
本章开端,诸仙人请问苏多:在寿命短促的迦梨时代,众生如何才能获得世间无量圣地(tīrtha)沐浴所生之功德果报?苏多以“教义压缩”作答:将二十四种受加持之圣物,按八类三组(kṣetra 圣域、araṇya 林野、purī 城邑、vana 森林、grāma 村落、tīrtha 圣渡、parvata 圣山、nadī 圣河)系统归摄,并列举诸三组名目,如库鲁克舍特拉–哈塔凯湿瓦罗圣域–普拉婆娑;普什迦罗–奈弥沙–达摩林野;瓦拉纳西–德瓦拉卡–阿凡提;温达伐那–卡安达瓦–德外塔伐那;卡尔帕村–沙利格罗摩–难提村;阿耆尼圣渡–白圣渡–祖灵圣渡;室利圣山–阿尔布达–赖瓦塔;以及恒河–讷尔摩陀–萨拉斯瓦蒂三河。经文宣示:于一组三处中任一处沐浴,即得该组三处之全功德;若遍行诸组,则圆满获得相当于无数圣地之大福德。 继而,诸仙人专问哈塔凯湿瓦罗地区:其圣渡与祠庙多至百年亦难尽行,故求一“方便法”(upāya),使贫乏者亦能得普遍功德并得见神明(darśana)。苏多引述古对话:一位国王请问毗湿瓦密多,如何以易行之法,使仅浴一处圣渡而得诸圣渡之果。毗湿瓦密多指出四大要津及其行持:其一,与伽耶相关之圣井,于特定月相与日时行祖祭(śrāddha)可救度先祖;其二,螺圣渡(Śaṅkha-tīrtha)并瞻礼螺主神(Śaṅkheśvara),系于摩伽月时;其三,与毗湿瓦密多所安立之哈罗灵伽(Viśvāmitreśvara)相关,于明半第八日行持;其四,释迦罗圣渡(Śakra-tīrtha,Bālamaṇḍana),需多日沐浴并瞻礼释迦罗主神(Śakreśvara),系于阿湿毗那月明半第八日。 本章又详述祖祭仪轨:强调须请本地具资格之婆罗门(sthāna-udbhava),并警示若用人不当或有不净,仪式可致失效;同时列出本地优先之族系次第(含“八族”aṣṭakula之说)。末以因缘故事作例,借诅咒、越礼与一名贱民伪装婆罗门的戏剧性事件,说明社会与仪式之排除逻辑,以巩固伦理—仪礼边界与经文所主张的灵验之理。
Verse 1
ऋषय ऊचुः । तिस्रःकोट्योर्धकोटी च तीर्थानामिह भूतले । श्रूयते सूत कार्त्स्न्येन कीर्त्यमाना मुनीश्वरैः
诸仙人说道:在此大地之上,听闻有三俱胝又半俱胝的诸圣地(tīrtha),为诸大牟尼之主所尽情称颂。噢,苏多(Sūta),(请为我们宣说)。
Verse 2
कथं लभ्येत सर्वेषां तीर्थानां स्नानजं फलम् । अल्पायुर्भिर्महाभाग कलिकाल उपस्थिते
噢,大福德者,当迦梨时代(Kali-yuga)已至、众生寿命短促之时,如何才能获得在一切圣地(tīrtha)沐浴所生的功德果报?
Verse 3
सूत उवाच । क्षेत्रत्रयमिहाख्यातं तथारण्यत्रयं महत् । पुरीत्रयं वनान्येव त्रीणि ग्रामास्तथात्रयः
苏多说道:此处宣说三处神圣圣域(kṣetra),亦有三大林野(āraṇya);又有三座圣城(purī)、三处林苑(vana),并同样有三座村落。
Verse 4
तथा तीर्थत्रयं चान्यत्पर्वतत्रितयान्वितम् । महानदीत्रयं चैव सर्वपातकनाशनम्
同样,还有另一组三处圣渡(tīrtha),并伴随三座山岳;又有三条大河,能灭除一切罪业。
Verse 5
मर्त्यलोकेस्थितं विप्राः सर्वतीर्थफलप्रदम् । सर्वेष्वेतेषु यः स्नाति स सर्वेषां फलं लभेत्
婆罗门们啊,在此人间确立着能赐予一切圣渡(tīrtha)果报之处。凡于这一切处沐浴者,必得诸处圆满功德。
Verse 6
चतुर्विंशतिसंख्यानामिदमाह प्रजापतिः । य एकस्मिंस्त्रिके स्नाति सर्व त्रिकफलं लभेत्
关于这数为二十四的总类,生主(Prajāpati)如是宣说:凡于其中任一三组沐浴者,即得该三组的全部功德。
Verse 7
ऋषय ऊचुः त्रीणि क्षेत्राणि कानीह तथारण्यानि कानि च । पुर्यस्तिस्रो महाभाग काःख्याताश्च वनानि च
诸仙人说道:此处的三处圣域(kṣetra)是哪三处?三处林野(āraṇya)又是哪三处?大福德者啊,三座著名圣城为何处?三处闻名的林苑(vana)又是哪些?
Verse 8
के ग्रामाः कानि तीर्थानि के नगाः सरितश्च काः । नामभिर्वद नः सूत सर्वाण्येतानि विस्तरात्
哪些是村落,哪些是圣地渡口(tīrtha),哪些是群山,哪些是诸河?噢,苏多(Sūta),请将这一切按其名号,详尽地为我们宣说。
Verse 9
सूत उवाच कुरुक्षेत्रमिति ख्यातं प्रथमं क्षेत्रमुत्तमम् । हाटकेश्वरजं क्षेत्रं द्वितीयं परिकीर्तितम्
苏多说道:第一处最殊胜的圣域,名闻为俱卢之野(Kurukṣetra)。第二处被宣说为与哈塔凯湿伐罗(Hāṭakeśvara)相生相应之刹地(kṣetra)。
Verse 10
प्राभासिकं तृतीयं तु क्षेत्रं हि द्विजसत्तमाः । एतत्क्षेत्रत्रयं पुण्यं सर्वपातकनाशनम्
而第三处刹地为普罗婆悉迦(Prābhāsika),噢,二次生者中最胜者。此三圣域至为清净,能灭除一切罪垢。
Verse 11
यथोक्तविधिना दृष्ट्वा नरः पापात्प्रमुच्यते । यो यं काममभिध्यायन्क्षेत्रेष्वेतेषु भक्तितः
若依所说之法而瞻礼观见,人便从罪业中解脱。又凡在这些刹地中以虔敬之心,观想某一所愿者——
Verse 12
स्नानं करोति तस्येष्टं मनसो जायते फलम् । चतुर्विंशतिमानेषु स्नातो भवति स द्विजाः
——并行沐浴之仪(snāna):其所愿之果,随其心意而生。噢,诸婆罗门,他被视为已在二十四处全体之中圆满沐浴。
Verse 13
एकं तु पुष्करारण्यं नैमिषारण्यमेव च । धर्मारण्यं तृतीयं तु तेषां संकीर्त्यते द्विजाः
其一为普什迦罗圣林(Puṣkara-āraṇya),其二确为奈弥沙圣林(Naimiṣa-āraṇya)。其三名为达摩圣林(Dharmāraṇya)——婆罗门啊,如是宣说。
Verse 14
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्
凡于此三处沐浴者,便得分受二十四分功德之一分。
Verse 15
वाराणसी पुरीत्येका द्वितीया द्वारकापुरी । अवन्त्याख्या तृतीया च विश्रुता भुवनत्रये
瓦拉纳西(Vārāṇasī)被誉为第一圣城;第二为德瓦拉卡城(Dvārakāpurī);第三则名闻三界,称为阿凡提(Avantī,乌阇夷尼 Ujjayinī)。
Verse 16
एतासु यो नरः स्नाति चतुर्विंशतिभाग्भवेत्
凡于此(三座圣城)中沐浴之人,皆得受二十四倍之功德分。
Verse 17
वृन्दावनं वनं चैकं द्वितीयं खांडवं वनम् । ख्यातं द्वैतवनं चान्यत्तृतीयं धरणीतले
弗林达瓦那(Vṛndāvana)是一处至圣之林;第二为旃陀婆林(Khāṇḍava);第三亦在大地上闻名者,为著名的德外多林(Dvaitavana)。
Verse 18
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्
凡于此三处圣地沐浴者,得二十四倍之功德分。
Verse 19
कल्पग्रामः स्मृतश्चैकः शालिग्रामो द्वितीयकः । नंदिग्रामस्तृतीयस्तु विश्रुतो द्विजसत्तमाः
迦尔帕村(Kalpagrāma)被忆为第一;舍利村(Śāligrāma)为第二;而第三处,噢最胜之二生者,是著名的难提村(Nandigrāma)。
Verse 20
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्
凡于此三处圣村(圣渡处)沐浴者,得二十四倍之功德分。
Verse 21
अग्नितीर्थं स्मृतं चैकं शुक्लतीर्थमथापरम् । तृतीयं पितृतीर्थं तु पितॄणामतिवल्लभम्
阿耆尼圣渡(Agnitīrtha)被忆为其一;另有白净圣渡(Śuklatīrtha);第三为祖灵圣渡(Pitṛtīrtha),最为诸祖灵(Pitṛ)所钟爱。
Verse 22
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्
凡于此三处圣渡(tīrtha)沐浴者,得二十四倍之功德分。
Verse 23
श्रीपर्वतः स्मृतश्चैको द्वितीयश्चार्बुदस्तथा । तृतीयो रैवताख्योऽत्र विख्यातः पर्वतोत्तमाः
圣山Śrīparvata被忆为第一;Arbuda(阿布山)同样为第二;而此处第三座名为Raivata,声名远播——噫,群山之最胜者。
Verse 24
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्
凡于这三处山中圣地沐浴者,即得二十四分之一之配分功德(具二十四倍之福分)。
Verse 25
गंगा नदी स्मृता पूर्वा नर्मदाख्या तथा परा । सरस्वती तृतीया तु नदी प्लक्षसमुद्भवा
先被忆念者为恒河(Gaṅgā);其次为那名为那尔摩达(Narmadā)之河。第三则为萨拉斯瓦蒂河(Sarasvatī),相传其源出于普拉克沙(Plakṣa,圣源/圣树)。
Verse 26
आसु सर्वासु यः स्नाति चतुर्विंशतिभाग्भवेत्
凡于这一切诸河中沐浴者,便得按二十四分所量之福分(即二十四分配之功德)。
Verse 27
एतेष्वेव हि सर्वेषु यः स्नानं कुरुते नरः । सार्धकोटित्रयस्यात्र स कृत्स्नं फलमाप्नुयात्
诚然,凡于这一切处行沐浴之人,于此将得圆满之果,等同于三又半俱胝(crore)之功德。
Verse 28
यश्चैकस्मिन्नरः स्नाति स त्रिकस्य फलं लभेत्
若有人只在其中一处圣渡(tīrtha)沐浴,亦得三处之果报,其功德等同于在三处沐浴。
Verse 29
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः । संक्षेपात्तीर्थजं पुण्यं लभ्यते यन्नरैर्भुवि
噢,最殊胜的二次生者啊,我已将你们所问尽皆宣说。简而言之,世间之人便是如此获得由圣渡(tīrtha)所生的功德。
Verse 30
सांप्रतं किं नु वो वच्मि यत्तद्वदत मा चिरम्
如今,我还能对你们说些什么呢?你们想问什么,就请直言,莫要迟延。
Verse 31
ऋषय ऊचुः हाटकेश्वरजे क्षेत्रे यानि तीर्थानि सूतज । तानि प्रोक्तानि सर्वाणि त्वयाऽस्माकं सुविस्तरात्
诸仙人说道:噢,苏多之子啊,你已为我们详尽宣说了哈塔凯湿伐罗圣域之中一切神圣的圣渡(tīrtha)。
Verse 32
तथा चायतनान्येव संख्यया रहितानि च । अपि वर्षशतेनात्र स्नानं कर्तुं न शक्यते
同样,此处的诸多神祠(āyatana)确实多到不可计数;纵使百年,也无法在此将一切处所的沐浴尽皆完成。
Verse 33
तेषु सर्वेषु मर्त्येन यथोक्तविधिना स्फुटम् । देवतायतनान्येव तथा द्रष्टुं महा मते
在这一切之中,凡人要依所说仪轨分明地奉行,并且亲见诸神的圣所、即神祇之居处,实为艰难,噢,大心者。
Verse 34
यस्मिन्स्नातो दिने चैव तस्य व्युष्टिः प्रकीर्तिता । अल्पायुषस्तदा मर्त्याः कृतेऽपि परिकीर्तिताः
人在某日行沐浴净礼(snāna),便宣说该日有相应的“vyuṣṭi”(计数之日/守持之期)。然而那时众生仍被称为寿命短促,即使竭力修行亦然。
Verse 35
त्रेतायां द्वापरे चापि किमु प्राप्ते कलौ युगे । एवमल्पायुषो ज्ञात्वा मानवान्सूतनंदन
在特雷塔与德瓦帕罗两世之中尚且如此——而今迦梨时代既至,更是如此——既知人类寿命短促,噢,苏多之爱子,当寻求更为简易之道,以得朝圣诸渡口的果报。
Verse 36
लभेरंश्च कथं सर्वतीर्थानां स्नानजं फलम् । देवदर्शनजं वापि विशेषान्निर्धनाश्च ये
他们如何能获得在一切圣渡(tīrtha)沐浴所生之果报,又如何能得亲见诸神所生之功德?尤其是那些贫乏无资之人。
Verse 37
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा । येन तेषां भवेत्पुण्यं सर्वेषामेव हेलया
此处可有某种方便之道——或出于天意,或由人力——使他们得以轻易获得一切圣渡(tīrtha)之功德?
Verse 38
सूत उवाच । अस्मिन्नर्थे पुरा पृष्टो विश्वामित्रो महामुनिः । समुपेत्याश्रमं तस्य आनर्तेन महीभुजा
苏多说道:往昔正为此事,大圣贤毗湿瓦密多曾被请问——当阿那尔塔之王前来拜访他的修行林庵之时。
Verse 39
राजोवाच । भगवन्नत्र तीर्थानि संख्यया रहितानि च । तेषु स्नानविधिः प्रोक्तः सर्वेष्वेव पृथक्पृथक्
国王说道:噢,世尊!此处圣渡(tīrtha)无量无数;而每一处的沐浴仪轨都被分别宣说,逐一教示。
Verse 40
मासे वारे दिने चैव कुत्रचिन्मुनिसत्तमैः । दानानि च तथोक्तानि यथा स्नान विधिस्तथा
在某些地方,最胜的牟尼也依月份、星期与日辰而制定行持;布施之法亦随之宣说,正如沐浴的规矩一般。
Verse 41
देवानां दर्शनं चापि पृथक्तेन प्रकीर्तितम् । न शक्यते फलं प्राप्तुं सर्वेषां केनचिन्मुने
即便是瞻礼诸天的圣观(darśana),也被分别宣说。因此,噢牟尼啊,任何人都不可能尽得一切的果报。
Verse 42
अपि वर्षशतेनापि किं पुनः स्तोकवासरैः । तस्माद्वद महाभाग सुखोपायं च देहिनाम्
纵使百年亦难成办——何况区区数日!因此,噢大福德者,请为一切有身众生开示一条易行之道。
Verse 43
एकस्मिन्नपि च स्नातस्तीर्थे प्राप्नोति मानवः । सर्वेषामेव तीर्थानां स्नानजं सकलं फलम्
即使只在一处圣渡处(tīrtha)沐浴,世人亦能获得在一切圣渡处沐浴所生的全部功德之果。
Verse 45
सूत उवाच । तच्छ्रुत्वा सुचिरं ध्यात्वा विश्वामित्रो महामुनिः । अब्रवीच्छृणु राजेंद्र सरहस्यं वदामि ते
苏多说道:听闻此事后,大圣仙毗湿瓦密多沉思良久,继而开口:“请听吧,王中之最;我将把此教诲连同其内秘一并告知于你。”
Verse 46
चत्वार्यत्र प्रकृष्टानि मुख्यतीर्थानि पार्थिव । येषु स्नाने कृते राजञ्छ्राद्धे च तदनंतरम् । सर्वेषामेव तीर्थानां स्नानजं लभ्यते फलम्
大王啊,此处有四处最为殊胜的主要圣渡处(tīrtha)。若人在其中沐浴,并随即举行施祖仪式(śrāddha),便能获得一切圣渡处沐浴所生的功德之果。
Verse 47
सप्तविंशतिलिंगानि तथात्रैव स्थितानि च । सिद्धेश्वरप्रपूर्वाणि सर्वपापहराणि च
并且就在此地,安立着二十七座林伽(liṅga),以悉地湿伐罗(Siddheśvara)为首,皆能除灭一切罪垢。
Verse 48
तेषु सर्वेषु दृष्टेषु भक्त्या पूतेन चेतसा । सर्वेषामेव देवानां भवेद्दर्शनजं फलम्
若以由虔敬(bhakti)净化之心观礼这一切,便能获得瞻礼(darśana)一切诸神所生之果报。
Verse 49
तथैकस्मिन्सुरे दृष्टे सर्वदेवसमुद्भवम् । फलं दर्शनजं भावि नराणां द्विजसत्तम
同样啊,最尊贵的二次生者,只要在此瞻礼一位神祇——那位为诸神之源者——众人便得由瞻礼(darśana)而生之功德,犹如已见一切诸神。
Verse 50
राजोवाच । कानि चत्वारि तीर्थानि तत्र मुख्यानि सन्मुने । येषु स्नातो नरः सम्यक्सर्वेषां लभते फलम्
国王说道:圣贤牟尼啊,那里的四处主要圣地(tīrtha)是哪四处?人在其中如法沐浴,便能获得一切圣地的果报。
Verse 51
विश्वामित्र उवाच । अत्रास्ति कूपिका पुण्या यस्यां संश्रयते गया । कृष्णपक्षे चतुर्दश्याममावास्यादिने तथा
毗湿瓦密多说道:此地有一口圣井(kūpikā),据说连伽耶(Gayā)本身也寄居其中。尤其在黑半月(kṛṣṇa-pakṣa)的第十四日,以及在无月日(amāvāsyā,新月日),
Verse 52
विशेषेण महाभाग कन्यासंस्थे दिवाकरे । निर्विण्णा भूमिलोकानां कृतैः श्राद्धैरनेकधा
大福者啊,尤其当太阳行至处女宫(Kanyā)之时,因世人以多种方式奉行施罗达(śrāddha)祭祖之礼,伽耶便对人间众生感到满足。
Verse 53
यस्तस्यां कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः
凡在彼处如法举行施罗达(śrāddha)者,具足信心,
Verse 54
तस्मिन्नहनि राजेंद्र स संतारयते पितॄन् । तथा तीर्थं द्वितीयं तु शंखतीर्थमिति स्मृतम्
就在那一天,噢诸王之主,他能救度并超拔其祖先。第二处圣渡口被称念为“螺贝圣地(Śaṅkha-tīrtha)”。
Verse 55
तत्र स्नात्वा नरो यस्तु पश्येच्छंखेश्वरं ततः । सर्वेषां फलमाप्नोति माघस्य प्रथमेऽहनि
在那里沐浴之后,若有人继而瞻礼圣主“Śaṅkheśvara”,便在摩伽月初一获得一切功德之果(诸圣地与诸行之果)。
Verse 56
तथा मन्नामकं तीर्थे तृतीयं मुख्यतां गतम् । अत्र स्नात्वा तु यः पश्येन्मया संस्थापितं हरम्
同样,第三处圣渡口以我之名而称,已臻至最尊最胜。凡在此沐浴,并瞻礼由我所安立的哈罗(Hara,湿婆)之相者……
Verse 57
विश्वामित्रेश्वरं नाम सर्वेषां स फलं लभेत् । नभस्यस्य सिताष्टम्यां सर्वेषां लभते फलम्
此湿婆名为“毗湿瓦密多罗主(Viśvāmitreśvara)”;以礼敬与瞻礼之功,便得一切功德之果。于那婆娑月(Nabhasya,即婆陀罗钵陀)白分第八日,亦得诸善业之果。
Verse 58
शक्रतीर्थमिति ख्यातं चतुर्थं बालमण्डनम् । तत्र स्नात्वा च पंचाहं शक्रेश्वरमवेक्ष्य च । आश्विनस्य सितेऽष्टम्यां सर्वेषां लभते फलम्
第四处圣渡口名闻为“释迦罗圣地(Śakratīrtha)”,亦称“童饰(Bālamaṇḍana)”,能庄严并利益少年。若于彼处连浴五日,并瞻礼“释迦罗主(Śakreśvara,湿婆)”,则在阿湿毗那月白分第八日,获得一切功德之果。
Verse 59
राजोवाच । विधानं वद मे विप्र गयाकूप्याः समुद्भवम् । विस्तरेण महाभाग श्रद्धा मे महती स्थिता
国王说道:“噢婆罗门,请告诉我关于伽耶库毗(Gayākūpī)的正当仪轨与其起源。吉祥者啊,请详尽开示——因为我的信心(śraddhā)已深深坚定。”
Verse 60
विश्वामित्र उवाच । अमावास्यादिने प्राप्ते तत्र कन्यागते रवौ । यः श्राद्धं कुरुते भक्त्या स पितॄंस्तारयेन्निजान्
毗湿瓦密多罗说:“当阿摩婆娑(Amāvāsyā,新月日)到来,且太阳行至处女宫(Kanyā)之时,凡在彼处以虔敬行施祖祭(śrāddha)者,必能度脱自己的祖先(pitṛ)。”
Verse 61
भर्तृयज्ञविधानेन शुद्धैः स्थानोद्भवैर्द्विजैः । भर्तृयज्ञविधिं त्यक्त्वा योऽन्येन विधिना नरः
“依照 bhartṛ-yajña(依规之祖祭)之法,应由清净的两次生者(dvija)婆罗门,且须为本地所生者来主持。但若有人舍弃 bhartṛ-yajña 的仪轨,而改用别的方式……”
Verse 62
श्राद्धं करोति मूढात्मा विहीनं स्थानजैर्द्विजैः । स्थानजैरपि वाऽशुद्धैस्तस्य तद्व्यर्थतां व्रजेत्
“愚昧之人行施祖祭(śrāddha)而不请本地婆罗门;或虽请本地婆罗门却不清净——则此仪式于他终归徒然无果。”
Verse 63
वृष्टिः स्यादूषरे यद्वत्सत्यमेतन्मयोदितम् । अंधस्याग्रे यथा नृत्यं प्रगीतं बधिरस्य च । तथा च व्यर्थतां याति अन्यस्थानोद्भवैर्द्विजैः
“如雨落于荒瘠之地——此乃我所言之真;又如在盲者前起舞,或为聋者而歌——同样地,若以他乡所生的婆罗门来行(śrāddha),此祭亦归于无果。”
Verse 64
ब्राह्मणैः कारयेच्छ्राद्धं मूर्खैरपि द्विजोत्तमाः । चतुर्वेदा अपि त्याज्या अन्यस्थानसमुद्भवाः
噢,最胜的二次生者:应令婆罗门主持施罗陀(śrāddha),纵使其学识浅薄亦可;但即便通晓四吠陀者,若出自他乡(非本地),亦当回避。
Verse 65
दवे कर्मणि पित्र्ये वा सोमपाने विशेषतः । देशांतरगतो यस्तु श्राद्धं च कुरुते नरः । वैश्वानरपुरस्तेन कार्यं नान्यद्विजस्य च
在布施(dāna)之仪、祖先祭(pitr̥ya)之仪,尤其在饮苏摩之礼中:若有人远赴他乡而行施罗陀(śrāddha),当先于毗湿婆那罗(Vaiśvānara,阿耆尼)前作法;并且不可另请非所规定之婆罗门。
Verse 66
संनिवेश्य दर्भबटूञ्छ्राद्धं कुर्याद्द्विजोत्तमाः । दक्षिणा भोजनं देयं स्थानिकानां चिरादपि
噢,最胜的二次生者:安置以达婆草(darbha)所作之象征后,当行施罗陀(śrāddha)。并应施与达克希那(dakṣiṇā)及饮食——乃至施与本地居民——使仪式依圣地之法(dharma)而圆满。
Verse 67
पंचगव्यस्य संपूर्णो यथा कुम्भः प्रदुष्यति । बिंदुनैकेन मद्यस्य पतितेन नृपोत्तम
噢,最胜的君王:正如盛满五牛产(pañcagavya)的器皿,若落入一滴酒便成污秽;同样,神圣之仪亦会因些微而染污的掺杂而败坏。
Verse 68
एकेनापि च बाह्येन बहूनामपि भूपते । मध्ये समुपविष्टेन तच्छ्राद्धं दोषमाप्नुयात्
噢,大王:纵有众人同在,若有一名外人——不堪此仪者——坐于其中,则此施罗陀(śrāddha)便生过失而成瑕疵。
Verse 69
स्थानजोऽपि चतुर्वेदो यद्यपि स्यान्न शुद्धिभाक् । बहूनामपि शुद्धानां मध्ये श्राद्धं विनाशयेत्
即使是本地通晓四吠陀的婆罗门,若缺乏清净之德,坐在众多清净者之间,也能毁坏施行的śrāddha祭仪。
Verse 70
तस्मात्सर्वप्रयत्नेन शुद्धं ब्राह्मणमानयेत्
因此,应当竭尽一切努力,迎请一位清净的婆罗门来主持此仪。
Verse 71
स्थानिकं मूर्खमप्येवमलाभे गुणिनामपि । हीनांगमधिकांगं वा दूषितं नो तथा परम्
若求不得具德合格的婆罗门,则即便是本地之人,纵然愚昧,也可暂且受用;因为他不如那“染污不净”者为害——无论其肢体残缺或多余。
Verse 72
कन्यादाने तथा श्राद्धे कुलीनो ब्राह्मणः सदा । आहर्तव्यः प्रयत्नेन य इच्छेच्छुभमात्मनः । सोऽपि शुद्धिसमायुक्तो यदि स्यान्नृपसत्तम
在行迦尼亚达那(施嫁女)以及施行śrāddha之时,凡欲自得吉祥者——噢,诸王之最——当恒常竭力迎请出身高贵的婆罗门,但须其具足清净。
Verse 73
वृक्षाणां च यथाऽश्वत्थो देवतानां यथा हरिः । श्रेष्ठस्थानजविप्राणां तथा चाष्टकुलोद्भवः
正如阿湿婆他树为诸树之最,哈利为诸神之尊;同样,在最优秀的本地婆罗门之中,出自“八族八系”者被视为最为卓越。
Verse 74
आयुधानां यथा वज्रं सरसां सागरो यथा । श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः
正如金刚杵(vajra)为诸兵器之最上,海洋为诸水域之最上;同样,出自“八族系”者,在此地最殊胜的婆罗门中亦为最尊。
Verse 75
उच्चैःश्रवा यथाऽश्वानां गजानां शक्रवाहनः । श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः
正如优钵迦施罗婆(Uccaiḥśravā)为诸马之最上,帝释天(Śakra)之坐骑爱罗婆多(Airāvata)为诸象之最上;同样,出自阿ष्ट库拉(aṣṭakula)者,在当地殊胜婆罗门中为最尊。
Verse 76
नदीनां च यथा गंगा सतीनां चाप्यरुंधती । तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः
正如恒河(Gaṅgā)为诸河之最上,阿伦达蒂(Arundhatī)为贞洁妇女之最上;同样,在此圣地出生的婆罗门之中,阿ष्ट库利迦(Aṣṭakulika)被忆念为“śreṣṭha”(最尊最胜)。
Verse 77
ग्रहाणां भास्करो यद्वन्नक्षत्राणां निशाकरः । तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः
正如太阳(Bhāskara)为诸行星之主,月亮(Niśākara)为诸星宿之主;同样,在此圣地出生的婆罗门之中,阿ष्ट库利迦被忆念为最为尊上。
Verse 78
पर्वतानां यथा मेरुर्द्विपदानां द्विजोत्तमः । स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा
正如须弥山(Meru)为诸山之至尊,在两足众生中,“二生之最胜”(dvijottama)为至尊;同样,在该地出生的婆罗门之中,阿ष्ट库利迦亦为最上。
Verse 79
पक्षिणां गरुडो यद्वत्सिंहोऽरण्यनिवासिनाम् । स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा
正如迦楼罗在群鸟中为首,狮子在林居者中为王;同样,在该地土生的婆罗门之中,阿湿多库利迦亦为最尊最胜。
Verse 80
एवं ज्ञात्वा प्रयत्नेन श्राद्धे यज्ञे च पार्थिव । कन्यादाने विशेषेण योज्यश्चाष्टकुलोद्भवः
既知如此,王啊,当以勤谨之心,在施罗陀祭与诸供祭(yajña)中延请阿湿多库罗之后裔,尤其在“女施”(kanyādāna,嫁女之礼)时更当如此。
Verse 81
नृत्यंति पितरस्तस्य गर्जंति च पितामहाः । वेदिमूले समालोक्य प्राप्तमष्टकुलं नृप
王啊,为此人,祖灵(Pitṛ)欢舞,列祖列宗亦以喜悦而长吼;当他们在祭坛之基处亲见阿湿多库罗婆罗门的到来之时。
Verse 82
पुनर्वदंति संहृष्टाः किमस्माकं प्रदास्यति । दौहित्रश्चापसव्येन जलं दर्भतिलान्वितम्
他们欢喜复言:“他将献给我们什么?”——当外孙(dauhitra)以“反佩圣绳”(apasavya)之式,奉上夹带达尔婆草与芝麻之水时。
Verse 83
राजोवाच । यदेतद्भवता प्रोक्तं श्रैष्ठ्यमष्टकुलोद्भवम् । सर्वेषां नागराणां च तत्किं वद महामते
国王说道:“你已宣说阿湿多库罗所生者之卓越。然在一切那伽罗婆罗门之中,为何唯其如此?大慧仙人啊,请为我开示。”
Verse 84
न ह्यत्र कारणं स्वल्पं भविष्यति द्विजोत्तम
诚然,哦最尊贵的再生者,此事之因绝非微小。
Verse 85
विश्वामित्र उवाच । सत्यमेतन्महाराज यत्त्वया व्याहृतं वचः । अन्येऽपि नागराः संति वेदवेदांगपारगाः
毗湿瓦密多说道:“诚然,伟大的国王啊,你所说之言真实不虚。另有诸多那伽罗婆罗门,通达吠陀与诸吠陀支分。”
Verse 86
श्राद्धार्हा यज्ञयोग्याश्च कन्यायोग्या विशेषतः । परं ते स्थापिता राजन्स्वयमिंद्रेण तत्र च
他们堪受施行施罗陀(śrāddha)之邀,具足祭祀(yajña)之资格,尤为适宜缔结婚姻盟好。大王啊,正是因陀罗亲自将他们安置于彼处至高之位。
Verse 87
प्रधानत्वेन सर्वेषां नागरैश्चापि कृत्स्नशः । तेन ते गौरवं प्राप्ताः स्थानेत्रैव विशेषतः
由于那伽罗在一切(诸类)之中处于首位、无不周全,因此他们获得了尊荣——尤其就在此地。
Verse 88
तस्माच्छ्रूाद्धं प्रकर्तव्यं विप्रै श्चाष्टकुलोद्भवैः । अप्राप्तौ चैव तेषां तु कार्यं नागरसंभवैः
因此,施罗陀(śrāddha)应由出自八大族系的婆罗门来主持;若他们不可得,则当由那伽罗出身者来行之。
Verse 89
नान्यस्थानसमुद्भूतैश्चतुर्वेदैरपि द्विजैः । भर्तृयज्ञेन मर्यादा कृता ह्येषा महा त्मना
即便是通达四吠陀、却生于他处的二生婆罗门,也不应在此行事。此一仪轨界限之法,乃由大心者婆尔特利耶阇那所制定。
Verse 90
मुक्त्वा तु नागरं विप्रं योऽन्येनात्र करिष्यति । श्राद्धं वा यदि वा यज्ञं व्यर्थं तस्य भविष्यति
若有人舍弃那伽罗婆罗门,而在此地改由他人主持施行施罗陀或祭祀(yajña),则其仪式于彼将成无果。
Verse 91
राजोवाच । संत्यन्ये विविधा विप्रा वेदवेदांगपारगाः । मध्यदेशोद्भवाः शान्तास्तथान्ये तीर्थसंभवाः
国王说道:“另有许多婆罗门,通达吠陀与吠陀支,生于中土(Madhyadeśa),行止安宁;亦有他者生于诸圣地渡口(tīrtha)。”
Verse 92
भर्तृयज्ञेन ये त्यक्ताः श्राद्धे यज्ञे विशेषतः । हीनांगाश्चाधिकांगाश्च द्विर्नग्नाः श्यावदंतकाः
(国王续言:)“婆尔特利耶阇那所摒弃者——尤其在施罗陀与祭祀之中——被说为肢体残缺或肢体过多,‘两度裸露’,且牙齿黧黑。”
Verse 93
कुनखाः कुष्ठसंयुक्ता मूर्खा अपि विगर्हिताः । श्राद्धार्हाः सूचितास्तेन एतं मे संशयं वद
“(其中有人)指甲不善,患麻风,愚昧且受讥嫌;然而他却指示他们为可受施罗陀之人。请为我解此疑惑。”
Verse 94
विश्वामित्र उवाच । कीर्तयिष्ये नरव्याघ्र कारणानि बहूनि च । चमत्कारस्य पत्न्याश्च दानेन पतिता यतः
毗湿瓦密多说道:“噫,人中之虎,我将叙述诸多缘由。只因一次施与之举,恰玛特迦罗之妻遂失其端正之道而堕落。”
Verse 95
स्त्रीणां प्रतिग्रहेणैव विप्रेषु प्रोषितेषु च । पृथक्त्वं च ततो जातं बाह्याभ्यन्तरसंज्ञकम्
由于接受妇女所赠之物——尤其在婆罗门外出之时——由此生起分裂,被称为“外”与“内”两派。
Verse 96
दुर्वाससा ततः शप्ता रुष्टेनेवाहिना यथा । विद्याधनाभिमानेन शापेन पतिताः सदा
随后他们被杜尔瓦萨诅咒——如同被暴怒之蛇击倒——遂从本位堕落。因自负学识与财宝,那诅咒常使他们沉沦。
Verse 97
कुशे राज्यगते राजन्राक्षसानां महाभयम् । प्रजयाऽवेदितं सर्वं तस्य राज्ञो महात्मनः
大王啊,当俱舍登临王位之时,罗刹所致的巨大恐惧,已由臣民尽数禀告那位伟大的君主。
Verse 98
विभीषणस्य लंकायां दूतश्च प्रेषितस्तदा । सर्वं निवेदयामास प्रजानां भयसंभवम्
其时遣使前往楞迦的毗毗沙那,使者详尽禀告民众之中恐惧滋生的情状。
Verse 99
अभिवन्द्य कुशादेशं रामस्य चरितं स्मरन् । पुर्यां विलोकयामास लङ्कायां रामशासनात्
他礼敬并领受库沙之命,追忆罗摩的圣行,依罗摩之敕令巡视兰迦之城。
Verse 100
उपप्लवस्य कर्तारो नष्टाः सर्वे दिशो दश । गन्धर्वाणां च लोकं हि भयेन महता गताः
作乱之徒尽向十方遁去;实因大怖畏所驱,他们离开而往乾闼婆之界。
Verse 101
स्थातुं तत्र न शक्तास्ते विभीषणभयेन च । पृथिव्यां समनुप्राप्ताः स्थानान्यपि बहूनि च
他们不能久留其处,又畏惧毗毗沙那,便降至人间大地,并且也到达了许多别处。
Verse 102
भयेन महता तत्र कुशस्यैव तु शासने । ब्राह्मणानां च रूपाणि कृत्वा तत्र समागताः
在那里,于库沙亲自的统令之下,他们因大恐惧而聚集,并化作婆罗门之形。
Verse 103
वाडवानां महिम्ना च मध्ये स्थातुं न तेऽशकन् । पतितानां च संस्थानं चमत्कारपुरं गताः
又因瓦达瓦诸族的威德(mahimā),他们不能停留在其中;于是前往奇迹城Camatkārapura,那与堕落者相关的聚落。
Verse 104
मायाविशारदैस्तैश्च धनेन विद्यया ततः । अध जग्धं ततस्तैस्तु तेषां मध्ये स्थितं च तैः
随后,那些精于幻术(摩耶)者倚仗财富与学识,又招致更深的堕落;因此,置于他们中间之物,竟被他们亲自吞噬毁坏。
Verse 105
ततःप्रभृति ते सर्वे राक्षसत्वं प्रपेदिरे । क्रूराण्यपि च कर्माणि कुर्वंति च पदेपदे
自那时起,他们全都堕入罗刹之境;并且步步之间,也都行诸残酷之业。
Verse 106
ततस्ते सर्वथा राजन्वर्जनीयाः प्रयत्नतः । श्राद्धे यज्ञे नरव्याघ्र नरके पातयंति च
因此,哦大王,他们在一切方面都应当竭力谨慎回避。哦人中之虎,在祭祖的施罗陀与祭祀的耶祭中,他们使人堕入地狱。
Verse 107
अन्यच्च दूषणं तेषां कीर्तयिष्ये तवाऽनघ । त्रिजाताः स्थापिता राजन्सर्पाणां गरनाशनात्
此外,清净无罪者啊,我还要向你宣说他们的另一过失。大王啊,他们因毁灭蛇类之毒而被立名为“三种姓(trijātā)”。
Verse 108
नगरत्वं ततो जातं चमत्कार पुरस्य तु । त्रिजातत्वं तु सर्वेषां जातं तत्र विशेषतः
由此,那奇妙城镇便得成“城邑”之名分;而在彼处,尤为特别的是,他们众人皆生起“三种姓(trijātā)”之状态。
Verse 109
एतेभ्यः कारणेभ्यश्च भर्तृयज्ञेन वर्जिताः । पुनश्च कारणं तेषां स्पर्शादपि न शुद्धिभाक्
因此诸因,他们被排除在婆尔特利祭(Bhartṛ-yajña)之外。又因另一缘故,他们即使仅以接触(净化之法)也不能得清净。
Verse 110
कुम्भकोत्थं च संप्राप्तं महच्चण्डालसंभवम्
于是,俱婆迦(Kumbhaka)兴起——出自强大的旃陀罗(Caṇḍāla)族系。
Verse 111
राजोवाच । एतच्च कारणं विप्र कथयस्व प्रसादतः । स्थावरस्य चरस्यैव जगतो ज्ञानमस्ति ते
国王说道:噢,婆罗门啊,愿你垂恩为我说明此因。你通晓整个世界,知其动者与不动者。
Verse 112
विश्वामित्र उवाच । अत्र ते कीर्तयिष्यामि पूर्ववृत्तकथांतरम् । भर्तृयजेन ये त्यक्ताः सर्वेन्ये ब्राह्मणोत्तमाः
毗湿瓦密多说道:在此我将为你称述一段往昔的别样故事。那些被婆尔特利祭(Bhartṛ-yajña)弃置之人——而其余皆为卓越的婆罗门——且听其缘由。
Verse 113
वर्धमाने पुरे पूर्वमासीदंत्यजजातिजः । चण्डालः कुंभकोनाम निर्दयः पापकर्मकृत्
往昔在跋陀摩那城,有一人出身于贱民之族:名为俱婆迦(Kumbhaka)的旃陀罗(Caṇḍāla),性情残忍,常作罪业。
Verse 114
कस्यचित्त्वथ कालस्य तस्य पुत्रो बभूव ह । विरूपस्यापि रूपाढ्यः पूर्वकर्मप्रभावतः
过了一段时日,他得一子;虽父形貌不佳,子却端严俊美——皆由前世业行之力所致。
Verse 115
पिंगाक्षस्य सुकृष्णस्य वयोमध्यस्य पार्थिव । दक्षः सर्वेषु कृत्येषु सर्वलक्षणलक्षितः
大王啊,他眼呈金褐,肤色黝而悦目,正当盛年;诸事勤敏,具足一切吉祥相。
Verse 116
स वृद्धिं द्रुतमभ्येति शुक्लपक्षे यथोडुराट् । तथाऽसौ शंस्यमानस्तु सर्वलोकैः सुरूपभाक् । दृष्ट्वा कुटुंबकं नित्यं वैराग्यं परमं गतः
如同白半月中明月迅速盈满,他也很快兴盛——为众人称颂,形貌端好。然而见到家居之事周而复始,他遂证得至上的离欲。
Verse 117
ततो देशांतरं दुःखाद्भ्रममाण इतस्ततः । चमत्कारपुरं प्राप्तो द्विजरूपं समाश्रितः । स स्नाति सर्वकृत्येषु भिक्षान्नकृतभोजनः
随后他因忧苦而四处漂泊。抵达奇妙城(Camatkārapura)后,他依止为二次生的婆罗门之相;凡诸宗教行持皆先沐浴净身,以乞食所得为生。
Verse 118
एतस्मिन्नेव काले तु ब्राह्मणः शंसितव्रतः । छांदोग्यगोत्रविख्यातः सुभद्रोनाम पार्थिवः
就在那时,有一位婆罗门以其可赞的誓行而闻名,世称出自《旃陀迦》一系;其名苏跋陀罗(Subhadra),为人中之杰。
Verse 119
नागरो वर्षयाजी च वेदवेदांगपारगः । तत्रासीत्तस्य सञ्जाता कन्यका द्विगुणै रदैः
他是那伽罗国之人,年年行祭(yajña),并通达吠陀及诸吠陀支。于彼处,他得一女,奇异非常,生有双重之齿。
Verse 120
तथा त्रिभिःस्तनै रौद्रा पृष्ठ्यावर्तकसंयुता । दरिद्रोऽपि सुदुःस्थोऽपि कुलहीनोपि पार्थिव
又且,她性情凶烈,具三乳,并有背上旋纹之记。大王啊,纵使男子贫穷、困厄,甚至无有门第—
Verse 121
दीयमानामपि न तां प्रतिगृह्णाति कश्चन । यद्भक्षयति भर्तारं षण्मासाभ्यंतरे हि सा
纵使将她许配于人,也无人肯受,因为她必在六个月之内吞噬其夫。
Verse 122
यस्याः स्युर्द्विगुणा दंता एवं सामुद्रिका जगुः । त्रिस्तनी कन्यका या तु श्वशुरस्य कुलक्षयम् । संधत्ते नात्र सन्देहस्तस्मात्तां दूरतस्त्यजेत्
相术(sāmudrika)诸师宣说:女子若具双齿,尤以三乳者为甚,必致其公公之族系败亡,毫无疑虑。故当远远弃绝之。
Verse 123
पृष्ठ्यावर्तो भवेद्यस्या असती सा भवेद्द्रुतम् । बहुपापसमाचारा तस्मात्तां परिवर्जयेत्
女子若背有旋纹,便会很快失贞,行多种罪业;因此应当回避她。
Verse 124
अथ तां वृद्धिमापन्नां दृष्ट्वा विप्रः सुभद्रकः । चिन्ताचक्रं समारूढो न शांतिमधिगच्छति
于是婆罗门苏婆陀罗见她已长成至成熟之龄,忧虑如旋涡缠身,心中终不得安宁。
Verse 125
किं करोमि क्व गच्छामि कथमस्याः पतिर्भवेत् । न कश्चित्प्रतिगृह्णाति प्रार्थितोऽपि मुहुर्मुहुः
“我当如何?我当往何处去?她将怎样得一位夫君?纵使我一再恳求,也无人肯接纳。”
Verse 126
दरिद्रो व्याधितो वाऽपि वृद्धोऽपि ब्राह्मणो हि सः । स्मृतौ यस्मादिदं प्रोक्तं कन्यार्थे प्राङ्महर्षिभिः
即便他贫困、患病,或年岁已高,他仍是婆罗门;因为关于少女之事(应守之婚姻义务与护持),此条法则早由古代大圣仙在《斯摩利提》中宣说。
Verse 127
अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला
八岁称为“高丽(Gaurī)”;九岁称为“罗希尼(Rohiṇī)”;十岁称为“迦尼雅(Kanyā)”。超过此龄,则称为“rajasvalā”,即已至月事之期。
Verse 128
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च । त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम्
母亲与父亲,以及长兄——这三人若因疏忽而任由少女被视为已成“rajasvalā”(月事已至而未得应有护持),便将堕入地狱。
Verse 129
एवं चिन्तयतस्तस्य सोंऽत्यजो द्विजरूपधृक् । भिक्षार्थं तद्गृहं प्राप्तो दृष्टस्तेन महात्मना
正当他如此思量之时,一名贱民假作“二次生”之相,为求施舍来到那家,被那位高德之人看见。
Verse 130
पृष्टश्च विस्मयात्तेन दृष्ट्वा रूपं तथाविधम् । कुतस्त्वमिह सम्प्राप्तः क्व यास्यसि च भिक्षुक
他见此形貌大为惊异,便问道:“你从何处来到这里?又将往何处去,乞士啊?”
Verse 131
ईदृग्भव्यतरो भूत्वा कस्मान्माधुकरीं गतः । किं गोत्रं तव मे ब्रूहि कतमः प्रवरश्च ते
“你仪容如此高贵,为何却行‘蜜蜂乞食’之法(mādhukarī,点滴乞施而活)?请告知你的氏族(gotra),以及你所属的先祖系(pravara)。”
Verse 132
सोऽब्रवीद्गौडदेशीयं स्थानं मे सुमहत्तरम् । नाम्ना भोजकटं ख्यातं नानाद्विजसमाश्रितम्
他答道:“我的住处在高达国(Gauḍa)境内,有一处极大的城邑,名闻遐迩,称为菩阇迦吒(Bhojakaṭa),多有婆罗门居住。”
Verse 133
तत्रासीन्माधवोनाम ब्राह्मणो वेदपारगः । वसिष्ठगोत्रविख्यात एकप्रवरसूचितः
“那里曾有一位名叫摩达婆(Mādhava)的婆罗门,通达吠陀;以隶属婆悉吒(Vasiṣṭha)氏族而著称,并以仅具一支先祖系(pravara)而闻名。”
Verse 134
तस्याहं तनयो नाम्ना चंद्रप्रभ इति स्मृतः
我乃其子,世人忆念我名为“月光”(Candraprabha)。
Verse 135
ततोऽहमष्टमे वर्षे यदा व्रतधरः स्थितः । तदा पंचत्वमापन्नः पिता मे वेदपारगः
其后,我八岁之时,安住于持戒誓行(vrata);彼时我父,通达吠陀者,遂告终逝。
Verse 136
माता मे सह तेनैव प्रविष्टा हव्यवाहनम् । ततो वैराग्यमापन्नो निष्क्रांतोऽहं निजालयात्
我母与他同入火中。其后,我为离欲之心(vairāgya)所摄,遂离开自家。
Verse 137
तीर्थानि भ्रममाणोऽत्र संप्राप्तस्तु पुरं तव । अधुना संप्रयास्यामि प्रभासं क्षेत्रमुत्तमम्
我游行诸圣渡(tīrtha)之间,遂至此处,抵达汝之城。如今我将启程前往普拉婆娑(Prabhāsa),那无上殊胜的圣域。
Verse 138
यत्र सोमेश्वरो देवस्त्यक्त्वा कैलासमागतः । न मया पठिता वेदा न च शास्त्रं नृपोत्तम । तीर्थयात्राप्रसंगेन तेन भिक्षां चराम्यहम्
彼处乃天神苏摩伊湿伐罗(Someśvara)舍离凯拉萨而来之地。噢至上之王,我既未诵读吠陀,亦未研习论典(śāstra);唯因朝圣巡礼之缘,我以乞施为生。
Verse 139
विश्वामित्र उवाच । तस्य तद्वचनं श्रुत्वा चिन्तयामास चेतसि । ब्राह्मणोऽयं सुदेशीयस्तथा भव्यतमाकृतिः । यदि गृह्णाति मे कन्यां तदस्मै प्रददाम्यहम्
毗湿瓦密多罗说道:听了他的话,我在心中思量:“此人乃婆罗门,出自善国,形貌极其吉祥。若他愿受我之女,我便将女儿许配于他。”
Verse 140
यावद्रजस्वला नैव जायते सा निरूपिता । कृत्स्नं दूषयति क्षिप्रं नैव वंशं ममाधमा
只要尚未见她成为 rajasvalā(及笄成女),便仍难定夺;那卑劣之人必将迅速玷污我整个族系。
Verse 141
ततः प्रोवाच तं म्लेच्छं संमंत्र्य सह भार्यया । यदि गृह्णासि मे कन्यां तव यच्छाम्यहं द्विज
随后他与妻子商议,便对那 mleccha 说道:“噢,二生者(dvija),若你愿受我之女,我便将她交付于你。”
Verse 142
भरणं पोषणं द्वाभ्यां करिष्यामि सदैव हि
确然,我将恒常供给你们二人的养护与衣食。
Verse 143
तच्छ्रुत्वा हर्षितः प्राह सोंऽत्यजो नृपसत्तमम् । तवादेशं करिष्यामि यच्छ मे कन्यकां नृप
闻此,那位 antyaja 欢喜地对最尊贵的君王说道:“我必遵从你的命令;请将那少女赐与我,噢,大王。”
Verse 144
तथेत्युक्त्वा गतस्तेन तस्मै दत्ता निजा सुता । गृह्योक्तेन विधानेन विवाहो विहितस्ततः
他说“如是”,便与其同行,将自己的女儿许配给他;随后依照《居家仪轨》(Gṛhya)所传之法,庄严如仪地完成婚礼。
Verse 145
ततो ददौ धनं धान्यं गृहं क्षेत्रं च गोधनम् । तस्मै तुष्टिसमायुक्तो मन्यमानः कृतार्थताम्
随后他心满意足,自以为诸事圆满,便赐予他财宝、谷粮、宅舍、田地与牛群。
Verse 146
अथ सोऽपि च तां प्राप्य विलासानकरोद्बहून् । खाद्यैः पानैः सुवस्त्रैश्च गन्धमाल्यैर्विभूषणैः
得她为妻后,他也沉溺于诸多享乐,以珍馐甘饮、华美衣裳、香料花鬘与种种饰物来款待装点她。
Verse 147
परं स व्रजति प्रायो येन मार्गेण केनचित् । सारमेयाः सशब्दाश्च पृष्ठतोऽनुव्रजंति वै
然而他每每行于某条道路,喧嚣吠叫的群犬便确实尾随其后。
Verse 148
अन्येषामंत्यजात्यानां यद्वत्तस्य विशेषतः । वेदाभ्यासपरश्चैव यदि संजायते क्वचित् । रक्तं पतति वक्त्रेण तत्क्षणात्तस्य दुर्मतेः
而且如同其他贱民之类一般——在他身上尤为显著——若他偶尔起意专注诵习吠陀,因其心性邪恶,血便在那一刻从他口中流下。
Verse 149
एतस्मिन्नंतरे लोकः सर्व एव प्रशंकितः । अब्रवीच्च मिथोऽभ्येत्य चंडालोऽयमसंशयम्
其间,众人尽起疑心,彼此相近而语:“此人无疑是旃陀罗。”
Verse 150
यदेते पृष्ठतो यांति भषमाणाः शुनीसुताः । सुभद्रोऽपि च तत्तेषां श्रुत्वा चिन्तापरोऽभवत्
“只因这些狗吠叫着总在他身后跟随。”——听到他们这般议论,苏跋陀罗亦满怀忧惧。
Verse 151
मन्यमानश्च तत्सत्यं दुःखेन महतान्वितः । नूनमंत्यजजातीयो भविष्यति सुतापतिः
他以为传言属实,悲苦深重,心想:“苏塔之夫必是出自安底阇之族(贱民)。”
Verse 152
ज्ञायते चेष्टितैः सर्वैर्यथाऽयं जल्पते जनः
人们说:从他的一切举止行状,便可知他究竟是何等之人。
Verse 153
एवं रात्रिंदिवं तस्य चिन्तयानस्य भूपतेः । लोकापवादयुक्तस्य कियान्कालोऽभ्यवर्तत
如是,那位国王昼夜忧思,背负世人诽谤之重担——不知时日已逝几何。
Verse 154
अन्यस्मिन्नहनि प्राप्ते आद्याद्या द्विजसत्तमाः । मध्यगेन समायुक्ता ब्रह्मस्थानं समागताः । तस्य शुद्धिकृते प्रोचुर्येन शंका प्रणश्यति
又过了一日,诸位最尊贵的婆罗门一次又一次地与主祭者同来,齐集于梵天圣处(Brahmasthāna)。他们宣说为他行净化之仪,由此一切疑虑皆得消除。
Verse 155
अथोचुस्तं द्विजश्रेष्ठा ब्रह्मस्थानस्य मध्यगम् । मध्यगस्य तु वक्त्रेण विवर्णवदनं स्थितम्
随后,最尊贵的婆罗门们对那站在梵天圣处中央的人开口;而就在那一刻,主祭者的面容显得苍白失色。
Verse 156
कुलं गोत्रं निजं ब्रूहि प्रवरांश्च विशेषतः । स्थानं देशं च विप्राणां येन शुद्धिः प्रदीयते
“请宣说你自身的家族与种姓系谱(gotra),并特别指明你的诸位先贤系(pravara);也当陈述婆罗门的居处与地域,如此方可赐予如法的净化之仪。”
Verse 157
अथासौ वेपमानस्तु प्रस्विन्नवदनस्तथा । अधोदृष्टिरुवाचेदं गद्गदं विहिताञ्जलिः
于是他浑身战栗,面上汗湿,目光下垂,合掌恭敬,以哽咽之声说出如下言辞。
Verse 158
गर्भाष्टमे पिता मह्यं वर्षे मृत्युं गतस्ततः । ततः सा तं समादाय जननी मे पतिव्रता । मां त्यक्त्वा दुःखितं दीनं प्रविष्टा हव्यवाहनम्
“我八岁那年,父亲去世。随后,我那守夫之贞的母亲将他送入丧葬之仪;她抛下悲苦无依的我,投入祭火——哈维耶瓦哈那(圣火)之中。”
Verse 159
अहं वैराग्यमापन्नस्तीर्थयात्रां समाश्रितः । बालभावे पितुर्दुःखात्तापसैरपरैः सह
于是我生起离欲之心(vairāgya);自幼因父亲之苦而悲恸,便依止朝礼诸圣渡处(tīrtha)的巡礼,与诸苦行者同往。
Verse 160
न मया पठितो वेदो न च शास्त्रं निरूपितम् । तीर्थयात्रापरोऽहं च समायातो भवत्पुरम्
我未曾诵习吠陀,亦未曾研析诸论典(śāstra);唯以朝圣巡礼诸圣地(tīrtha)为志,故来到贵城。
Verse 161
अभद्रेण सुभद्रेण श्वशुरेण दुरात्मना । एतज्जानाम्यहं विप्रा गोत्रं वासिष्ठमेव वा
诸婆罗门啊,我只知此事——乃恶心岳父阿婆陀罗(Subhadra之子)所告——我的氏族(gotra)为瓦西什塔(Vāsiṣṭha)。
Verse 162
अथैकप्रवरो देशो गौडो मधुपुरं पुरम् । ततस्ते ब्राह्मणाः प्रोचुर्यस्य नो ज्ञायते कुलम् । तस्य शुद्धिः प्रदातव्या धटद्वारेण केवला
随后(他又说):“我之地域为高荼(Gauḍa),城为摩度补罗(Madhupura),且我仅有一支pravara。”于是诸婆罗门宣言:“凡族系不明者,当唯以名为‘经由dhaṭa之门’的仪式赐予净化。”
Verse 163
स त्वं धटं समारुह्य ब्राह्मण्यार्थं च केवलम् । शुद्धिं प्राप्य ततो भोगान्भुंक्ष्वात्रस्थोऽपि केवलम्
故当登上dhaṭa之构架,唯为成就婆罗门之位;既得净化,便可在此依规受用你应得的资粮与供养。
Verse 164
सोऽब्रवीत्साहसं कृत्वा सर्वानेव द्द्विजोत्तमान् । प्रतिगृह्णाम्यहं कामं तप्तमाषकमेव च
随后他鼓起勇气,在一切最上等的两次生者面前说道:“我愿随己意接受此考验;即便是烧得炽热的摩沙迦钱币(taptamāṣaka),我也愿领受。”
Verse 165
प्रविशामि हुताशं वा भक्षयिष्याम्यहं विषम्
“若有必要,我将投入烈火;或我将吞服毒药。”
Verse 166
किं पुनर्धटदिव्यं च क्रियमाणे सुखावहम् । ब्राह्मणस्य कृते विप्राश्चित्ते नो मामके घृणा
“更何况当神圣的‘坛罐(ghaṭa)’神判正在施行,带来吉祥利益与安乐之时!诸位婆罗门啊,愿你们心中莫对我生轻蔑;此事乃为一位婆罗门之故而行。”
Verse 167
अथ ते ब्राह्मणास्तस्य धटारोहणसंभवम् । शुद्धिं निर्दिश्य वारं च सूर्यस्य च ततः परम् । जग्मुः स्वंस्वं गृहं सर्वे सोऽपि विप्रोंऽत्यजो द्विजाः
随后那些婆罗门指明了由“登坛罐(ghaṭa)”之仪所生的净化,又规定了与太阳神相应的适当守持之法;其后众人各自回家。而那位“毗婆罗”亦然——显露为贱民出身(antyaja)者——被留在原处,噢二次生者。
Verse 168
ततः प्राह निजां भार्यां रहस्ये नृपसत्तम । ज्ञातोऽहं ब्राह्मणैः सर्वैरंत्यजातिसमुद्भवः । देशातरं गमिष्यामि त्वमागच्छ मया सह
随后他私下对自己的妻子说道:“噢诸王之最胜者,所有婆罗门都已认出我出自贱民之族(antyaja)。我将前往他乡;你当与我同去。”
Verse 169
भार्योवाच । अहमग्निं प्रवेक्ष्यामि न यास्यामि त्वया सह । पापबुद्धे पतिष्यामि न चाहं नरकाग्निषु
妻子说道:“我将投身于火中;我不与你同去。噫,心怀恶念者——让我在此倒下(而死);我决不坠入地狱之火。”
Verse 170
बुध्यमाना न सेविष्ये त्वामंत्यजसमुद्भवम् । पाप संदूषितं सर्वं त्वयैतत्स्थानमुत्तमम्
“如今我已明白,我不再与你同住——你出自安底耶阇(贱民)之族。因你之故,这一切殊胜之地尽被罪垢所染。”
Verse 171
तथा मम पितुर्हर्म्यं संवत्सरप्रयाजिनः । तस्माद्द्रुततरं गच्छ यावन्नो वेत्ति कश्चन
“并且也要避开我父亲的宅邸——他曾守持一整年的祭祀。故而速速离去,趁无人知晓之前。”
Verse 172
नो चेत्पापसमाचार संप्राप्स्यसि महाऽपदम्
“否则,噫,行止罪恶者,你必遭逢大祸。”
Verse 173
ततो निशामुखे प्राप्ते कौपीनावरणान्वितः । नष्टोऽभीष्टां दिशं प्राप्य तदा जीवितजाद्भयात्
随后夜幕降临,他仅以兜裆布蔽体,悄然遁去,抵达所欲之方——那时因惧怕性命而驱使。