。其间生起带有轮印之石,能赐解脱(mokṣa)。

Verse 11

तत्रैव यदि लभ्यंते चक्रैर्द्वादशभिः सह । द्वादशात्मा स विज्ञेयो मोक्षदः परिकीर्तितः

若就在彼处得一石,兼具十二道轮(cakra)印,当知其为“十二体性”;此石被称颂为赐予解脱(mokṣa)者。

Verse 12

एकचक्रेण पाषाणो द्वारवत्यां सुशोभनः । सुदर्शनाभिधेयोसौ मोक्षैकफलदायकः

在堕罗伐底(Dvāravatī),有一美石仅具一道轮印;此名为“善见”(Sudarśana),赐予唯一之果——解脱(mokṣa)。

Verse 13

लक्ष्मीनारायणौ द्वौ तौ भुक्तिमुक्तिफलप्रदौ । त्रिभिश्चैवाच्युतं देवं सदेन्द्रपददायकम्

若将圣名称诵两遍,即得至吉祥天女与那罗延(Lakṣmī–Nārāyaṇa),赐予世间受用与解脱之果;若称诵三遍,即至不堕者阿周陀(Acyuta),不坏之主,甚至赐予因陀罗般的尊位。

Verse 14

भूतिदो विघ्नहंता च चतुश्चक्रो जनार्द्दनः । पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः

称诵四遍,则得至阇那尔达那(Janārdana)——执轮四臂,赐福增盛,摧破障碍;称诵五遍,则得至婆苏提婆(Vāsudeva),除去生与死之怖畏。

Verse 15

प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति च । सप्तभिर्बलदेवस्तु गोत्रकीर्तिविवर्द्धनः

称诵六遍,则彼主为普拉丢摩那(Pradyumna),赐予吉祥(Lakṣmī)与光辉;称诵七遍,则为婆罗提婆(Baladeva),增长宗族与美名。

Verse 16

वांछितं चाष्टभिर्भक्त्या ददाति पुरुषोत्तमः । सर्वं दद्यान्नवव्यूहो दुर्ल्लभो यः सुरोत्तमैः

以虔敬之心,凭八次称诵,至上人格主(Puruṣottama)赐予所愿之恩。九重毗优诃(Vyūha)赐一切——即便诸天之最胜者亦难得亲近的那一位。

Verse 17

राज्यप्रदो दशभिस्तु दशावतार एव च । एकादशभिरैश्वर्य्यमनिरुद्धः प्रयच्छति

以十次称诵,祂成为赐王权者——实为十化身(Daśāvatāra)之主。以十一次称诵,阿尼鲁陀(Aniruddha)赐予主宰之力与天界的丰盛威德。

Verse 18

निर्वाणं द्वादशात्मा तु चक्रैर्द्वादशभिः स्मृतम् । अत ऊर्ध्वमनंतोऽसौ सौख्यमोक्षप्रदायकः

涅槃被教示为十二重的真实,以十二轮(Cakra,轮盘之相)而忆念。超越其上者,阿难多(Ananta)赐予灵性安乐与解脱(mokṣa)。

Verse 19

ये केचित्तत्र पाषाणाः कृष्णचक्रेण मुद्रिताः । तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः

凡彼处所见之石,皆印有黑天(Kṛṣṇa)之轮盘印记。仅以触之,即得脱离一切罪垢与染污。

Verse 20

ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् । तत्सर्वं विलयं याति चक्रांकितप्रपूजनात्

如杀婆罗门之罪(brahma-hatyā)等,以及由意、语、身所生的一切过失——皆因虔诚供奉那具轮印之物而尽皆消融。

Verse 21

म्लेच्छदेशे शुभे वाऽपि चक्रांको यत्र तिष्ठति । योजनानि दश द्वे च मम क्षेत्रं च सुन्दरि

无论在异族之地,或在吉祥之境——凡轮印(Cakra)所立之处,丽人啊,其周围十二由旬皆为我的神圣圣域。

Verse 22

मृत्युकाले च संप्राप्ते हृदये यस्तु धारयेत् । चक्राकं पापदलनं स याति परमां गतिम्

当死亡之时来临,凡能于心中持念那摧破罪业的轮印(Cakra)者,必得至上归趣。

Verse 23

गोमतीसंगमे स्नात्वा भृगुतीर्थे तथैव च । न मातुर्वसते कुक्षौ यद्यपि स्यात्स पातकी

纵使是罪人,若在戈摩提河汇合处沐浴,又同样在婆利古圣渡(Bhṛgu-tīrtha)沐浴,便不再复住母胎之中。

Verse 24

तामसं राजसं वापि यत्कृतं विष्णुपूजनम् । तत्सात्त्विकत्वमभ्येति निम्नगांभो यथार्णवे

即便以昏暗(tamas)或激动(rajas)之性而礼拜毗湿奴,其果报亦转为清净(sattva)——如江河之水入海,便具大海之性。

Verse 37

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रस्थसुदर्शनप्रमुखानन्तान्तचक्रचिह्नांकित पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजनफलादिकथनंनाम सप्तत्रिंशत्तमोऽध्यायः

至此,尊贵《斯甘达摩诃补罗那》之《八万一千颂集》(Ekāśīti-sāhasrī Saṃhitā)中,第七《普罗婆娑分部》(Prabhāsa Khaṇḍa)第四《堕罗迦圣地赞》(Dvārakā Māhātmya)第三十七章圆满,章名为:“叙述堕罗迦圣域中刻有轮印之石的伟大——自苏达尔沙那(Sudarśana)至阿难多(Ananta)——并讲述其供奉功德等相关事”。