Adhyaya 1
Prabhasa KhandaDvaraka MahatmyaAdhyaya 1

Adhyaya 1

第一章以绍那迦向苏多发问开篇:在动荡的迦利时代,诸说纷纭、教义分裂之际,求道者当如何亲近摩杜苏达那(毗湿奴)。苏多随即提纲挈领地追述阇那尔达那降世与行迹:在弗罗阇的早期神业(降伏普坦那、特里那瓦尔塔、迦利耶等),继而转至摩图罗(诛灭库瓦拉雅毗陀及王家敌对者),以及后来的政治与祭祀相关事件(与迦罗散陀的冲突、罗阇苏耶大祭的背景)。 叙事继而转向史诗之后的余波:普罗婆娑之地雅度族自相残灭,克里希纳退出世间,德瓦拉卡终被洪水淹没。在衰败的背景下,林居圣贤集会,诊断迦利时代的伦理败坏——达摩衰微、社会与仪礼秩序松弛——并向梵天求示。梵天承认难以穷知毗湿奴至上之境,遂指引诸贤前往下界苏陀罗,求见具权威的大信徒普罗诃罗陀,由其指示亲近诃利的所在与途径。章末写诸贤抵达苏陀罗,受巴利迎接,普罗诃罗陀在座;众人郑重祈请无需繁复苦行亦能得见神明的密要之法,为下一章的教诲铺垫。

Shlokas

Verse 1

शौनक उवाच । कथं सूत युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके । बहुपाखंडसंकीर्णे प्राप्स्यामो मधुसूदनम्

商那迦说道:噢,苏多啊,在这被称为迦梨的凶烈时代里,异端之道纷杂交错,我们当如何得以亲近并证得摩度苏陀那(毗湿奴尊)?

Verse 2

युगत्रये व्यतिक्रान्ते धर्माचारपरे सदा । प्राप्ते कलियुगे घोरे क्व विष्णुर्भगवानिति

当三大时代已然过去,可怖的迦梨瑜伽降临之时,至尊毗湿奴究竟在何处可得寻见、得以亲近?

Verse 3

सूत उवाच । दिवं याते महाराजे रामे दशरथात्मजे । दुष्टराजन्यभारेण पीडिते धरणीतले

苏多说道:当大王罗摩——达沙罗陀之子——升往天界之后,大地之面便被恶王之重担所压迫。

Verse 4

देवानां कार्यसिद्ध्यर्थं भूभारहरणाय च । वसुदेवगृहे साक्षादाविर्भूते जनार्दने

为成就诸天之所愿,并为解除大地之重负,阇那尔达那(Janārdana)亲自于婆苏提婆之家中直接示现。

Verse 5

नंदव्रजं गते देवे पूतनाशोषणे सति । घातिते च तृणावर्ते शकटे परिवर्तिते

当主神前往难陀之弗罗阇之时——既已吸尽普坦那之命、诛灭特里那瓦尔塔,并将车轭翻覆——诸般神迹皆已成就。

Verse 6

दमिते कालिये नागे प्रलंबे च निषूदिते । धृते गोवर्धने शैले परित्राते च गोकुले

既降伏迦利耶大蛇,复诛普罗兰婆,又举起戈瓦尔达那山,并护佑戈库拉——主神遂继续其神圣使命。

Verse 7

सुरभ्या चाभिषिक्ते तु इन्द्रे च विमदीकृते । रासक्रीडारते देवे दारिते केशिदानवे

当因陀罗受苏罗毗灌顶而傲慢被折伏之时——主神欢悦于罗娑之戏,亦将魔罗计辛撕裂摧灭。

Verse 8

अक्रूरवचनाद्देवे मथुरायां गते हरौ । हते कुवलयापीडे मल्लराजे च घातिते

因阿克鲁罗之言,哈利前往摩图罗之时——既诛库瓦拉雅毗陀,又击倒摔跤众之王——

Verse 9

पश्यतां देव दैत्यानां भोजराजे निपातिते । यदुपुर्यामभिषिक्त उग्रसेने नराधिपे

在诸天与阿修罗众目睽睽之下,婆阇之王被击倒;而在夜度之城,乌格罗塞那受灌顶而登王位。

Verse 10

जरासंधबले रौद्रे यवने च हते क्षितौ । राजसूये क्रतुवरे चैद्ये चैव निपातिते

当阇罗三陀那凶猛之力被降伏,阎婆那亦在大地上被诛;当在殊胜的王祭(Rājasūya)中,凯底耶亦被击倒——

Verse 11

निवृत्ते भारते युद्धे भारे च क्षपिते भुवः । यात्राव्याजसमानीते प्रभासं यादवे कुले

当婆罗多之战止息,大地之重担得以减轻时,雅度族以朝圣为名,被引至普罗婆娑(Prabhāsa)。

Verse 12

मद्यपानप्रसक्ते तु परस्परवधो द्यते । कलहेनातिरौद्रेण विनष्टे यादवे कुले

当他们沉溺于饮酒之时,彼此相残便随之而起;因极其可怖的争斗,雅度族遂告覆灭。

Verse 13

गात्रं संत्यज्य चात्रैव गतेऽनंते धरातलात् । अश्वत्थमूललमाश्रित्य समासीने जनार्दने

而就在此处,当无尽者阿难多(Ananta)离开大地之时——当阇那尔达那(Janārdana)倚于阿湿婆他树根而安坐之时——

Verse 14

व्याधप्रहारभिन्नांगे परित्यक्ते कलेवरे । स्वधामसंस्थिते देवे पार्थे च पुनरागते

当圣身被猎人一击所穿而舍离其躯;当神明安住于自家本宫,而帕尔塔(Pārtha)亦复归来——

Verse 15

यदुपुर्य्यां प्लावितायां सागरेण समंततः । शक्रप्रस्थं ततो गत्वा कारयित्वा हरेर्गृहम्

当夜度城(Yadupurī)四面为大海所淹没之时,他便前往释迦罗普拉斯塔(Śakraprastha),并命人建造圣者哈利(Hari)的神圣居所。

Verse 16

द्वापरे च व्यतिक्रांते धर्माधर्मविमिश्रिते । संप्राप्ते च महारौद्रे युगे वै कलिसंज्ञिते

当兜婆罗(Dvāpara)时代已逝——正法与非法相互杂糅之时——那被称为迦梨(Kali)的极其可怖之世便已降临。

Verse 17

क्षीयमाणे च सद्धर्मे विधर्मे प्रबले तथा । नष्टधर्मक्रियायोगे वेदवादबहिष्कृते । एकपादे स्थिते धर्मे वर्णाश्रमविवर्जिते

当正法日渐衰微,而违背正法之道愈发强盛;当如法的仪轨修持失落,吠陀圣教的权威被摒弃;当法仅以“一足”勉强支撑,世间又远离种姓(varṇa)与住期(āśrama)的秩序——此时世界便陷入沉痛的衰败。

Verse 18

अस्मिन्युगे विलुलिते ह्यृषयो वनचारिणः । समेत्यामंत्रयन्सर्वे गर्गच्यवनभार्गवाः

在这纷乱动荡的时代,栖居林野的圣仙们聚集一处,共同商议——其中有伽尔伽(Garga)、支耶婆那(Cyavana)以及婆尔伽婆族(Bhārgava)诸贤。

Verse 19

असितो देवलो धौम्यः क्रतुरुद्दालकस्तथा । एते चान्ये च बहवः परस्परमथाब्रुवन्

阿悉多(Asita)、提婆罗(Devala)、陀乌弥耶(Dhaumya)、克罗图(Kratu)以及优陀罗迦(Uddālaka)——这些与许多其他圣仙当时彼此交谈商议。

Verse 20

पश्यध्वं मुनयः सर्वे कलिव्याप्तं दिगंतरम् । समंतात्परिधावद्भिर्दस्युभिर्बाध्यते प्रजा

诸位牟尼圣者,请看:四方皆为迦梨之气所遍满。盗贼四处奔走游荡,众生因此受逼迫而困苦。

Verse 21

अधर्मपरमैः पुंभिः सत्यार्जवनिराकृतैः । कथं स भगवान्विष्णुः संप्राप्यो मुनिसत्तमाः

当世人以非法为尚,弃舍真实与正直——诸位最上圣贤啊,又怎能证得那位吉祥的毗湿奴世尊?

Verse 22

को वा भवाब्धौ पततस्तारयिष्यति संगतान् । न कलौ संभवस्तस्य त्रियुगो मधुसूदनः । तं विना पुंडरीकाक्षं कथं स्याम कलौ युगे

那么,谁能渡我们——同坠于轮回生有之海者——到彼岸?在迦梨时代,那位于三世显现的摩度苏陀那并无明显降临。离开那莲华眼的主,我们在迦梨之世又如何得以支撑?

Verse 23

तेषां चिंतयतामेवं दुःखितानां तपस्विनाम् । उवाच वचनं तत्र ऋषिरुद्दालकस्तदा

当那些苦行者如此忧苦思量之时,圣者优陀罗迦便在彼处开口说道。

Verse 24

उद्दालक उवाच । यावन्न कलिदोषेण लिप्यामो मुनिसत्तमाः । अपापा ब्रह्मसदनं गच्छामः परिसंगताः

优陀罗迦说道:“在我们尚未被迦梨之过染污之前,诸位最上牟尼啊,让我们清净无罪、同心相聚,前往梵天(Brahmā)的居处。”

Verse 25

पृच्छामो लोकधातारं स्थितं विष्णुं कलौ युगे । यदि विष्णुः कलौ न स्याद्रुद्रेण ब्रह्मणाऽसह

让我们向护持诸世的主请问:在迦梨时代,毗湿奴是否仍常住。若在迦梨世间不见毗湿奴——那么,与鲁陀罗及梵天一同……

Verse 26

तं विना पुंडरीकाक्षं त्यक्ष्यामः स्वकलेवरम् । विना भगवता लोके कः स्थास्यति कलौ युगे

若离开那位莲华眼的主——普恩达利迦克沙,我们便将舍弃此身。因为世间若无薄伽梵,在迦梨时代又有谁能屹立不倒?

Verse 27

तच्छ्रुत्वा वचनं तस्य ऋषयः संशितव्रताः । साधुसाध्विति ते चोक्त्वा प्रस्थिता ब्रह्मणोंऽतिकम्

听闻他的话语,那些持戒精严的圣仙齐声赞叹:“善哉,善哉!”随即启程前往梵天座前。

Verse 28

कथयन्तः कथां विष्णोः स्वरूपमनुवर्णनम् । तापसाः प्रययुः सर्वे संहृष्टा ब्रह्मणोंऽतिकम्

行进之间,诸苦行者皆欢喜谈说毗湿奴之圣事,叙述并描绘祂的真实本性,遂一同前往梵天座前。

Verse 29

ददृशुस्ते तदा देवमासीनं परमासने । पितामहभूतगणैर्मूर्तामूर्तैर्वृतं तथा

于是他们见到主神端坐于至高宝座之上,周围环绕着属于毗多摩诃的众部——有形与无形者皆在其中。

Verse 30

दृष्ट्वा चतुर्मुखं देवं दंडवत्प्रणताः क्षितौ । प्रणम्य देवदेवं तु स्तोत्रेण तुषुवुस्तदा

见到四面之主,他们全身伏地,长身顶礼;既已礼敬诸天之天,便以圣颂赞叹祂。

Verse 31

ऋषय ऊचुः । नमस्ते पद्मसंभूत चतुर्वक्त्राक्षयाव्यय । नमस्ते सृष्टिकर्त्रे तु पितामह नमोऽस्तु ते

诸仙人说道:“顶礼莲华所生者,四面尊,常住不坏、不朽不灭。顶礼造化之主——噢,毗多摩诃,愿受我等敬礼。”

Verse 32

एवं स्तुतः सन्मुनिभिः सुप्रीतः कमलोद्भवः । पाद्यार्घ्येणाभिवन्द्यैतान्पप्रच्छ मुनिपुंगवान्

如是为诸善圣牟尼所赞,莲华所生者大为欢喜。以洗足之水与阿尔伽供奉礼敬之后,这位最上仙者便询问他们。

Verse 33

ब्रह्मोवाच । किमागमनकृत्यं वो ब्रूत तत्त्वेन पुत्रकाः । कुशलं वो महाभागाः पुत्रशिष्याग्निबन्धुषु

梵天说道:“孩子们,如实告诉我:你们此来所为何事?诸位有福者,你们与子嗣、弟子、圣火与亲族,可都安好?”

Verse 34

ऋषय ऊचुः । भवत्प्रसादात्सकलं प्राप्तं नस्तपसः फलम् । यद्भवंतं प्रपश्यामः सर्वदेवगुरुं प्रभुम्

诸仙人说道:“承蒙圣恩,我等苦行之果已圆满得成;因为得以瞻仰您——主宰,诸天之师。”

Verse 35

शृण्वेतत्कारणं शंभो एते प्राप्तास्तवांतिकम् । युगत्रये व्यतिक्रांते कृतादिद्वापरांतके

请聆听此因由,噢 Śaṃbhu(善怖)啊:我们为何来到你面前。当三大劫(yuga)已然流逝——自克利多(Kṛta)起,至兜婆罗(Dvāpara)终——

Verse 36

प्राप्ते कलियुगे घोरे क्व विष्णुः पृथिवीतले । यं दृष्ट्वा परमां मुक्तिं यास्यामो मुक्तबन्धनाः

如今可怖的迦梨劫(Kali-yuga)已至,毗湿奴(Viṣṇu)在大地何处?愿我们得见其圣容,证得至上解脱,脱离一切系缚。

Verse 37

ब्रह्मोवाच । मत्स्यकूर्मादिरूपैश्च भगवाञ्ज्ञायते मया । विष्णोः पारमिकां मूर्तिं न जानामि द्विजोत्तमाः

梵天(Brahmā)说道:“凭借鱼(Matsya)、龟(Kūrma)等化身,我确知那位至福的主(Bhagavān)。然而,噢诸位最胜的二生者,我并不知毗湿奴(Viṣṇu)至上而超越的本体圣相。”

Verse 38

ऋषय ऊचुः । यदि त्वं न विजानासि तात विष्णोरवस्थितिम् । गत्वा प्रयागं तत्रैव संत्यक्ष्यामः कलेवरम्

诸仙人说道:“若您,尊者,亦不知毗湿奴(Viṣṇu)真实的境界与安住之处,那么我们将前往普罗耶伽(Prayāga),并在那里舍弃此身。”

Verse 39

ब्रह्मोवाच । मा विषादं व्रजध्वं हि उपदेक्ष्यामि वो हितम् । इतो व्रजध्वं पातालं यत्रास्ते दैत्यसत्तमः

梵天说道:“莫入忧惧;我将为你们的利益而开示。由此往下至波多罗(Pātāla),那里住着诸阿修罗族(Daitya)中最尊贵者。”

Verse 40

तं गत्वा परिपृच्छध्वं प्रह्लादं दैत्यसत्तमम् । स ज्ञास्यति हरेः स्थानं याथातथ्येन भो द्विजाः

你们前往彼处,询问魔族中最卓越的普罗诃罗陀。他将如实而准确地知晓哈利的住处,噢诸位二生者。

Verse 41

तच्छुत्वा वचनं तस्य ब्रह्मणः परमात्मनः । प्रणिपत्य च देवेशं प्रस्थितास्ते तपोधनाः

听闻梵天——至上真我——的这番言语,那些以苦行为资粮的苦行者向天神之主顶礼,遂即启程。

Verse 42

जग्मुः संहृष्टमनसः स्तुवन्तो दैत्यसत्तमम् । धन्यः स दैत्यराजोऽयं यो जानाति जनार्द्दनम्

他们心怀欢喜继续前行,赞颂那位最卓越的魔族者:“此魔王真是有福之人,竟识得阎那尔达那!”

Verse 43

इति संचिंतयानास्ते प्राप्ता वै सुतलं द्विजाः

他们如此思量,那些二生者确已抵达苏陀罗(Sutala)。

Verse 44

गत्वा ते तस्य नगरं विविशुर्भवनोत्तमम् । दूरादेव स तान्दृष्ट्वा बलिर्वैरोचनिस्तदा । प्रत्युत्थायार्हयाञ्चक्रे प्रह्लादेन समन्वितः

他们来到他的城中,进入最上等的宫殿。巴利·毗罗遮尼远远望见他们,便立刻起身迎接,并在普罗诃罗陀陪同下,如法恭敬供奉款待。

Verse 45

मधुपर्कं च गां चैव दत्त्वा चार्घ्यं तथैव च । उवाच प्रांजलिर्भूत्वा प्रहृष्टेनांतरात्मना

献上蜜乳礼(madhuparka)、一头母牛,并同样奉上阿尔伽供水(arghya)之后,他合掌而语,内心欢喜踊跃。

Verse 46

स्वागतं वो महाभागाः सुव्युष्टा रजनी मम । भवतो यत्प्रपश्यामि ब्रूत किं करवाणि च

“诸位大福德者,欢迎降临;因得瞻见诸位,我这一夜已成吉祥圆满。请告知——我当为诸位作何事?”

Verse 47

एवं हि दैत्यराजेन सत्कृतास्ते द्विजोत्तमाः । ऊचुः प्रहृष्टमनसो दानवेन्द्रसुतं तदा

如是,那些最上婆罗门既蒙代提耶之主恭敬款待,心中欢悦,便于其时对那位达那婆王之子开口说道。

Verse 48

ऋषय ऊचुः । कार्यार्थिनस्तु संप्राप्ताः प्रह्लाद हरिवल्लभ । तदस्माकं महाबाहो भवांस्त्राता भवार्णवात्

诸仙人说道:“我们为成就所求之事而来,噢普罗诃罗陀,哈利所钟爱者。因此,噢大臂勇者,愿你救度我们脱离轮回之海。”

Verse 49

कथं दैत्य युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके । भविष्यामो विना विष्णुं भीतानामभयप्रदम्

“噢代提耶,在这被称为迦梨的凶烈时代,若无毗湿奴——那赐予惧者无畏者——我们将如何支撑下去?”

Verse 50

अस्मिन्युगे ह्यधर्मेण जितो धर्मः सनातनः । अनृतेन जितं सत्यं विप्राश्च वृषलैर्जिताः

在此末世,永恒的达摩为非达摩所胜;真实为虚妄所制;婆罗门亦被卑劣之徒所压伏。

Verse 51

विटैर्जिता वेदमार्गाः स्त्रीभिश्च पुरुषा जिताः । ब्राह्मणाश्चापि वध्यन्ते म्लेच्छ राजन्यरूपिभिः

吠陀之道为卑贱之徒所压制;男子为女子所制;甚至婆罗门也被伪装成君王的弥勒叉所杀。

Verse 52

अस्मिन्विलुलितप्राये वर्णाश्रमविवर्जिते । अविलुप्ते वेदमार्गे क्व विष्णुर्भगवानिति

当此世几近崩坏,种姓与住期之法被弃,吠陀之道亦被遮蔽——那么,世尊毗湿奴又在何处可寻?

Verse 53

विना ज्ञानाद्विना ध्यानाद्विना चेंद्रियनिग्रहात् । प्राप्यते भगवान्यत्र तद्गुह्यं कथयस्व नः

请为我们宣说那秘密:在何处,即便无智见、无禅定、亦无制御诸根,仍能证得世尊?

Verse 54

दैत्यराज त्वमस्माकं सुहृन्मार्गप्रदर्शकः । कथयस्व महाभाग यत्र तिष्ठति केशवः

噢,阿修罗之王,你是我们的善友与道路的指引者。噢,大福德者,请告知我们:凯沙瓦居于何处。

Verse 55

एवं स द्विजमुख्यैश्च संपृष्टो दैत्यसत्तमः । प्रणम्य ब्राह्मणान्सर्वान्भक्त्या संहृष्टमानसः

于是,那位最上等的阿修罗被诸位最尊贵的再生者问及,心中欢喜,便以虔敬之心向一切婆罗门顶礼。

Verse 56

स नमस्कृत्य देवेभ्यो ब्रह्मणे परमात्मने । भगवद्भक्तिर्युक्तः सन्व्याहर्त्तुमुपचक्रमे

他先向诸天与至上自性的梵天致敬礼拜;又具足对薄伽梵的虔信,于是开始开口宣说。